कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणम्
प्रथमाष्टके अष्टमः प्रपाठकः

अष्टक १ प्रपाठक ८
राजसूयानुब्राह्मणं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
संसृपां हवींषि दश
वरु॑णस्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँवी॒र्यं॑ परा॑ऽपतत्⁠। तथ्स॒ꣳ॒ सृद्भि॒रनु॒ सम॑सर्पत्⁠। तथ्स॒ꣳ॒ सृपा॑ꣳ सꣳ सृ॒त्त्वम्⁠। अ॒ग्निना॑ दे॒वेन॑ प्रथ॒मेऽह॒न्ननु॒ प्रायु॑ङ्क्त⁠। सर॑स्वत्या वा॒चा द्वि॒तीये᳚⁠। स॒वि॒त्रा प्र॑स॒वेन॑ तृ॒तीये᳚⁠। पू॒ष्णा प॒शुभि॑श्चतु॒र्थे⁠। बृह॒स्पति॑ना॒ ब्रह्म॑णा पञ्च॒मे⁠। इन्द्रे॑ण दे॒वेन॑ ष॒ष्ठे⁠। वरु॑णेन॒ स्वया॑ दे॒वत॑या सप्त॒मे⁠ ॥ [१] (१०) सोमे॑न॒ राज्ञा᳚ऽष्ट॒मे⁠। त्वष्ट्रा॑ रू॒पेण॑ नव॒मे⁠। विष्णु॑ना य॒ज्ञेना᳚प्नोत्⁠। यथ्स॒ꣳ॒ सृपो॒ भव॑न्ति⁠। इ॒न्द्रि॒यमे॒व तद्वी॒र्य॑य्ँयज॑मान आप्नोति⁠। पूर्वा॑ पूर्वा॒ वेदि॑र्भवति⁠। इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै⁠। पु॒रस्ता॑दुप॒सदा॑ꣳ सौ॒म्येन॒ प्रच॑रति⁠। सोमो॒ वै रे॑तो॒धाः⁠। रेत॑ ए॒व तद्द॑धाति⁠। अ॒न्त॒रा त्वा॒ष्ट्रेण॑⁠। रेत॑ ए॒व हि॒तं त्वष्टा॑ रू॒पाणि॒ विक॑रोति⁠। उ॒परि॑ष्टाद्वैष्ण॒वेन॑⁠। य॒ज्ञो वै विष्णुः॑⁠। य॒ज्ञ ए॒वान्त॒तः प्रति॑ तिष्ठति⁠ ॥ [२] (१५) (स॒प्त॒मे द॑धाति॒ पञ्च॑ च) ॥१॥
दशपेयः
जा॒मि वा ए॒तत् कु॑र्वन्ति⁠। यथ्स॒द्यो दी॒ख्‍षय॑न्ति स॒द्यः सोमं॑ क्री॒णन्ति॑⁠। पु॒ण्ड॒रि॒स्र॒जां प्रय॑च्छ॒त्यजा॑मित्वाय⁠। अङ्गि॑रसः सुव॒र्गल्ँलो॒कय्ँयन्तः॑⁠। अ॒फ्सु दी᳚ख्‍षात॒पसी॒ प्रावे॑शयन्न्⁠। तत् पु॒ण्डरी॑कमभवत्⁠। यत् पु॑ण्डरिस्र॒जां प्र॒यच्छ॑ति⁠। सा॒ख्‍षादे॒व दी᳚ख्‍षात॒पसी॒ अव॑रुन्धे⁠। द॒शभि॑र्वथ्सत॒रैः सोमं॑ क्रीणाति⁠। दशा᳚ख्‍षरा वि॒राट्⁠ ॥ [३] (१०) अन्न॑व्ँवि॒राट्⁠। वि॒राजै॒वान्नाद्य॒मव॑ रुन्धे⁠। मु॒ष्क॒रा भ॑वन्ति सेन्द्र॒त्वाय॑⁠। द॒श॒पेयो॑ भवति⁠। अ॒न्नाद्य॒स्याव॑रुद्ध्यै⁠। श॒तं ब्रा᳚ह्म॒णाः पि॑बन्ति⁠। श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः⁠। आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति⁠। स॒प्त॒द॒शꣴ स्तो॒त्रं भ॑वति⁠। स॒प्त॒द॒शः प्र॒जाप॑तिः⁠ ॥ [४] (१०) प्र॒जाप॑ते॒राप्त्यै᳚⁠। प्रा॒का॒शाव॑द्ध्व॒र्यवे॑ ददाति⁠। प्र॒का॒शमे॒वैनं॑ गमयति⁠। स्रज॑मुद्गा॒त्रे⁠। व्ये॑वास्मै॑ वासयति⁠। रु॒क्मꣳ होत्रे᳚⁠। आ॒दि॒त्यमे॒वास्मा॒ उन्न॑यति⁠। अश्वं॑ प्रस्तोतृप्रतिह॒र्तृभ्या᳚म्⁠। प्रा॒जा॒पत्यो वा अश्वः॑⁠। प्र॒जाप॑ते॒राप्त्यै᳚⁠ ॥ [५] (१०) द्वाद॑शपष्ठौ॒हीर्ब्र॒ह्मणे᳚⁠। आयु॑रे॒वाव॑रुन्धे⁠। व॒शां मै᳚त्रावरु॒णाय॑⁠। रा॒ष्ट्रमे॒व व॒श्य॑कः⁠। ऋ॒ष॒भं ब्रा᳚ह्मणाच्छ॒ꣳ॒सिने᳚⁠। रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः⁠। वास॑सी नेष्टापो॒तृभ्या᳚म्⁠। प॒वित्रे॑ ए॒वास्यै॒ते⁠। स्थूरि॑ यवाचि॒तम॑च्छावा॒काय॑⁠। अ॒न्त॒त ए॒व वरु॑ण॒मव॑ यजते⁠ ॥ [६] (१०) अ॒न॒ड्वाह॑म॒ग्नीधे᳚⁠। वह्नि॒र्वा अ॑न॒ड्वान्⁠। वह्नि॑र॒ग्नीत्⁠। वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑रुन्धे⁠। इन्द्र॑स्य सुषुवा॒णस्य॑ त्रे॒धेन्द्रि॒यव्ँवी॒र्यं॑ परा॑ऽपतत्⁠। भृगु॒स्तृती॑यमभवत्⁠। श्रा॒य॒न्तीयं॒ तृती॑यम्⁠। सर॑स्वती॒ तृती॑यम्⁠। भा॒र्ग॒वो होता॑ भवति⁠। श्रा॒य॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति⁠। वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम्⁠। सा॒र॒स्व॒तीर॒पो गृ॑ह्णाति⁠। इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याव॑रुद्ध्यै⁠। श्रा॒य॒न्तीयं॑ ब्रह्मसा॒मं भ॑वति⁠। इ॒न्द्रि॒यमे॒वास्मि॑न् वी॒र्य॒॑ꣴ श्रयति⁠। वा॒र॒व॒न्तीय॑मग्निष्टोमसा॒मम्⁠। इ॒न्द्रि॒यमे॒वास्मि॑न् वी॒र्य॑व्ँवारयति⁠ ॥ [७] (१७) (वि॒राट् प्र॒जाप॑ति॒ रश्वः॑ प्र॒जाप॑ते॒राप्त्यै॑ यजते ब्रह्मसा॒मं भ॑वति स॒प्त च॑) ॥२॥
दिशामवेष्टयः, पशुबन्धः, सात्यदूतहवींषि च
ई॒श्व॒रो वा ए॒ष दिशोऽनून्म॑दितोः⁠। यं दिशोऽनु॑ व्यास्था॒पय॑न्ति⁠। दि॒शामवे᳚ष्टयो भवन्ति⁠। दि॒ख्‍ष्वे॑व प्रति॑ तिष्ठ॒त्यनु॑न्मादाय⁠। पञ्च॑ दे॒वता॑ यजति⁠। पञ्च॒ दिशः॑⁠। दि॒ख्‍ष्वे॑व प्रति॑ तिष्ठति⁠। ह॒विषो॑ हविष इ॒ष्ट्वा बा॑र्‌हस्प॒त्यम॒भिघा॑रयति⁠। य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै बृह॒स्पतिः॑⁠। यज॑मानमे॒व तेज॑सा॒ सम॑र्द्धयति⁠ ॥ [८] (१०) आ॒दि॒त्यां म॒ल्॒‌हां ग॒र्भिणी॒मा ल॑भते⁠। मा॒रु॒तीं पृश्ञिं॑ पष्ठौ॒हीम्⁠। विशं॑ चै॒वास्मै॑ रा॒ष्ट्रं च॑ स॒मीची॑ दधाति⁠। आ॒दि॒त्यया॒ पूर्व॑या॒ प्रच॑रति⁠। मा॒रु॒त्योत्त॑रया⁠। रा॒ष्ट्र ए॒व विश॒मनु॑बद्ध्नाति⁠। उ॒च्चैरा॑दि॒त्याया॒ आश्रा॑वयति⁠। उ॒पा॒ꣳ॒शु मा॑रु॒त्यै⁠। तस्मा᳚द्रा॒ष्ट्रव्ँविश॒मति॑वदति⁠। ग॒र्भिण्या॑दि॒त्या भ॑वति⁠ ॥ [९] (१०) इ॒न्द्रि॒यव्ँवै गर्भः॑⁠। रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः⁠। अ॒ग॒र्भा मा॑रु॒ती⁠। विड्वै म॒रुतः॑⁠। विश॑मे॒व निरि॑न्द्रियामकः⁠। दे॒वा॒सु॒राः सय्ँय॑त्ता आसन्न्⁠। ते दे॒वा अ॒श्विनोः᳚ पू॒षन्वा॒चः स॒त्यꣳ स॑निं॒धाय॑⁠। अनृ॑ते॒नासु॑रान॒भ्य॑भवन्न्⁠। ते᳚ऽश्विभ्यां᳚ पू॒ष्णे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर॑वपन्न्⁠। ततो॒ वै ते वा॒चः स॒त्यमवा॑रुन्धत⁠ ॥ [१०] (१०) यद॒श्विभ्यां᳚ पू॒ष्णे पु॑रो॒डाशं॒ द्वाद॑शकपालं नि॒र्वप॑ति⁠। अनृ॑तेनै॒व भ्रातृ॑व्यानभि॒भूय॑⁠। वा॒चः स॒त्यमव॑रुन्धे⁠। सर॑स्वते सत्य॒वाचे॑ च॒रुम्⁠। पूर्व॑मे॒वोदि॒तम्⁠। उत्त॑रेणा॒भि गृ॑णाति⁠। स॒वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपालं॒ प्रसू᳚त्यै⁠। दू॒तान्प्रहि॑णोति⁠। आ॒विद॑ ए॒ता भ॑वन्ति⁠। आ॒विद॑मे॒वैनं॑ गमयन्ति⁠। अथो॑ दू॒तेभ्य॑ ए॒व न छि॑द्यते⁠। ति॒सृ॒ध॒न्वꣳ शु॑ष्कदृ॒तिर्दख्‍षि॑णा॒ समृ॑द्ध्यै⁠ ॥ [११] (१२) (अ॒र्द्ध॒य॒ति॒ भ॒व॒ त्य॒रु॒न्ध॒त॒ ग॒म॒य॒न्ति॒ द्वे च॑) ॥३॥
प्रयुजां हवींषि द्वादश
आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पति⁠। तस्मा॒च्छिशि॑रे कुरुपञ्चा॒लाः प्राञ्चो॑ यान्ति⁠। सौ॒म्यं च॒रुम्⁠। तस्मा᳚द्वस॒न्तव्ँव्य॑व॒साया॑दयन्ति⁠। सा॒वि॒त्रं द्वाद॑शकपालम्⁠। तस्मा᳚त्पु॒रस्ता॒द्यवा॑नाꣳ सवि॒त्रा विरु॑न्धते⁠। बा॒र्॒‌ह॒स्प॒त्यं च॒रुम्⁠। स॒वि॒त्रैव वि॒रुद्ध्य॑⁠। ब्रह्म॑णा॒ यवा॒नाद॑धते⁠। त्वा॒ष्ट्रम॒ष्टाक॑पालम्⁠ ॥ [१२] (१०) रू॒पाण्ये॒व तेन॑ कुर्वते⁠। वै॒श्वा॒न॒रं द्वाद॑शकपालम्⁠। तस्मा᳚ज्जघ॒न्ये॑ नैदा॑घे प्र॒त्यञ्चः॑ कुरुपञ्चा॒ला या᳚न्ति⁠। सा॒र॒स्व॒तं च॒रुं निर्व॑पति⁠। तस्मा᳚त्प्रा॒वृषि॒ सर्वा॒ वाचो॑ वदन्ति⁠। पौ॒ष्णेन॒ व्यव॑स्यन्ति⁠। मै॒त्रेण॑ कृषन्ते⁠। वा॒रु॒णेन॒ विधृ॑ता आसते⁠। ख्‍षै॒त्र॒प॒त्येन॑ पाचयन्ते⁠। आ॒दि॒त्येनाद॑धते⁠ ॥ [१३] (१०) मा॒सिमा᳚स्ये॒तानि॑ ह॒वीꣳषि॑ नि॒रुप्या॒णीत्या॑हुः⁠। तेनै॒वर्तून्प्रयु॑ङ्क्त॒ इति॑⁠। अथो॒ खल्वा॑हुः⁠। कः स॑व्ँवथ्स॒रं जी॑विष्य॒तीति॑⁠। षडे॒व पू᳚र्वे॒द्युर्नि॒रुप्या॑णि⁠। षडु॑त्तरे॒द्युः⁠। तेनै॒वर्तून्प्रयु॑ङ्क्ते⁠। दख्‍षि॑णो रथवाहनवा॒हः पूर्वे॑षां॒ दख्‍षि॑णा⁠। उत्त॑र॒ उत्त॑रेषाम्⁠। स॒व्ँव॒थ्स॒रस्यै॒वान्तौ॑ युनक्ति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠ ॥ [१४] (११) (त्वा॒ष्ट्रम॒ष्टाक॑पालं दधते युन॒क्त्येकं॑ च) ॥४॥
सौत्रामणिः, पशवः, हवींषि च
इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँवी॒र्यं॑ परा॑ऽपतत्⁠। स यत् प्र॑थ॒मं नि॒रष्ठी॑वत्⁠। तत्क्व॑लमभवत्⁠। यद्द्वि॒तीय᳚म्⁠। तद्बद॑रम्⁠। यत्तृ॒तीय᳚म्⁠। तत्क॒र्कन्धु॑⁠। यन्न॒स्तः⁠। स सि॒ꣳ॒हः⁠। यदख्‍ष्योः᳚⁠ ॥ [१५] (१०) स शा᳚र्दू॒लः⁠। यत्कर्ण॑योः⁠। स वृकः॑⁠। य ऊ॒र्द्ध्वः⁠। स सोमः॑⁠। याऽवा॑ची⁠। सा सुरा᳚⁠। त्र॒याः सक्त॑वो भवन्ति⁠। इ॒न्द्रि॒यस्याव॑रुद्ध्यै⁠। त्र॒याणि॒ लोमा॑नि⁠ ॥ [१६] (१०) त्विषि॑मे॒वाव॑ रुन्धे⁠। त्रयो॒ ग्रहाः᳚⁠। वी॒र्य॑मे॒वाव॑ रुन्धे⁠। नाम्ना॑ दश॒मी⁠। नव॒ वै पुरु॑षे प्रा॒णाः⁠। नाभि॑र्दश॒मी⁠। प्रा॒णा इ॑न्द्रि॒यव्ँवी॒र्य᳚म्⁠। प्रा॒णाने॒वेन्द्रि॒यव्ँवी॒र्य॑य्ँयज॑मान आ॒त्मन्ध॑त्ते⁠। सीसे॑न क्ली॒बाच्छष्पा॑णि क्रीणाति⁠। न वा ए॒तदयो॒ न हिर॑ण्यम्⁠ ॥ [१७] (१०) यथ्सीस᳚म्⁠। न स्त्री न पुमा॑न्⁠। यत्क्ली॒बः⁠। न सोमो॒ न सुरा᳚⁠। यथ्सौ᳚त्राम॒णी समृ॑द्ध्यै⁠। स्वा॒द्वीं त्वा᳚ स्वा॒दुनेत्या॑ह⁠। सोम॑मे॒वैनां᳚ करोति⁠। सोमो᳚ऽस्य॒श्विभ्यां᳚ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्य॒स्वेत्या॑ह⁠। ए॒ताभ्यो॒ ह्ये॑षा दे॒वता᳚भ्यः॒ पच्य॑ते⁠। ति॒स्रः सꣳसृ॑ष्टा वसति⁠ ॥ [१८] (१०) ति॒स्रो हि रात्रीः᳚ क्री॒तः सोमो॒ वस॑ति⁠। पु॒नातु॑ ते परि॒स्रुत॒मिति॒ यजु॑षा पुनाति॒ व्यावृ॑त्त्यै⁠। प॒वित्रे॑ण पुनाति⁠। प॒वित्रे॑ण॒ हि सोमं॑ पु॒नन्ति॑⁠। वारे॑ण॒ शश्व॑ता॒ तनेत्या॑ह⁠। वारे॑ण॒ हि सोमं॑ पु॒नन्ति॑⁠। वा॒युः पू॒तः प॒वित्रे॒णेति॒ नैतया॑ पुनीयात्⁠। व्यृ॑द्धा॒ ह्ये॑षा⁠। अ॒ति॒प॒वि॒तस्यै॒तया॑ पुनीयात्⁠। कु॒विद॒ङ्गेत्यनि॑रुक्तया प्राजाप॒त्यया॑ गृह्णाति⁠ ॥ [१९] (१०) अनि॑रुक्तः प्र॒जाप॑तिः⁠। प्र॒जाप॑ते॒राप्त्यै᳚⁠। एक॑य॒र्चा गृ॑ह्णाति⁠। ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति⁠। आ॒श्वि॒नं धू॒म्रमा ल॑भते⁠। अ॒श्विनौ॒ वै दे॒वानां᳚ भि॒षजौ᳚⁠। ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति⁠। सा॒र॒स्व॒तं मे॒षम्⁠। वाग्वै सर॑स्वती⁠। वा॒चैवैनं॑ भिषज्यति⁠। ऐ॒न्द्रमृ॑ष॒भꣳ से᳚न्द्र॒त्वाय॑⁠ ॥ [२०] (११) (अख्‍ष्यो॒र् लोमा॑नि॒ हिर॑ण्यं वसति गृह्णाति भिषज्य॒त्येकं॑ च) ॥५॥
सौत्रामणिः, पशवः, हवींषि च
यत्त्रि॒षु यूपे᳚ष्वा॒लभे॑त⁠। ब॒हि॒र्द्धाऽस्मा॑दिन्द्रि॒यव्ँवीर्यं॑ दध्यात्⁠। भ्रातृ॑व्यमस्मै जनयेत्⁠। ए॒क॒यू॒प आल॑भते⁠। ए॒क॒धैवास्मि॑न्निन्द्रि॒यव्ँवी॒र्यं॑ दधाति⁠। नास्मै॒ भ्रातृ॑व्यं जनयति⁠। नैतेषां᳚ पशू॒नां पु॑रो॒डाशा॑ भवन्ति⁠। ग्रह॑पुरोडाशा॒ ह्ये॑ते⁠। यु॒वꣳ सु॒राम॑मश्वि॒नेति॑ सर्वदेव॒त्ये॑ याज्यानुवा॒क्ये॑ भवतः⁠। सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति⁠ ॥ [२१] (१०) ब्रा॒ह्म॒णं परि॑क्रीणीयादु॒च्छेष॑णस्य पा॒तार᳚म्⁠। ब्रा॒ह्म॒णो ह्याहु॑त्या उ॒च्छेष॑णस्य पा॒ता⁠। यदि॑ ब्राह्म॒णं न वि॒न्देत्⁠। व॒ल्मी॒क॒व॒पाया॒मव॑ नयेत्⁠। सैव ततः॒ प्राय॑श्चित्तिः⁠। यद्वै सौ᳚त्राम॒ण्यै व्यृ॑द्धम्⁠। तद॑स्यै॒ समृ॑द्धम्⁠। ना॒ना॒दे॒व॒त्याः᳚ प॒शव॑श्च पुरो॒डाशा᳚श्च भवन्ति॒ समृ॑द्ध्यै⁠। ऐ॒न्द्रः प॑शू॒नामु॑त्त॒मो भ॑वति⁠। ऐ॒न्द्रः पु॑रो॒डाशा॑नां प्रथ॒मः⁠ ॥ [२२] (१०) इ॒न्द्रि॒ये ए॒वास्मै॑ स॒मीची॑ दधाति⁠। पु॒रस्ता॑दनूया॒जानां᳚ पुरो॒डाशैः॒ प्रच॑रति⁠। प॒शवो॒ वै पु॑रो॒डाशाः᳚⁠। प॒शूने॒वाव॑ रुन्धे⁠। ऐ॒न्द्रमेका॑दशकपालं॒ निर्व॑पति⁠। इ॒न्द्रि॒यमे॒वाव॑रुन्धे⁠। सा॒वि॒त्रं द्वाद॑शकपालं॒ प्रसू᳚त्यै⁠। वा॒रु॒णं दश॑कपालम्⁠। अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते⁠। वड॑बा॒ दख्‍षि॑णा⁠ ॥ [२३] (१०) उ॒त वा ए॒षाऽश्व॑ꣳ सू॒ते⁠। उ॒ताश्व॑त॒रम्⁠। उ॒त सोम॑ उ॒त सुरा᳚⁠। यथ्सौ᳚त्राम॒णी समृ॑द्ध्यै⁠। बा॒र्॒‌ह॒स्प॒त्यं प॒शुं च॑तु॒र्थम॑तिपवि॒तस्याल॑भते⁠। ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑⁠। ब्रह्म॑णै॒व य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑वपति⁠। पु॒रो॒डाश॑वाने॒ष प॒शुर्भ॑वति⁠। न ह्ये॑तस्य॒ ग्रहं॑ गृ॒ह्णन्ति॑⁠। सोम॑प्रतीकाः पितरस्तृप्णु॒तेति॑ शतातृ॒ण्णाया॑ꣳ स॒मव॑नयति⁠ ॥ [२४] (१०) श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः⁠। आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति⁠। दख्‍षि॑णे॒ऽग्नौ जु॑होति⁠। पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै⁠। हिर॑ण्यमन्त॒रा धा॑रयति⁠। पू॒तामे॒वैनां᳚ जुहोति⁠। श॒तमा॑नं भवति⁠। श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः⁠। आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति⁠। यत्रै॒व श॑तातृ॒ण्णां धा॒रय॑ति⁠ ॥ [२५] (१०) तन्निद॑धाति॒ प्रति॑ष्ठित्यै⁠। पि॒तॄन्‌वा ए॒तस्ये᳚न्द्रि॒यव्ँवी॒र्यं॑ गच्छति⁠। यꣳ सोमो॑ऽति॒पव॑ते⁠। पि॒तृ॒णाय्ँया᳚ज्यानुवा॒क्या॑भि॒रुप॑ तिष्ठते⁠। यदे॒वास्य॑ पि॒तॄनि॑न्द्रि॒यव्ँवी॒र्यं॑ गच्छ॑ति⁠। तदे॒वाव॑ रुन्धे⁠। ति॒सृभि॒रुप॑ तिष्ठते⁠। तृ॒तीये॒ वा इ॒तो लो॒के पि॒तरः॑⁠। ताने॒व प्री॑णाति⁠। अथो॒ त्रीणि॒ वै य॒ज्ञस्ये᳚न्द्रि॒याणि॑⁠। अ॒द्ध्व॒र्युर्‌होता᳚ ब्र॒ह्मा⁠। त उप॑तिष्ठन्ते⁠। यान्ये॒व य॒ज्ञस्ये᳚न्द्रि॒याणि॑⁠। तैरे॒वास्मै॑ भेष॒जं क॑रोति⁠ ॥ [२६] (१४) (प्र॒णा॒ति॒ प्र॒थ॒मो दख्‍षि॑णा स॒मव॑नयति धा॒रय॑ तीन्द्रि॒याणि॑ च॒त्वारि॑ च) ॥६॥
राजसूयस्याग्रे कर्तव्यं पवित्राख्यमग्निष्टोममहः
अ॒ग्नि॒ष्टो॒ममग्र॒ आह॑रति⁠। य॒ज्ञ॒मु॒खव्ँवा अ॑ग्निष्टो॒मः⁠। य॒ज्ञ॒मु॒खमे॒वारभ्य॑ स॒वमाक्र॑मते⁠। अथै॒षो॑ऽभिषेच॒नीय॑श्चतुस्त्रि॒ꣳ॒शप॑वमानो भवति⁠। त्रय॑स्त्रिꣳश॒द्वै दे॒वताः᳚⁠। ता ए॒वाप्नो॑ति⁠। प्र॒जाप॑तिश्चतुस्त्रि॒ꣳ॒शः⁠। तमे॒वाप्नो॑ति⁠। स॒ꣳ॒श॒र ए॒ष स्तोमा॑ना॒मय॑थापूर्वम्⁠। यद्विष॑माः॒ स्तोमाः᳚⁠ ॥ [२७] (१०) ए॒तावा॒न्॒‌वै य॒ज्ञः⁠। यावा॒न्पव॑मानाः⁠। अ॒न्तः॒ श्लेष॑णं॒ त्वा अ॒न्यत्⁠। यथ्स॒माः पव॑मानाः⁠। तेनास॑ꣳशरः⁠। तेन॑ यथापू॒र्वम्⁠। आ॒त्मनै॒वाग्नि॑ष्टो॒मेन॒र्द्ध्नोति॑⁠। आ॒त्मना॒ पुण्यो॑ भवति⁠। प्र॒जा वा उ॒क्थानि॑⁠। प॒शव॑ उ॒क्थानि॑⁠। यदु॒क्थ्यो॑ भव॒त्यनु॒ संत॑त्यै⁠ ॥ [२८] (११) (स्तोमाः᳚प॒शव॑ उ॒क्थान्येकं॑ च) ॥७॥
अभिषेचनीये साममन्त्रविशेषः
