कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणम्
प्रथमाष्टके तृतीयः प्रपाठकः

अष्टक १ प्रपाठक ३
वाजपेयब्राह्मणं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
पुनराधेयशेषः आज्यभागयोर्विशेषः
दे॒वा॒सु॒राः सय्ँय॑त्ता आसन्न्⁠। ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑⁠। अ॒ग्नीषोम॑योस्तेज॒स्विनी᳚स्त॒नूः सं न्य॑दधत⁠। इ॒दमु॑ नो भविष्यति⁠। यदि॑ नो जे॒ष्यन्तीति॑⁠। तेना॒ग्नीषोमा॒वपा᳚क्रामताम्⁠। ते दे॒वा वि॒जित्य॑⁠। अ॒ग्नीषोमा॒वन्वै᳚च्छन्न्⁠। ते᳚ऽग्निमन्व॑विन्दन्नृ॒तुषूथ् स॑न्नम्⁠। तस्य॒ विभ॑क्तीभिस्तेज॒स्विनी᳚स्त॒नूरवा॑रुन्धत⁠ ॥ [१] (१०) ते सोम॒मन्व॑विन्दन्न्⁠। तम॑घ्नन्न्⁠। तस्य॑ यथाऽभि॒ज्ञाय॑म् त॒नूर् व्य॑गृह्णत⁠। ते ग्रहा॑ अभवन्न्⁠। तद्ग्रहा॑णां ग्रह॒त्वम्⁠। यस्यै॒वव्ँवि॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते᳚⁠। तस्य॒ त्वे॑व गृ॑ही॒ताः⁠॥ नाना᳚ग्नेयं पुनरा॒धेये॑ कुर्यात्⁠। यदना᳚ग्नेयं पुनरा॒धेये॑ कु॒र्यात्⁠। व्यृ॑द्धमे॒व तत्⁠ ॥ [२] (१०) अना᳚ग्नेय॒व्ँवा ए॒तत् क्रि॑यते⁠। यथ् स॒मिध॒स्तनू॒नपा॑तमि॒डो ब॒र्॒‌हिर्य॑जति⁠॥ उ॒भावा᳚ग्ने॒यावाज्य॑भागौ स्याताम्⁠॥ अना᳚ज्यभागौभवत॒ इत्या॑हुः⁠। यदु॒भावा᳚ग्ने॒याव॒न्वञ्चा॒विति॑⁠। अ॒ग्नये॒ पव॑माना॒योत्त॑रः स्यात्⁠। यत् पव॑मानाय⁠। तेनाज्य॑ भागः⁠। तेन॑ सौ॒म्यः⁠॥ बुध॑न्वत्याग्ने॒यस्याज्य॑भागस्य पुरोऽनुवा॒क्या॑ भवति⁠ ॥ [३] (१०) यथा॑ सु॒प्तं बो॒धय॑ति⁠। ता॒दृगे॒व तत्⁠॥ अ॒ग्निन्य॑क्ताः पत्नी सय्ँया॒जाना॒मृचः॑ स्युः⁠। तेना᳚ग्ने॒यꣳ सर्वं॑ भवति⁠॥ ए॒क॒धा ते॑ज॒स्विनीं᳚ दे॒वता॒मुपै॒तीत्या॑हुः⁠। सैन॑मीश्व॒रा प्र॒दह॒ इति॑⁠॥ नेति॑ ब्रूयात्⁠। प्र॒जन॑न॒व्ँवा अ॒ग्निः⁠। प्र॒जन॑नमे॒वोपै॒तीति॑⁠॥ कृ॒तय॑जुः॒ संभृ॑त संभार॒ इत्या॑हुः⁠ ॥ [४] (१०) न स॒भृंत्याः᳚ संभा॒राः⁠। न यजुः॑ का॒र्य॑मिति॑⁠॥ अथो॒ खलु॑⁠। स॒भृंत्या॑ ए॒व स॑भां॒राः⁠। का॒र्य॑य्ँयजुः॑⁠। पु॒न॒रा॒धेय॑स्य॒ समृ॑द्ध्यै⁠॥ तेनो॑पा॒ꣳ॒शु प्रच॑रति⁠। एष्य॑ इव॒ वा ए॒षः⁠। यत् पु॑नरा॒धेयः॑⁠। यथो॑पा॒ꣳ॒शु न॒ष्टमि॒च्छति॑⁠ ॥ [५] (१०) ता॒दृगे॒व तत्⁠॥ उ॒च्चैः स्वि॑ष्ट॒कृत॒मुथ् सृ॑जति⁠। यथा॑ न॒ष्टव्ँवि॒त्वा प्राहा॒यमिति॑⁠। ता॒दृगे॒व तत्⁠॥ ए॒क॒धा ते॑ज॒स्विनीं᳚ दे॒वता॒मुपै॒तीत्या॑हुः⁠। सैन॑मीश्व॒रा प्र॒दह॒ इति॑⁠। तत्तथा॒ नोपै॑ति⁠। प्र॒या॒जा॒नू॒या॒जेष्वे॒व विभ॑क्तीः कुर्यात्⁠। य॒था॒पू॒र्वमाज्य॑भागौ॒ स्याता᳚म्⁠। ए॒वं प॑त्नी सय्ँया॒जाः⁠ ॥ [६] (१०) तद्वै᳚श्वान॒रव॑त्प्र॒जन॑नवत्तर॒मुपै॒तीति॑⁠॥ तदा॑हुः⁠। व्यृ॑द्ध॒व्ँवा ए॒तत्⁠। अना᳚ग्नेय॒व्ँवा ए॒तत् क्रि॑यत॒ इति॑⁠॥ नेति॑ ब्रूयात्⁠। अ॒ग्निं प्र॑थ॒मव्ँविभ॑क्तीनाय्ँयजति⁠। अ॒ग्निमु॑त्त॒मं प॑त्नी सय्ँया॒जाना᳚म्⁠। तेना᳚ग्ने॒यम्⁠। तेन॒ समृ॑द्धं क्रियत॒ इति॑⁠ ॥ [७] (९) ॥१॥
वाजपेयस्य विधिः
दे॒वा वै यथा॒दर्‌श॑य्ँय॒ज्ञानाह॑रन्त⁠। यो᳚ऽग्निष्टो॒मम्⁠। य उ॒क्थ्य᳚म्⁠। यो॑ऽतिरा॒त्रम्⁠। ते स॒हैव सर्वे॑ वाज॒पेय॑मपश्यन्न्⁠। ते⁠। अ॒न्यो᳚न्यस्मै॒ नाति॑ष्ठन्त⁠। अ॒हम॒नेन॑ यजा॒ इति॑⁠। ते᳚ऽब्रुवन्न्⁠। आ॒जिम॒स्य धा॑वा॒मेति॑⁠ ॥ [८] (१०) तस्मि॑न्ना॒जिम॑धावन्न्⁠। तं बृह॒स्पति॒रुद॑जयत्⁠। तेना॑यजत⁠। स स्वारा᳚ज्यमगच्छत्⁠। तमिन्द्रो᳚ऽब्रवीत्⁠। माम॒नेन॑ याज॒येति॑⁠। तेनेन्द्र॑मयाजयत्⁠। सोऽग्रं॑ दे॒वता॑नां॒ पर्यै᳚त्⁠। अग॑च्छ॒थ्स्वारा᳚ज्यम्⁠। अति॑ष्ठन्तास्मै॒ ज्यैष्ठ्या॑य⁠ ॥ [९] (१०) य ए॒वव्ँवि॒द्वान्‌वा॑ज॒पेये॑न॒ यज॑ते⁠। गच्छ॑ति॒ स्वारा᳚ज्यम्⁠। अग्र॑ꣳ समा॒नानां॒ पर्ये॑ति⁠। तिष्ठ॑न्तेऽस्मै॒ ज्यैष्ठ्या॑य⁠॥ स वा ए॒ष ब्रा᳚ह्म॒णस्य॑ चै॒व रा॑ज॒न्य॑स्य च य॒ज्ञः⁠॥ तव्ँवा ए॒तव्ँवा॑ज॒पेय॒ इत्या॑हुः⁠। वा॒जाप्यो॒ वा ए॒षः⁠। वाज॒ꣴ॒ ह्ये॑तेन॑ दे॒वा ऐफ्स॑न्न्⁠॥ सोमो॒ वै वा॑ज॒पेयः॑⁠। यो वै सोम॑व्ँवाज॒पेय॒व्ँवेद॑⁠ ॥ [१०] (१०) वा॒ज्ये॑वैनं॑ पी॒त्वा भ॑वति⁠। आऽस्य॑ वा॒जी जा॑यते⁠॥ अन्न॒व्ँवै वा॑ज॒पेयः॑⁠। य ए॒वव्ँवेद॑⁠। अत्त्यन्न᳚म्⁠। आऽस्या᳚न्ना॒दो जा॑यते⁠॥ ब्रह्म॒ वै वा॑ज॒पेयः॑⁠। य ए॒वव्ँवेद॑⁠। अत्ति॒ ब्रह्म॒णाऽन्न᳚म्⁠। आऽस्य॑ ब्र॒ह्मा जा॑यते⁠ ॥ [११] (१०) वाग्वै वाज॑स्य प्रस॒वः⁠। य ए॒वव्ँवेद॑⁠। क॒रोति॑ वा॒चा वी॒र्य᳚म्⁠। ऐन॑व्ँवा॒चा ग॑च्छति⁠। अपि॑वती॒व्ँवाच॑व्ँवदति⁠॥ प्र॒जाप॑तिर् दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑शत्⁠। स आ॒त्मन् वा॑ज॒पेय॑मधत्त⁠। तं दे॒वा अ॑ब्रुवन्न्⁠। ए॒ष वाव य॒ज्ञः⁠। यद्वा॑ज॒पेयः॑⁠ ॥ [१२] (१०) अप्ये॒व नोऽत्रा॒स्त्विति॑⁠। तेभ्य॑ ए॒ता उज्जि॑तीः॒ प्राय॑च्छत्⁠॥ ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑यन्ते⁠। य॒ज्ञस्य॑ सर्व॒त्वाय॑⁠। दे॒वता॑ना॒मनि॑र्भागाय⁠॥ दे॒वा वै ब्रह्म॑ण॒श्चान्न॑स्य च॒ शम॑ल॒मपा᳚घ्नन्न्⁠। यद्ब्रह्म॑णः॒ शम॑ल॒मासी᳚त्⁠। सा गाथा॑ नाराश॒ꣴ॒स्य॑ भवत्⁠। यदन्न॑स्य⁠। सा सुरा᳚⁠ ॥ [१३] (१०) तस्मा॒द्गाय॑तश्च म॒त्तस्य॑ च॒ न प्र॑ति॒गृह्य᳚म्⁠। यत् प्र॑तिगृह्णी॒यात्⁠। शम॑लं॒ प्रति॑गृह्णीयात्⁠॥ सर्वा॒ वा ए॒तस्य॒ वाचोऽव॑रुद्धाः⁠। यो वा॑जपेयया॒जी⁠। या पृ॑थि॒व्याय्ँयाऽग्नौ या र॑थन्त॒रे⁠। याऽन्तरि॑ख्‍षे॒ या वा॒यौ या वा॑मदे॒व्ये⁠। या दि॒वि याऽऽदि॒त्ये या बृ॑ह॒ति⁠। याऽफ्सु यौष॑धीषु॒ या वन॒स्पति॑षु⁠॥ तस्मा᳚द् वाजपेयया॒ज्यार्त्वि॑जीनः⁠। सर्वा॒ ह्य॑स्य॒ वाचोऽव॑रुद्धाः⁠ ॥ [१४] (११) (धा॒वा॒मेति॒ ज्यैष्ठ्या॑य॒ वेद॑ ब्र॒ह्मा जा॑यतेवाज॒पेयः॒सुराऽऽर्त्वि॑जीन॒ एकं॑ च) ॥२॥
तस्यग्रहविशेषाः
दे॒वा वै यद॒न्यैर्ग्रहै᳚र्य॒ज्ञस्य॒ नावारु॑न्धत⁠। तद॑तिग्रा॒ह्यै॑रति॒गृह्यावा॑रुन्धत⁠। तद॑तिग्रा॒ह्या॑णामतिग्राह्य॒त्वम्⁠॥ यद॑तिग्रा॒ह्या॑ गृ॒ह्यन्ते᳚⁠। यदे॒वान्यैर्ग्रहै᳚र् य॒ज्ञस्य॒ नाव॑रु॒न्धे⁠। तदे॒व तैर॑ति॒गृह्याव॑रुन्धे⁠॥ पञ्च॑ गृह्यन्ते⁠। पाङ्क्तो॑ य॒ज्ञः⁠। यावा॑ने॒व य॒ज्ञः⁠। तमा॒प्त्वाऽव॑रुन्धे⁠ ॥ [१५] (१०) सर्व॑ ऐ॒न्द्रा भ॑वन्ति⁠। ए॒क॒धैव यज॑मान इन्द्रि॒यं द॑धति⁠॥ स॒प्तद॑श प्राजाप॒त्या ग्रहा॑ गृह्यन्ते⁠। स॒प्त॒द॒शः प्र॒जाप॑तिः⁠। प्र॒जाप॑ते॒राप्त्यै᳚⁠॥ एक॑य॒र्चा गृ॑ह्णाति⁠। ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति⁠॥ सो॒म॒ग्र॒हाꣴश्च॑ सुराग्र॒हाꣴश्च॑ गृह्णाति⁠। ए॒तद् वै दे॒वानां᳚ पर॒ममन्न᳚म्⁠। यथ् सोमः॑⁠ ॥ [१६] (१०) ए॒तन् म॑नु॒ष्या॑णाम्⁠। यथ् सुरा᳚⁠। प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑रुन्धे⁠॥ सो॒म॒ग्र॒हान् गृ॑ह्णाति⁠। ब्रह्म॑णो॒ वा ए॒तत् तेजः॑⁠। यथ् सोमः॑⁠। ब्रह्म॑ण ए॒व तेज॑सा॒ तेजो॒ यज॑माने दधाति⁠। सु॒रा॒ग्र॒हान् गृ॑ह्णाति⁠। अन्न॑स्य॒ वा ए॒तच्छम॑लम्⁠। यथ् सुरा᳚⁠ ॥ [१७] (१०) अन्न॑स्यै॒व शम॑लेन॒ शम॑ल॒य्ँयज॑माना॒दप॑हन्ति⁠॥ सो॒म॒ग्र॒हाꣴश्च॑ सुराग्र॒हाꣴश्च॑ गृह्णाति⁠। पुमा॒न्॒‌वै सोमः॑⁠। स्त्री सुरा᳚⁠। तन् मि॑थु॒नम्⁠। मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय⁠। आ॒त्मान॑मे॒व सो॑मग्र॒हैः स्पृ॑णोति⁠। जा॒याꣳ सु॑रा ग्र॒हैः⁠। तस्मा᳚द्वाजपेयया॒ज्य॑मुष्मि॑ल्लोँ॒के स्त्रिय॒ꣳ॒ संभ॑वति⁠। वा॒ज॒पेया॑भिजित॒ꣴ॒ ह्य॑स्य⁠ ॥ [१८] (१०) पूर्वे॑ सोमग्र॒हा गृ॑ह्यन्ते⁠। अप॑रे सुराग्र॒हाः⁠। पु॒रो॒ख्‍षꣳ सो॑मग्र॒हान्थ् सा॑दयति⁠। प॒श्चा॒द॒ख्‍षꣳ सु॑राग्र॒हान्⁠। पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै⁠॥ ए॒ष वै यज॑मानः⁠। यथ् सोमः॑⁠। अन्न॒ꣳ॒ सुरा᳚⁠। सो॒म॒ग्र॒हाꣴश्च॑ सुराग्र॒हाꣴश्च॒ व्यति॑षजति⁠। अ॒न्नाद्ये॑नै॒वैन॒व्ँव्यति॑षजति⁠ ॥ [१९] (१०) स॒पृंचः॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृ॒ङ्क्तेत्या॑ह⁠। अन्न॒व्ँवै भ॒द्रम्⁠। अ॒न्नाद्ये॑नै॒वैन॒ꣳ॒ सꣳसृ॑जति⁠॥ अन्न॑स्य॒ वा ए॒तच्छम॑लम्⁠। यथ् सुरा᳚⁠। पा॒प्मेव॒ खलु॒ वै शम॑लम्⁠। पा॒प्मना॒ वा ए॑नमे॒तच्छम॑लेन॒ व्यति॑षजति⁠। यथ् सो॑मग्र॒हाꣴश्च॑ सुराग्र॒हाꣴश्च॑ व्यति॒षज॑ति⁠॥ वि॒पृचः॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृ॒ङ्क्तेत्या॑ह⁠। पा॒प्मनै॒वैन॒ꣳ॒ शम॑लेन॒ व्याव॑र्तयति⁠ ॥ [२०] (१०) तस्मा᳚द् वाजपेयया॒जी पू॒तो मेद्ध्यो॑ दख्‍षि॒ण्यः॑⁠॥ प्राङुद्द्र॑वति सोमग्र॒हैः⁠। अ॒मुमे॒व तैर् लो॒कम॒भिज॑यति⁠। प्र॒त्यङ्ख्सु॑रा ग्र॒हैः⁠। इ॒ममे॒व तैर् लो॒कम॒भिज॑यति⁠॥ प्रति॑ष्ठन्ति सोमग्र॒हैः⁠। याव॑दे॒व स॒त्यम्⁠। तेन॑ सूयते⁠॥ वा॒ज॒सृद्भ्यः॑ सुराग्र॒हान्‌ह॑रन्ति⁠। अनृ॑तेनै॒व विश॒ꣳ॒ सꣳसृ॑जति⁠॥ हि॒र॒ण्य॒पा॒त्रं मधोः᳚ पू॒र्णं द॑दाति⁠। म॒ध॒व्यो॑ऽसा॒नीति॑⁠॥ ए॒क॒धा ब्र॒ह्मण॒ उप॑ हरति⁠। ए॒क॒धैव यज॑मान॒ आयु॒स्तेजो॑ दधाति⁠ ॥ [२१] (१४) (आ॒प्त्वाऽव॑रुन्धे॒ सोमः॒ शम॑लं॒ यथ् सुरा॒ ह्य॑स्यैन॒व्ँव्यति॑षजति॒ व्याव॑र्तयति सृजति च॒त्वारि॑ च) ॥३॥
पशवः सप्तदश
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। नाग्नि॑ष्टो॒मो नोक्थ्यः॑⁠। न षो॑ड॒शी नाति॑रा॒त्रः⁠। अथ॒ कस्मा᳚द् वाज॒पेये॒ सर्वे॑ यज्ञक्र॒तवोऽव॑रुद्ध्यन्त॒ इति॑⁠। प॒शुभि॒रिति॑ ब्रूयात्⁠॥ आ॒ग्ने॒यं प॒शुमाल॑भते⁠। अ॒ग्नि॒ष्टो॒ममे॒व तेनाव॑रुन्धे⁠। ऐ॒न्द्रा॒ग्नेनो॒क्थ्य᳚म्⁠। ऐ॒न्द्रेण॑ षोड॒शिनः॑ स्तो॒त्रम्⁠। सा॒र॒स्व॒त्याऽति॑रा॒त्रम्⁠ ॥ [२२] (१०) मा॒रु॒त्या बृ॑ह॒तः स्तो॒त्रम्⁠। ए॒ताव॑न्तो॒ वै य॑ज्ञक्र॒तवः॑⁠। तान् प॒शुभि॑रे॒वाव॑रुन्धे⁠॥ आ॒त्मान॑मे॒व स्पृ॑णोत्यग्निष्टो॒मेन॑⁠। प्रा॒णा॒पा॒नावु॒क्थ्ये॑न⁠। वी॒र्य॑ꣳ षोड॒शिनः॑ स्तो॒त्रेण॑⁠। वाच॑मतिरा॒त्रेण॑⁠। प्र॒जां बृ॑ह॒तः स्तो॒त्रेण॑⁠। इ॒ममे॒व लो॒कम॒भि ज॑यत्यग्निष्टो॒मेन॑⁠। अ॒न्तरि॑ख्‍षमु॒क्थ्ये॑न⁠ ॥ [२३] (१०) सु॒व॒र्गल्ँलो॒कꣳ षो॑ड॒शिनः॑ स्तो॒त्रेण॑⁠। दे॒व॒याना॑ने॒व प॒थ आरो॑हत्यतिरा॒त्रेण॑⁠। नाक॑ꣳ रोहति बृह॒तः स्तो॒त्रेण॑⁠। तेज॑ ए॒वात्मन् ध॑त्त आग्ने॒येन॑ प॒शुना᳚⁠। ओजो॒ बल॑मैन्द्रा॒ग्नेन॑⁠। इ॒न्द्रि॒यमै॒न्द्रेण॑⁠। वाच॑ꣳ सारस्व॒त्या⁠। उ॒भावे॒व दे॑वलो॒कं च॑ मनुष्यलो॒कं चा॒भिज॑यति मारु॒त्या व॒शया᳚⁠॥ स॒प्तद॑श प्राजाप॒त्यान् प॒शूनाल॑भते⁠। स॒प्त॒द॒शः प्र॒जाप॑तिः⁠ ॥ [२४] (१०) प्र॒जाप॑ते॒राप्त्यै᳚⁠॥ श्या॒मा एक॑रूपा भवन्ति⁠। ए॒वमि॑व॒ हि प्र॒जाप॑तिः॒ समृ॑द्ध्यै⁠॥ तान् पर्य॑ग्निकृता॒नुथ्सृ॑जति⁠॥ म॒रुतो॑ य॒ज्ञम॑जिघाꣳसन् प्र॒जाप॑तेः⁠। तेभ्य॑ ए॒तां मा॑रु॒तीव्ँव॒शामाल॑भत⁠। तयै॒वैना॑नशमयत्⁠॥ मा॒रु॒त्या प्र॒चर्य॑⁠। ए॒तान्थ् संज्ञ॑पयेत्⁠। म॒रुत॑ ए॒व श॑मयि॒त्वा⁠ ॥ [२५] (१०) ए॒तैः प्रच॑रति⁠। य॒ज्ञस्याघा॑ताय⁠॥ ए॒क॒धा व॒पा जु॑होति⁠। ए॒क॒दे॒व॒त्या॑ हि⁠। ए॒ते⁠। अथो॑ एक॒धैव यज॑माने वी॒र्यं॑ दधाति⁠॥ नै॒वा॒रेण॑ स॒प्तद॑शशरावेणै॒तर्‌हि॒ प्रच॑रति⁠। ए॒तत् पु॑रोडाशा॒ ह्ये॑ते⁠। अथो॑ पशू॒नामे॒व छि॒द्रमपि॑दधाति⁠॥ सा॒र॒स्व॒त्योत्त॒मया॒ प्रच॑रति⁠। वाग् वै सर॑स्वती⁠। तस्मा᳚त् प्रा॒णाना॒व्ँवागु॑त्त॒मा⁠। अथो᳚ प्र॒जाप॑तावे॒व य॒ज्ञं प्रति॑ष्ठापयति⁠। प्र॒जाप॑ति॒र्॒‌हि वाक्⁠॥ अप॑न्नदती भवति⁠। तस्मा᳚न्मनु॒ष्याः᳚ सर्वा॒व्ँवाच॑व्ँवदन्ति⁠ ॥ [२६] (१६) (अ॒ति॒रा॒त्र म॒न्तरि॑ख्‍षमु॒क्थ्ये॑न प्र॒जाप॑तिः शमयि॒त्वोत् त॒मया॒ प्रच॑रति॒ षट् च॑) ॥४॥
रथयाजनम्
सा॒वि॒त्रं जु॑होति॒ कर्म॑णः कर्मणः पु॒रस्ता᳚त्⁠॥ कस्तद्वे॒देत्या॑हुः⁠। यद्वा॑ज॒पेय॑स्य॒ पूर्व॒य्ँयदप॑र॒मिति॑⁠। स॒वि॒तृप्र॑सूत ए॒व य॑थापू॒र्वं कर्मा॑णि करोति⁠॥ सव॑ने सवने जुहोति⁠। आ॒क्रम॑णमे॒व तथ् सेतु॒य्ँयज॑मानः कुरुते⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠॥ वा॒चस्पति॒र्वाच॑म॒द्य स्व॑दाति न॒ इत्या॑ह⁠। वाग्वै दे॒वानां᳚ पु॒राऽन्न॑मासीत्⁠। वाच॑मे॒वास्मा॒ अन्न॑ꣴ स्वदयति⁠ ॥ [२७] (१०) इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै⁠॥ वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमित्या॑ह⁠। यच्चै॒वेयम्⁠। यच्चा॒स्यामधि॑⁠। तदे॒वाव॑रुन्धे⁠। अथो॒ तस्मि॑न्ने॒वोभये॒ऽभिषि॑च्यते⁠॥ अ॒फ्स्व॑न्तर॒मृत॑म॒फ्सु भे॑ष॒जमित्यश्वा᳚न् पल्पूलयति⁠। अ॒फ्सु वा अश्व॑स्य॒ तृती॑यं॒ प्रवि॑ष्टम्⁠। तद॑नु॒वेन॒न्वव॑प्लवते⁠। यद॒फ्सु प॑ल्पू॒लय॑ति⁠ ॥ [२८] (१०) यदे॒वास्या॒फ्सु प्रवि॑ष्टम्⁠। तदे॒वाव॑रुन्धे⁠॥ ब॒हु वा अश्वो॑ऽमे॒द्ध्यमुप॑गच्छति⁠। यद॒फ्सु प॑ल्पू॒लय॑ति⁠। मेद्ध्या॑ने॒वैना᳚न् करोति⁠॥ वा॒युर्वा᳚ त्वा॒ मनु॑र्वा॒ त्वेत्या॑ह⁠। ए॒ता वा ए॒तं दे॒वता॒ अग्रे॒ अश्व॑मयुञ्जन्न्⁠। ताभि॑रे॒वैना॑न्‌युनक्ति⁠। स॒वस्योज्जि॑त्यै⁠॥ यजु॑षा युनक्ति॒ व्यावृ॑त्त्यै⁠ ॥ [२९] (१०) अपां᳚ न पादाशुहेम॒न्निति॒ संमा᳚र्ष्टि⁠। मेद्ध्या॑ने॒वैना᳚न् करोति⁠। अथो॒ स्तौत्ये॒वैना॑ना॒जिꣳ स॑रिष्य॒तः⁠॥ वि॒ष्णु॒ क्र॒मान् क्र॑मते⁠। विष्णु॑रे॒व भू॒त्वेमाल्लोँ॒कान॒भिज॑यति⁠॥ वै॒श्व॒दे॒वो वै रथः॑⁠। अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथ॒य्ँयावित्या॑ह⁠। या ए॒व दे॒वता॒ रथे॒ प्रवि॑ष्टाः⁠। ताभ्य॑ ए॒व नम॑स्करोति⁠। आ॒त्मनोऽना᳚र्त्यै⁠॥ अश॑मरथं भावुकोऽस्य॒ रथो॑ भवति⁠। य ए॒वव्ँवेद॑⁠ ॥ [३०] (१२) (स्व॒द॒य॒ति॒ प॒ल्पू॒लय॑ति॒ व्यावृ॑त्त्या॒ अना᳚र्त्यै॒ द्वे च॑) ॥५॥
रथधावनम्
दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाजं॑ जेष॒मित्या॑ह⁠। स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वाज॒मुज्ज॑यति⁠॥ दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्‌षि॑ष्ठं॒ नाक॑ꣳ रुहेय॒मित्या॑ह⁠। स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वर्‌षि॑ष्ठं॒ नाक॑ꣳ रोहति⁠॥ चात्वा॑ले रथच॒क्रं निमि॑तꣳ रोहति⁠। अतो॒ वा अङ्गि॑रस उत्त॒माः सु॑व॒र्गल्ँलो॒कमा॑यन्न्⁠। सा॒ख्‍षादे॒व यज॑मानः सुव॒र्गल्ँलो॒कमे॑ति⁠॥ आवे᳚ष्टयति⁠। वज्रो॒ वै रथः॑⁠। वज्रे॑णै॒व दिशो॒ऽभिज॑यति⁠ ॥ [३१] (१०) वा॒जिना॒ꣳ॒ साम॑ गायते⁠। अन्न॒व्ँवै वाजः॑⁠। अन्न॑मे॒वाव॑रुन्धे⁠॥ वा॒चो वर्ष्म॑ दे॒वेभ्योऽपा᳚क्रामत्⁠। तद्वन॒स्पती॒न् प्रावि॑शत्⁠। सैषा वाग्वन॒स्पति॑षु वदति⁠। या दु॑न्दु॒भौ⁠। तस्मा᳚द्दुन्दु॒भिः सर्वा॒ वाचोति॑ वदति⁠॥ दु॒न्दु॒भीन्थ् स॒माघ्न॑न्ति⁠। प॒र॒मा वा ए॒षा वाक्⁠ ॥ [३२] (१०) या दु॑न्दु॒भौ⁠। प॒र॒मयै॒व वा॒चाऽव॑रा॒व्ँवाच॒मव॑रुन्धे⁠। अथो॑ वा॒च ए॒व वर्ष्म॒ यज॑मा॒नोऽव॑रुन्धे⁠॥ इन्द्रा॑य॒ वाच॑व्ँवद॒तेन्द्र॒व्ँवाजं॑ जापय॒तेन्द्रो॒ वाज॑मजयि॒दित्या॑ह⁠। ए॒ष वा ए॒तर्‌हीन्द्रः॑⁠। यो यज॑ते⁠। यज॑मान ए॒व वाज॒मुज्ज॑यति⁠॥ स॒प्तद॑श प्रव्या॒धाना॒जिं धा॑वन्ति⁠। स॒प्त॒द॒शꣴ स्तो॒त्रं भ॑वति⁠। स॒प्तद॑श सप्तदश दीयन्ते⁠ ॥ [३३] (१०) स॒प्त॒द॒शः प्र॒जाप॑तिः⁠। प्र॒जाप॑ते॒राप्त्यै᳚⁠॥ अर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह⁠। अ॒ग्निर्वा अर्वा᳚⁠। वा॒युः सप्तिः॑⁠। आ॒दि॒त्यो वा॒जी⁠। ए॒ताभि॑रे॒वास्मै॑ दे॒वता॑भिर्देवर॒थय्ँयु॑नक्ति⁠॥ प्र॒ष्टि॒वा॒हिन॑य्ँयुनक्ति⁠। प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः⁠। दे॒व॒र॒थमे॒वास्मै॑ युनक्ति⁠ ॥ [३४] (१०) वाजि॑नो॒ वाजं॑ धावत॒ काष्ठां᳚ गच्छ॒तेत्या॑ह⁠। सु॒व॒र्गो वै लो॒कः काष्ठा᳚⁠। सु॒व॒र्गमे॒व लो॒कय्ँय॑न्ति⁠॥ सु॒व॒र्गव्ँवा ए॒ते लो॒कय्ँय॑न्ति⁠। य आ॒जिं धाव॑न्ति⁠॥ प्राञ्चो॑ धावन्ति⁠। प्राङि॑व॒ हि सु॑व॒र्गो लो॒कः⁠॥ च॒त॒सृभि॒रनु॑ मन्त्रयते⁠। च॒त्वारि॒ छन्दा॑ꣳसि⁠। छन्दो॑भिरे॒वैना᳚न्थ् सुव॒र्गल्ँलो॒कं ग॑मयति⁠ ॥ [३५] (१०) प्र वा ए॒ते᳚ऽस्माल्लो॒काच्च्य॑वन्ते⁠। य आ॒जिं धाव॑न्ति⁠। उद॑ञ्च॒ आव॑र्तन्ते⁠। अ॒स्मादे॒व तेन॑ लो॒कान्नय॑न्ति⁠॥ र॒थ॒वि॒मो॒च॒नीयं॑ जुहोति॒ प्रति॑ष्ठित्यै⁠॥ आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दित्या॑ह⁠। अन्न॒व्ँवै वाजः॑⁠। अन्न॑मे॒वाव॑रुन्धे⁠॥ य॒था॒लो॒कव्ँवा ए॒त उज्ज॑यन्ति⁠। य आ॒जिं धाव॑न्ति⁠ ॥ [३६] (१०) कृ॒ष्णलं॑ कृष्णलव्ँवाज॒सृद्भ्यः॒ प्रय॑च्छति⁠। यमे॒व ते वाज॑ल्ँलो॒कमु॒ज्जय॑न्ति⁠। तं प॑रि॒क्रीयाव॑रुन्धे⁠॥ ए॒क॒धा ब्र॒ह्मण॒ उप॑हरति⁠। ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति⁠॥ दे॒वा वा ओष॑धीष्वा॒जिम॑युः⁠। ता बृह॒स्पति॒रुद॑जयत्⁠। स नी॒वारा॒न्निर॑वृणीत⁠। तन्नी॒वारा॑णां नीवार॒त्वम्⁠॥ नै॒वा॒रश्च॒रुर्भ॑वति⁠ ॥ [३७] (१०) ए॒तद्वै दे॒वानां᳚ पर॒ममन्न᳚म्⁠। यन्नी॒वाराः᳚⁠। प॒र॒मेणै॒वास्मा॑ अ॒न्नाद्ये॒नाव॑रम॒न्नाद्य॒मव॑रुन्धे⁠॥ स॒प्तद॑शशरावो भवति⁠। स॒प्त॒द॒शः प्र॒जाप॑तिः⁠। प्र॒जाप॑ते॒राप्त्यै᳚⁠॥ ख्‍षी॒रे भ॑वति⁠। रुच॑मे॒वास्मि॑न्दधाति⁠॥ स॒र्पिष्वा᳚न् भवति मेद्ध्य॒त्वाय॑⁠॥ बा॒र्॒‌ह॒स्प॒त्यो वा ए॒ष दे॒वत॑या⁠ ॥ [३८] (१०) यो वा॑ज॒पेये॑न॒ यज॑ते⁠। बा॒र्॒‌ह॒स्प॒त्य ए॒ष च॒रुः⁠॥ अश्वा᳚न्थ्सरिष्य॒तः स॒स्रुष॒श्चाव॑घ्रापयति⁠। यमे॒व ते वाज॑ल्ँलो॒कमु॒ज्जय॑न्ति⁠। तमे॒वाव॑रुन्धे⁠॥ अजी॑जिपत वनस्पतय॒ इन्द्र॒व्ँवाज॒व्ँविमु॑च्यद्ध्व॒मिति॑ दुन्दु॒भीन्‌विमु॑ञ्चति⁠। यमे॒व ते वाज॑ल्ँलो॒कमि॑न्द्रि॒यं दु॑न्दु॒भय॑ उ॒ज्जय॑न्ति⁠। तमे॒वाव॑रुन्धे⁠ ॥ [३९] (८) (अ॒भिज॑यति॒ वा ए॒षा वाग् दी॑यन्ते ऽस्मै युनक्ति गमयति॒ य आ॒जिं धाव॑न्ति भवति दे॒वत॑या॒ +ऽष्टौ च॑) ॥६॥
यूपारोहणम्
