कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणम्
प्रथमाष्टके चतुर्थः प्रपाठकः

अष्टक १ प्रपाठक ४
सोमादिब्राह्मणं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
ग्रहणा ग्रहणम्
उ॒भये॒ वा ए॒ते प्र॒जाप॑ते॒रद्ध्य॑सृज्यन्त⁠। दे॒वाश्चासु॑राश्च⁠। तान्न व्य॑जानात्⁠। इ॒मे᳚ऽन्य इ॒मे᳚ऽन्य इति॑⁠। स दे॒वान॒ꣳ॒ शून॑करोत्⁠। तान॒भ्य॑षुणोत्⁠। तान् प॒वित्रे॑णापुनात्⁠। तान्प॒रस्ता᳚त्प॒वित्र॑स्य॒व्य॑गृह्णात्⁠। ते ग्रहा॑ अभवन्न्⁠। तद्ग्रहा॑णां ग्रह॒त्वम्⁠ ॥ [१] (१०) दे॒वता॒ वा ए॒ता यज॑मानस्य गृ॒हे गृ॑ह्यन्ते⁠। यद् ग्रहाः᳚⁠। वि॒दुरे॑नं दे॒वाः⁠। यस्यै॒वव्ँवि॒दुष॑ ए॒ते ग्रहा॑ गृ॒ह्यन्ते᳚⁠॥ ए॒षा वै सोम॒स्याहु॑तिः⁠। यदु॑पा॒ꣳ॒शुः⁠। सोमे॑न दे॒वाꣴ स्त॑र्पया॒णीति॒ खलु॒ वै सोमे॑न यजते⁠। यदु॑पा॒ꣳ॒शुं जु॒होति॑⁠। सोमे॑नै॒व तद्दे॒वाꣴ स्त॑र्पयति⁠॥ यद्ग्रहा᳚ञ्जु॒होति॑⁠ ॥ [२] (१०) दे॒वा ए॒व तद्दे॒वान्ग॑च्छन्ति⁠॥ यच्च॑म॒साञ्जु॒होति॑⁠। तेनै॒वानु॑रूपेण॒ यज॑मानः सुव॒र्गल्ँलो॒कमे॑ति⁠॥ किं न्वे॑तदग्र॑ आसी॒दित्या॑हुः⁠। यत् पात्रा॒णीति॑⁠। इ॒यव्ँवा ए॒तदग्र॑ आसीत्⁠। मृ॒न्मया॑नि॒ वा ए॒तान्या॑सन्न्⁠। तैर्दे॒वा न व्या॒वृत॑मगच्छन्न्⁠। त ए॒तानि॑ दारु॒मया॑णि॒ पात्रा᳚ण्यपश्यन्न्⁠। तान्य॑कुर्वत⁠ ॥ [३] (१०) तैर्वै ते व्या॒वृत॑मगच्छन्न्⁠। यद्दा॑रु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति⁠। व्या॒वृत॑मे॒व तैर् यज॑मानो गच्छति⁠॥ यानि॑ दारु॒मया॑णि॒ पात्रा॑णि॒ भव॑न्ति⁠। अ॒मुमे॒व तैर्लो॒कम॒भिज॑यति⁠। यानि॑ मृ॒न्मया॑नि⁠। इ॒ममे॒व तैर्लो॒कम॒भिज॑यति⁠॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। काश्चत॑स्रः स्था॒लीर्वा॑य॒व्याः᳚ सोम॒ग्रह॑णी॒रिति॑⁠। दे॒वा वै पृश्ञि॑मदुह्रन्न्⁠ ॥ [४] (१०) तस्या॑ ए॒ते स्तना॑ आसन्न्⁠। इ॒यव्ँवै पृश्ञिः॑⁠। तामा॑दि॒त्या आ॑दित्यस्था॒ल्या चतु॑ष्पदः प॒शून॑दुह्रन्न्⁠। यदा॑दित्यस्था॒ली भव॑ति⁠। चतु॑ष्पद ए॒व तया॑ प॒शून्‌यज॑मान इ॒मां दु॑हे⁠। तामिन्द्र॑ उक्थ्यस्था॒ल्येन्द्रि॒यम॑दुहत्⁠। यदु॑क्थ्यस्था॒ली भव॑ति⁠। इ॒न्द्रि॒यमे॒व तया॒ यज॑मान इ॒मां दु॑हे⁠। ताव्ँविश्वे॑ दे॒वा आ᳚ग्रयणस्था॒ल्योर्ज॑मदुह्रन्न्⁠। यदा᳚ग्रयणस्था॒ली भव॑ति⁠ ॥ [५] (१०) ऊर्ज॑मे॒व तया॒ यज॑मान इ॒मां दु॑हे⁠। तां म॑नु॒ष्या᳚द् ध्रुवस्था॒ल्याऽऽयु॑रदुह्रन्न्⁠। यद्ध्रु॑वस्था॒ली भव॑ति⁠। आयु॑रे॒व तया॒ यज॑मान इ॒मां दु॑हे⁠। स्था॒ल्या गृ॒ह्णाति॑⁠। वा॒य॒व्ये॑न जुहोति⁠। तस्मा॑द॒न्येन॒ पात्रे॑ण प॒शून् दु॒हन्ति॑⁠। अ॒न्येन॒ प्रति॑गृह्णन्ति⁠। अथो᳚ व्या॒वृत॑मे॒व तद्यज॑मानो गच्छति⁠ ॥ [६] (९) (ग्र॒ह॒त्वं ग्रहा᳚न् जु॒होत्य॑कुर्वतादुह्रन्नाग्रयणस्था॒ली भव॑ति॒+नव॑ च) ॥१॥
सोत्रामणीशेषा मन्त्राः
यु॒वꣳ सु॒राम॑मश्विना⁠। नमु॑चावाऽसु॒रे सचा᳚⁠। वि॒पि॒पा॒ना शु॑भस्पती⁠। इन्द्रं॒ कर्म॑स्वावतम्⁠॥ पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भा⁠। इन्द्राव॑तं॒ कर्म॑णा द॒ꣳ॒सना॑भिः⁠। यथ् सु॒राम॒व्ँव्यपि॑बः॒ शची॑भिः⁠। सर॑स्वती त्वा मघवन्नभीष्णात्⁠॥ अहा᳚व्यग्ने ह॒विरा॒स्ये॑ ते⁠। स्रु॒चीव॑ घृ॒तं च॒मू इ॑व॒ सोमः॑⁠ ॥ [७] (१०) वा॒ज॒सनि॑ꣳ र॒यिम॒स्मे सु॒वीर᳚म्⁠। प्र॒श॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त᳚म्⁠॥ यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒ख्‍षणः॑⁠। व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः⁠। की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे᳚⁠। हृ॒दाम॒तिं ज॑नय॒ चारु॑म॒ग्नये᳚⁠॥ नाना॒ हि वां᳚ दे॒वहि॑त॒ꣳ॒ सदो॑ मि॒तम्⁠। मा सꣳसृ॑ख्‍षाथां पर॒मे व्यो॑मन्न्⁠। सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः⁠। मा मा॑ हिꣳसीः॒ स्वाय्ँयोनि॑मावि॒शन्न्⁠ ॥ [८] (१०) यदत्र॑ शि॒ष्टꣳ र॒सिनः॑ सु॒तस्य॑⁠। यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः⁠। अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॑⁠। सोम॒ꣳ॒ राजा॑नमि॒ह भ॑ख्‍षयामि⁠॥ द्वे स्रु॒ती अ॑शृणवं पितृ॒णाम्⁠। अ॒हं दे॒वाना॑मु॒त मर्त्या॑नाम्⁠। ताभ्या॑मि॒दव्ँविश्वं॒ भुव॑न॒ꣳ॒ समे॑ति⁠। अ॒न्त॒रा पूर्व॒मप॑रं च के॒तुम्⁠॥ यस्ते॑ देव वरुण गाय॒त्रछ॑न्दाः॒ पाशः॑⁠। तं त॑ ए॒तेनाव॑यजे⁠ ॥ [९] (१०) यस्ते॑ देव वरुण त्रि॒ष्टुप्छ॑न्दाः॒ पाशः॑⁠। तं त॑ ए॒तेनाव॑यजे⁠। यस्ते॑ देव वरुण॒ जग॑तीछन्दाः॒ पाशः॑⁠। तं त॑ ए॒तेनाव॑यजे⁠॥ सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते⁠। यो राजा॒ सन् रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते⁠। दे॒व॒सु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्ति⁠। ए॒ताव॑न्तो॒ वै दे॒वाना॑ꣳ स॒वाः⁠। त ए॒वास्मै॑ स॒वान् प्रय॑च्छन्ति⁠। त ए॑नं॒ पुनः॑ सुवन्ते रा॒ज्याय॑⁠। दे॒व॒सू राजा॑ भवति⁠ ॥ [१०] (११) (सोम॑ आवि॒शन् य॑जे रा॒ज्यायैकं॑ च) ॥२॥
दोहप्रायश्चित्तम्, अग्निहोत्रे
उद॑स्थाद्दे॒व्यदि॑तिर्विश्वरू॒पी⁠। आयु॑र्य॒ज्ञप॑तावधात्⁠। इन्द्रा॑य कृण्व॒ती भा॒गम्⁠। मि॒त्राय॒ वरु॑णाय च⁠॥ इ॒यव्ँवा अ॑ग्निहो॒त्री⁠। इ॒यव्ँवा ए॒तस्य॒ निषी॑दति⁠। यस्या᳚ग्निहो॒त्री नि॒षीद॑ति⁠। तामुत्था॑पयेत्⁠। उद॑स्थाद्दे॒व्यदि॑ति॒रिति॑⁠। इ॒यव्ँवै दे॒व्यदि॑तिः⁠ ॥ [११] (१०) इ॒मामे॒वास्मा॒ उत्था॑पयति⁠॥ आयु॑र्य॒ज्ञप॑तावधा॒दित्या॑ह⁠। आयु॑रे॒वास्मि॑न् दधाति⁠॥ इन्द्रा॑य कृण्व॒ती भा॒गं मि॒त्राय॒ वरु॑णाय॒ चेत्या॑ह⁠। य॒था॒ य॒जुरे॒वैतत्⁠॥ अव॑र्ति॒व्ँवा ए॒षैतस्य॑ पा॒प्मानं॑ प्रति॒ख्याय॒ निषी॑दति⁠। यस्या᳚ग्निहो॒त्र्युप॑सृष्टा नि॒षीद॑ति⁠। तां दु॒ग्ध्वा ब्रा᳚ह्म॒णाय॑ दद्यात्⁠। यस्यान्नं॒ नाद्यात्⁠। अव॑र्तिमे॒वास्मि॑न् पा॒प्मानं॒ प्रति॑मुञ्चति⁠ ॥ [१२] (१०) दु॒ग्ध्वा द॑दाति⁠। न ह्यदृ॑ष्टा॒ दख्‍षि॑णा दी॒यते᳚⁠॥ पृ॒थि॒वीव्ँवा ए॒तस्य॒ पयः॒ प्रवि॑शति⁠। यस्या᳚ग्निहो॒त्रं दु॒ह्यमा॑न॒ꣴ॒ स्कन्द॑ति⁠॥ यद॒द्य दु॒ग्धं पृ॑थि॒वीमस॑क्त⁠। यदोष॑धीर॒प्यस॑र॒द्यदापः॑⁠। पयो॑ गृ॒हेषु॒ पयो॑ अघ्नि॒यासु॑⁠। पयो॑ व॒थ्सेषु॒ पयो॑ अस्तु॒ तन्मयीत्या॑ह⁠। पय॑ ए॒वात्मन् गृ॒हेषु॑ प॒शुषु॑ धत्ते⁠॥ अ॒प उप॑सृजति⁠ ॥ [१३] (१०) अ॒द्भिरे॒वैन॑दाप्नोति⁠॥ यो वै य॒ज्ञस्यार्ते॒नाना᳚र्तꣳ सꣳ सृ॒जति॑⁠। उ॒भे वै ते तर्ह्यार्च्छ॑तः⁠। आर्च्छ॑ति॒ खलु॒ वा ए॒तद॑ग्निहो॒त्रम्⁠। यद्दु॒ह्यमा॑न॒ꣴ॒ स्कन्द॑ति⁠। यद॑भिदु॒ह्यात्⁠। आर्ते॒नाना᳚र्तय्ँय॒ज्ञस्य॒ सꣳसृ॑जेत्⁠। तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्य᳚म्⁠। अथा॒न्यां दु॒ग्ध्वा पुन॑र्‌होत॒व्य᳚म्⁠। अना᳚र्तेनै॒वार्त॑य्ँय॒ज्ञस्य॒ निष्क॑रोति⁠ ॥ [१४] (१०) यद्युद्द्रु॑तस्य॒ स्कन्दे᳚त्⁠। यत् ततोऽहु॑त्वा॒ पुन॑रे॒यात्⁠। य॒ज्ञव्ँविच्छि॑न्द्यात्⁠। यत्र॒ स्कन्दे᳚त्⁠। तन्नि॒षद्य॒ पुन॑र्गृह्णीयात्⁠। यत्रै॒व स्कन्द॑ति⁠। तत॑ ए॒वैन॒त्पुन॑र्गृह्णाति⁠। तदे॒व या॒दृक्की॒दृक्च॑ होत॒व्य᳚म्⁠। अथा॒न्यां दु॒ग्ध्वा पुन॑र्‌होत॒व्य᳚म्⁠। अना᳚र्तेनै॒वार्त॑य्ँय॒ज्ञस्य॒ निष्क॑रोति⁠ ॥ [१५] (१०) वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते⁠। यस्या᳚ग्निहो॒त्रे॑ऽधिश्रि॑ते॒ श्वाऽन्त॒रा धाव॑ति⁠। रु॒द्रः खलु॒ वा ए॒षः⁠। यद॒ग्निः⁠। यद्गाम॑न्वत्याव॒र्तये᳚त्⁠। रु॒द्राय॑ प॒शूनपि॑दद्ध्यात्⁠। अ॒प॒शुर्यज॑मानः स्यात्⁠। यद॒पो᳚ ऽन्वतिषि॒ञ्चेत्⁠। अ॒ना॒द्यम॒ग्नेरापः॑⁠। अ॒ना॒द्यमा᳚भ्या॒मपि॑दद्ध्यात्⁠। गार्‌ह॑पत्या॒द्भस्मा॒दाय॑⁠। इ॒दव्ँविष्णु॒र्विच॑क्रम॒ इति॑ वैष्ण॒व्यर्चाऽऽह॑व॒नीया᳚द्ध्व॒ꣳ॒ सय॒न्नुद्र॑वेत्⁠। य॒ज्ञो वै विष्णुः॑⁠। य॒ज्ञेनै॒व य॒ज्ञꣳ सन्त॑नोति⁠। भस्म॑ना प॒दमपि॑वपति॒ शान्त्यै᳚⁠ ॥ [१६] (१५) (वै दे॒व्यदि॑तिर् मुञ्चति सृजति करोति करोत्या भ्या॒मपि॑दद्ध्या॒त् पञ्च॑ च) ॥३॥