उप॑ त्वा जा॒मयो॒ गिर॒ इति॑ प्रति॒पद्भ॑वति⁠। वाग्वै वा॒युः⁠। वा॒च ए॒वैषो॑ऽभिषे॒कः⁠। सर्वा॑सामे॒व प्र॒जाना॑ꣳ सूयते⁠। सर्वा॑ एनं प्र॒जा राजेति॑ वदन्ति⁠। ए॒तमु॒ त्यं दश॒ख्‍षिप॒ इत्या॑ह⁠। आ॒दि॒त्या वै प्र॒जाः⁠। प्र॒जाना॑मे॒वैतेन॑ सूयते⁠। यन्ति॒ वा ए॒ते य॑ज्ञमु॒खात्⁠। ये स॑म्भा॒र्या॑ अक्र॑न्न्⁠ ॥ [२९] (१०) यदाह॒ पव॑स्व वा॒चो अ॑ग्रिय॒ इति॑⁠। तेनै॒व य॑ज्ञमु॒खान्नय॑न्ति⁠। अ॒नु॒ष्टुक्प्र॑थ॒मा भ॑वति⁠। अ॒नु॒ष्टुगु॑त्त॒मा⁠। वाग्वा अ॑नु॒ष्टुक्⁠। वा॒चैव प्र॒यन्ति॑⁠। वा॒चोद्य॑न्ति⁠। उद्व॑तीर्भवन्ति⁠। उद्व॒द्वा अ॑नु॒ष्टुभो॑ रू॒पम्⁠। आनु॑ष्टुभो राज॒न्यः॑⁠ ॥ [३०] (१०) तस्मा॒दुद्व॑तीर्भवन्ति⁠। सौ॒र्य॑नु॒ष्टुगु॑त्त॒मा भ॑वति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ संत॑त्यै⁠। यो वै स॒वादेति॑⁠। नैन॑ꣳ स॒व उप॑नमति⁠। यः साम॑भ्य॒ एति॑⁠। पापी॑यान्थ्सुषुवा॒णो भ॑वति⁠। ए॒तानि॒ खलु॒ वै सामा॑नि⁠। यत्पृ॒ष्ठानि॑⁠। यत्पृ॒ष्ठानि॒ भव॑न्ति⁠ ॥ [३१] (१०) तैरे॒व स॒वान्नैति॑⁠। यानि॑ देवरा॒जाना॒ꣳ॒ सामा॑नि⁠। तैर॒मुष्मि॑ल्ँलो॒क ऋ॑द्ध्नोति⁠। यानि॑ मनुष्यरा॒जाना॒ꣳ॒ सामा॑नि⁠। तैर॒स्मिल्ँलो॒क ऋ॑द्ध्नोति⁠। उ॒भयो॑रे॒व लो॒कयो॑र्‌ऋद्ध्नोति⁠। दे॒व॒लो॒के च॑ मनुष्यलो॒के च॑⁠। ए॒क॒वि॒ꣳ॒शो॑ऽभिषेच॒नीय॑स्योत्त॒मो भ॑वति⁠। ए॒क॒वि॒ꣳ॒शः के॑शवप॒नीय॑स्य प्रथ॒मः⁠। स॒प्त॒द॒शो द॑श॒पेयः॑⁠ ॥ [३२] (१०) विड्वा ए॑कवि॒ꣳ॒शः⁠। रा॒ष्ट्रꣳ स॑प्तद॒शः⁠। विश॑ ए॒वैतन्म॑द्ध्य॒तो॑ऽभिषि॑च्यते⁠। तस्मा॒द्वा ए॒ष वि॒शां प्रि॒यः⁠। वि॒शो हि म॑द्ध्य॒तो॑ऽभिषि॒च्यते᳚⁠। यद्वा ए॑नम॒दो दिशोऽनु॑ व्यास्था॒पय॑न्ति⁠। तथ्सु॑व॒र्गल्ँलो॒कम॒भ्यारो॑हति⁠। यदि॒मल्ँलो॒कं न प्र॑त्यव॒रोहे᳚त्⁠। अ॒ति॒ ज॒नव्ँवे॒यात्⁠। उद्वा॑ माद्येत्⁠। यदे॒ष प्र॑ती॒चीन॑स्तोमो॒ भव॑ति⁠। इ॒ममे॒व तेन॑ लो॒कं प्र॒त्यव॑रोहति⁠। अथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒त्यनु॑न्मादाय⁠ ॥ [३३] (१३) (अक्र॑न् राज॒न्यो॑ भव॑न्ति दश॒पेयो॑ माद्ये॒त् त्रीणि॑ च) ॥८॥
अभिषेचनीयविषययो रुक्मयोः स्तुतिः