ता॒र्प्यय्ँयज॑मानं॒ परि॑धापयति⁠। य॒ज्ञो वै ता॒र्प्यम्⁠। य॒ज्ञेनै॒वैन॒ꣳ॒ सम॑र्द्धयति⁠। द॒र्भ॒मयं॒ परि॑धापयति⁠। प॒वित्र॒व्ँवै द॒र्भाः⁠। पु॒नात्ये॒वैन᳚म्⁠। वाज॒व्ँवा ए॒षोऽव॑रुरुथ्सते⁠। यो वा॑ज॒पेये॑न॒ यज॑ते⁠। ओष॑धयः॒ खलु॒ वै वाजः॑⁠। यद्द॑र्भ॒मयं॑ परिधा॒पय॑ति⁠ ॥ [४०] (१०) वाज॒स्याव॑रुद्ध्यै⁠॥ जाय॒ एहि॒ सुवो॒ रोहा॒वेत्या॑ह⁠। पत्नि॑या ए॒वैष य॒ज्ञस्या᳚न्वार॒म्भोऽन॑वच्छित्यै⁠॥ स॒प्तद॑शारत्नि॒र्यूपो॑ भवति⁠। स॒प्त॒द॒शः प्र॒जाप॑तिः⁠। प्र॒जाप॑ते॒राप्त्यै᳚⁠॥ तू॒प॒रश्चतु॑रश्रिर्भवति⁠॥ गौ॒धू॒मं च॒षाल᳚म्⁠। न वा ए॒ते व्री॒हयो॒ न यवाः᳚⁠। यद्गो॒धूमाः᳚⁠ ॥ [४१] (१०) ए॒वमि॑व॒ हि प्र॒जाप॑तिः॒ समृ॑द्ध्यै⁠। अथो॑ अ॒मुमे॒वास्मै॑ लो॒कमन्न॑वन्तं करोति⁠॥ वासो॑भिर्वेष्टयति⁠। ए॒ष वै यज॑मानः⁠। यद्यूपः॑⁠। स॒र्व॒दे॒व॒त्य॑व्ँवासः॑⁠। सर्वा॑भिरे॒वैनं॑ दे॒वता॑भिः॒ सम॑र्द्धयति⁠। अथो॑ आ॒क्रम॑णमे॒व तथ्सेतु॒य्ँयज॑मानः कुरुते⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠॥ द्वाद॑श वाजप्रस॒वीया॑नि जुहोति⁠ ॥ [४२] (१०) द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः⁠। स॒व्ँव॒थ्स॒रमे॒व प्री॑णाति⁠। अथो॑ सव्ँवथ्स॒रमे॒वास्मा॒ उप॑ दधाति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠॥ द॒शभिः॒ कल्पै॑ रोहति⁠। नव॒ वै पुरु॑षे प्रा॒णाः⁠। नाभि॑र्दश॒मी⁠। प्रा॒णाने॒व य॑थास्था॒नं क॑ल्पयि॒त्वा⁠। सु॒व॒र्गल्ँलो॒कमे॑ति⁠। ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम्⁠ ॥ [४३] (१०) याव॑त्प्रा॒णाः⁠। याव॑दे॒वास्यास्ति॑⁠। तेन॑ स॒ह सु॑व॒र्गल्ँलो॒कमे॑ति⁠॥ सुव॑र्दे॒वाꣳ अ॑ग॒न्मेत्या॑ह⁠। सु॒व॒र्गमे॒व लो॒कमे॑ति⁠। अ॒मृता॑ अभू॒मेत्या॑ह⁠। अ॒मृत॑मिव॒ हि सु॑व॒र्गो लो॒कः⁠। प्र॒जाप॑तेः प्र॒जा अ॑भू॒मेत्या॑ह⁠। प्रा॒जा॒प॒त्यो वा अ॒यल्ँलो॒कः⁠। अ॒स्मादे॒व तेन॑ लो॒कान्नैति॑⁠ ॥ [४४] (१०) सम॒हं प्र॒जया॒ सं मया᳚ प्र॒जेत्या॑ह⁠। आ॒शिष॑मे॒वैतामाशा᳚स्ते⁠॥ आ॒स॒पु॒टैर् घ्न॑न्ति⁠। अन्न॒व्ँवा इ॒यम्⁠। अ॒न्नाद्ये॑नै॒वैन॒ꣳ॒ सम॑र्द्धयन्ति⁠। ऊषै᳚र् घ्नन्ति⁠। ए॒ते हि सा॒ख्‍षादन्न᳚म्⁠। यदूषाः᳚⁠। सा॒ख्‍षादे॒वैन॑म॒न्नाद्ये॑न॒ सम॑र्द्धयन्ति⁠॥ पु॒रस्ता᳚त्प्र॒त्यञ्चं᳚ घ्नन्ति⁠ ॥ [४५] (१०) पु॒रस्ता॒द्धि प्र॑ती॒चीन॒मन्न॑म॒द्यते᳚⁠॥ शी॒र्॒‌ष॒तो घ्न॑न्ति⁠। शी॒र्॒‌ष॒तो ह्यन्न॑म॒द्यते᳚⁠॥ दि॒ग्भ्यो घ्न॑न्ति⁠। दि॒ग्भ्य ए॒वास्मा॑ अ॒न्नाद्य॒मव॑रुन्धते⁠॥ ई॒श्व॒रो वा ए॒ष परा᳚ङ्प्र॒दघः॑⁠। यो यूप॒ꣳ॒ रोह॑ति⁠॥ हिर॑ण्यम॒द्ध्यव॑रोहति⁠। अ॒मृत॒व्ँवै हिर॑ण्यम्⁠। अ॒मृत॑ꣳ सुव॒र्गो लो॒कः⁠ ॥ [४६] (१०) अ॒मृत॑ ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठति⁠॥ श॒तमा॑नं भवति⁠। श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः⁠। आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति⁠॥ पुष्ट्यै॒ वा ए॒तद्रू॒पम्⁠। यद॒जा⁠। त्रिः स॑व्ँवथ्स॒रस्या॒न्यान्प॒शून् परि॒ प्रजा॑यते⁠॥ ब॒स्ता॒जि॒नम॒द्ध्यव॑ रोहति⁠। पुष्ट्या॑मे॒व प्र॒जन॑ने॒ प्रति॑तिष्ठति⁠ ॥ [४७] (९) ॥७॥
अन्नहोमाः, अभिषेकश्च
स॒प्तान्न॑हो॒माञ्जु॑होति⁠। स॒प्त वा अन्ना॑नि⁠। याव॑न्त्ये॒वान्ना॑नि⁠। तान्ये॒वाव॑रुन्धे⁠। स॒प्त ग्रा॒म्या ओष॑धयः⁠। स॒प्तार॒ण्याः⁠। उ॒भयी॑षा॒मव॑रुद्ध्यै⁠॥ अन्न॑स्यान्नस्य जुहोति⁠। अन्न॑स्यान्न॒स्याव॑रुद्ध्यै⁠॥ यद्वा॑जपेयया॒ज्यन॑वरुद्धस्याश्ञी॒यात्⁠ ॥ [४८] (१०) अव॑रुद्धेन॒ व्यृ॑द्ध्येत⁠। सर्व॑स्य समव॒दाय॑ जुहोति⁠। अन॑वरुद्ध॒स्याव॑रुद्ध्यै⁠॥ औदु॑म्बरेण स्रु॒वेण॑ जुहोति⁠। ऊर्ग्वा अन्न॑मुदु॒म्बरः॑⁠। ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै⁠॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह⁠। स॒वि॒तृ प्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भिर॒भिषि॑ञ्चति⁠॥ अन्न॑स्यान्नस्या॒भिषि॑ञ्चति⁠। अन्न॑स्यान्न॒स्याव॑रुद्ध्यै⁠ ॥ [४९] (१०) पु॒रस्ता᳚त्प्र॒त्यञ्च॑म॒भिषि॑ञ्चति⁠। पु॒रस्ता॒द्धिप्र॑ती॒चीन॒मन्न॑म॒द्यते᳚⁠। शी॒र्॒‌ष॒तो॑ऽभिषि॑ञ्चति⁠। शी॒र्॒‌ष॒तो ह्यन्न॑म॒द्यते᳚⁠॥ आमुखा॑द॒न्वव॑ स्रावयति⁠। मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधाति⁠॥ अ॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह⁠। ए॒ष वा अ॒ग्नेः स॒वः⁠। तेनै॒वैन॑म॒भिषि॑ञ्चति⁠। इन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह⁠ ॥ [५०] (१०) इ॒न्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति⁠। बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह⁠। ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑⁠। ब्रह्म॑णै॒वैन॑म॒भिषि॑ञ्चति⁠॥ सो॒म॒ग्र॒हाꣴश्चा॑वदानी॒यानि॑ च॒र्त्विग्भ्य॒ उप॑ हरन्ति⁠। अ॒मुमे॒व तैर् लो॒कमन्न॑वन्तं करोति⁠। सु॒रा॒ग्र॒हाꣴश्चा॑नवदानी॒यानि॑ च वाज॒सृद्भ्यः॑⁠। इ॒ममे॒व तैर् लो॒कमन्न॑वन्तं करोति⁠। अथो॑ उ॒भयी᳚ष्वे॒वाभिषि॑च्यते⁠॥ वि॒मा॒थं कु॑र्वते वाज॒सृतः॑⁠ ॥ [५१] (१०) इ॒न्द्रि॒यस्याव॑रुद्ध्यै⁠॥ अनि॑रुक्ताभिः प्रातस्सव॒ने स्तु॑वते⁠। अनि॑रुक्तः प्र॒जाप॑तिः⁠। प्र॒जाप॑ते॒राप्त्यै᳚⁠। वाज॑वतीभि॒र्माद्ध्य॑न्दिने⁠। अन्न॒व्ँवै वाजः॑⁠। अन्न॑मे॒वाव॑रुन्धे⁠। शि॒पि॒वि॒ष्टव॑तीभिस्तृतीयसव॒ने⁠। य॒ज्ञो वै विष्णुः॑⁠। प॒शवः॒ शिपिः॑⁠। य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति⁠॥ बृ॒हदन्त्यं॑ भवति⁠। अन्त॑मे॒वैन॑ꣴ श्रि॒यै ग॑मयति⁠ ॥ [५२] (१३) (अ॒श्ञी॒या दन्न॑स्यान्न॒स्या व॑रुद्ध्या॒ इन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒ मीत्या॑हवाज॒सृतः॒ शिपि॒ स्त्रीणि॑ च) ॥८॥
अतिग्राह्याः, पञ्चैन्द्राः
नृ॒षदं॒ त्वेत्या॑ह⁠। प्र॒जा वै नॄन्⁠। प्र॒जाना॑मे॒वैतेन॑ सूयते⁠। द्रु॒षद॒मित्या॑ह⁠। वन॒स्पत॑यो॒ वै द्रु⁠। वन॒स्पती॑नामे॒वै तेन॑ सूयते⁠। भु॒व॒न॒सद॒मित्या॑ह⁠। य॒दा वै वसी॑या॒न् भव॑ति⁠। भुव॑नमग॒न्निति॒ वै तमा॑हुः⁠। भुव॑नमे॒वैतेन॑ गच्छति⁠ ॥ [५३] (१०) अ॒फ्सु॒षदं॑ त्वा घृत॒सद॒मित्या॑ह⁠। अ॒पामे॒वैतेन॑ घृ॒तस्य॑ सूयते⁠। व्यो॒म॒सद॒मित्या॑ह⁠। य॒दा वै वसी॑या॒न् भव॑ति⁠। व्यो॑माग॒न्निति॒ वै तमा॑हुः⁠। व्यो॑मै॒वैतेन॑ गच्छति⁠॥ पृ॒थि॒वि॒षदं॑ त्वाऽन्तरिख्‍ष॒सद॒मित्या॑ह⁠। ए॒षामे॒वैतेन॑ लो॒काना॑ꣳ सूयते⁠। तस्मा᳚द् वाजपेयया॒जी न कं च॒न प्र॒त्यव॑रोहति⁠। अपी॑व॒ हि दे॒वता॑नाꣳ सू॒यते᳚⁠ ॥ [५४] (१०) ना॒क॒सद॒मित्या॑ह⁠। य॒दावै वसी॑या॒न् भव॑ति⁠। नाक॑मग॒न्निति॒ वै तमा॑हुः⁠। नाक॑मे॒वैतेन॑ गच्छति⁠॥ ये ग्रहाः᳚ पञ्चज॒नीना॒ इत्या॑ह⁠। प॒ञ्च॒ज॒नाना॑मे॒वैतेन॑ सूयते⁠॥ अ॒पाꣳ रस॒मुद्व॑यस॒मित्या॑ह⁠। अ॒पामे॒वैतेन॒ रस॑स्य सूयते⁠। सूर्य॑रश्मिꣳ स॒माभृ॑त॒मित्या॑ह सशुक्र॒त्वाय॑⁠ ॥ [५५] (९) (ग॒च्छ॒ति॒ सू॒यते॒ +नव॑ च) ॥९॥
पिण्डपितृयज्ञः दर्शपूर्णमासब्राह्मणशेषः
इन्द्रो वृ॒त्रꣳ ह॒त्वा⁠। असु॑रान् परा॒भाव्य॑⁠। सो॑ऽमावा॒स्यां᳚ प्रत्याग॑च्छत्⁠। ते पि॒तरः॑ पूर्वे॒द्युराग॑च्छन्न्⁠। पि॒तॄन्‌य॒ज्ञो॑ऽगच्छत्⁠। तं दे॒वाः पुन॑रयाचन्त⁠। तमे᳚भ्यो॒ न पुन॑रददुः⁠। ते᳚ऽब्रुव॒न् वर॑व्ँवृणामहै⁠। अथ॑ वः॒ पुन॑र्दास्यामः⁠। अ॒स्मभ्य॑मे॒व पू᳚र्वे॒द्युः क्रि॑याता॒ इति॑⁠ ॥ [५६] (१०) तमे᳚भ्यः॒ पुन॑रददुः⁠। तस्मा᳚त्पि॒तृभ्यः॑ पूर्वे॒द्युः क्रि॑यते⁠। यत् पि॒तृभ्यः॑ पूर्वे॒द्युः क॒रोति॑⁠। पि॒तृभ्य॑ ए॒व तद्य॒ज्ञं नि॒ष्क्रीय॒ यज॑मानः॒ प्रत॑नुते⁠॥ सोमा॑य पि॒तृपी॑ताय स्व॒धा नम॒ इत्या॑ह⁠। पि॒तुरे॒वाधि॑ सोमपी॒थमव॑ रुन्धे⁠। न हि पि॒ता प्र॒मीय॑माण॒ आहै॒ष सो॑मपी॒थ इति॑⁠। इ॒न्द्रि॒यव्ँवै सो॑मपी॒थः⁠। इ॒न्द्रि॒यमे॒व सो॑मपी॒थमव॑रुन्धे⁠। तेन᳚न्द्रि॒येण॑ द्वि॒तीयां᳚ जा॒याम॒भ्य॑श्ञुते⁠ ॥ [५७] (१०) ए॒तद् वै ब्राह्म॑णं पु॒रा वा॑जश्रव॒सा वि॒दाम॑क्रन्न्⁠। तस्मा॒त् ते द्वेद्वे॑ जा॒ये अ॒भ्या᳚ख्‍षत⁠। य ए॒वव्ँवेद॑⁠। अ॒भि द्वि॒तीयां᳚ जा॒याम॑श्ञुते⁠॥ अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा नम॒ इत्या॑ह⁠। य ए॒व पि॑तृ॒णाम॒ग्निः⁠। तं प्री॑णाति⁠॥ ति॒स्र आहु॑तीर् जुहोति⁠॥ त्रिर्निद॑धाति⁠॥ षट्थ् संप॑द्यन्ते⁠ ॥ [५८] (१०) षड्वा ऋ॒तवः॑⁠। ऋ॒तूने॒व प्री॑णाति⁠॥ तू॒ष्णीं मेख्‍ष॑ण॒माद॑धाति⁠। अस्ति॑ वा॒ हि ष॒ष्ठ ऋ॒तुर्न वा᳚⁠॥ दे॒वान्‌वै पि॒तॄन् प्री॒तान्⁠। म॒नु॒ष्याः᳚ पि॒तरोऽनु॒ प्रपि॑पते⁠। ति॒स्र आहु॑तीर् जुहोति⁠। त्रिर्निद॑धाति⁠। षट्थ् संप॑द्यन्ते⁠। षड्वा ऋ॒तवः॑⁠ ॥ [५९] (१०) ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तरः॑⁠। ऋ॒तूने॒व दे॒वान् पि॒तॄन् प्री॑णाति⁠। तान्प्री॒तान्⁠। म॒नु॒ष्याः᳚ पि॒तरोऽनु॒ प्रपि॑पते⁠॥ स॒कृ॒दा॒च्छि॒न्नं ब॒र्॒‌हिर् भ॑वति⁠। स॒कृदि॑व॒ हि पि॒तरः॑⁠॥ त्रिर्निद॑धाति⁠। तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑⁠। ताने॒व प्री॑णाति⁠॥ परा॒ङाव॑र्तते⁠ ॥ [६०] (१०) ह्लीका॒ हि पि॒तरः॑⁠॥ ओष्मणो᳚ व्या॒वृत॒ उपा᳚स्ते⁠। ऊ॒ष्मभा॑गा॒ हि पि॒तरः॑⁠॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। प्राश्यां(३)न प्राश्या(३)मिति॑⁠। यत् प्रा᳚श्ञी॒यात्⁠। जन्य॒मन्न॑मद्यात्⁠। प्र॒मायु॑कः स्यात्⁠। यन्न प्रा᳚श्ञी॒यात्⁠। अह॑विः स्यात्⁠ ॥ [६१] (१०) पि॒तृभ्य॒ आवृ॑श्च्येत⁠। अ॒व॒घ्रेय॑मे॒व⁠। तन्नेव॒ प्राशि॑तं॒ नेवाप्रा॑शितम्⁠॥ वी॒रव्ँवा॒ वै पि॒तरः॑ प्र॒यन्तो॒ हर॑न्ति⁠। वी॒रव्ँवा॑ ददति⁠। द॒शां छि॑नत्ति⁠। हर॑णभागा॒ हि पि॒तरः॑⁠। पि॒तॄने॒व नि॒रव॑दयते⁠॥ उत्त॑र॒ आयु॑षि॒ लोम॑ छिन्दीत⁠। पि॒तृ॒णाꣴ ह्ये॑तर्‌हि॒ नेदी॑यः⁠ ॥ [६२] (१०) नम॑स्करोति⁠। न॒म॒स्का॒रो हि पि॑तृ॒णाम्⁠॥ नमो॑ वः पितरो॒ रसा॑य⁠। नमो॑ वः पितरः॒ शुष्मा॑य⁠। नमो॑ वः पितरो जी॒वाय॑⁠। नमो॑ वः पितरः स्व॒धायै᳚⁠। नमो॑ वः पितरो म॒न्यवे᳚⁠। नमो॑ वः पितरो घो॒राय॑⁠। पित॑रो॒ नमो॑ वः⁠। य ए॒तस्मि॑ल्ँलो॒के स्थ⁠ ॥ [६३] (१०) यु॒ष्माꣴस्तेऽनु॑⁠। ये᳚ऽस्मिल्लोँ॒के⁠। मां ते नु॑⁠। य ए॒तस्मि॑ल्लोँ॒के स्थ⁠। यू॒यं तेषा॒व्ँवसि॑ष्ठा भूयास्त⁠। ये᳚ऽस्मिल्लोँ॒के⁠। अ॒हं तेषा॒व्ँवसि॑ष्ठो भूयास॒मित्या॑ह⁠। वसि॑ष्ठः समा॒नानां᳚ भवति⁠। य ए॒वव्ँवि॒द्वान्पि॒तृभ्यः॑ क॒रोति॑⁠॥ ए॒ष वै म॑नु॒ष्या॑णाय्ँय॒ज्ञः⁠ ॥ [६४] (१०) दे॒वाना॒व्ँवा इत॑रे य॒ज्ञाः⁠। तेन॒ वा ए॒तत् पि॑तृलो॒के च॑रति⁠॥ यत् पि॒तृभ्यः॑ क॒रोति॑⁠। स ई᳚श्व॒रः प्रमे॑तोः⁠। प्रा॒जा॒प॒त्यय॒र्चा पुन॒रैति॑⁠। य॒ज्ञो वै प्र॒जाप॑तिः⁠। य॒ज्ञेनै॒व स॒ह पुन॒रैति॑⁠। न प्र॒मायु॑को भवति⁠॥ पि॒तृ॒लो॒के वा ए॒तद्यज॑मानश्चरति⁠। यत् पि॒तृभ्यः॑ क॒रोति॑⁠। स ई᳚श्व॒र आर्ति॒मार्तोः᳚⁠। प्र॒जाप॑ति॒स्त्वावैनं॒ तत॒ उन्ने॑तुमर्‌ह॒तीत्या॑हुः⁠। यत् प्रा॑जाप॒त्यय॒र्चा पुन॒रैति॑⁠। प्र॒जाप॑तिरे॒वैनं॒ तत॒ उन्न॑यति⁠। नार्ति॒मार्च्छ॑ति॒ यज॑मानः⁠ ॥ [६५] (१५) (इत्य॑ श्ञुते पद्यन्ते पद्यन्ते॒ षड्वा ऋ॒तवो॑ वर्त॒तेऽ ह॑विः स्या॒न् नेदी॑यः॒ स्थ य॒ज्ञो यज॑मानश्चरति॒ यत् पि॒तृभ्यः॑ क॒रोति॒ पञ्च॑ च) ॥१०॥
अनुवाकाः पञ्चशती
१० ६५