अग्निप्रायश्चित्तम् अग्निहोत्रे
नि वा ए॒तस्या॑हव॒नीयो॒ गार्‌ह॑पत्यं कामयते⁠। नि गार्‌ह॑पत्य आहव॒नीय᳚म्⁠। यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभिनि॒म्रोच॑ति⁠। द॒र्भेण॒ हिर॑ण्यं प्र॒बद्ध्य॑ पु॒रस्ता᳚द्धरेत्⁠। अथा॒ग्निम्⁠। अथा᳚ग्निहो॒त्रम्⁠। यद्धिर॑ण्यं पु॒रस्ता॒द्धर॑ति⁠। ज्योति॒र्वै हिर॑ण्यम्⁠। ज्योति॑रे॒वैनं॒ पश्य॒न्नुद्ध॑रति⁠। यद॒ग्निं पूर्व॒ꣳ॒ हर॒त्यथा᳚ग्निहो॒त्रम्⁠ ॥ [१७] (१०) भा॒ग॒धेये॑नै॒वैनं॒ प्रण॑यति⁠॥ ब्रा॒ह्म॒ण आ॑र्‌षे॒य उद्ध॑रेत्⁠। ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः᳚⁠। सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति⁠॥ अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत⁠। व्र॒तमे॒व ह॒तमनु॑ म्रियते⁠॥ अन्त॒व्ँवा ए॒ष आ॒त्मनो॑ गच्छति⁠। यस्ताम्य॑ति⁠। अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति⁠। यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभिनि॒म्रोच॑ति⁠ ॥ [१८] (१०) पुनः॑ स॒मन्य॑ जुहोति⁠। अन्ते॑नै॒वान्त॑य्ँय॒ज्ञस्य॒ निष्क॑रोति⁠॥ वरु॑णो॒ वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति⁠। यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभिनि॒म्रोच॑ति⁠। वा॒रु॒णं च॒रुं निर्व॑पेत्⁠। तेनै॒व य॒ज्ञं निष्क्री॑णीते⁠॥ नि वा ए॒तस्या॑हव॒नीयो॒ गार्‌ह॑पत्यं कामयते⁠। नि गार्‌ह॑पत्य आहव॒नीय᳚म्⁠। यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभ्यु॑देति॑⁠। च॒तु॒र्गृ॒ही॒तमाज्यं॑ पु॒रस्ता᳚द्धरेत्⁠ ॥ [१९] (१०) अथा॒ग्निम्⁠। अथा᳚ग्निहो॒त्रम्⁠। यदाज्यं॑ पु॒रस्ता॒द्धर॑ति⁠। ए॒तद्वा अ॒ग्नेः प्रि॒यं धाम॑⁠। यदाज्य᳚म्⁠। प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑र्द्धयति⁠। यद॒ग्निं पूर्व॒ꣳ॒ हर॒त्यथा᳚ग्निहो॒त्रम्⁠। भा॒ग॒धेये॑नै॒वैनं॒ प्रण॑यति⁠। ब्रा॒ह्म॒ण आ॑र्‌षे॒य उद्ध॑रेत्⁠। ब्रा॒ह्म॒णो वै सर्वा॑ दे॒वताः᳚⁠ ॥ [२०] (१०) सर्वा॑भिरे॒वैनं॑ दे॒वता॑भि॒रुद्ध॑रति⁠॥ परा॑ची॒ वा ए॒तस्मै᳚ व्यु॒च्छन्ती॒ व्यु॑च्छति⁠। यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभ्यु॑देति॑⁠। उ॒षाः के॒तुना॑ जुषताम्⁠। य॒ज्ञं दे॒वेभि॑रिन्वि॒तम्⁠। दे॒वेभ्यो॒ मधु॑मत्तम॒ꣴ॒ स्वाहेति॑ प्र॒त्यङ्नि॒षद्याज्ये॑न जुहुयात्⁠। प्र॒तीची॑मे॒वास्मै॒ विवा॑सयति⁠॥ अ॒ग्नि॒हो॒त्रमु॑प॒साद्यातमि॑तोरासीत⁠। व्र॒तमे॒व ह॒तमनु॑ म्रियते⁠। अन्त॒व्ँवा ए॒ष आ॒त्मनो॑ गच्छति⁠ ॥ [२१] (१०) यस्ताम्य॑ति⁠। अन्त॑मे॒ष य॒ज्ञस्य॑ गच्छति⁠। यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभ्यु॑देति॑⁠। पुनः॑ स॒मन्य॑ जुहोति⁠। अन्ते॑नै॒वान्त॑य्ँय॒ज्ञस्य॒ निष्क॑रोति⁠। मि॒त्रो वा ए॒तस्य॑ य॒ज्ञं गृ॑ह्णाति⁠। यस्या॒ग्निमनु॑द्धृत॒ꣳ॒ सूर्यो॒ऽभ्यु॑देति॑⁠। मै॒त्रं च॒रुं निर्व॑पेत्⁠। तेनै॒व य॒ज्ञं निष्क्री॑णीते⁠॥ यस्या॑हव॒नीयेऽनु॑द्वाते॒ गार्‌ह॑पत्य उ॒द्वाये᳚त्⁠ ॥ [२२] (१०) यदा॑हव॒नीय॒मनु॑द्वाप्य॒ गार्‌ह॑पत्यं॒ मन्थे᳚त्⁠। विच्छि॑न्द्यात्⁠। भ्रातृ॑व्यमस्मै जनयेत्⁠। यद्वै य॒ज्ञस्य॑ वास्त॒व्यं॑ क्रि॒यते᳚⁠। तदनु॑ रु॒द्रोऽव॑चरति⁠। यत् पूर्व॑मन्वव॒स्येत्⁠। वा॒स्त॒व्य॑म॒ग्निमुपा॑सीत⁠। रु॒द्रो᳚ऽस्य प॒शून् घातु॑कः स्यात्⁠। आ॒ह॒व॒नीय॑मु॒द्वाप्य॑⁠। गार्‌ह॑पत्यं मन्थेत्⁠ ॥ [२३] (१०) इ॒तः प्र॑थ॒मं ज॑ज्ञे अ॒ग्निः⁠। स्वाद्योने॒रधि॑ जा॒तवे॑दाः⁠। स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या⁠। दे॒वेभ्यो॑ ह॒व्यव्ँव॑हतु प्रजा॒नन्निति॑⁠। छन्दो॑भिरे॒वैन॒ꣴ॒ स्वाद्योनेः॒ प्रज॑नयति⁠॥ गार्‌ह॑पत्यं मन्थति⁠। गार्‌ह॑पत्य॒व्ँवा अन्वाहि॑ताग्नेः प॒शव॒ उप॑ तिष्ठन्ते⁠। स यदु॒द्वाय॑ति⁠। तदनु॑ प॒शवोऽप॑क्रामन्ति⁠। इ॒षे र॒य्यै र॑मस्व⁠ ॥ [२४] (१०) सह॑से द्यु॒म्नाय॑⁠। ऊ॒र्जे पत्या॒येत्या॑ह⁠। प॒शवो॒ वै र॒यिः⁠। प॒शूने॒वास्मै॑ रमयति⁠॥ सा॒र॒स्व॒तौ त्वोथ्सौ॒ समि॑न्धाता॒मित्या॑ह⁠। ऋ॒ख् सा॒मे वै सा॑रस्व॒तावुथ्सौ᳚⁠। ऋ॒ख्सा॒माभ्या॑मे॒वैन॒ꣳ॒ समि॑न्धे⁠॥ स॒म्राड॑सि वि॒राड॒सीत्या॑ह⁠। र॒थ॒न्त॒रव्ँवै स॒म्राट्⁠। बृ॒हद्वि॒राट्⁠ ॥ [२५] (१०) ताभ्या॑मे॒वैन॒ꣳ॒ समि॑न्धे⁠॥ वज्रो॒ वै च॒क्रम्⁠। वज्रो॒ वा ए॒तस्य॑ य॒ज्ञव्ँविच्छि॑नत्ति⁠। यस्यानो॑ वा॒ रथो॑ वाऽन्त॒राऽग्नी याति॑⁠। आ॒ह॒व॒नीय॑मु॒द्वाप्य॑⁠। गार्‌ह॑पत्या॒दुद्ध॑रेत्⁠। यद॑ग्ने॒ पूर्वं॒ प्रभृ॑तं प॒दꣳ हि ते᳚⁠। सूर्य॑स्य र॒श्मीनन्वा॑त॒तान॑⁠। तत्र॑ रयि॒ष्ठामनु॒ संभ॑रै॒तम्⁠। सं नः॑ सृज सुम॒त्या वाज॑व॒त्येति॑⁠ ॥ [२६] (१०) पूर्वे॑णै॒वास्य॑ य॒ज्ञेन॑ य॒ज्ञमनु॒ सं त॑नोति⁠॥ त्वम॑ग्ने स॒प्रथा॑ अ॒सीत्या॑ह⁠। अ॒ग्निः सर्वा॑ दे॒वताः᳚⁠। दे॒वता॑भिरे॒व य॒ज्ञꣳ सं त॑नोति⁠॥ अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेत्⁠। अ॒ग्निमे॒व प॑थि॒कृत॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति⁠। स ए॒वैन॑य्ँय॒ज्ञियं॒ पन्था॒मपि॑नयति⁠। अ॒न॒ड्वान्दख्‍षि॑णा⁠। व॒ही ह्ये॑ष समृ॑द्ध्यै⁠ ॥ [२७] (९) (नि वै पूर्वं॒ त्रीणि॑ नि॒म्रोच॑ति द॒र्भेण॒ यद्धिर॑ण्यमग्निहो॒त्रं पुन॒र्वरु॑णो वारु॒णं नि वा ए॒तस्या॒भ्यु॑देति॑ चतुर्गृही॒तमाज्यं॒ यदाज्यं॒ परा᳚च्यु॒षाः पुन॑र्मि॒त्रो मे॒त्रय्ँयस्या॑हव॒नीयेऽनु॑द्वाते॒ गार्‌ह॑पत्यो॒ यद्वै म॑न्थे॒दुद्ध॑रेत्) ॥४॥
सोमातिरेकप्रायश्चित्तम्
यस्य॑ प्रातस्सव॒ने सोमो॑ऽति॒रिच्य॑ते⁠। माद्ध्य॑न्दिन॒ꣳ॒ सव॑नं का॒मय॑मानो॒ऽभ्यति॑रिच्यते⁠। गौर्द्ध॑यति म॒रुता॒मिति॒ धय॑द्वतीषु कुर्वन्ति⁠। हि॒नस्ति॒ वै स॒न्ध्यधी॑तम्⁠। स॒न्धीव॒ खलु॒ वा ए॒तत्⁠। यथ् सव॑न स्याति॒रिच्य॑ते⁠। यद्धय॑द्वतीषु कु॒र्वन्ति॑⁠। स॒न्धेः शान्त्यै᳚⁠॥ गा॒य॒त्रꣳ साम॑ भवति पञ्चद॒शः स्तोमः॑⁠। तेनै॒व प्रा॑तस्सव॒नान्नय॑न्ति⁠ ॥ [२८] (१०) म॒रुत्व॑तीषु कुर्वन्ति⁠। तेनै॒व माद्ध्य॑न्दिना॒थ्सव॑ना॒न्नय॑न्ति⁠॥ होतु॑श्च म॒समनून्न॑यन्ते⁠। होताऽनु॑शꣳसति⁠। म॒द्ध्य॒त ए॒व य॒ज्ञꣳ स॒माद॑धाति⁠॥ यस्य॒ माद्ध्य॑न्दिने॒ सव॑ने॒ सोमो॑ऽति॒रिच्य॑ते⁠। आ॒दि॒त्यं तृ॑तीयसव॒नं का॒मय॑मानो॒ऽभ्यति॑रिच्यते⁠। गौ॒रि॒वी॒तꣳ साम॑ भवति⁠। अति॑रिक्त॒व्ँवै गौ॑रिवी॒तम्⁠। अति॑रिक्त॒य्ँयथ् सव॑नस्याति॒रिच्य॑ते⁠ ॥ [२९] (१०) अति॑रिक्तस्य॒ शान्त्यै᳚⁠॥ बण्म॒हाꣳ अ॑सि सू॒र्येति॑ कुर्वन्ति⁠। यस्यै॒वादि॒त्यस्य॒ सव॑नस्य॒ कामे॑नाति॒रिच्य॑ते⁠। तेनै॒वैनं॒ कामे॑न॒ सम॑र्द्धयन्ति⁠॥ गौ॒रि॒वी॒तꣳ साम॑ भवति⁠। तेनै॒व माद्ध्य॑न्दिना॒थ्सव॑ना॒न्नय॑न्ति⁠॥ स॒प्त॒द॒शः स्तोमः॑⁠। तेनै॒व तृ॑तीयसव॒नान्नय॑न्ति⁠॥ होतु॑श्चम॒समनून्न॑यन्ते⁠। होताऽनु॑शꣳ सति⁠ ॥ [३०] (१०) म॒द्ध्य॒त ए॒व य॒ज्ञꣳ स॒माद॑धाति⁠॥ यस्य॑ तृतीयसव॒ने सोमो॑ऽति॒रिच्ये॑त⁠। उ॒क्थ्यं॑ कुर्वीत⁠। यस्यो॒क्थ्ये॑ऽति॒रिच्ये॑त⁠। अ॒ति॒रा॒त्रं कु॑र्वीत⁠। यस्या॑तिरा॒त्रे॑ऽति॒रिच्य॑ते⁠। तत्त्वै दु॑ष्प्रज्ञा॒नम्⁠। यज॑मान॒व्ँवा ए॒तत् प॒शव॑ आ॒साह्य॑ यन्ति⁠। बृ॒हथ् साम॑ भवति⁠। बृ॒हद्वा इ॒माल्ँलो॒कान् दा॑धार⁠। बार्‌ह॑ताः प॒शवः॑⁠। बृ॒ह॒तैवास्मै॑ प॒शून् दा॑धार⁠॥ शि॒पि॒वि॒ष्टव॑तीषु कुर्वन्ति⁠। शि॒पि॒वि॒ष्टो वै दे॒वानां᳚ पु॒ष्टम्⁠। पुष्ट्यै॒वैन॒ꣳ॒ सम॑र्द्धयन्ति⁠॥ होतु॑श्चम॒समनून्न॑यन्ते⁠। होताऽनु॑शꣳसति⁠। म॒द्ध्य॒त ए॒व य॒ज्ञꣳ स॒माद॑धाति⁠ ॥ [३१] (१८) (य॒न्ति॒ सव॑नस्याति॒रिच्य॑ते शꣳसति दाधारा॒ष्टौ च॑) ॥५॥
सवननिमित्तं प्रायश्चित्तम्