इ॒यव्ँवै र॑ज॒ता⁠। अ॒सौ हरि॑णी⁠। यद्रु॒क्मौ भव॑तः⁠। आ॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑ गृह्णाति⁠। वरु॑णस्य॒ वा अ॑भिषि॒च्यमा॑न॒स्यापः॑⁠। इ॒न्द्रि॒यव्ँवी॒र्यं॑ निर॑घ्नन्न्⁠। तथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यमभवत्⁠। यद्रु॒क्मम॑न्त॒र्दधा॑ति⁠। इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय⁠। श॒तमा॑नो भवति श॒तख्‍ष॑रः⁠। श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः⁠। आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति⁠। आयु॒र्वै हिर॑ण्यम्⁠। आ॒यु॒ष्या॑ ए॒वैन॑म॒भ्यति॑ ख्‍षरन्ति⁠। तेजो॒ वै हिर॑ण्यम्⁠। ते॒ज॒स्या॑ ए॒वैन॑म॒भ्यति॑ ख्‍षरन्ति⁠। वर्चो॒ वै हिर॑ण्यम्⁠। व॒र्च॒स्या॑ ए॒वैन॑म॒भ्यति॑ ख्‍षरन्ति⁠ ॥ [३४] (१८) (श॒तख्‍ष॑रो॒ऽष्टौ च॑) ॥९॥
व्युष्टिद्विरात्रं राजसूयान्ते कर्तव्यम्
अप्र॑तिष्ठितो॒ वा ए॒ष इत्या॑हुः⁠। यो रा॑ज॒सूये॑न॒ यज॑त॒ इति॑⁠। य॒दा वा ए॒ष ए॒तेन॑ द्विरा॒त्रेण॒ यज॑ते⁠। अथ॑ प्रति॒ष्ठा⁠। अथ॑ सव्ँवथ्स॒रमा᳚प्नोति⁠। याव॑न्ति सव्ँवथ्स॒रस्या॑होरा॒त्राणि॑⁠। ताव॑तीरे॒तस्य॑ स्तो॒त्रीयाः᳚⁠। अ॒हो॒रा॒त्रेष्वे॒व प्रति॑ तिष्ठति⁠। अ॒ग्नि॒ष्टो॒मः पूर्व॒मह॑र्भवति⁠। अ॒ति॒रा॒त्र उत्त॑रम्⁠ ॥ [३५] (१०) नानै॒वाहो॑रा॒त्रयोः॒ प्रति॑ तिष्ठति⁠। पौ॒र्ण॒मा॒स्यां पूर्व॒मह॑र्भवति⁠। व्य॑ष्टकाया॒मुत्त॑रम्⁠। नानै॒वार्द्ध॑ मा॒सयोः॒ प्रति॑तिष्ठति⁠। अ॒मा॒वा॒स्या॑यां॒ पूर्व॒मह॑र्भवति⁠। उद्दृ॑ष्ट॒ उत्त॑रम्⁠। नानै॒व मास॑योः॒ प्रति॑ तिष्ठति⁠। अथो॒ खलु॑⁠। ये ए॒व स॑मानप॒ख्‍षे पु॑ण्या॒हे स्याता᳚म्⁠। तयोः᳚ का॒र्यं॑ प्रति॑ष्ठित्यै⁠ ॥ [३६] (१०) अ॒प॒श॒व्यो द्वि॑रा॒त्र इत्या॑हुः⁠। द्वे ह्ये॑ते छन्द॑सी⁠। गा॒य॒त्रं च॒ त्रैष्टु॑भं च⁠। जग॑तीम॒न्तर्य॑न्ति⁠। न तेन॒ जग॑ती कृ॒तेत्या॑हुः⁠। यदे॑नां तृतीयसव॒ने कु॒र्वन्तीति॑⁠। य॒दा वा ए॒षाऽहीन॒स्याह॒र् भज॑ते⁠। सा॒ह्नस्य॑ वा॒ सव॑नम्⁠। अथै॒व जग॑ती कृ॒ता⁠। अथ॑ पश॒व्यः॑⁠। व्यु॑ष्टि॒र्वा ए॒ष द्वि॑रा॒त्रः⁠। य ए॒वव्ँवि॒द्वान् द्वि॑रा॒त्रेण॒ यज॑ते⁠। व्ये॑वास्मा॑ उच्छति⁠। अथो॒ तम॑ ए॒वाप॑हते⁠। अ॒ग्नि॒ष्टो॒मम॑न्त॒त आह॑रति⁠। अ॒ग्निः सर्वा॑ दे॒वताः᳚⁠। दे॒वता᳚स्वे॒व प्रति॑ तिष्ठति⁠ ॥ [३७] (१७) (उत्त॑रं॒ प्रति॑ष्ठित्यै पश॒व्यः॑ स॒प्त च॑) ॥१०॥
अनुवाकाः पञ्चशती
१० ३७