कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणम्
द्वितीयाष्टके तृतीयः प्रपाठकः

अष्टक २ प्रपाठक ३
होतृब्राह्मणशेषः

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। किं चतु॑र्‌होतृणां चतुर्‌होतृ॒त्वमिति॑⁠। यदे॒वैषु च॑तु॒द्‌र्धा होता॑रः⁠। तेन॒ चतु॑र्‌होतारः⁠। तस्मा॒च्चतु॑र्‌होतार उच्यन्ते⁠। तच्चतु॑र्‌होतृणां चतुर्‌होतृ॒त्वम्⁠॥ सोमो॒ वै चतु॑र्‌होता⁠। अ॒ग्निः पञ्च॑होता⁠। धा॒ता षड्ढो॑ता⁠। इन्द्रः॑ स॒प्तहो॑ता⁠ ॥ [१] (१०) प्र॒जाप॑ति॒र्दश॑होता⁠। य ए॒वं चतु॑र्‌होतृणा॒मृद्धि॒व्ँवेद॑⁠। ऋ॒ध्नोत्ये॒व⁠॥ य ए॑षामे॒वं ब॒न्धुता॒व्ँवेद॑⁠। बन्धु॑मान्भवति⁠। य ए॑षामे॒वं क्लृप्ति॒व्ँवेद॑⁠। कल्प॑तेऽस्मै⁠। य ए॑षामे॒वमा॒यत॑न॒व्ँवेद॑⁠। आ॒यत॑नवान्भवति⁠। य ए॑षामे॒वं प्र॑ति॒ष्ठाव्ँवेद॑⁠ ॥ [२] (१०) प्रत्ये॒व ति॑ष्ठति⁠॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। दश॑होता॒ चतु॑र्‌होता⁠। पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता⁠। अथ॒ कस्मा॒च्चतु॑र्‌होतार उच्यन्त॒ इति॑⁠। इन्द्रो॒ वै चतु॑र्‌होता⁠। इन्द्रः॒ खलु॒ वै श्रेष्ठो॑ दे॒वता॑नामुप॒देश॑नात्⁠। य ए॒वमिन्द्र॒ꣴ॒ श्रेष्ठं॑ दे॒वता॑नामुप॒देश॑ना॒द्वेद॑⁠। वसि॑ष्ठः समा॒नानां᳚ भवति⁠। तस्मा॒च्छ्रेष्ठ॑मा॒यन्तं॑ प्रथ॒मेनै॒वानु॑बुद्ध्यन्ते⁠। अ॒यमाग॑न्न्⁠। अ॒यमवा॑सा॒दिति॑⁠। की॒र्तिर॑स्य॒ पूर्वाऽऽग॑च्छति ज॒नता॑माय॒तः⁠। अथो॑ एनं प्रथ॒मेनै॒वानु॑ बुद्ध्यन्ते⁠। अ॒यमाग॑न्न्⁠। अ॒यमवा॑सा॒दिति॑⁠ ॥ [३] (१६) (स॒प्तहो॑ता प्रति॒ष्ठां वेद॑ बुद्ध्यन्ते॒ षट्च॑) ॥१॥
नैमित्तिको होतृमन्त्रहोमः
दख्‍षि॑णां प्रतिग्रही॒ष्यन्थ्स॒प्तद॑श॒कृत्वोऽपा᳚न्यात्⁠। आ॒त्मान॑मे॒व समि॑न्धे⁠। तेज॑से वी॒र्या॑य⁠। अथो᳚ प्र॒जाप॑तिरे॒वैनां᳚ भू॒त्वा प्रति॑ गृह्णाति⁠। आ॒त्मनोऽना᳚र्त्यै⁠॥ यद्ये॑न॒मार्त्वि॑ज्याद्वृ॒तꣳ सन्तं॑ नि॒र्‌हरे॑रन्न्⁠। आग्नी᳚द्ध्रे जुहुया॒द्दश॑होतारम्⁠। च॒तु॒र्गृ॒ही॒तेनाज्ये॑न⁠। पु॒रस्ता᳚त्प्र॒त्यङ्तिष्ठ॑न्न्⁠। प्र॒ति॒लो॒मव्ँवि॒ग्राह᳚म्⁠ ॥ [४] (१०) प्रा॒णाने॒वास्योप॑दासयति⁠॥ यद्ये॑नं॒ पुन॑रुप॒ शिख्‍षे॑युः⁠। आग्नी᳚द्ध्र ए॒व जु॑हुया॒द्दश॑होतारम्⁠। च॒तु॒र्गृ॒ही॒तेनाज्ये॑न⁠। प॒श्चात् प्राङासी॑नः⁠। अ॒नु॒लो॒ममवि॑ग्राहम्⁠। प्रा॒णाने॒वास्मै॑ कल्पयति⁠॥ प्राय॑श्चित्ती॒वाग्घोतेत्यृ॑तुमु॒ख ऋ॑तुमुखे जुहोति⁠। ऋ॒तूने॒वास्मै॑ कल्पयति⁠। कल्प॑न्तेऽस्मा ऋ॒तवः॑⁠ ॥ [५] (१०) क्लृ॒ता अ॑स्मा ऋ॒तव॒ आय॑न्ति⁠॥ षड्ढो॑ता॒ वै भू॒त्वा प्र॒जाप॑तिरि॒दꣳ सर्व॑मसृजत⁠। स मनो॑ऽसृजत⁠। मन॒सोऽधि॑ गाय॒त्रीम॑सृजत⁠। तद्गा॑य॒त्रीय्ँयश॑ आर्च्छत्⁠। तामाऽल॑भत⁠। गा॒य॒त्रि॒या अधि॒ छन्दा॑ꣴस्य सृजत⁠। छन्दो॒भ्योऽधि॒ साम॑⁠। तथ् साम॒ यश॑ आर्च्छत्⁠। तदाऽल॑भत⁠ ॥ [६] (१०) साम्नोऽधि॒ यजू॑ꣴष्यसृजत⁠। यजु॒र्भ्योऽधि॒ विष्णु᳚म्⁠। तद्विष्णु॒य्ँयश॑ आर्च्छत्⁠। तमाऽल॑भत⁠। वि॒ष्णोरद्ध्योष॑धीरसृजत⁠। ओष॑धी॒भ्योऽधि॒ सोम᳚म्⁠। तथ् सोम॒य्ँयश॑ आर्च्छत्⁠। तमाऽल॑भत⁠। सोमा॒दधि॑ प॒शून॑सृजत⁠। प॒शुभ्योऽधीन्द्र᳚म्⁠ ॥ [७] (१०) तदिन्द्र॒य्ँयश॑ आर्च्छत्⁠। तदे॑नं॒ नाति॒ प्राच्य॑वत⁠। इन्द्र॑ इव यश॒स्वी भ॑वति⁠। य ए॒वव्ँवेद॑⁠। नैन॒य्ँयशोऽति॒ प्रच्य॑वते⁠॥ यद्वा इ॒दं किं च॑⁠। तथ् सर्व॑मुत्ता॒न ए॒वाङ्गी॑र॒सः प्रत्य॑गृह्णात्⁠। तदे॑नं॒ प्रति॑गृहीतं॒ नाहि॑नत्⁠। यत् किंच॑ प्रति गृह्णी॒यात्⁠। तथ्सर्व॑मुत्ता॒नस्त्वा᳚ङ्गीर॒सः प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑गृह्णीयात्⁠। इ॒यव्ँवा उ॑त्ता॒न आ᳚ङ्गीर॒सः⁠। अ॒नयै॒वैन॒त्प्रति॑ गृह्णाति⁠। नैन॑ꣳ हिनस्ति⁠॥ ब॒र॒हिषा॒ प्रती॑या॒द्गाव्ँवाऽश्व॑व्ँवा⁠। ए॒तद्वै प॑शू॒नां प्रि॒यं धाम॑⁠। प्रि॒येणै॒वैनं॒ धाम्ना॒ प्रत्ये॑ति⁠ ॥ [८] (१६) (वि॒ग्राह॑ मृ॒तव॒ स्तदाऽल॑भ॒ तेन्द्रं॑ गृह्णीया॒थ् षट्च॑) ॥२॥
केशवपनाङ्गं पुष्टिवेदनं