एकै॑को॒ वै ज॒नता॑या॒मिन्द्रः॑⁠। एक॒व्ँवा ए॒ताविन्द्र॑म॒भि सꣳसु॑नुतः⁠। यौ द्वौ स॑ꣳसुनु॒तः⁠। प्र॒जाप॑ति॒र्वा ए॒ष विता॑यते⁠। यद्य॒ज्ञः⁠। तस्य॒ ग्रावा॑णो॒ दन्ताः᳚⁠। अ॒न्य॒त॒रव्ँवा ए॒ते स॑ꣳसुन्व॒तोर्निर्ब॑फ्सति⁠। पूर्वे॑णोप॒सृत्या॑ दे॒वता॒ इत्या॑हुः⁠। पू॒र्वो॒प॒सृ॒तस्य॒ वै श्रेया᳚न् भवति⁠। एति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै⁠ ॥ [३२] (१०) म॒रुत्व॑तीः प्रति॒पदः॑⁠। म॒रुतो॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम्⁠। दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने यतते⁠॥ उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः⁠। इ॒यव्ँवाव र॑थन्त॒रम्⁠। अ॒सौ बृ॒हत्⁠। आ॒भ्यामे॒वैन॑म॒न्तरे॑ति⁠। वा॒चश्च॒ मन॑सश्च⁠। प्रा॒णाच्चा॑पा॒नाच्च॑⁠। दि॒वश्च॑ पृथि॒व्याश्च॑⁠ ॥ [३३] (१०) सर्व॑स्माद्वि॒त्ताद्वेद्या᳚त्⁠॥ अ॒भि॒व॒र्तो ब्र॑ह्मसा॒मं भ॑वति⁠। सु॒व॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्त्यै⁠॥ अ॒भि॒जिद्भ॑वति⁠। सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै⁠। वि॒श्व॒जिद्भ॑वति⁠। विश्व॑स्य॒ जित्यै᳚⁠॥ यस्य॒ भूया॑ꣳसो यज्ञक्र॒तव॒ इत्या॑हुः⁠। स दे॒वता॑ वृङ्क्त॒ इति॑⁠। यद्य॑ग्निष्टो॒मः सोमः॑ प॒रस्ता॒थ्स्यात्⁠ ॥ [३४] (१०) उ॒क्थ्यं॑ कुर्वीत⁠। यद्यु॒क्थ्यः॑ स्यात्⁠। अ॒ति॒रा॒त्रं कु॑र्वीत⁠। य॒ज्ञ॒क्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते⁠॥ यो वै छन्दो॑भिरभि॒भव॑ति⁠। स स॑ꣳ सुन्व॒तोर॒भिभ॑वति⁠। स॒व्ँवे॒शाय॑ त्वोपवे॒शाय॒त्वेत्या॑ह⁠। छन्दा॑ꣳसि॒ वै स॑व्ँवे॒श उ॑पवे॒शः⁠। छन्दो॑भिरे॒वास्य॒ छन्दा॑ꣴस्य॒भिभ॑वति⁠॥ इ॒ष्टर्गो॒ वा ऋ॒त्विजा॑मद्ध्व॒र्युः⁠ ॥ [३५] (१०) इ॒ष्टर्गः॒ खलु॒ वै पूर्वो॒ऽर्ष्टुः ख्‍षी॑यते⁠। प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒मित्या॑ह⁠। प्रा॒णा॒पा॒नयो॑रे॒व श्र॑यते⁠। प्राणा॑पानौ॒ मा मा॑ हासिष्ट॒मित्या॑ह⁠। नैनं॑ पु॒राऽऽयु॑षः प्राणापा॒नौ ज॑हितः⁠॥ आर्ति॒व्ँवा ए॒ते निय॑न्ति⁠। येषां᳚ दीख्‍षि॒तानां᳚ प्र॒मीय॑ते⁠। तय्ँयद॑व॒वर्जे॑युः⁠। क्रू॒र॒कृता॑मिवैषाल्ँलो॒कः स्या᳚त्⁠। आह॑र द॒हेति॑ ब्रूयात्⁠ ॥ [३६] (१०) तं द॑ख्‍षिण॒तो वेद्यै॑ नि॒धाय॑⁠। स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॑युः⁠। इ॒यव्ँवै सर्प॑तो॒ राज्ञी᳚⁠। अ॒स्या ए॒वैनं॒ परि॑ददति⁠॥ व्यृ॑द्धं॒ तदित्या॑हुः⁠। यथ् स्तु॒तमन॑नुशस्त॒मिति॑⁠। होता᳚ प्रथ॒मः प्रा॑चीनावी॒ती मा᳚र्जा॒लीयं॒ परी॑यात्⁠। या॒मीर॑नुब्रु॒वन्न्⁠। स॒र्प॒रा॒ज्ञीनां᳚ कीर्तयेत्⁠। उ॒भयो॑रे॒वैन॑ल्ँलो॒कयोः॒ परि॑ददति⁠ ॥ [३७] (१०) अथो॑ धु॒वन्त्ये॒वैन᳚म्⁠। अथो॒ न्ये॑वास्मै᳚ ह्नुवते⁠॥ त्रिः परि॑यन्ति⁠। त्रय॑ इ॒मे लो॒काः⁠। ए॒भ्य ए॒वैन॑ल्ँलो॒केभ्यो॑ धुवते⁠। त्रिः पुनः॒ परि॑यन्ति⁠। षट्थ् संप॑द्यन्ते⁠। षड्वा ऋ॒तवः॑⁠। ऋ॒तुभि॑रे॒वैनं॑ धुवते⁠॥ अग्न॒ आयू॑ꣳषि पवस॒ इति॑ प्रति॒पदं॑ कुर्वीरन्न्⁠। र॒थ॒न्त॒रसा॑मैषा॒ꣳ॒ सोमः॑ स्यात्⁠। आयु॑रे॒वात्मन्द॑धते⁠। अथो॑ पा॒प्मान॑मे॒व वि॒जह॑तो यन्ति⁠ ॥ [३८] (१३) (अ॒भिजि॑त्यै पृथि॒व्याश्च॒ स्या द॑द्ध्व॒र्युर् ब्रु॑याल् लो॒कयोः॒ परि॑ददति कुर्वर॒ꣴ॒ स्त्रीणि॑ च) ॥६॥
यूपविरोहणादिप्रायश्चित्तम्
अ॒सु॒र्य॑व्ँवा ए॒तस्मा॒द्वर्णं॑ कृ॒त्वा⁠। प॒शवो॑ वी॒र्य॑मप॑क्रामन्ति⁠। यस्य॒ यूपो॑ वि॒रोह॑ति⁠। त्वा॒ष्ट्रं ब॑हुरू॒पमाल॑भेत⁠। त्वष्टा॒ वै रू॒पाणा॑मीशे⁠। य ए॒व रू॒पाणा॒मीशे᳚⁠। सो᳚ऽस्मिन् प॒शून्‌वी॒र्य॑य्ँयच्छति⁠। नास्मा᳚त्प॒शवो॑ वी॒र्य॑मप॑क्रामन्ति⁠॥ आर्ति॒व्ँवा ए॒ते निय॑न्ति⁠। येषां᳚ दीख्‍षि॒ताना॑म॒ग्निरु॒द्वाय॑ति⁠ ॥ [३९] (१०) यदा॑हव॒नीय॑ उ॒द्वाये᳚त्⁠। यत्तं मन्थे᳚त्⁠। विच्छि॑न्द्यात्⁠। भ्रातृ॑व्यमस्मै जनयेत्⁠। यदा॑हव॒नीय॑ उ॒द्वाये᳚त्⁠। आग्नी᳚द्ध्रा॒दुद्ध॑रेत्⁠। यदाग्नी᳚द्ध्र उ॒द्वाये᳚त्⁠। गार्‌ह॑पत्या॒दुद्ध॑रेत्⁠। यद् गार्‌ह॑पत्य उ॒द्वाये᳚त्⁠। अत॑ ए॒व पुन॑र् मन्थेत्⁠ ॥ [४०] (१०) अत्र॒ वाव स निल॑यते⁠। यत्र॒ खलु॒ वै निली॑नमुत्त॒मं पश्य॑न्ति⁠। तदे॑नमिच्छन्ति⁠॥ यस्मा॒द्दारो॑रु॒द्वाये᳚त्⁠। तस्या॒रणी॑ कुर्यात्⁠। क्रु॒मु॒कमपि॑ कुर्यात्⁠। ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः⁠। यत्क्रु॑मु॒कः⁠। प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्द्धयति⁠॥ गार्‌ह॑पत्यं मन्थति⁠ ॥ [४१] (१०) गार्‌ह॑पत्यो॒ वा अ॒ग्नेर्योनिः॑⁠। स्वादे॒वैन॒य्ँयोने᳚र्जनयति⁠। नास्मै॒ भ्रातृ॑व्यं जनयति⁠॥ यस्य॒ सोम॑ उप॒दस्ये᳚त्⁠। सु॒वर्ण॒ꣳ॒ हिर॑ण्यं द्वे॒धा वि॒च्छिद्य॑⁠। ऋ॒जी॒षे᳚ऽन्यदा॑धूनु॒यात्⁠। जु॒हु॒याद॒न्यत्⁠। सोम॑मे॒वाभि॑षु॒णोति॑⁠। सोमं॑ जुहोति⁠॥ सोम॑स्य॒ वा अ॑भिषू॒यमा॑णस्य प्रि॒या त॒नूरुद॑क्रामत्⁠ ॥ [४२] (१०) तथ् सु॒वर्ण॒ꣳ॒ हिर॑ण्यमभवत्⁠। यथ् सु॒वर्ण॒ꣳ॒ हिर॑ण्यं कु॒र्वन्ति॑⁠। प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्द्धयन्ति⁠॥ यस्याक्री॑त॒ꣳ॒ सोम॑मप॒हरे॑युः⁠। क्री॒णी॒यादे॒व⁠। सैव ततः॒ प्राय॑श्चित्तिः⁠॥ यस्य॑ क्री॒तम॑प॒हरे॑युः⁠। आ॒दा॒राꣴश्च॑ फाल्गु॒नानि॑ चा॒भिषु॑णुयात्⁠। गा॒य॒त्री यꣳ सोम॒माह॑रत्⁠। तस्य॒ यो॑ऽꣳशुः प॒राऽप॑तत्⁠ ॥ [४३] (१०) त आ॑दा॒रा अ॑भवन्न्⁠। इन्द्रो॑ वृ॒त्रम॑हन्न्⁠। तस्य॑ व॒ल्कः परा॑ऽपतत्⁠। तानि॑ फाल्गु॒नान्य॑भवन्न्⁠। प॒शवो॒ वै फा᳚ल्गु॒नानि॑⁠। प॒शवः॒ सोमो॒ राजा᳚⁠। यदा॑दा॒राꣴश्च॑ फाल्गु॒नानि॑ चाभिषु॒णोति॑⁠। सोम॑मे॒व राजा॑नम॒भिषु॑णोति⁠॥ शृ॒तेन॑ प्रातस्सव॒ने श्री॑णीयात्⁠। द॒द्ध्ना म॒द्ध्यन्दि॑ने⁠ ॥ [४४] (१०) नी॒त॒मि॒श्रेण॑ तृतीयसव॒ने⁠। अ॒गि॒ष्टो॒मः सोमः॑ स्याद् रथन्त॒रसा॑मा⁠। य ए॒वर्त्विजो॑ वृ॒ताः स्युः⁠। त ए॑नय्ँयाजयेयुः⁠। एकां॒ गां दख्‍षि॑णां दद्या॒त्तेभ्य॑ ए॒व⁠। पुनः॒ सोमं॑ क्रीणीयात्⁠। य॒ज्ञेनै॒व तद्य॒ज्ञमि॑च्छति⁠। सैव ततः॒ प्राय॑श्चित्तिः⁠॥ सर्वा᳚भ्यो॒ वा ए॒ष दे॒वता᳚भ्यः॒ सर्वे᳚भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मान॒मागु॑रते⁠। यः स॒त्राया॑गु॒रते᳚⁠। ए॒तावा॒न्खलु॒ वै पुरु॑षः⁠। याव॑दस्य वि॒त्तम्⁠। स॒र्व॒वे॒द॒सेन॑ यजेत⁠। सर्व॑पृष्ठोऽस्य॒ सोमः॑ स्यात्⁠। सर्वा᳚भ्य ए॒व दे॒वता᳚भ्यः॒ सर्वे᳚भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मानं॒ निष्क्री॑णीते⁠ ॥ [४५] (१५) (उ॒द्वाय॑ति मन्थेन् मन्थ त्यक्रामत् प॒राऽप॑तन् म॒द्ध्यन्दि॑न आगु॒रते॒ पञ्च॑ च) ॥७॥
पावमानीमन्त्राः (स्मार्ते स्नानादौ मार्जनार्थाश्च)
पव॑मानः॒ सुव॒र्जनः॑⁠। प॒वित्रे॑ण॒ विच॑र्‌षणिः⁠। यः पोता॒ स पु॑नातु मा⁠॥ पु॒नन्तु॑ मा देवज॒नाः⁠। पु॒नन्तु॒ मन॑ वो धि॒या⁠। पु॒नन्तु॒ विश्व॑ आ॒यवः॑⁠॥ जात॑वेदः प॒वित्र॑वत्⁠। प॒वित्रे॑ण पुनाहि मा⁠। शु॒क्रेण॑ देव॒ दीद्य॑त्⁠। अग्ने॒ क्रत्वा॒ क्रतू॒ꣳ॒ रनु॑⁠ ॥ [४६] (१०) यत्ते॑ प॒वित्र॑म॒र्चिषि॑⁠। अग्ने॒ वित॑तमन्त॒रा⁠। ब्रह्म॒ तेन॑ पुनीमहे⁠॥ उ॒भाभ्यां᳚ देव सवितः⁠। प॒वित्रे॑ण स॒वेन॑ च⁠। इ॒दं ब्रह्म॑ पुनीमहे⁠॥ वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त्⁠। यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः⁠। तया॒ मद॑न्तः सध॒माद्ये॑षु⁠। व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्⁠ ॥ [४७] (१०) वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु⁠। वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒भूः⁠। द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः⁠। ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम्⁠॥ बृ॒हद्भिः॑ सवित॒स्तृभिः॑⁠। वर्‌षि॑ष्ठैर् देव॒ मन्म॑भिः⁠। अग्ने॒ दख्‍षैः᳚ पुनाहि मा⁠॥ येन॑ दे॒वा अपु॑नत⁠। येनापो॑ दि॒व्यं कशः॑⁠। तेन॑ दि॒व्येन॒ ब्रह्म॑णा⁠ ॥ [४८] (१०) इ॒दं ब्रह्म॑ पुनीमहे⁠॥ यः पा॑वमा॒नीर॒द्ध्येति॑⁠। ऋषि॑भिः॒ संभृ॑त॒ꣳ॒ रस᳚म्⁠। सर्व॒ꣳ॒ स पू॒तम॑श्ञाति⁠। स्व॒दि॒तं मा॑त॒रिश्व॑ना⁠॥ पा॒व॒मा॒नीर्यो अ॒द्ध्येति॑⁠। ऋषि॑भिः॒ संभृ॑त॒ꣳ॒ रस᳚म्⁠। तस्मै॒ सर॑स्वती दुहे⁠। ख्‍षी॒रꣳ स॒र्पिर्मधू॑द॒कम्⁠॥ पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः⁠ ॥ [४९] (१०) सु॒दुघा॒ हि पय॑स्वतीः⁠। ऋषि॑भिः॒ संभृ॑तो॒ रसः॑⁠। ब्रा॒ह्म॒णेष्व॒मृत॑ꣳ हि॒तम्⁠॥ पा॒व॒मा॒नीर् दि॑शन्तु नः⁠। इ॒मल्ँलो॒कमथो॑ अ॒मुम्⁠। कामा॒न्थ् सम॑र्द्धयन्तु नः⁠। दे॒वीर् दे॒वैः स॒माभृ॑ताः⁠॥ पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः⁠। सु॒दुघा॒हि घृ॑त॒श्चुतः॑⁠। ऋषि॑भिः॒ सम्भृ॑तो॒ रसः॑⁠ ॥ [५०] (१०) ब्रा॒ह्म॒णेष्व॒मृत॑ꣳ हि॒तम्⁠॥ येन॑ दे॒वाः प॒वित्रे॑ण⁠। आ॒त्मानं॑ पु॒नते॒ सदा᳚⁠। तेन॑ स॒हस्र॑धारेण⁠। पा॒व॒मा॒न्यः पु॑नन्तु मा⁠॥ प्रा॒जा॒प॒त्यं प॒वित्र᳚म्⁠। श॒तोद्या॑मꣳ हिर॒ण्मय᳚म्⁠। तेन॑ ब्रह्म॒ विदो॑ व॒यम्⁠। पू॒तं ब्रह्म॑ पुनीमहे⁠॥ इन्द्रः॑ सुनी॒ती स॒ह मा॑ पुनातु⁠। सोमः॑ स्व॒स्त्या वरु॑णः स॒मीच्या᳚⁠। य॒मो राजा᳚ प्रमृ॒णाभिः॑ पुनातु मा⁠। जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु⁠ ॥ [५१] (१३) (अनु॑ रयी॒णां ब्रह्म॑णा स्व॒स्त्यय॑नीः सु॒दुघा॒ हि घृ॑त॒श्चुत॒ ऋषि॑भिः॒ सम्भृ॑तो॒ रसः॑ पुनातु॒ त्रीणि॑ च) ॥८॥
राजसूयगतचातुर्मास्यशेषः
प्र॒जा वै स॒त्रमा॑सत॒ तप॒स्तप्य॑माना॒ अजु॑ह्वतीः⁠। दे॒वा अ॑पश्यं चम॒सं घृ॒तस्य॑ पू॒र्णꣴ स्व॒धाम्⁠। तमुपोद॑तिष्ठ॒न्तम॑जुहवुः⁠। तेना᳚र्द्धमा॒स ऊर्ज॒मवा॑रुन्धत⁠। तस्मा॑दर्द्धमा॒से दे॒वा इ॑ज्यन्ते⁠॥ पि॒तरो॑ऽपश्यं चम॒सं घृ॒तस्य॑ पू॒र्णꣴ स्व॒धाम्⁠। तमुपोद॑तिष्ठ॒न्त म॑जुहवुः⁠। तेन॑ मा॒स्यूर्ज॒मवा॑रुन्धत⁠। तस्मा᳚न् मा॒सि पि॒तृभ्यः॑ क्रियते⁠। म॒नु॒ष्या॑ अपश्यं चम॒सं घृ॒तस्य॑ पू॒र्णꣴ स्व॒धाम्⁠ ॥ [५२] (१०) तमुपोद॑तिष्ठ॒न्तम॑जुहवुः⁠। तेन॑द्व॒यीमूर्ज॒मवा॑रुन्धत⁠। तस्मा॒द्द्विरह्नो॑मनु॒ष्ये᳚भ्य॒ उप॑ह्रियते⁠। प्रा॒तश्च॑ सा॒यं च॑⁠। प॒शवो॑ऽपश्यं चम॒सं घृ॒तस्य॑ पू॒र्णꣴ स्व॒धाम्⁠। तमुपोद॑तिष्ठ॒न्तम॑जुहवुः⁠। तेन॑त्र॒यीमूर्ज॒मवा॑रुन्धत⁠। तस्मा॒त् त्रिरह्नः॑ प॒शवः॒ प्रेर॑ते⁠। प्रा॒तस्स॑गं॒वे सा॒यम्⁠। असु॑रा अपश्यं चम॒सं घृ॒तस्य॑ पू॒र्णꣴ स्व॒धाम्⁠ ॥ [५३] (१०) तमुपोद॑तिष्ठ॒न्तम॑जुहवुः⁠। तेन॑ सव्ँवथ्स॒र ऊर्ज॒मवा॑रुन्धत⁠॥ ते दे॒वा अ॑मन्यन्त⁠। अ॒मी वा इ॒दम॑भूवन्न्⁠। यद्व॒यꣴस्म इति॑⁠। त ए॒तानि॑ चातुर्मा॒स्यान्य॑पश्यन्न्⁠। तानि॒ निर॑वपन्न्⁠। तैरे॒वैषां॒ तामूर्ज॑मवृञ्जत⁠। ततो॑ दे॒वा अभ॑वन्न्⁠। पराऽसु॑राः⁠ ॥ [५४] (१०) यद्यज॑ते⁠। यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत⁠। तां तेनाव॑रुन्धे⁠। यत् पि॒तृभ्यः॑ क॒रोति॑⁠। यामे॒व पि॒तर॒ ऊर्ज॑म॒वारु॑न्धत⁠। तां तेनाव॑रुन्धे⁠। यदा॑वस॒थेऽन्न॒ꣳ॒ हर॑न्ति⁠। यामे॒व म॑नु॒ष्या॑ ऊर्ज॑म॒वारु॑न्धत⁠। तां तेनाव॑रुन्धे⁠। यद् दख्‍षि॑णां॒ ददा॑ति⁠ ॥ [५५] (१०) यामे॒व प॒शव॒ ऊर्ज॑म॒वारु॑न्धत⁠। तां तेनाव॑रुन्धे⁠। यच्चा॑तुर्मा॒स्यैर्यज॑ते⁠। यामे॒वासु॑रा॒ ऊर्ज॑म॒वारु॑न्धत⁠। तां तेनाव॑रुन्धे⁠। भव॑त्या॒त्मना᳚⁠। परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति⁠॥ वि॒राजो॒ वा ए॒षा विक्रा᳚न्तिः⁠। यच्चा॑तुर्मा॒स्यानि॑⁠। वै॒श्व॒दे॒वेना॒स्मिल्लोँ॒के प्रत्य॑तिष्ठत्⁠। व॒रु॒ण॒ प्र॒घा॒सैर॒न्तरि॑ख्‍षे⁠। सा॒क॒मे॒धैर॒मुष्मि॑ल्लोँ॒के⁠। ए॒ष ह॒ त्वावैतथ् सर्वं॑ भवति⁠। य ए॒वव्ँवि॒द्वाꣴश्चा॑तुर्मा॒स्यैर् यज॑ते⁠ ॥ [५६] (१४) (म॒नु॒ष्या॑ अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣴ स्व॒धामसु॑रा अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣴ स्व॒धामसु॑रा॒ददा᳚त्यतिष्ठ च्च॒त्वारि॑ च) ॥९॥
चातुर्मास्यप्रशंसनम्
