कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणम्
प्रथमाष्टके प्रथमः प्रपाठकः

अष्टक १ प्रपाठक १
अग्न्याधेयब्राह्मणं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

१ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टकं

ॐ
सोमयागशेषभूताः शुक्रामन्थिग्रहप्रचारार्था मन्त्राः
ब्रह्म॒ संध॑त्तं॒ तन्मे॑ जिन्वतम्⁠। ख्‍ष॒त्रꣳ सन्ध॑त्तं॒ तन्मे॑ जिन्वतम्⁠। इष॒ꣳ॒ संध॑त्तं॒ तां मे॑ जिन्वतम्⁠। ऊर्ज॒ꣳ॒ संध॑त्तं॒ तां मे॑ जिन्वतम्⁠। र॒यिꣳ संध॑त्तं॒ तां मे॑ जिन्वतम्⁠। पुष्टि॒ꣳ॒ संध॑त्तं॒ तां मे॑ जिन्वतम्⁠। प्र॒जाꣳ संध॑त्तं॒ तां मे॑ जिन्वतम्⁠। प॒शून् थ्संध॑त्तं॒ तान्मे॑ जिन्वतम्⁠॥ स्तु॒तो॑ऽसि॒ जन॑धाः⁠। दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑यन्तु⁠ ॥ [१] (१०) सु॒वीराः᳚ प्र॒जाः प्र॑ज॒नय॒न् परी॑हि⁠। शु॒क्रः शु॒क्रशो॑चिषा⁠॥ स्तु॒तो॑ऽसि॒ जन॑धाः⁠। दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑यन्तु⁠॥ सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न् परी॑हि⁠। म॒न्थी म॒न्थिशो॑चिषा⁠॥ स॒जं॒ग्मा॒नौ दि॒व आ पृ॑थि॒व्याऽऽयुः॑⁠। संध॑त्तं॒ तन्मे॑ जिन्वतम्⁠। प्रा॒णꣳ संध॑त्तं॒ तं मे॑ जिन्वतम्⁠। अ॒पा॒नꣳ संध॑त्तं॒ तं मे॑ जिन्वतम्⁠ ॥ [२] (१०) व्या॒नꣳ संध॑त्तं॒ तं मे॑ जिन्वतम्⁠। चख्‍षुः॒ संध॑त्तं॒ तन्मे॑ जिन्वतम्⁠। श्रोत्र॒ꣳ॒ संध॑त्तं॒ तन्मे॑ जिन्वतम्⁠। मनः॒ संध॑त्तं॒ तन्मे॑ जिन्वतम्⁠। वाच॒ꣳ॒ संध॑त्तं॒ तां मे॑ जिन्वतम्⁠॥ आयुः॑ स्थ॒ आयु॑र्मे धत्तम्⁠। आयु॑र् य॒ज्ञाय॑ धत्तम्⁠। आयु॑र् य॒ज्ञप॑तये धत्तम्⁠। प्रा॒णः स्थः॑ प्रा॒णं मे॑ धत्तम्⁠। प्रा॒णय्ँय॒ज्ञाय॑ धत्तम्⁠ ॥ [३] (१०) प्रा॒णय्ँय॒ज्ञप॑तये धत्तम्⁠। चख्‍षुः॑ स्थ॒श्चख्‍षु॑र्मे धत्तम्⁠। चख्‍षु॑र् य॒ज्ञाय॑ धत्तम्⁠। चख्‍षु॑र् य॒ज्ञप॑तये धत्तम्⁠। श्रोत्र॑ꣴ स्थः॒ श्रोत्रं॑ मे धत्तम्⁠। श्रोत्र॑य्ँय॒ज्ञाय॑ धत्तम्⁠। श्रोत्र॑य्ँय॒ज्ञप॑तये धत्तम्⁠। तौ दे॑वौ शुक्रामन्थिनौ⁠। क॒ल्पय॑तं॒ दैवी॒र्विशः॑⁠। क॒ल्पय॑तं॒ मानु॑षीः⁠ ॥ [४] (१०) इष॒मूर्ज॑म॒स्मासु॑ धत्तम्⁠। प्रा॒णान् प॒शुषु॑⁠। प्र॒जां मयि॑ च॒ यज॑माने च⁠॥ निर॑स्तः॒ शण्डः॑⁠। निर॑स्तो॒ मर्कः॑⁠॥ अप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुना᳚⁠॥ शु॒क्रस्य॑ स॒मिद॑सि⁠। म॒न्थिनः॑ स॒मिद॑सि⁠॥ स प्र॑थ॒मः संकृ॑तिर् वि॒श्वक॑र्मा⁠। स प्र॑थ॒मो मि॒त्रो वरु॑णो अ॒ग्निः⁠। स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वान्⁠। तस्मा॒ इन्द्रा॑य सु॒तमाजु॑होमि⁠ ॥ [५] (१२) (न॒य॒ न्त्व॒पा॒नꣳ संध॑त्तं॒ तं मे॑ जिन्वतं प्रा॒णय्ँय॒ज्ञाय॑ धत्तं॒ मानु॑षीर् अ॒ग्निर् द्वे च॑) ॥१॥
अथाग्न्याधानप्रकरणं, तत्र कालविशेषविधिः
कृत्ति॑कास्व॒ग्निमाद॑धीत⁠। ए॒तद्वा अ॒ग्नेर् नख्‍ष॑त्रम्⁠। यत् कृत्ति॑काः⁠। स्वाया॑मे॒वैनं॑ दे॒वता॑यामा॒धाय॑⁠। ब्र॒ह्म॒व॒र्च॒सी भ॑वति⁠॥ मुख॒व्ँवा ए॒तन्नख्‍ष॑त्राणाम्⁠। यत् कृत्ति॑काः⁠। यः कृत्ति॑कास्व॒ग्निमा॑ध॒त्ते⁠। मुख्य॑ ए॒व भ॑वति⁠॥ अथो॒ खलु॑⁠ ॥ [६] (१०) अ॒ग्नि॒न॒ख्‍ष॒त्रमित्यप॑चायन्ति⁠। गृ॒हान्‌ह॒ दाहु॑को भवति⁠॥ प्र॒जाप॑ती रोहि॒ण्याम॒ग्निम॑सृजत⁠। तं दे॒वा रो॑हि॒ण्यामाद॑धत⁠। ततो॒ वै ते सर्वा॒न् रोहा॑नरोहन्न्⁠। तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम्⁠। यो रो॑हि॒ण्याम॒ग्निमा॑ध॒त्ते⁠। ऋ॒ध्नोत्ये॒व⁠। सर्वा॒न् रोहा᳚न्रोहति⁠॥ दे॒वा वै भ॒द्राः सन्तो॒ऽग्निमाधि॑थ्सन्त⁠ ॥ [७] (१०) तेषा॒मना॑हितो॒ऽग्निरासी᳚त्⁠। अथै᳚भ्यो वा॒मव्ँवस्वपा᳚क्रामत्⁠। ते पुन॑र्वस्वो॒राद॑धत⁠। ततो॒ वै तान् वा॒मव्ँवसू॒पाव॑र्तत⁠। यः पु॒रा भ॒द्रः संपापी॑या॒न् थ्स्यात्⁠। स पुन॑र्वस्वोर॒ग्निमाद॑धीत⁠। पुन॑रे॒वैन॑व्ँवा॒मव्ँवसू॒पाव॑र्तते⁠। भ॒द्रो भ॑वति⁠॥ यः का॒मये॑त॒ दान॑कामा मे प्र॒जाः स्यु॒रिति॑⁠। स पूर्व॑योः॒ फल्गु॑न्योर॒ग्निमाद॑धीत⁠ ॥ [८] (१०) अ॒र्य॒म्णो वा ए॒तन्नख्‍ष॑त्रम्⁠। यत्पूर्वे॒ फल्गु॑नी⁠। अ॒र्य॒मेति॒ तमा॑हु॒र्यो ददा॑ति⁠। दान॑कामा अस्मै प्र॒जा भ॑वन्ति⁠॥ यः का॒मये॑त भ॒गी स्या॒मिति॑⁠। स उत्त॑रयोः॒ फल्गु॑न्योर॒ग्निमाद॑धीत⁠। भग॑स्य॒ वा ए॒तन्नख्‍ष॑त्रम्⁠। यदुत्त॑रे॒ फल्गु॑नी⁠। भ॒ग्ये॑व भ॑वति⁠॥ का॒ल॒क॒ञ्जा वै नामासु॑रा आसन्न्⁠ ॥ [९] (१०) ते सु॑व॒र्गाय॑ लो॒काया॒ग्निम॑चिन्वत⁠। पुरु॑ष॒ इष्ट॑का॒मुपा॑दधा॒त्पुरु॑ष॒ इष्ट॑काम्⁠। स इन्द्रो᳚ ब्राह्म॒णो ब्रुवा॑ण॒ इष्ट॑का॒मुपा॑धत्त⁠। ए॒षा मे॑ चि॒त्रा नामेति॑⁠। ते सु॑व॒र्गल्ँलो॒कमाप्रारो॑हन्न्⁠। स इन्द्र॒ इष्ट॑का॒मावृ॑हत्⁠। तेऽवा॑कीर्यन्त⁠। ये॑ऽवाकी᳚र्यन्त⁠। त ऊर्णा॒वभ॑योऽभवन्न्⁠। द्वावुद॑पतताम्⁠ ॥ [१०] (१०) तौ दि॒व्यौ श्वाना॑वभवताम्⁠। यो भ्रातृ॑व्यवा॒न् थ्स्यात्⁠। स चि॒त्राया॑म॒ग्निमाद॑धीत⁠। अ॒व॒कीर्यै॒व भ्रातृ॑व्यान्⁠। ओजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑मा॒त्मन्ध॑त्ते⁠॥ व॒सन्ता᳚ ब्राह्म॒णो᳚ऽग्निमाद॑धीत⁠। व॒स॒न्तो वै ब्रा᳚ह्म॒णस्य॒र्तुः⁠। स्व ए॒वैन॑मृ॒तावा॒धाय॑⁠। ब्र॒ह्म॒व॒र्च॒सी भ॑वति⁠। मुख॒व्ँवा ए॒तदृ॑तू॒नाम्⁠ ॥ [११] (१०) यद्व॑स॒न्तः⁠। यो व॒सन्ता॒ऽग्निमा॑ध॒त्ते⁠। मुख्य॑ ए॒व भ॑वति⁠। अथो॒ योनि॑मन्तमे॒वैनं॒ प्रजा॑त॒माध॑त्ते⁠। ग्री॒ष्मे रा॑ज॒न्य॑ आद॑धीत⁠। ग्री॒ष्मो वै रा॑ज॒न्य॑स्य॒र्तुः⁠। स्व ए॒वैन॑मृ॒तावा॒धाय॑⁠। इ॒न्द्रि॒या॒वी भ॑वति⁠। श॒रदि॒ वैश्य॒ आद॑धीत⁠। श॒रद्वै वैश्य॑स्य॒र्तुः⁠ ॥ [१२] (१०) स्व ए॒वैन॑मृ॒तावा॒धाय॑⁠। प॒शु॒मान् भ॑वति⁠॥ न पूर्व॑योः॒ फल्गु॑न्योर॒ग्निमाद॑धीत⁠। ए॒षा वै ज॑घ॒न्या॑ रात्रिः॑ सव्ँवथ्स॒रस्य॑⁠। यत्पूर्वे॒ फल्गु॑नी⁠। पृ॒ष्टि॒त ए॒व स॑व्ँवथ्स॒रस्या॒ग्निमा॒धाय॑⁠। पापी॑यान्भवति⁠। उत्त॑रयो॒राद॑धीत⁠। ए॒षा वै प्र॑थ॒मा रात्रिः॑ सव्ँवथ्स॒रस्य॑⁠। यदुत्त॑रे॒ फल्गु॑नी⁠। मु॒ख॒त ए॒व स॑व्ँवथ्स॒रस्या॒ग्निमा॒धाय॑⁠। वसी॑यान् भवति⁠॥ अथो॒ खलु॑⁠। य॒दैवैन॑य्ँय॒ज्ञ उ॑प॒नमे᳚त्⁠। अथाद॑धीत⁠। सैवास्यर्द्धिः॑⁠ ॥ [१३] (१६) (खल्वा॑ धिथ्सन्त॒ फल्गु॑न्योर॒ग्निमाद॑धीता सन् नपतता मतू॒नां वैश्य॑स्य॒र्तु रुत्त॑रे॒ फल्गु॑नी॒ षट् च॑) ॥२॥
देवयजनार्थाः संभाराः
उद्ध॑न्ति⁠। यदे॒वास्या॑ अमे॒द्ध्यम्⁠। तदप॑ हन्ति⁠॥ अ॒पोऽवो᳚ख्‍षति॒ शान्त्यै᳚⁠॥ सिक॑ता॒ निव॑पति⁠। ए॒तद्वा अ॒ग्नेर् वै᳚श्वान॒रस्य॑ रू॒पम्⁠। रू॒पेणै॒व वै᳚श्वान॒रमव॑रुन्धे⁠॥ ऊषा॒न् निव॑पति⁠। पुष्टि॒र्वा ए॒षा प्र॒जन॑नम्⁠। यदूषाः᳚⁠ ॥ [१४] (१०) पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निमाध॑त्ते⁠। अथो॑ सं॒ज्ञान॑ ए॒व⁠। सं॒ ज्ञान॒ꣴ॒ ह्ये॑तत् प॑शू॒नाम्⁠। यदूषाः᳚⁠॥ द्यावा॑पृथि॒वी स॒हास्ता᳚म्⁠। ते वि॑य॒ती अ॑ब्रूताम्⁠। अस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒मिति॑⁠। यद॒मुष्या॑ य॒ज्ञिय॒मासी᳚त्⁠। तद॒स्याम॑दधात्⁠। त ऊषा॑ अभवन्न्⁠ ॥ [१५] (१०) यद॒स्या य॒ज्ञिय॒मासी᳚त्⁠। तद॒मुष्या॑मदधात्⁠। तद॒दश्च॒न्द्रम॑सि कृ॒ष्णम्⁠। ऊषा᳚न्नि॒वप॑न्न॒दो द्ध्या॑येत्⁠। द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निमाध॑त्ते⁠॥ अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत⁠। आ॒खू रू॒पं कृ॒त्वा⁠। स पृ॑थि॒वीं प्रावि॑शत्⁠। स ऊ॒तीः कु॑र्वा॒णः पृ॑थि॒वीमनु॒ सम॑चरत्⁠। तदा॑खुकरी॒षम॑भवत्⁠ ॥ [१६] (१०) यदा॑खुकरी॒षꣳ स॑भां॒रो भव॑ति⁠। यदे॒वास्य॒ तत्र॒ न्य॑क्तम्⁠। तदे॒वाव॑रुन्धे⁠॥ ऊर्ज॒व्ँवा ए॒तꣳ रसं॑ पृथि॒व्या उ॑प॒दीका॒ उद्दि॑हन्ति⁠। यद् व॒ल्मीक᳚म्⁠। यद् व॑ल्मीकव॒पा स॑भां॒रो भव॑ति⁠। ऊर्ज॑मे॒व रसं॑ पृथि॒व्या अव॑रुन्धे⁠। अथो॒ श्रोत्र॑मे॒व⁠। श्रोत्र॒ꣴ॒ ह्ये॑तत् पृ॑थि॒व्याः⁠। यद् व॒ल्मीकः॑⁠ ॥ [१७] (१०) अब॑धिरो भवति⁠। य ए॒वव्ँवेद॑⁠॥ प्र॒जाप॑तिः प्र॒जा अ॑सृजत⁠। तासा॒मन्न॒मुपा᳚ख्‍षीयत⁠। ताभ्यः॒ सूद॒मुप॒ प्राभि॑नत्⁠। ततो॒ वै तासा॒मन्नं॒ नाख्‍षी॑यत⁠। यस्य॒ सूदः॑ संभा॒रो भव॑ति⁠। नास्य॑ गृ॒हेऽन्नं॑ ख्‍षीयते⁠॥ आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत्⁠। तेन॑ प्र॒जाप॑तिरश्राम्यत्⁠ ॥ [१८] (१०) क॒थमि॒दꣴ स्या॒दिति॑⁠। सो॑ऽपश्यत् पुष्करप॒र्णं तिष्ठ॑त्⁠। सो॑ऽमन्यत⁠। अस्ति॒ वै तत्⁠। यस्मि॑न्नि॒दमधि॒ तिष्ठ॒तीति॑⁠। स व॑रा॒हो रू॒पं कृ॒त्वोप॒न्य॑मज्जत्⁠। स पृ॑थि॒वीम॒ध आ᳚र्च्छत्⁠। तस्या॑ उप॒हत्योद॑मज्जत्⁠। तत् पु॑ष्करप॒र्णे᳚ऽप्रथयत्⁠। यदप्र॑थयत्⁠ ॥ [१९] (१०) तत् पृ॑थि॒व्यै पृ॑थिवि॒त्वम्⁠। अभू॒द्वा इ॒दमिति॑⁠। तद्भूम्यै॑ भूमि॒त्वम्⁠। तां दिशोऽनु॒ वातः॒ सम॑वहत्⁠। ताꣳ शर्क॑राभिरदृꣳ हत्⁠। शव्ँवै नो॑ऽभू॒दिति॑⁠। तच्छर्क॑राणाꣳ शर्कर॒त्वम्⁠। यद्व॑रा॒हवि॑हतꣳ संभा॒रो भव॑ति⁠। अ॒स्यामे॒वाछ॑म्बट्कारम॒ग्निमाध॑त्ते⁠। शर्क॑रा भवन्ति॒ धृत्यै᳚⁠ ॥ [२०] (१०) अथो॑ श॒त्वांय॑⁠॥ सरे॑ता अ॒ग्निरा॒धेय॒ इत्या॑हुः⁠। आपो॒ वरु॑णस्य॒ पत्न॑य आसन्न्⁠। ता अ॒ग्निर॒भ्य॑द्ध्यायत्⁠। ताः सम॑भवत्⁠। तस्य॒ रेतः॒ परा॑ऽपतत्⁠। तद्धिर॑ण्यमभवत्⁠। यद्धिर॑ण्यमु॒पास्य॑ति⁠। सरे॑तसमे॒वाग्निमाध॑त्ते⁠॥ पुरु॑ष॒ इन्वै स्वाद्रेत॑सो बीभथ्सत॒ इत्या॑हुः⁠ ॥ [२१] (१०) उ॒त्त॒र॒त उपा᳚स्य॒त्यबी॑भथ्सायै⁠॥ अति॒ प्रय॑च्छति⁠। आर्ति॑मे॒वाति॒ प्रय॑च्छति⁠॥ अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत⁠। अश्वो॑ रू॒पं कृ॒त्वा⁠। सो᳚ऽश्व॒त्थे स॑व्ँवथ्स॒रम॑तिष्ठत्⁠। तद॑श्व॒त्थस्या᳚श्वत्थ॒त्वम्⁠। यदाश्व॑त्थः संभा॒रो भव॑ति⁠। यदे॒वास्य॒ तत्र॒ न्य॑क्तम्⁠। तदे॒वाव॑रुन्धे⁠ ॥ [२२] (१०) दे॒वा वा ऊर्ज॒व्ँव्य॑भजन्त⁠। तत॑ उदु॒म्बर॒ उद॑तिष्ठत्⁠। ऊर्ग्वा उ॑दु॒म्बरः॑⁠। यदौदु॑म्बरः संभा॒रो भव॑ति⁠। ऊर्ज॑मे॒वाव॑रुन्धे⁠॥ तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत्⁠। तं गा॑य॒त्र्याह॑रत्⁠। तस्य॑ प॒र्णम॑च्छिद्यत⁠। तत्प॒र्णो॑ऽभवत्⁠। तत् प॒र्णस्य॑ पर्ण॒त्वम्⁠ ॥ [२३] (१०) यस्य॑ पर्ण॒मयः॑ संभा॒रो भव॑ति⁠। सो॒म॒पी॒थमे॒वाव॑ रुन्धे⁠॥ दे॒वा वै ब्रह्म॑न्नवदन्त⁠। तत् प॒र्ण उपा॑शृणोत्⁠। सु॒श्रवा॒ वै नाम॑⁠। यत् प॑र्ण॒मयः॑ संभा॒रो भव॑ति⁠। ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे⁠॥ प्र॒जाप॑तिर॒ग्निम॑सृजत⁠। सो॑ऽबिभे॒त्प्र मा॑ धख्‍ष्य॒तीति॑⁠। तꣳ श॒म्या॑ऽशमयत्⁠ ॥ [२४] (१०) तच्छ॒म्यै॑ शमि॒त्वम्⁠। यच्छ॑मी॒मयः॑ संभा॒रो भव॑ति⁠। शान्त्या॒ अप्र॑दाहाय⁠॥ अ॒ग्नेः सृ॒ष्टस्य॑ य॒तः⁠। विक॑ङ्कतं॒ भा आ᳚र्च्छत्⁠। यद्वैक॑ङ्कतः संभा॒रो भव॑ति⁠। भा ए॒वाव॑रुन्धे⁠॥ सहृ॑दयो॒ऽग्निरा॒धेय॒ इत्या॑हुः⁠। म॒रुतो॒ऽद्भिर॒ग्निम॑तमयन्न्⁠। तस्य॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दन्न्⁠। साऽशनि॑रभवत्⁠। यद॒शनि॑हतस्य वृ॒ख्‍षस्य॑ संभा॒रो भव॑ति⁠। सहृ॑दयमे॒वाग्निमाध॑त्ते⁠ ॥ [२५] (१३) (ऊषा॑ अभवन् नभवद् व॒ल्मीक्रो᳚ ऽश्राम्य॒ दप्र॑थय॒ द्धृत्यै॑ बीभथ्सत॒ इत्या॑हु रुन्धे पर्ण॒त्व म॑शमयद च्छिन्द॒ꣴ॒ स्त्रीणि॑ च) ॥३॥
संभारसय्ँयुक्तायतनेषु अग्न्याधानम्
द्वा॒द॒शसु॑ विक्रा॒मेष्व॒ग्निमाद॑धीत⁠। द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः⁠। स॒व्ँव॒थ्स॒रादे॒वैन॑मव॒रुद्ध्याध॑त्ते⁠॥ यद्द्वा॑द॒शसु॑ विक्रा॒मेष्वा॒दधी॑त⁠। परि॑मित॒मव॑रुन्धीत⁠। चख्‍षु॑र् निमित॒ आद॑धीत⁠। इय॒द्द्वाद॑श विक्रा॒मा(३) इति॑⁠। परि॑मितं चै॒वाप॑रिमितं॒ चाव॑रुन्धे⁠॥ अनृ॑त॒व्ँवै वा॒चा व॑दति⁠। अनृ॑तं॒ मन॑सा द्ध्यायति⁠ ॥ [२६] (१०) चख्‍षु॒र् वै स॒त्यम्⁠। अद्रा(३)गित्या॑ह⁠। अद॑र्‌श॒मिति॑⁠। तथ् स॒त्यम्⁠। यश्चख्‍षु॑र्निमिते॒ऽग्निमा॑ध॒त्ते⁠। स॒त्य ए॒वैन॒माध॑त्ते⁠॥ तस्मा॒दाहि॑ताग्नि॒र्नानृ॑तव्ँवदेत्⁠। नास्य॑ ब्राह्म॒णोऽना᳚श्वान् गृ॒हे व॑सेत्⁠। स॒त्ये ह्य॑स्या॒ग्निराहि॑तः⁠॥ आ॒ग्ने॒यी वै रात्रिः॑⁠ ॥ [२७] (१०) आ॒ग्ने॒याः प॒शवः॑⁠। ऐ॒न्द्रमहः॑⁠। नक्तं॒ गार्‌ह॑पत्य॒माद॑धाति⁠। प॒शूने॒वाव॑रुन्धे⁠। दिवा॑ऽऽहव॒नीय᳚म्⁠। इ॒न्द्रि॒यमे॒वाव॑रुन्धे⁠॥ अ॒र्द्धोदि॑ते॒ सूर्य॑ आहव॒नीय॒माद॑धाति⁠। ए॒तस्मि॒न् वै लो॒के प्र॒जाप॑तिः प्र॒जा अ॑सृजत⁠। प्र॒जा ए॒व तद्यज॑मानः सृजते⁠। अथो॑ भू॒तं चै॒व भ॑वि॒ष्यच्चाव॑रुन्धे⁠ ॥ [२८] (१०) इडा॒ वै मा॑न॒वी य॑ज्ञानूका॒शिन्या॑सीत्⁠। साऽशृ॑णोत्⁠। असु॑रा अ॒ग्निमाद॑धत॒ इति॑⁠। तद॑गच्छत्⁠। त आ॑हव॒नीय॒मग्र॒ आद॑धत⁠। अथ॒ गार्‌ह॑पत्यम्⁠। अथा᳚न्वाहार्य॒पच॑नम्⁠। साऽब्र॑वीत्⁠। प्र॒तीच्ये॑षा॒ꣴ॒ श्रीर॑गात्⁠। भ॒द्रा भू॒त्वा परा॑भविष्य॒न्तीति॑⁠ ॥ [२९] (१०) यस्यै॒वम॒ग्निरा॑धी॒यते᳚⁠। प्र॒तीच्य॑स्य॒ श्रीरे॑ति⁠। भ॒द्रो भू॒त्वा परा॑भवति⁠॥ साऽशृ॑णोत्⁠। दे॒वा अ॒ग्निमाद॑धत॒ इति॑⁠। तद॑गच्छत्⁠। ते᳚ऽन्वाहार्य॒पच॑न॒मग्र॒ आद॑धत⁠। अथ॒ गार्‌ह॑पत्यम्⁠। अथा॑हव॒नीय᳚म्⁠। साऽब्र॑वीत्⁠ ॥ [३०] (१०) प्राच्ये॑षा॒ꣴ॒ श्रीर॑गात्⁠। भ॒द्रा भू॒त्वा सु॑व॒र्गल्ँलो॒कमे᳚ष्यन्ति⁠। प्र॒जां तु न वे᳚थ्स्यन्त॒ इति॑⁠। यस्यै॒वम॒ग्निरा॑धी॒यते᳚⁠। प्राच्य॑स्य॒ श्रीरे॑ति⁠। भ॒द्रो भू॒त्वा सु॑व॒र्गल्ँलो॒कमे॑ति⁠। प्र॒जां तु न वि॑न्दते⁠॥ साऽब्र॑वी॒दिडा॒ मनु᳚म्⁠। तथा॒ वा अ॒हं तवा॒ग्निमाधा᳚स्यामि⁠। यथा॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् ज॑नि॒ष्यसे᳚⁠ ॥ [३१] (१०) प्रत्य॒स्मिल्ँलो॒के स्था॒स्यसि॑⁠। अ॒भि सु॑व॒र्गल्ँलो॒कं जे॒ष्यसीति॑⁠। गार्‌ह॑पत्य॒मग्र॒ आद॑धात्⁠। गार्‌ह॑पत्य॒व्ँवा अनु॑ प्र॒जाः प॒शवः॒ प्रजा॑यन्ते⁠। गार्‌ह॑पत्येनै॒वास्मै᳚ प्र॒जां प॒शून् प्राज॑नयत्⁠। अथा᳚न्वाहार्य॒पच॑नम्⁠। ति॒र्य॑ङ्ङ्व॒ वा अ॒यल्ँलो॒कः⁠। अ॒स्मिन्ने॒व तेन॑ लो॒के प्रत्य॑तिष्ठत्⁠। अथा॑हव॒नीय᳚म्⁠। तेनै॒व सु॑व॒र्गल्ँलो॒कम॒भ्य॑जयत्⁠ ॥ [३२] (१०) यस्यै॒वम॒ग्निरा॑धी॒यते᳚⁠। प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते⁠। प्रत्य॒स्मिल्ँलो॒के ति॑ष्ठति⁠। अ॒भि सु॑व॒र्गल्ँलो॒कं ज॑यति⁠॥ यस्य॒ वा अय॑थादेवतम॒ग्निरा॑धी॒यते᳚⁠। आ दे॒वता᳚भ्यो वृश्च्यते⁠। पापी॑यान् भवति⁠। यस्य॑ यथा देव॒तम्⁠। न दे॒वता᳚भ्य॒ आवृ॑श्च्यते⁠। वसी॑यान् भवति⁠ ॥ [३३] (१०) भृगू॑णां॒ त्वाऽङ्गि॑रसाव्ँव्रतपते व्र॒तेनाद॑धा॒मीति॑ भृग्वङ्गि॒रसा॒माद॑द्ध्यात्⁠। आ॒दि॒त्यानां᳚ त्वा दे॒वाना᳚व्ँव्रतपते व्र॒तेनाद॑धा॒मीत्य॒न्यासां॒ ब्राह्म॑णीनां प्र॒जाना᳚म्⁠। वरु॑णस्य त्वा॒ राज्ञो᳚ व्रतपते व्र॒तेनाद॑धा॒मीति॒ राज्ञः॑⁠। इन्द्र॑स्य त्वेन्द्रि॒येण॑ व्रतपते व्र॒तेनाद॑धा॒मीति॑ राज॒न्य॑स्य⁠। मनो᳚स्त्वा ग्राम॒ण्यो᳚ व्रतपते व्र॒तेनाद॑धा॒मीति॒ वैश्य॑स्य⁠। ऋ॒भू॒णां त्वा॑ दे॒वाना᳚व्ँव्रतपते व्र॒तेनाद॑धा॒मीति॑ रथका॒रस्य॑⁠। य॒था॒ दे॒व॒तम॒ग्निराधी॑यते⁠। न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते⁠। वसी॑यान् भवति⁠ ॥ [३४] (९) (ध्या॒य॒ति॒ वै रात्रि॒ श्चाव॑रुन्धे भविष्य॒न्तीत्य॑ ब्रवी ज्जनि॒ष्यसे॑ ऽजय॒द् वसी॑यान् भवति॒ नव॑ च) ॥४॥
तत्र पवमानहबींषि
प्र॒जाप॑तिर् वा॒चः स॒त्यम॑पश्यत्⁠। तेना॒ग्निमाध॑त्त⁠। तेन॒ वै स आ᳚र्द्ध्नोत्⁠। भूर्भुवः॒ सुव॒रित्या॑ह⁠। ए॒तद्वै वा॒चः स॒त्यम्⁠। य ए॒तेना॒ग्निमा॑ध॒त्ते⁠। ऋ॒द्ध्नोत्ये॒व⁠। अथो॑ स॒त्यप्रा॑शूरे॒व भ॑वति⁠। अथो॒ य ए॒वव्ँवि॒द्वान॑भि॒चर॑ति⁠। स्तृ॒णु॒त ए॒वैन᳚म्⁠ ॥ [३५] (१०) भूरित्या॑ह⁠। प्र॒जा ए॒व तद्यज॑मानः सृजते⁠। भुव॒ इत्या॑ह⁠। अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति⁠। सुव॒रित्या॑ह⁠। सु॒व॒र्ग ए॒व लो॒के प्रति॑ तिष्ठति⁠॥ त्रि॒भिर॒ख्‍षरै॒र्गार्‌ह॑पत्य॒माद॑धाति⁠। त्रय॑ इ॒मे लो॒काः⁠। ए॒ष्वे॑वैन॑ल्ँलो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते⁠। सर्वैः᳚ प॒ञ्चभि॑राहव॒नीय᳚म्⁠ ॥ [३६] (१०) सु॒व॒र्गाय॒ वा ए॒ष लो॒कायाधी॑यते⁠। यदा॑हव॒नीयः॑⁠। सु॒व॒र्ग ए॒वास्मै॑ लो॒के वा॒चः स॒त्यꣳ सर्व॑माप्नोति⁠॥ त्रि॒भिर् गार्‌ह॑पत्य॒माद॑धाति⁠। प॒ञ्चभि॑राहव॒नीय᳚म्⁠। अ॒ष्टौ संप॑द्यन्ते⁠। अ॒ष्टाख्‍ष॑रा गाय॒त्री⁠। गा॒य॒त्रो᳚ऽग्निः⁠। यावा॑ने॒वाग्निः⁠। तमाध॑त्ते⁠ ॥ [३७] (१०) प्र॒जाप॑तिः प्र॒जा अ॑सृजत⁠। ता अ॑स्माथ् सृ॒ष्टाः परा॑चीरायन्न्⁠। ताभ्यो॒ ज्योति॒रुद॑गृह्णात्⁠। तं ज्योतिः॒ पश्य॑न्तीः प्र॒जा अ॒भिस॒माव॑र्तन्त⁠। उ॒परी॑वा॒ग्निमुद्गृ॑ह्णीयादु॒द्धर॑न्न्⁠। ज्योति॑रे॒व पश्य॑न्तीः प्र॒जा यज॑मानम॒भिस॒माव॑र्तन्ते⁠॥ प्र॒जाप॑ते॒रख्‍ष्य॑श्वयत्⁠। तत् परा॑ऽपतत्⁠। तदश्वो॑ऽभवत्⁠। तदश्व॑स्याश्व॒त्वम्⁠ ॥ [३८] (१०) ए॒ष वै प्र॒जाप॑तिः⁠। यद॒ग्निः⁠। प्रा॒जा॒प॒त्योऽश्वः॑⁠। यदश्वं॑ पु॒रस्ता॒न्नय॑ति⁠। स्वमे॒व चख्‍षुः॒ पश्य॑न् प्र॒जाप॑ति॒रनूदे॑ति⁠॥ व॒ज्री वा ए॒षः⁠। यदश्वः॑⁠। यदश्वं॑ पु॒रस्ता॒न्नय॑ति⁠। जा॒ताने॒व भ्रातृ॑व्या॒न् प्रणु॑दते⁠॥ पुन॒राव॑र्तयति⁠ ॥ [३९] (१०) ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते⁠॥ न्या॑हव॒नीयो॒ गार्‌ह॑पत्यमकामयत⁠। नि गार्‌ह॑पत्य आहव॒नीय᳚म्⁠। तौ वि॒भाजं॒ नाश॑क्नोत्⁠। सोश्वः॑ पूर्व॒वाड्भू॒त्वा⁠। प्राञ्चं॒ पूर्व॒मुद॑वहत्⁠। तत् पू᳚र्व॒वाहः॑ पूर्ववा॒ट्त्वम्⁠। यदश्वं॑ पु॒रस्ता॒न्नय॑ति⁠। विभ॑क्तिरे॒वैन॑यो॒स्सा⁠। अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते⁠ ॥ [४०] (१०) यदु॒पर्यु॑परि॒ शिरो॒ हरे᳚त्⁠। प्रा॒णान् विच्छि॑न्द्यात्⁠। अ॒धो॑ऽधः॒ शिरो॑ हरति⁠। प्रा॒णानां᳚ गोपी॒थाय॑⁠॥ इय॒त्यग्रे॑ हरति⁠। अथेय॒त्यथेय॑ति⁠। त्रय॑ इ॒मे लो॒काः⁠। ए॒ष्वे॑वैन॑ल्ँलो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते⁠॥ प्र॒जाप॑तिर॒ग्निम॑सृजत⁠। सो॑ऽबिभे॒त्प्र मा॑ धख्‍ष्य॒तीति॑⁠ ॥ [४१] (१०) तस्य॑ त्रे॒धा म॑हि॒मान॒व्ँव्यौ॑हत्⁠। शान्त्या॒ अप्र॑दाहाय⁠। यत्त्रे॒धाऽग्निरा॑धी॒यते᳚⁠। म॒हि॒मान॑मे॒वास्य॒ तद्व्यू॑हति⁠। शान्त्या॒ अप्र॑दाहाय⁠॥ पुन॒राव॑र्तयति⁠। म॒हि॒मान॑मे॒वास्य॒ सन्द॑धाति⁠॥ प॒शुर्वा ए॒षः⁠। यदश्वः॑⁠। ए॒ष रु॒द्रः⁠ ॥ [४२] (१०) यद॒ग्निः⁠। यदश्व॑स्य प॒दे᳚ऽग्निमा॑द॒द्ध्यात्⁠। रु॒द्राय॑ प॒शूनपि॑दद्ध्यात्⁠। अ॒प॒शुर् यज॑मानः स्यात्⁠। यं नाक्र॒मये᳚त्⁠। अन॑वरुद्धा अस्य प॒शवः॑ स्युः⁠। पा॒र्श्व॒त आक्र॑मयेत्⁠। यथाऽऽहि॑तस्या॒ग्नेरङ्गा॑रा अभ्यव॒वर्ते॑रन्न्⁠। अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति⁠। न रु॒द्रायापि॑दधाति⁠ ॥ [४३] (१०) त्रीणि॑ ह॒वीꣳषि॒ निर्व॑पति⁠। वि॒राज॑ ए॒व विक्रा᳚न्त॒य्ँयज॑मा॒नोऽनु॒ विक्र॑मते⁠॥ अ॒ग्नये॒ पव॑मानाय⁠। अ॒ग्नये॑ पाव॒काय॑⁠। अ॒ग्नये॒ शुच॑ये⁠। यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति⁠। पु॒नात्ये॒वैन᳚म्⁠। यद॒ग्नये॑ पाव॒काय॑⁠। पू॒त ए॒वास्मि॑न्न॒न्नाद्यं॑ दधाति⁠। यद॒ग्नये॒ शुच॑ये⁠। ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॑न्नु॒परि॑ष्टाद्दधाति⁠ ॥ [४४] (११) (ए॒न॒ मा॒ह॒व॒नीयं॑ धत्ते ऽश्व॒त्वं व॑र्तयति कुरुत॒ इति॑ रु॒द्रो द॑धाति॒ यद॒ग्नये॒ शुच॑य॒ एकं॑ च) ॥५॥
पवमानहविर्विस्तारः, हविरन्तराणि, दख्‍षिणाश्च
दे॒वा॒सु॒राः सय्ँय॑त्ता आसन्न्⁠। ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑⁠। अ॒ग्नौ वा॒मव्ँवसु॒ सं न्य॑दधत⁠। इ॒दमु॑ नो भविष्यति⁠। यदि॑ नो जे॒ष्यन्तीति॑⁠। तद॒ग्निर्नोथ्सह॑मशक्नोत्⁠। तत्त्रे॒धा विन्य॑दधात्⁠। प॒शुषु॒ तृती॑यम्⁠। अ॒फ्सु तृती॑यम्⁠। आ॒दि॒त्ये तृती॑यम्⁠ ॥ [४५] (१०) तद्दे॒वा वि॒जित्य॑⁠। पुन॒रवा॑रुरुथ्सन्त⁠। ते᳚ऽग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वपन्न्⁠। प॒शवो॒ वा अ॒ग्निः पव॑मानः⁠। यदे॒व प॒शुष्वासी᳚त्⁠। तत्तेनावा॑रुन्धत⁠। ते᳚ऽग्नये॑ पाव॒काय॑⁠। आपो॒ वा अ॒ग्निः पा॑व॒कः⁠। यदे॒वाफ्स्वासी᳚त्⁠। तत्तेनावा॑रुन्धत⁠ ॥ [४६] (१०) ते᳚ऽग्नये॒ शुच॑ये⁠। अ॒सौ वा आ॑दि॒त्यो᳚ऽग्निः शुचिः॑⁠। यदे॒वादि॒त्य आसी᳚त्⁠। तत्तेनावा॑रुन्धत⁠॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। त॒नुवो॒ वावैता अ॑ग्न्या॒धेय॑स्य⁠। आ॒ग्ने॒यो वा अ॒ष्टाक॑पालोऽग्न्या॒धेय॒मिति॑⁠। यत्तं नि॒र्वपे᳚त्⁠। नैतानि॑⁠। यथा॒ऽऽत्मा स्यात्⁠ ॥ [४७] (१०) नाङ्गा॑नि⁠। ता॒दृगे॒व तत्⁠। यदे॒तानि॑ नि॒र्वपे᳚त्⁠। न तम्⁠। यथाऽङ्गा॑नि॒ स्युः⁠। नात्मा⁠। ता॒दृगे॒व तत्⁠। उ॒भया॑नि स॒हनि॒रुप्या॑णि⁠। य॒ज्ञस्य॑ सात्म॒त्वाय॑⁠॥ उ॒भय॒व्ँवा ए॒तस्ये᳚न्द्रि॒यव्ँवी॒र्य॑माप्यते⁠ ॥ [४८] (१०) यो᳚ऽग्निमा॑ध॒त्ते⁠। ऐ॒न्द्रा॒ग्नमेका॑दशकपाल॒मनु॒ निर्व॑पेत्⁠। आ॒दि॒त्यं च॒रुम्⁠। इ॒न्द्रा॒ग्नी वै दे॒वाना॒मया॑तयामानौ⁠। ये ए॒व दे॒वते॒ अया॑तयाम्नी⁠। ताभ्या॑मे॒वास्मा॑ इन्द्रि॒यव्ँवी॒र्य॑मव॑ रुन्धे⁠। आ॒दि॒त्यो भ॑वति⁠। इ॒यव्ँवा अदि॑तिः⁠। अ॒स्यामे॒व प्रति॑तिष्ठति⁠॥ धे॒न्वै वा ए॒तद्रेतः॑⁠ ॥ [४९] (१०) यदाज्य᳚म्⁠। अ॒न॒डुह॑स्तण्डु॒लाः⁠। मि॒थु॒नमे॒वाव॑रुन्धे⁠। घृ॒ते भ॑वति⁠। य॒ज्ञस्यालू᳚ख्‍षान्तत्वाय⁠॥ च॒त्वार॑ आर्‌षे॒याः प्राश्ञ॑न्ति⁠। दि॒शामे॒व ज्योति॑षि जुहोति⁠॥ प॒शवो॒ वा ए॒तानि॑ ह॒वीꣳषि॑⁠। ए॒ष रु॒द्रः⁠। यद॒ग्निः⁠ ॥ [५०] (१०) यथ्स॒द्य ए॒तानि॑ ह॒वीꣳषि॑ नि॒र्वपे᳚त्⁠। रु॒द्राय॑ प॒शूनपि॑ दद्ध्यात्⁠। अ॒प॒शुर्यज॑मानः स्यात्⁠। यन्नानु॑नि॒र्वपे᳚त्⁠। अन॑वरुद्धा अस्य प॒शवः॑ स्युः⁠। द्वा॒द॒शसु॒ रात्री॒ष्वनु॒ निर्व॑पेत्⁠। स॒व्ँव॒थ्स॒र प्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः⁠। स॒व्ँव॒थ्स॒रेणै॒वास्मै॑ रु॒द्रꣳ श॑मयि॒त्वा⁠। प॒शूनव॑ रुन्धे⁠॥ यदेक॑मेकमे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वपे᳚त्⁠ ॥ [५१] (१०) यथा॒ त्रीण्या॒वप॑नानि पू॒रये᳚त्⁠। ता॒दृक्तत्⁠। न प्र॒जन॑न॒मुच्छि॑ꣳषेत्⁠। एकं॑ नि॒रुप्य॑⁠। उत्त॑रे॒ सम॑स्येत्⁠। तृ॒तीय॑मे॒वास्मै॑ लो॒कमुच्छि॑ꣳषति प्र॒जन॑नाय⁠। तं प्र॒जया॑ प॒शुभि॒रनु॒ प्रजा॑यते⁠। अथो॑ य॒ज्ञस्यै॒वैषाऽभिक्रा᳚न्तिः⁠॥ र॒थ॒च॒क्रं प्रव॑र्तयति⁠। म॒नु॒ष्य॒र॒थेनै॒व दे॑वर॒थं प्र॒त्यव॑रोहति⁠ ॥ [५२] (१०) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। हो॒त॒व्य॑मग्निहो॒त्रां(३) नहो॑त॒व्या(३)मिति॑⁠। यद्यजु॑षा जुहु॒यात्⁠। अय॑थापूर्व॒माहु॑ती जुहुयात्⁠। यन्न जु॑हु॒यात्⁠। अ॒ग्निः परा॑भवेत्⁠। तू॒ष्णीमे॒व हो॑त॒व्य᳚म्⁠। य॒था॒पू॒र्वमाहु॑ती जु॒होति॑⁠। नाग्निः परा॑भवति⁠॥ अ॒ग्नीधे॑ ददाति⁠ ॥ [५३] (१०) अ॒ग्निमु॑खाने॒वर्तून् प्री॑णाति⁠। उ॒प॒बर्‌ह॑णं ददाति⁠। रू॒पाणा॒मव॑रुद्ध्यै⁠। अश्वं॑ ब्र॒ह्मणे᳚⁠। इ॒न्द्रि॒यमे॒वाव॑रुन्धे⁠। धे॒नुꣳ होत्रे᳚⁠। आ॒शिष॑ ए॒वाव॑रुन्धे⁠। अ॒न॒ड्वाह॑मद्ध्व॒र्यवे᳚⁠। वह्नि॒र्वा अ॑न॒ड्वान्⁠। वह्नि॑रद्ध्व॒र्युः⁠ ॥ [५४] (१०) वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे⁠। मि॒थु॒नौ गावौ॑ ददाति⁠। मि॒थु॒नस्याव॑रुद्ध्यै⁠। वासो॑ ददाति⁠। स॒र्व॒ दे॒व॒त्य॑व्ँवै वासः॑⁠। सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति⁠। आ द्वा॑द॒शभ्यो॑ ददाति⁠। द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः⁠। स॒व्ँव॒थ्स॒र ए॒व प्रति॑ तिष्ठति⁠। काम॑मू॒र्द्ध्वं देय᳚म्⁠। अप॑रिमित॒स्याव॑रुद्ध्यै⁠ ॥ [५५] (११) (आ॒दि॒त्ये तृती॑य म॒फ्स्वासी॒त् तत् तेनावा॑रुन्धत॒ स्या दा᳚प्यते॒ रेतो॒ ऽग्नि रेक॑मेक मे॒तानि॑ ह॒विꣳषि॑ नि॒र्वपे᳚त् प्र॒त्यव॑रोहति ददात्य द्ध्व॒र्युर् देय॒ मेकं॑ च) ॥६॥
आधानमन्त्राः
घ॒र्मः शिर॒स्तद॒यम॒ग्निः⁠। सं प्रि॑यः प॒शुभि॑र् भुवत्⁠। छ॒र्दिस्तो॒काय॒ तन॑याय यच्छ⁠॥ वातः॑ प्रा॒णस्तद॒यम॒ग्निः⁠। सं प्रि॑यः प॒शुभि॑र् भुवत्⁠। स्व॒दि॒तं तो॒काय॒ तन॑याय पि॒तुं प॑च⁠॥ प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान्⁠। अ॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर् भवे॒ह⁠। विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि⁠। ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे⁠ ॥ [५६] (१०) अ॒र्कश्चख्‍षु॒स्तद॒सौ सूर्य॒स्तद॒यम॒ग्निः⁠। संप्रि॑यः प॒शुभि॑र् भुवत्⁠। यत् ते॑ शुक्र शु॒क्रव्ँवर्चः॑ शु॒क्रा त॒नूः⁠। शु॒क्रं ज्योति॒रज॑स्रम्⁠। तेन॑ मे दीदिहि॒ तेन॒ त्वाऽऽद॑धे⁠। अ॒ग्निना᳚ऽग्ने॒ ब्रह्म॑णा⁠॥ आ॒न॒शे व्या॑नशे॒ सर्व॒मायु॒र् व्या॑नशे⁠॥ ये ते॑ अग्ने शि॒वे त॒नुवौ᳚⁠। वि॒राट् च॑ स्व॒राट् च॑⁠। ते मा वि॑शतां॒ ते मा॑ जिन्वताम्⁠ ॥ [५७] (१०) ये ते॑ अग्ने शि॒वे त॒नुवौ᳚⁠। स॒म्राट् चा॑भि॒भूश्च॑⁠। ते मा वि॑शतां॒ ते मा॑ जिन्वताम्⁠। ये ते॑ अग्ने शि॒वे त॒नुवौ᳚⁠। वि॒भूश्च॑ परि॒भूश्च॑⁠। ते मा वि॑शतां॒ ते मा॑ जिन्वताम्⁠। ये ते॑ अग्ने शि॒वे त॒नुवौ᳚⁠। प्र॒भ्वी च॒ प्रभू॑तिश्च⁠। ते मा वि॑शतां॒ ते मा॑ जिन्वताम्⁠। यास्ते॑ अग्ने शि॒वास्त॒नुवः॑⁠। ताभि॒स्त्वाऽऽद॑धे⁠॥ यास्ते॑ अग्ने घो॒रास्त॒नुवः॑⁠। ताभि॑र॒मुं ग॑च्छ⁠ ॥ [५८] (१३) (चतु॑ष्पदे जिन्वतां त॒नुव॒ स्त्रीणि॑ च) ॥७॥
एतद्ब्राह्मणं
इ॒मे वा ए॒ते लो॒का अ॒ग्नयः॑⁠। ते यदव्या॑वृत्ता आधी॒येर॑न्न्⁠। शो॒चये॑यु॒र्यज॑मानम्⁠। घ॒र्मः शिर॒ इति॒ गार्‌ह॑पत्य॒माद॑धाति⁠। वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम्⁠। अ॒र्कश्चख्‍षु॒रित्या॑हव॒नीय᳚म्⁠। तेनै॒वैना॒न् व्याव॑र्तयति⁠। तथा॒ न शो॑चयन्ति॒ यज॑मानम्⁠॥ र॒थ॒न्त॒रम॒भिगा॑यते॒ गार्‌ह॑पत्य आधी॒यमा॑ने⁠। राथ॑न्तरो॒ वा अ॒यल्ँलो॒कः⁠ ॥ [५९] (१०) अ॒स्मिन्ने॒वैन॑ल्ँलो॒के प्रति॑ष्ठित॒माध॑त्ते⁠। वा॒म॒दे॒व्यम॒भिगा॑यत उद्ध्रि॒यमा॑णे⁠। अ॒न्तरि॑ख्‍ष॒व्ँवै वा॑मदे॒व्यम्⁠। अ॒न्तरि॑ख्‍ष ए॒वैनं॒ प्रति॑ष्ठित॒माध॑त्ते⁠। अथो॒ शान्ति॒र् वै वा॑मदे॒व्यम्⁠। शा॒न्तमे॒वैनं॑ पश॒व्य॑मुद्ध॑रते⁠। बृ॒हद॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने⁠। बार्‌ह॑तो॒ वा अ॒सौ लो॒कः⁠। अ॒मुष्मि॑न्ने॒वैन॑ल्ँलो॒के प्रति॑ष्ठित॒माध॑त्ते⁠॥ प्र॒जाप॑तिर॒ग्निम॑सृजत⁠ ॥ [६०] (१०) सोऽश्वो॒ वारो॑ भू॒त्वा परा॑ङैत्⁠। तव्ँवा॑रव॒न्तीये॑नावारयत⁠। तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम्⁠। श्यै॒तेन॑ श्ये॒ती अ॑कुरुत⁠। तच्छ्यै॒तस्य॑ श्यैत॒त्वम्⁠। यद्वा॑रव॒न्तीय॑मभि॒गाय॑ते⁠। वा॒र॒यि॒त्वैवैनं॒ प्रति॑ष्ठित॒माध॑त्ते⁠। श्यै॒तेन॑ श्ये॒ती कु॑रुते⁠॥ घ॒र्मः शिर॒ इति॒ गार्‌ह॑पत्य॒माद॑धाति⁠। सशी॑र्‌षाणमे॒वैन॒माध॑त्ते⁠ ॥ [६१] (१०) उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मति⁠॥ रु॒द्रो वा ए॒षः⁠। यद॒ग्निः⁠। स आ॑धी॒यमा॑न ईश्व॒रो यज॑मानस्य प॒शून् हिꣳसि॑तोः⁠। सं प्रि॑यः प॒शुभि॑र् भुव॒दित्या॑ह⁠। प॒शुभि॑रे॒वैन॒ꣳ॒ संप्रि॑यं करोति⁠। प॒शू॒नामहि॑ꣳसायै⁠॥ छ॒र्दिस्तो॒काय॒ तन॑याय य॒च्छेत्या॑ह⁠। आ॒शिष॑मे॒वैतामाशा᳚स्ते⁠॥ वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒पच॑नम्⁠ ॥ [६२] (१०) सप्रा॑णमे॒वैन॒माध॑त्ते⁠॥ स्व॒दि॒तं तो॒काय॒ तन॑याय पि॒तुं प॒चेत्या॑ह⁠। अन्न॑मे॒वास्मै᳚ स्वदयति⁠॥ प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वानित्या॑ह⁠। विभ॑क्तिरे॒वैन॑यो॒स्सा⁠। अथो॒ नाना॑ वीर्यावे॒वैनौ॑ कुरुते⁠॥ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑ह⁠। आ॒शिष॑मे॒वैतामाशा᳚स्ते⁠॥ अ॒र्कश्चख्‍षु॒रित्या॑हव॒नीय᳚म्⁠। अ॒र्को वै दे॒वाना॒मन्न᳚म्⁠ ॥ [६३] (१०) अन्न॑मे॒वाव॑ रुन्धे⁠॥ तेन॑ मे दीदि॒हीत्या॑ह⁠। समि॑न्ध ए॒वैन᳚म्⁠॥ आ॒न॒शे व्या॑नश॒ इति॒ त्रिरुदि॑ङ्गयति⁠। त्रय॑ इ॒मे लो॒काः⁠। ए॒ष्वे॑वैन॑ल्ँलो॒केषु॒ प्रति॑ष्ठित॒माध॑त्ते⁠॥ तत्तथा॒ न का॒र्य᳚म्⁠। वीङ्गि॑त॒म प्र॑तिष्ठित॒माद॑धीत⁠। उ॒द्धृत्यै॒वाधाया॑भि॒मन्त्रियः॑⁠। अवी᳚ङ्गितमे॒वैनं॒ प्रति॑ष्ठित॒माध॑त्ते⁠॥ वि॒राट् च॑ स्व॒राट् च॒ यास्ते॑ अग्ने शि॒वास्त॒नुव॒ स्ताभि॒स्त्वाऽऽद॑ध॒ इत्या॑ह⁠। ए॒ता वा अ॒ग्नेः शि॒वास्त॒नुवः॑⁠। ताभि॑रे॒वैन॒ꣳ॒ सम॑र्द्धयति⁠॥ यास्ते॑ अग्ने घो॒रास्त॒नुव॒ स्ताभि॑र॒मुं ग॒च्छेति॑ ब्रूया॒द्यं द्वि॒ष्यात्⁠। ताभि॑रे॒वैनं॒ परा॑भावयति⁠ ॥ [६४] (१५) (लो॒को॑ ऽसृजतैन॒ माध॑त्ते ऽन्वाहार्य॒पच॑नं दे॒वाना॒मन्न॑ मेनं॒ प्रति॑ष्ठित॒माध॑त्ते॒ पञ्च॑ च) ॥८॥
ब्रह्मौदनम्
श॒मी॒ग॒र्भाद॒ग्निं म॑न्थति⁠। ए॒षा वा अ॒ग्नेर्य॒ज्ञिया॑ त॒नूः⁠। तामे॒वास्मै॑ जनयति⁠॥ अदि॑तिः पु॒त्रका॑मा⁠। सा॒द्ध्येभ्यो॑ दे॒वेभ्यो᳚ ब्रह्मौद॒नम॑पचत्⁠। तस्या॑ उ॒च्छेष॑णमददुः⁠। तत् प्राश्ञा᳚त्⁠। सा रेतो॑ऽधत्त⁠। तस्यै॑ धा॒ता चा᳚र्य॒मा चा॑जायेताम्⁠। सा द्वि॒तीय॑मपचत्⁠ ॥ [६५] (१०) तस्या॑ उ॒च्छेष॑णमददुः⁠। तत् प्राश्ञा᳚त्⁠। सा रेतो॑ऽधत्त⁠। तस्यै॑ मि॒त्रश्च॒ वरु॑णश्चाजायेताम्⁠। सा तृ॒तीय॑मपचत्⁠। तस्या॑ उ॒च्छेष॑णमददुः⁠। तत् प्राश्ञा᳚त्⁠। सा रेतो॑ऽधत्त⁠। तस्या॒ अꣳश॑श्च॒ भग॑श्चाजायेताम्⁠। सा च॑तु॒र्थम॑पचत्⁠ ॥ [६६] (१०) तस्या॑ उ॒च्छेष॑णमददुः⁠। तत् प्राश्ञा᳚त्⁠। सा रेतो॑ऽधत्त⁠। तस्या॒ इन्द्र॑श्च॒ विव॑स्वाꣴश्चाजायेताम्⁠। ब्र॒ह्मौ॒द॒नं प॑चति⁠। रेत॑ ए॒व तद्द॑धाति⁠॥ प्राश्ञ॑न्ति ब्राह्म॒णा ओ॑द॒नम्⁠॥ यदाज्य॑मु॒च्छिष्य॑ते⁠। तेन॑ स॒मिधो॒ऽभ्यज्याद॑धाति⁠। उ॒च्छेष॑णा॒द्वा अदि॑ती॒ रेतो॑ऽधत्त⁠ ॥ [६७] (१०) उ॒च्छेष॑णादे॒व तद्रेतो॑ धत्ते⁠॥ अस्थि॒ वा ए॒तत्⁠। यथ्स॒मिधः॑⁠। ए॒तद्रेतः॑⁠। यदाज्य᳚म्⁠। यदाज्ये॑न स॒मिधो॒ऽभ्यज्या॒दधा॑ति⁠। अस्थ्ये॒व तद्रेत॑सि दधाति⁠॥ ति॒स्र आद॑धाति मिथुन॒त्वाय॑⁠॥ इय॑तीर् भवन्ति⁠। प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताः⁠ ॥ [६८] (१०) इय॑तीर् भवन्ति⁠। य॒ज्ञ॒प॒रुषा॒ संमि॑ताः⁠। इय॑तीर् भवन्ति⁠। ए॒ताव॒द्वै पुरु॑षे वी॒र्य᳚म्⁠। वी॒र्य॑ संमिताः⁠॥ आ॒र्द्रा भ॑वन्ति⁠। आ॒र्द्रमि॑व॒ हि रेतः॑ सि॒च्यते᳚⁠॥ चित्रि॑यस्याश्व॒त्थस्याद॑धाति⁠। चि॒त्रमे॒व भ॑वति⁠॥ घृ॒तव॑तीभि॒राद॑धाति⁠ ॥ [६९] (१०) ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑⁠। यद्घृ॒तम्⁠। प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्द्धयति⁠। अथो॒ तेज॑सा⁠॥ गा॒य॒त्रीभि॑र्ब्राह्म॒णस्याद॑द्ध्यात्⁠। गा॒य॒त्रछ॑न्दा॒ वै ब्रा᳚ह्म॒णः⁠। स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाय॑⁠। त्रि॒ष्टुग्भी॑राज॒न्य॑स्य⁠। त्रि॒ष्टुप् छ॑न्दा॒ वै रा॑ज॒न्यः॑⁠। स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाय॑⁠ ॥ [७०] (१०) जग॑तीभि॒र्वैश्य॑स्य⁠। जग॑ती छन्दा॒ वै वैश्यः॑⁠। स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाय॑⁠॥ तꣳ स॑व्ँवथ्स॒रं गो॑पायेत्⁠। स॒व्ँव॒थ्स॒रꣳ हि रेतो॑ हि॒तव्ँवर्द्ध॑ते⁠॥ यद्ये॑नꣳ सव्ँवथ्स॒रे नोप॒नमे᳚त्⁠। स॒मिधः॒ पुन॒राद॑द्ध्यात्⁠। रेत॑ ए॒व तद्धि॒तव्ँवर्द्ध॑मानमेति⁠॥ न मा॒ꣳ॒सम॑श्ञीयात्⁠। न स्त्रिय॒मुपे॑यात्⁠ ॥ [७१] (१०) यन् मा॒ꣳ॒सम॑श्ञी॒यात्⁠। यथ्स्त्रिय॑मुपे॒यात्⁠। निर्वी᳚र्यः स्यात्⁠। नैन॑म॒ग्निरुप॑नमेत्⁠॥ श्व आ॑धा॒स्यमा॑नो ब्रह्मौद॒नं प॑चति⁠। आ॒दि॒त्या वा इ॒त उ॑त्त॒माः सु॑व॒र्गल्ँलो॒कमा॑यन्न्⁠। ते वा इ॒तो यन्तं॒ प्रति॑नुदन्ते⁠। ए॒ते खलु॒ वावादि॒त्याः⁠। यद्ब्रा᳚ह्म॒णाः⁠। तैरे॒व स॒त्वं ग॑च्छति⁠ ॥ [७२] (१०) नैनं॒ प्रति॑नुदन्ते⁠॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। क्वा॑ सः⁠। अ॒ग्निः का॒र्यः॑⁠। यो᳚ऽस्मै प्र॒जां प॒शून् प्र॑ज॒नय॒तीति॑⁠। शल्कै॒स्ताꣳ रात्रि॑म॒ग्निमि॑न्धीत⁠। तस्मि॑न्नुपव्यु॒षम॒रणी॒ निष्ट॑पेत्⁠। यथ॑र्‌ष॒भाय॑ वाशि॒ता न्या॑विच्छा॒यति॑⁠। ता॒दृगे॒व तत्⁠॥ अ॒पो॒दूह्य॒ भस्मा॒ग्निं म॑न्थति⁠ ॥ [७३] (१०) सैव साऽग्नेः सन्त॑तिः⁠॥ तं म॑थि॒त्वा प्राञ्च॒मुद्ध॑रति⁠। स॒व्ँव॒थ्स॒रमे॒व तद्रेतो॑ हि॒तं प्रज॑नयति⁠॥ अना॑हित॒स्तस्या॒ग्निरित्या॑हुः⁠। यः स॒मिधोऽना॑धाया॒ग्निमा॑ध॒त्त इति॑⁠। ताः स॑व्ँवथ्स॒रे पु॒रस्ता॒दाद॑द्ध्यात्⁠। स॒व्ँव॒थ्स॒रादे॒वैन॑मव॒रुद्ध्याध॑त्ते⁠॥ यदि॑ सव्ँवथ्स॒रेऽनाद॒द्ध्यात्⁠। द्वा॒द॒श्यां᳚ पु॒रस्ता॒दाद॑द्ध्यात्⁠। स॒व्ँव॒थ्स॒र प्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः⁠। स॒व्ँव॒थ्स॒रमे॒वास्याहि॑ता भवन्ति⁠॥ यदि॑ द्वाद॒श्यां᳚ नाद॒द्ध्यात्⁠। त्र्य॒हे पु॒रस्ता॒दाद॑द्ध्यात्⁠। आहि॑ता ए॒वास्य॑ भवन्ति⁠ ॥ [७४] (१४) (द्वि॒तीय॑मपचच् चतु॒र्थम॑पच॒ ददि॑ती॒ रेतो॑ऽधत्त॒ संमि॑ता घृ॒तव॑तीभि॒राद॑धाति राज॒न्यः॑ स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वा ये॑याद् गच्छति मन्थति॒ रात्र॑य श्च॒त्वारि॑ च) ॥९॥
पञ्चाग्न्याधानम्
प्र॒जाप॑तिः प्र॒जा अ॑सृजत⁠। स रि॑रिचा॒नो॑ऽमन्यत⁠। स तपो॑ऽतप्यत⁠। स आ॒त्मन् वी॒र्य॑मपश्यत्⁠। तद॑वर्द्धत⁠। तद॑स्मा॒थ्सह॑सो॒र्द्ध्वम॑सृज्यत⁠। सा वि॒राड॑भवत्⁠। तां दे॑वासु॒रा व्य॑गृह्णत⁠। सो᳚ऽब्रवीत् प्र॒जाप॑तिः⁠। मम॒ वा ए॒षा⁠ ॥ [७५] (१०) दोहा॑ ए॒व यु॒ष्माक॒मिति॑⁠॥ सा ततः॒ प्राच्युद॑क्रामत्⁠। तत् प्र॒जाप॑तिः॒ पर्य॑गृह्णात्⁠। अथ॑र्व पि॒तुं मे॑ गोपा॒येति॑⁠। सा द्वि॒तीय॒मुद॑क्रामत्⁠। तत् प्र॒जाप॑तिः॒ पर्य॑गृह्णात्⁠। नर्य॑ प्र॒जां मे॑ गोपा॒येति॑⁠। सा तृ॒तीय॒मुद॑क्रामत्⁠। तत् प्र॒जाप॑तिः॒ पर्य॑गृह्णात्⁠। शꣴस्य॑ प॒शून् मे॑ गोपा॒येति॑⁠ ॥ [७६] (१०) सा च॑तु॒र्थमुद॑क्रामत्⁠। तत् प्र॒जाप॑तिः॒ पर्य॑गृह्णात्⁠। सप्र॑थ स॒भां मे॑ गोपा॒येति॑⁠। सा प॑ञ्च॒ममुद॑क्रामत्⁠। तत् प्र॒जाप॑तिः॒ पर्य॑गृह्णात्⁠। अहे॑ बुद्ध्निय॒ मन्त्रं॑ मे गोपा॒येति॑⁠। अ॒ग्नीन् वाव सा तान् व्य॑क्रमत⁠। तान् प्र॒जाप॑तिः॒ पर्य॑गृह्णात्⁠। अथो॑ प॒ङ्क्तिमे॒व⁠॥ प॒ङ्क्तिर्वा ए॒षा ब्रा᳚ह्म॒णे प्रवि॑ष्टा⁠ ॥ [७७] (१०) तामा॒त्मनोऽधि॒ निर्मि॑मीते⁠। यद॒ग्निरा॑धी॒यते᳚⁠। तस्मा॑दे॒ताव॑न्तो॒ऽग्नय॒ आधी॑यन्ते⁠। पाङ्क्त॒व्ँवा इ॒दꣳ सर्व᳚म्⁠। पाङ्क्ते॑नै॒व पाङ्क्त॑ꣴ स्पृणोति⁠॥ अथ॑र्व पि॒तुं मे॑ गोपा॒येत्या॑ह⁠। अन्न॑मे॒वै तेन॑ स्पृणोति⁠। नर्य॑ प्र॒जां मे॑ गोपा॒येत्या॑ह⁠। प्र॒जामे॒वैतेन॑ स्पृणोति⁠। शꣴस्य॑ प॒शून् मे॑ गोपा॒येत्या॑ह⁠ ॥ [७८] (१०) प॒शूने॒वैतेन॑ स्पृणोति⁠। सप्र॑थ स॒भां मे॑ गोपा॒येत्या॑ह⁠। स॒भामे॒वैतेने᳚न्द्रि॒यꣴ स्पृ॑णोति⁠। अहे॑ बुद्ध्निय॒ मन्त्रं॑ मे गोपा॒येत्या॑ह⁠। मन्त्र॑मे॒वै तेन॒ श्रिय॑ꣴ स्पृणोति⁠॥ यद॑न्वाहार्य॒पच॑नेऽन्वाहा॒र्यं॑ पच॑न्ति⁠। तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः⁠। यद्गार्‌ह॑पत्य॒ आज्य॑मधि॒श्रय॑न्ति॒ संपत्नी᳚र्या॒जय॑न्ति⁠। तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः⁠। यदा॑हव॒नीये॒ जुह्व॑ति⁠ ॥ [७९] (१०) तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः⁠। यथ्स॒भाया᳚व्ँवि॒जय॑न्ते⁠। तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः⁠। यदा॑वस॒थेऽन्न॒ꣳ॒ हर॑न्ति⁠। तेन॒ सो᳚ऽस्या॒भीष्टः॑ प्री॒तः⁠। तथा᳚ऽस्य॒ सर्वे᳚ प्री॒ता अ॒भीष्टा॒ आधी॑यन्ते⁠॥ प्र॒व॒स॒थमे॒ष्यन्ने॒वमुप॑तिष्ठे॒तैक॑मेकम्⁠। यथा᳚ ब्राह्म॒णाय॑ गृहेवा॒सिने॑ परि॒दाय॑ गृ॒हानेति॑⁠। ता॒दृगे॒व तत्⁠॥ पुन॑रा॒गत्योप॑तिष्ठते⁠। सा भा॑गेयमे॒वैषां॒ तत्⁠। सा तत॑ ऊ॒र्द्ध्वाऽऽरो॑हत्⁠। सा रो॑हि॒ण्य॑भवत्⁠। तद्रो॑हि॒ण्यै रो॑हिणि॒त्वम्⁠। रो॒हि॒ण्याम॒ग्निमाद॑धीत⁠। स्व ए॒वैन॒य्ँयोनौ॒ प्रति॑ष्ठित॒माध॑त्ते⁠। ऋ॒द्ध्नोत्ये॑नेन⁠ ॥ [८०] (१७) (ए॒षा प॒शून्मे॑ गोपा॒येति॒ प्रवि॑ष्टा प॒शून्मे॑ गोपा॒येत्या॑ह॒ जुह्व॑ति तिष्ठते स॒प्त च॑) ॥१०॥
अनुवाकाः पञ्चशती
१० ८०