कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यकम्

अष्टमः प्रपाठकः
ब्रह्मानन्दवल्ली
ओं नमः परमात्मने
श्री महागणपतये नमः
श्री गुरुभ्यो नमः, हरिः ओं
ॐ
शान्तिपाठः
स॒ह ना॑ ववतु⁠। स॒ह नौ॑ भुनक्तु⁠। स॒ह वी॒र्यं॑ करवावहै⁠। ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑⁠॥
स॒ह ना॑ ववतु⁠। स॒ह नौ॑ भुनक्तु⁠। स॒ह वी॒र्यं॑ करवावहै⁠। ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚⁠॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑⁠ ॥ [१] (५) (स॒ह पञ्च॑) ॥१॥
ब्र॒ह्म॒विदा᳚प्नोति॒ पर᳚म्⁠॥ तदे॒षाऽभ्यु॑क्ता⁠। स॒त्यं ज्ञा॒नम॑न॒न्तं ब्रह्म॑⁠। यो वेद॒ निहि॑तं॒ गुहा॑यां पर॒मे व्यो॑मन्न्⁠। सो᳚ऽश्ञुते॒ सर्वा॒न् कामा᳚न्थ् स॒ह⁠। ब्रह्म॑णा विप॒श्चितेति॑⁠॥ तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन॑ आका॒शः संभू॑तः⁠। आ॒का॒शाद् वा॒युः⁠। वा॒योर॒ग्निः⁠। अ॒ग्नेरापः॑⁠। अ॒द्भ्यः पृ॑थि॒वी⁠। पृ॒थि॒व्या ओष॑धयः⁠। ओष॑धी॒भ्योऽन्न᳚म्⁠। अन्ना॒त् पुरु॑षः⁠॥ स वा एष पुरुषोऽन्न॑रस॒मयः⁠॥ तस्येद॑मेव॒ शिरः⁠। अयं दख्‍षि॑णः प॒ख्‍षः⁠। अयमुत्त॑रः प॒ख्‍षः⁠। अयमात्मा᳚⁠। इदं पुच्छं॑ प्रति॒ष्ठा⁠॥ तदप्येष श्लो॑को भ॒वति⁠ ॥ [२] (२१) अन्ना॒द्वै प्र॒जाः प्र॒जाय॑न्ते⁠। याः काश्च॑ पृथि॒वीꣴ श्रि॒ताः⁠। अथो॒ अन्ने॑नै॒व जी॑वन्ति⁠। अथै॑न॒दपि॑यन्त्यन्त॒तः⁠। अन्न॒ꣳ॒ हि भू॒तानां॒ ज्येष्ठ᳚म्⁠। तस्मा᳚थ् सर्वौष॒ध मु॑च्यते⁠। सर्व॒व्ँवै तेऽन्न॑माप्नुवन्ति⁠। येऽन्नं॒ ब्रह्मो॒पास॑ते⁠। अन्न॒ꣳ॒ हि भू॒तानां॒ ज्येष्ठ᳚म्⁠। तस्मा᳚थ् सर्वौष॒ध मु॑च्यते⁠। अन्ना᳚द् भू॒तानि॒ जाय॑न्ते⁠। जाता॒न्यन्ने॑न वर्द्धन्ते⁠। अद्यतेऽत्ति च॑ भूता॒नि⁠। तस्मादन्नं तदुच्य॑त इ॒ति⁠॥ तस्माद्वा एतस्मादन्न॑रस॒मयात्⁠। अन्योऽन्तर आत्मा᳚ प्राण॒ मयः⁠। तेनै॑ष पू॒र्णः⁠॥ स वा एष पुरुषवि॑ध ए॒व⁠। तस्य पुरु॑ष वि॒धताम्⁠। अन्वयं॑ पुरुष॒ विधः⁠। तस्य प्राण॑ एव॒ शिरः⁠॥ व्यानो दख्‍षि॑णः प॒ख्‍षः⁠। अपान उत्त॑रः प॒ख्‍षः⁠। आका॑श आ॒त्मा⁠। पृथिवी पुच्छं॑ प्रति॒ष्ठा⁠॥ तदप्येष श्लो॑को भ॒वति⁠ ॥ [३] (२६) प्रा॒णं दे॒वा अनु॒प्राण॑न्ति⁠। म॒नु॒ष्याः᳚ प॒शव॑श्च॒ ये⁠। प्रा॒णो हि भू॒ताना॒मायुः॑⁠। तस्मा᳚थ् सर्वायु॒ष मु॑च्यते⁠। सर्व॑मे॒व त॒ आयु॑र्यन्ति⁠। ये प्रा॒णं ब्रह्मो॒पास॑ते⁠। प्राणो हि भूता॑नामा॒युः⁠। तस्माथ् सर्वायुषमुच्य॑त इ॒ति⁠॥ तस्यैष एव शारी॑र आ॒त्मा⁠। यः॑ पूर्व॒स्य⁠॥ तस्माद्वा एतस्मा᳚त् प्राण॒मयात्⁠। अन्योऽन्तर आत्मा॑ मनो॒मयः⁠। तेनै॑ष पू॒र्णः⁠॥ स वा एष पुरुषवि॑ध ए॒व⁠। तस्य पुरु॑षवि॒धताम्⁠। अन्वयं॑ पुरुष॒विधः⁠। तस्य यजु॑रेव॒ शिरः⁠। ऋग् दख्‍षि॑णः प॒ख्‍षः⁠। सामोत्त॑रः प॒ख्‍षः⁠। आदे॑श आ॒त्मा⁠। अथर्वाङ्गिरसः पुच्छं॑ प्रति॒ष्ठा⁠॥ तदप्येष श्लो॑को भ॒वति⁠ ॥ [४] (२२) यतो॒ वाचो॒ निव॑००६९;॑र्न्ते⁠। अप्रा᳚प्य॒ मन॑सा स॒ह⁠। आनन्दं ब्रह्म॑णो वि॒द्वान्⁠। न बिभेति कदा॑चने॒ति⁠॥ तस्यैष एव शारी॑र आ॒त्मा⁠। यः॑ पूर्व॒स्य⁠॥ तस्माद्वा एतस्मा᳚न् मनो॒मयात्⁠। अन्योऽन्तर आत्मा वि॑ज्ञान॒मयः⁠। तेनै॑ष पू॒र्णः⁠॥ स वा एष पुरुषवि॑ध ए॒व⁠। तस्य पुरु॑ष वि॒धताम्⁠। अन्वयं॑ पुरुष॒ विधः⁠। तस्य श्र॑द्धैव॒ शिरः⁠। ऋतं दख्‍षि॑णः प॒ख्‍षः⁠। सत्यमुत्त॑रः प॒ख्‍षः⁠। यो॑ग आ॒त्मा⁠। महः पुच्छं॑ प्रति॒ष्ठा⁠॥ तदप्येष श्लो॑को भ॒वति⁠ ॥ [५] (१८) वि॒ज्ञान॑य्ँय॒ज्ञं त॑नुते⁠। कर्मा॑णि तनु॒तेऽपि॑ च⁠। वि॒ज्ञानं॑ दे॒वाः सर्वे᳚⁠। ब्रह्म॒ ज्येष्ठ॒मुपा॑सते⁠। वि॒ज्ञानं॒ ब्रह्म॒ चेद् वेद॑⁠। तस्मा॒च्चेन्न प्र॒माद्य॑ति⁠। श॒रीरे॑ पाप्म॑नो हि॒त्वा⁠। सर्वान्कामान्थ्समश्ञु॑त इ॒ति⁠॥ तस्यैष एव शारी॑र आ॒त्मा⁠। यः॑ पूर्व॒स्य⁠॥ तस्माद्वा एतस्माद्वि॑ज्ञान॒मयात्⁠। अन्योऽन्तर आत्मा॑ऽऽनन्द॒मयः⁠। तेनै॑ष पू॒र्णः⁠॥ स वा एष पुरुषवि॑ध ए॒व⁠। तस्य पुरु॑षवि॒धताम्⁠। अन्वयं॑ पुरुष॒विधः⁠। तस्य प्रिय॑मेव॒ शिरः⁠। मोदो दख्‍षि॑णः प॒ख्‍षः⁠। प्रमोद उत्त॑रः प॒ख्‍षः⁠। आन॑न्द आ॒त्मा⁠। ब्रह्म पुच्छं॑ प्रति॒ष्ठा⁠॥ तदप्येष श्लो॑को भ॒वति⁠ ॥ [६] (२२) अस॑न्ने॒व स॑ भवति⁠। अस॒द् ब्रह्मेति॒ वेद॒ चेत्⁠। अस्ति ब्रह्मेति॑ चेद् वे॒द⁠। सन्तमेनं ततो वि॑दुरि॒ति⁠॥ तस्यैष एव शारी॑र आ॒त्मा⁠। यः॑ पूर्व॒स्य⁠॥ अथातो॑ऽनु प्र॒श्ञाः⁠॥ उ॒ता वि॒द्वा न॒मुल्ँलो॒कं प्रेत्य॑⁠। कश्च॒न ग॑च्छ॒ती(३)⁠। आहो॑ वि॒द्वान॒मुल्ँलो॒कं प्रेत्य॑⁠। कश्चि॒त् सम॑श्ञु॒ता(३) उ॒⁠॥ सो॑ऽकामयत⁠। ब॒हुस्यां॒ प्रजा॑ये॒येति॑⁠। स तपो॑ऽतप्यत⁠। स तप॑स्त॒प्त्वा⁠। इ॒दꣳ सर्व॑मसृजत⁠॥ यदि॒दं किञ्च॑⁠। तथ्सृ॒ष्ट्वा⁠। तदे॒वानु॒ प्रावि॑शत्⁠॥ तद॑नुप्र॒विश्य॑⁠। सच्च॒ त्यच्चा॑भवत्⁠। नि॒रुक्तं॒ चा नि॑रुक्तं च⁠। नि॒लय॑नं॒ चा नि॑लयनं च⁠। वि॒ज्ञानं॒ चा वि॑ज्ञानं च⁠। सत्यं चानृतं च स॑त्यम॒भवत्⁠॥ यदि॑दं कि॒ञ्च⁠। तथ्सत्यमि॑त्या च॒ख्‍षते⁠॥ तदप्येष श्लो॑को भ॒वति⁠ ॥ [७] (२८) अस॒द्वा इ॒दमग्र॑ आसीत्⁠। ततो॒ वै सद॑जायत⁠। तदात्मानꣴ स्वय॑मकु॒रुत⁠। तस्मात् तथ् सुकृतमुच्य॑त इ॒ति⁠॥ यद्वै॑ तथ् सु॒कृतम्⁠। र॑सो वै॒ सः⁠। रसꣴ ह्येवायल्ँलब्ध्वाऽऽन॑न्दी भ॒वति⁠॥ को ह्येवान्या᳚त् कः प्रा॒ण्यात्⁠। यदेष आकाश आन॑न्दो न॒ स्यात्⁠। एष ह्येवान॑न्दया॒ति⁠॥ य॒दा ह्ये॑वैष॒ एतस्मिन्नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने ऽभयं प्रति॑ष्ठाव्ँवि॒न्दते⁠। अथ सोऽभयं ग॑तो भ॒वति⁠॥ य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्त॑रं कु॒रुते⁠। अथ तस्य भ॑यं भ॒वति⁠॥ तत्त्वेव भयव्ँविदुषोऽम॑न्वान॒स्य⁠॥ तदप्येष श्लो॑को भ॒वति⁠ ॥ [८] (१६) भी॒षाऽस्मा॒द्वातः॑ पवते⁠। भी॒षोदे॑ति॒ सूर्यः॑⁠। भीषाऽस्मादग्नि॑श्चेन्द्र॒श्च⁠। मृत्युर् धावति पञ्च॑म इ॒ति⁠॥ सैषाऽऽनन्दस्य मीमा॑ꣳसा भ॒वति⁠॥ युवा स्याथ् साधु यु॑वाऽद्ध्या॒यकः⁠। आशिष्ठो दृढिष्ठो॑ बलि॒ष्ठः⁠। तस्येयं पृथिवी सर्वा वित्तस्य॑ पूर्णा॒ स्यात्⁠। स एको मानुष॑ आन॒न्दः⁠॥ ते ये शतं मानुषा॑ आन॒न्दाः⁠। ॥ [ ] (१०) स एको मनुष्यगन्धर्वाणा॑मान॒न्दः⁠। श्रोत्रियस्य चाकाम॑हत॒स्य⁠॥ ते ये शतं मनुष्यगन्धर्वाणा॑मान॒न्दाः⁠। स एको देवगन्धर्वाणा॑मान॒न्दः⁠। श्रोत्रियस्य चाकाम॑हत॒स्य⁠॥ ते ये शतं देवगन्धर्वाणा॑मान॒न्दाः⁠। स एकः पितृणां चिरलोकलोकाना॑मान॒न्दः⁠। श्रोत्रियस्य चाकाम॑हत॒स्य⁠॥ ते ये शतं पितृणां चिरलोकलोकाना॑मान॒न्दाः⁠। स एक आजानजानां देवाना॑मान॒न्दः⁠। ॥ [ ] (१०) श्रोत्रियस्य चाकाम॑हत॒स्य⁠॥ ते ये शतमाजानजानां देवाना॑ मान॒न्दाः⁠। स एकः कर्मदेवानां देवाना॑मान॒न्दः⁠। ये कर्मणा देवान॑पि य॒न्ति⁠। श्रोत्रियस्य चाकाम॑हत॒स्य⁠॥ ते ये शतं कर्मदेवानां देवाना॑मान॒न्दाः⁠। स एको देवाना॑मान॒न्दः⁠। श्रोत्रियस्य चाकाम॑हत॒स्य⁠॥ ते ये शतं देवाना॑मान॒न्दाः⁠। स एक इन्द्र॑स्यान॒न्दः⁠। ॥ [ ] (१०) श्रोत्रियस्य चाकाम॑हत॒स्य⁠॥ ते ये शतमिन्द्र॑स्याऽऽन॒न्दाः⁠। स एको बृहस्पते॑रान॒न्दः⁠। श्रोत्रियस्य चाकाम॑हत॒स्य⁠॥ ते ये शतं बृहस्पते॑ रान॒न्दाः⁠। स एकः प्रजापते॑रान॒न्दः⁠। श्रोत्रियस्य चाकाम॑हत॒स्य⁠॥ ते ये शतं प्रजापते॑रान॒न्दाः⁠। स एको ब्रह्मण॑ आन॒न्दः⁠। श्रोत्रियस्य चाकाम॑हत॒स्य⁠॥ ॥ [ ] (१०) स यश्चा॑यं पु॒रुषे⁠। यश्चासा॑वादि॒त्ये⁠। स एकः॑⁠॥ स य॑ एव॒व्ँवित्⁠। अस्माल्लो॑कात् प्रे॒त्य⁠। एतमन्नमयमात्मानमुप॑सङ्क्रा॒मति⁠। एतं प्राणमयमात्मानमुप॑सङ्क्रा॒मति⁠। एतं मनोमयमात्मानमुप॑सङ्क्रा॒मति⁠। एतव्ँविज्ञानमयमात्मानमुप॑सङ्क्रा॒मति⁠। एतमानन्दमयमात्मानमुप॑सङ्क्रा॒मति⁠॥ तदप्येष श्लो॑को भ॒वति⁠॥ ॥ [ ] (११) यतो॒ वाचो॒ निव॑र्तन्ते⁠। अप्रा᳚प्य॒ मन॑सा स॒ह⁠। आनन्दं ब्रह्म॑णो वि॒द्वान्⁠। न बिभेति कुत॑श्चने॒ति⁠॥ एतꣳ ह वा व॑ न त॒पति⁠। किमहꣳ साधु॑ नाक॒रवम्⁠। किमहं पापमकर॑वमि॒ति⁠॥ स य एवव्ँविद्वानेते आत्मा॑नꣴ स्पृ॒णुते⁠॥ उ॒भे ह्ये॑वैष॒ एते आत्मा॑नꣴ स्पृ॒णुते⁠। य ए॒वव्ँवेद॑⁠॥ इत्यु॑प॒निष॑त्⁠ ॥ [१०] (११) ॥२॥
शान्तिपाठः
स॒ह ना॑ ववतु⁠। स॒ह नौ॑ भुनक्तु⁠। स॒ह वी॒र्यं॑ करवावहै⁠। ते॒ज॒स्विना॒ वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑⁠॥
अनुवाकाः पञ्चशती
२ १०