अ॒ग्निर्वाव स॑व्ँवथ्स॒रः⁠। आ॒दि॒त्यः प॑रिवथ्स॒रः⁠। च॒न्द्रमा॑ इदावथ्स॒रः⁠। वा॒युर॑नुवथ्स॒रः⁠॥ यद्वै᳚श्वदे॒वेन॒ यज॑ते⁠। अ॒ग्निमे॒व तथ् स॑व्ँवथ्स॒रमा᳚प्नोति⁠। तस्मा᳚द्वैश्वदे॒वेन॒ यज॑मानः⁠। स॒व्ँव॒थ्स॒रीणा॑ꣴ स्व॒स्तिमाशा᳚स्त॒ इत्याशा॑सीत⁠॥ यद्व॑रुण प्रघा॒सैर्यज॑ते⁠। आ॒दि॒त्यमे॒व तत् प॑रिवथ्स॒रमा᳚प्नोति⁠ ॥ [५७] (१०) तस्मा᳚द्वरुणप्रघा॒सैर् यज॑मानः⁠। प॒रि॒व॒थ्स॒रीणा॑ꣴ स्व॒स्तिमाशा᳚स्त॒ इत्याशा॑सीत⁠। यथ् सा॑कमे॒धैर्यज॑ते⁠। च॒न्द्रम॑समे॒व तदि॑दावथ्स॒रमा᳚प्नोति⁠। तस्मा᳚थ् साकमे॒धैर्यज॑मानः⁠। इ॒दा॒व॒थ्स॒रीणा॑ꣴ स्व॒स्तिमाशा᳚स्त॒ इत्याशा॑सीत⁠॥ यत् पि॑तृ य॒ज्ञेन॒ यज॑ते⁠। दे॒वाने॒व तद॒न्वव॑स्यति⁠॥ अथ॒ वा अ॑स्य वा॒युश्चा॑नुवथ्स॒रश्चा प्री॑ता॒वुच्छि॑ष्येते⁠। यच्छु॑नासी॒रीये॑ण॒ यज॑ते⁠ ॥ [५८] (१०) वा॒युमे॒व तद॑नुवथ्स॒रमा᳚प्नोति⁠। तस्मा᳚च्छुनासी॒रीये॑ण॒ यज॑मानः⁠। अ॒नु॒व॒थ्स॒रीणा॑ꣴ स्व॒स्तिमाशा᳚स्त॒ इत्याशा॑सीत⁠॥ स॒व्ँव॒थ्स॒रव्ँवा ए॒ष ई᳚फ्स॒तीत्या॑हुः⁠। यश्चा॑तुर्मा॒स्यैर् यज॑त॒ इति॑⁠। ए॒ष ह॒ त्वै स॑वंथ्स॒रमा᳚प्नोति⁠। य ए॒वव्ँवि॒द्वाꣴ श्चा॑तुर्मा॒स्यैर्यज॑ते⁠॥ विश्वे॑ दे॒वाः सम॑यजन्त⁠। ते᳚ऽग्निमे॒वाय॑जन्त⁠। त ए॒तल्ँलो॒कम॑जयन्न्⁠ ॥ [५९] (१०) यस्मि॑न्न॒ग्निः⁠। यद्वै᳚श्वदे॒वेन॒ यज॑ते⁠। ए॒तमे॒व लो॒कं ज॑यति⁠। यस्मि॑न्न॒ग्निः⁠। अ॒ग्नेरे॒व सायु॑ज्य॒मुपै॑ति⁠॥ य॒दा वै᳚श्वदे॒वेन॒ यज॑ते⁠। अथ॑ सव्ँवथ्स॒रस्य॑ गृ॒हप॑तिमाप्नोति⁠। य॒दा स॑व्ँवथ्स॒रस्य॑ गृ॒हप॑तिमा॒प्नोति॑⁠। अथ॑ सहस्रया॒जिन॑माप्नोति⁠। य॒दा स॑हस्रया॒जिन॑मा॒प्नोति॑⁠ ॥ [६०] (१०) अथ॑ गृहमे॒धिन॑माप्नोति⁠। य॒दा गृ॑हमे॒धिन॑मा॒प्नोति॑⁠। अथा॒ग्निर् भ॑वति⁠। य॒दाऽग्निर् भव॑ति⁠। अथ॒ गौर्भ॑वति⁠। ए॒षा वै वै᳚श्वदे॒वस्य॒ मात्रा᳚⁠। ए॒तद्वा ए॒तेषा॑मव॒मम्⁠। अतो॑ऽतो॒ वा उत्त॑राणि॒ श्रेया॑ꣳसि भवन्ति⁠। यद्विश्वे॑ दे॒वाः स॒मय॑जन्त⁠। तद्वै᳚श्वदे॒वस्य॑ वैश्वदेव॒त्वम्⁠ ॥ [६१] (१०) अथा॑दि॒त्यो वरु॑ण॒ꣳ॒ राजा॑नव्ँवरुण प्रघा॒सैर॑यजत⁠। स ए॒तल्ँलो॒कम॑जयत्⁠। यस्मि॑न्नादि॒त्यः⁠। यद्व॑रुणप्रघा॒सैर्यज॑ते⁠। ए॒तमे॒व लो॒कं ज॑यति⁠। यस्मि॑न्नादि॒त्यः⁠। आ॒दि॒त्यस्यै॒वसायु॑ज्य॒मुपै॑ति⁠। यदा॑दि॒त्यो वरु॑ण॒ꣳ॒ राजा॑नव्ँवरुण प्रघा॒सैरय॑जत⁠। तद्व॑रुण प्रघा॒साना᳚व्ँवरुण प्रघास॒त्वम्⁠॥ अथ॒ सोमो॒ राजा॒ छन्दा॑ꣳसि साकमे॒धैर॑यजत⁠ ॥ [६२] (१०) स ए॒तल्ँलो॒कम॑जयत्⁠। यस्मि॑ꣴ श्च॒न्द्रमा॑ वि॒भाति॑⁠। यथ् सा॑कमे॒धैर्यज॑ते⁠। ए॒तमे॒व लो॒कं ज॑यति⁠। यस्मि॑ꣴ श्च॒न्द्रमा॑ वि॒भाति॑⁠। च॒न्द्रम॑स ए॒व सायु॑ज्य॒मुपै॑ति⁠। सोमो॒ वै च॒न्द्रमाः᳚⁠। ए॒ष ह॒ त्वै सा॒ख्‍षाथ् सोमं॑ भख्‍षयति⁠। य ए॒वव्ँवि॒द्वान्थ् सा॑कमे॒धैर्यज॑ते⁠। यथ् सोम॑श्च॒ राजा॒ छन्दा॑ꣳसि च स॒मैध॑न्त⁠ ॥ [६३] (१०) तथ् सा॑कमे॒धाना॑ꣳ साकमेध॒त्वम्⁠॥ अथ॒र्तवः॑ पि॒तरः॑ प्र॒जाप॑तिं पि॒तरं॑ पितृय॒ज्ञेना॑यजन्त⁠। त ए॒तल्ँलो॒कम॑जयन्न्⁠। यस्मि॑न्नृ॒तवः॑⁠। यत् पि॑तृय॒ज्ञेन॒ यज॑ते⁠। ए॒तमे॒व लो॒कं ज॑यति⁠। यस्मि॑न्नृ॒तवः॑⁠। ऋ॒तू॒नामे॒व सायु॑ज्य॒मुपै॑ति⁠। यदृ॒तवः॑ पि॒तरः॑ प्र॒जाप॑तिं पि॒तरं॑ पितृय॒ज्ञेनाय॑जन्त⁠। तत् पि॑तृय॒ज्ञस्य॑ पितृयज्ञ॒त्वम्⁠ ॥ [६४] (१०) अथौष॑धय इ॒मं दे॒वं त्र्य॑म्बकैरयजन्त॒ प्रथे॑म॒हीति॑⁠। ततो॒ वै ता अ॑प्रथन्त⁠। य ए॒वव्ँवि॒द्वाꣴ स्त्र्य॑म्बकै॒र्यज॑ते⁠। प्रथ॑ते प्र॒जया॑ प॒शुभिः॑⁠॥ अथ॑ वा॒युः प॑रमे॒ष्ठिन॑ꣳ शुनासी॒रीये॑णायजत⁠। स ए॒तल्ँलो॒कम॑जयत्⁠। यस्मि॑न्वा॒युः⁠। यच्छु॑नासी॒रीये॑ण॒ यज॑ते⁠। ए॒तमे॒व लो॒कं ज॑यति⁠। यस्मि॑न्वा॒युः⁠ ॥ [६५] (१०) वा॒योरे॒व सायु॑ज्य॒मुपै॑ति⁠॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। प्र चा॑तुर्मास्यया॒जीमी॑य॒ता(३) न प्रमी॑य॒ता(३) इति॑⁠। जीव॒न्वा ए॒ष ऋ॒तूनप्ये॑ति⁠। यदि॑ व॒सन्ता᳚ प्र॒मीय॑ते⁠। व॒स॒न्तो भ॑वति⁠। यदि॑ ग्री॒ष्मे ग्री॒ष्मः⁠। यदि॑ व॒र्॒‌षासु॑ व॒र्॒‌षाः⁠। यदि॑ श॒रदि॑ श॒रत्⁠। यदि॒ हेम॑न्‌हेम॒न्तः⁠। ऋ॒तुर्भू॒त्वा स॑व्ँवथ्स॒रमप्ये॑ति⁠। स॒व्ँव॒थ्स॒रः प्र॒जाप॑तिः⁠। प्र॒जाप॑ति॒र्वा वैषः⁠ ॥ [६६] (१३) (प॒रि॒व॒थ्स॒रमा᳚प्नोति शुनासी॒रीये॑ण॒ यज॑ते ऽजयन्थ् सहस्रया॒जिन॑मा॒प्नोति॑ वैश्वदेव॒त्वꣳ सा॑कमे॒धैर॑यजत स॒मैध॑न्त पितृयज्ञ॒त्वं ज॑यति॒ यस्मि॑न् वा॒युर् हे॑म॒न्त स्त्रीणी॑ च) ॥१०॥
अनुवाकाः पञ्चशती
१० ६६