ब्रह्मजिज्ञासा [१]
भृगु॒र्वै वा॑रु॒णिः। वरु॑ण॒म्पित॑र॒मुप॑ससार। अधी॑हि भगवो॒ ब्रह्मेति॑॥ तस्मा॑ ए॒तत्प्रो॑वाच। अन्न॑म्प्रा॒णञ्चख्षु॒श्श्रोत्र॒म्मनो॒ वाच॒मिति॑॥ तꣳ हो॑वाच। यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते। येन॒ जाता॑नि॒ जीव॑न्ति। यत्प्रय॑न्त्य॒भिसव्ँवि॑शन्ति। तद्विजि॑ज्ञासस्व। तद्ब्रह्मेति॑॥ स तपो॑ऽतप्यत। स तप॑स्त॒प्त्वा ॥ [१] (१३)