यो वा अवि॑द्वान्निव॒र्तय॑ते⁠। विशी॑र्‌षा॒ सपा᳚प्मा॒ऽमुष्मि॑ल्ँलो॒के भ॑वति⁠। अथ॒ यो वि॒द्वान्नि॑व॒र्तय॑ते⁠। सशी॑र्‌षा॒ विपा᳚प्मा॒ऽमुष्मि॑ल्ँलो॒के भ॑वति⁠॥ दे॒वता॒ वै स॒प्त पुष्टि॑कामा॒ न्य॑वर्तयन्त⁠। अ॒ग्निश्च॑ पृथि॒वी च॑⁠। वा॒युश्चा॒न्तरि॑ख्‍षं च⁠। आ॒दि॒त्यश्च॒ द्यौश्च॑ च॒न्द्रमाः᳚⁠। अ॒ग्निर्न्य॑वर्तयत⁠। स सा॑ह॒स्रम॑पुष्यत्⁠ ॥ [९] (१०) पृ॒थि॒वी न्य॑वर्तयत⁠। सौष॑धीभि॒र्वन॒स्पति॑भिरपुष्यत्⁠। वा॒युर्न्य॑वर्तयत⁠। स मरी॑चीभिरपुष्यत्⁠। अ॒न्तरि॑ख्‍षं॒ न्य॑वर्तयत⁠। तद्वयो॑भिरपुष्यत्⁠। आ॒दि॒त्यो न्य॑वर्तयत⁠। स र॒श्मिभि॑रपुष्यत्⁠। द्यौर्न्य॑वर्तयत⁠। सा नख्‍ष॑त्रैरपुष्यत्⁠। च॒न्द्रमा॒ न्य॑वर्तयत⁠। सो॑ऽहोरा॒त्रैर॑द्‌र्धमा॒सैर्मासै॑र्‌ऋ॒तुभिः॑ सव्ँवथ्स॒रेणा॑पुष्यत्⁠। तान्पोषा᳚न्पुष्यति⁠। याꣴस्तेऽपु॑ष्यन्न्⁠। य ए॒वव्ँवि॒दान्नि च॑ व॒र्तय॑ते॒ परि॑ च⁠ ॥ [१०] (१५) (अ॒पु॒ष्य॒न् नख्‍ष॑त्रैरपुष्य॒त् पञ्च॑ च) ॥३॥
प्रतिग्रहमन्त्रमहिमज्ञानम्
तस्य॒ वा अ॒ग्नेर्‌हिर॑ण्यं प्रतिजग्र॒हुषः॑⁠। अ॒द्‌र्धमि॑न्द्रि॒यस्यापा᳚क्रामत्⁠। तदे॒तेनै॒व प्रत्य॑गृह्णात्⁠। तेन॒ वै सो᳚ऽद्‌र्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त⁠। अ॒द्‌र्धमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते⁠। य ए॒वव्ँवि॒द्वान्‌हिर॑ण्यं प्रति गृ॒ह्णाति॑⁠। अथ॒ योऽवि॑द्वान् प्रति गृ॒ह्णाति॑⁠। अ॒द्‌र्धम॑स्येन्द्रि॒यस्याप॑ क्रामति⁠॥ तस्य॒ वै सोम॑स्य॒ वासः॑ प्रतिजग्र॒हुषः॑⁠। तृती॑यमिन्द्रि॒यस्यापा᳚क्रामत्⁠ ॥ [११] (१०) तदे॒तेनै॒व प्रत्य॑गृह्णात्⁠। तेन॒ वै स तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त⁠। तृती॑यमिन्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते⁠। य ए॒वव्ँवि॒द्वान्‌वासः॑ प्रति गृ॒ह्णाति॑⁠। अथ॒ योऽवि॑द्वान् प्रति गृ॒ह्णाति॑⁠। तृती॑यमस्येन्द्रि॒यस्याप॑ क्रामति⁠॥ तस्य॒ वै रु॒द्रस्य॒ गां प्र॑तिजग्र॒हुषः॑⁠। च॒तु॒र्थमि॑न्द्रि॒यस्यापा᳚क्रामत्⁠। तामे॒तेनै॒व प्रत्य॑गृह्णात्⁠। तेन॒ वै स च॑तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त⁠ ॥ [१२] (१०) च॒तु॒र्थमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते⁠। य ए॒वव्ँवि॒द्वान् गां प्र॑ति गृ॒ह्णाति॑⁠। अथ॒ योऽवि॑द्वान् प्रति गृ॒ह्णाति॑⁠। च॒तु॒र्थम॑स्येन्द्रि॒यस्याप॑ क्रामति⁠॥ तस्य॒ वै वरु॑ण॒स्याश्व॑म् प्रतिजग्र॒हुषः॑⁠। प॒ञ्च॒ममि॑न्द्रि॒यस्यापा᳚क्रामत्⁠। तमे॒तेनै॒व प्रत्य॑गृह्णात्⁠। तेन॒ वै स प॑ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त⁠। प॒ञ्च॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते⁠। य ए॒वव्ँवि॒द्वानश्वं॑ प्रति गृ॒ह्णाति॑⁠ ॥ [१३] (१०) अथ॒ योऽवि॑द्वान् प्रतिगृ॒ह्णाति॑⁠। प॒ञ्च॒मम॑स्येन्द्रि॒यस्याप॑ क्रामति⁠॥ तस्य॒ वै प्र॒जाप॑तेः॒ पुरु॑षं प्रतिजग्र॒हुषः॑⁠। ष॒ष्ठमि॑न्द्रि॒यस्यापा᳚क्रामत्⁠। तमे॒तेनै॒व प्रत्य॑गृह्णात्⁠। तेन॒ वै स ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त⁠। ष॒ष्ठमि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते⁠। य ए॒वव्ँवि॒द्वान् पुरु॑षं प्रति गृ॒ह्णाति॑⁠। अथ॒ योऽवि॑द्वान् प्रति गृ॒ह्णाति॑⁠। ष॒ष्ठम॑स्येन्द्रि॒यस्याप॑क्रामति⁠ ॥ [१४] (१०) तस्य॒ वै मनो॒स्तल्पं॑ प्रतिजग्र॒हुषः॑⁠। स॒प्त॒ममि॑न्द्रि॒यस्यापा᳚क्रामत्⁠। तमे॒तेनै॒व प्रत्य॑गृह्णात्⁠। तेन॒ वै स स॑प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त⁠। स॒प्त॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते⁠। य ए॒वव्ँवि॒द्वाꣴस्तल्पं॑ प्रतिगृ॒ह्णाति॑⁠। अथ॒ योऽवि॑द्वान् प्रति गृ॒ह्णाति॑⁠। स॒प्त॒मम॑स्येन्द्रि॒यस्याप॑क्रामति⁠॥ तस्य॒ वा उ॑त्ता॒नस्या᳚ङ्गीर॒सस्या प्रा॑णत् प्रतिजग्र॒हुषः॑⁠। अ॒ष्ट॒ममि॑न्द्रि॒यस्यापा᳚क्रामत्⁠ ॥ [१५] (१०) तदे॒तेनै॒व प्रत्य॑गृह्णात्⁠। तेन॒ वै सो᳚ऽष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्त⁠। अ॒ष्ट॒ममि॑न्द्रि॒यस्या॒त्मन्नु॒पाध॑त्ते⁠। य ए॒वव्ँवि॒द्वान प्रा॑णत् प्रति गृ॒ह्णाति॑⁠। अथ॒ योऽवि॑द्वान् प्रतिगृ॒ह्णाति॑⁠। अ॒ष्ट॒मम॑स्येन्द्रि॒यस्याप॑ क्रामति⁠॥ यद्वा इ॒दं किं च॑⁠। तथ् सर्व॑मुत्ता॒न ए॒वाङ्गी॑र॒सः प्रत्य॑ गृह्णात्⁠। तदे॑नं॒ प्रति॑गृहीतं॒ नाहि॑नत्⁠। यत् किं च॑ प्रति गृह्णी॒यात्⁠। तथ् सर्व॑मुत्ता॒नस्त्वा᳚ङ्गीर॒सः प्रति॑गृह्णा॒त्वित्ये॒व प्रति॑ गृह्णीयात्⁠। इ॒यव्ँवा उ॑त्ता॒न आ᳚ङ्गीर॒सः⁠। अ॒नयै॒वैन॒त्प्रति॑गृह्णाति⁠। नैन॑ꣳ हिनस्ति⁠ ॥ [१६] (१४) (तस्य॒ वा अ॒ग्नेर् हिर॑ण्य॒ꣳ॒ सोम॑स्य॒ वास॒स्तदे॒तेन॑ रु॒द्रस्य॒ गां तामे॒तेन॒ वरु॑ण॒स्याश्वं॑ प्र॒जाप॑तेः॒ पुरु॑षं॒ मनो॒स्तल्पं॒ तमे॒तेनो᳚त्ता॒नस्य॒ तदे॒तेनाप्रा॑ण॒द्यद् वै ) (अ॒द्‌र्धं तृती॑यमष्ट॒मं तच्च॑तु॒र्थं तां प॑ञ्च॒मꣳ ष॒ष्ठꣳ स॑प्त॒मन्तम्⁠। तदे॒तेन॒ द्वे तामे॒तेनैकं॒ तमे॒तेन॒ त्रीणि॒ तदे॒तेनैकं᳚) ॥४॥
प्रश्नोत्तररूपो ब्रह्मविषयस्संवादः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠॥ यद्दश॑होतारः स॒त्रमास॑त⁠। केन॒ ते गृ॒हप॑तिनाऽऽद्‌र्ध्नुवन्न्⁠। केन॑ प्र॒जा अ॑सृज॒न्तेति॑⁠। प्र॒जाप॑तिना॒ वै ते गृ॒हप॑तिनाऽऽद्‌र्ध्नुवन्न्⁠। तेन॑ प्र॒जा अ॑सृजन्त⁠॥ यच्चतु॑र्‌होतारः स॒त्रमास॑त⁠। केन॒ ते गृ॒हप॑तिनाऽऽद्‌र्ध्नुवन्न्⁠। केनौष॑धीरसृज॒न्तेति॑⁠। सोमे॑न॒ वै ते गृ॒हप॑तिनाऽऽद्‌र्ध्नुवन्न्⁠ ॥ [१७] (१०) तेनौष॑धीरसृजन्त⁠॥ यत् पञ्च॑होतारः स॒त्रमास॑त⁠। केन॒ ते गृ॒हप॑तिनाऽऽद्‌र्ध्नुवन्न्⁠। केनै॒भ्यो लो॒केभ्योऽसु॑रा॒न् प्राणु॑दन्त⁠। केनै॑षां प॒शून॑वृञ्ज॒तेति॑⁠। अ॒ग्निना॒ वै ते गृ॒हप॑तिनाऽऽद्‌र्ध्नुवन्न्⁠। तेनै॒भ्यो लो॒केभ्योऽसु॑रा॒न्प्राणु॑दन्त⁠। तेनै॑षां प॒शून॑वृञ्जत⁠॥ यथ् षड्ढो॑तारः स॒त्रमास॑त⁠। केन॒ ते गृ॒हप॑तिनाऽऽद्‌र्ध्नुवन्न्⁠ ॥ [१८] (१०) केन॒र्तून॑कल्पय॒न्तेति॑⁠। धा॒त्रा वै ते गृ॒हप॑तिनाऽऽद्‌र्ध्नुवन्न्⁠। तेन॒र्तून॑कल्पयन्त⁠॥ यथ् स॒प्तहो॑तारः स॒त्रमास॑त⁠। केन॒ ते गृ॒हप॑तिनाऽऽद्‌र्ध्नुवन्न्⁠। केन॒ सुव॑रायन्न्⁠। केने॒माल्ँलो॒कान्थ्सम॑तन्व॒न्निति॑⁠। अ॒र्य॒म्णा वै ते गृ॒हप॑तिनाऽऽद्‌र्ध्नुवन्न्⁠। तेन॒ सुव॑रायन्न्⁠। तेने॒माल्ँलो॒कान्थ्सम॑तन्व॒न्निति॑⁠ ॥ [१९] (१०) ए॒ते वै दे॒वा गृ॒हप॑तयः⁠। तान्‌य ए॒वव्ँवि॒द्वान्⁠। अप्य॒न्यस्य॑ गार्‌हप॒ते दीख्‍ष॑ते⁠। अ॒वा॒न्त॒रमे॒व स॒त्रिणा॑मृद्ध्नोति⁠॥ यो वा अ॑र्य॒मण॒व्ँवेद॑⁠। दान॑कामा अस्मै प्र॒जा भ॑वन्ति⁠। य॒ज्ञो वा अ॑र्य॒मा⁠। आर्या॑वस॒तिरिति॒ वै तमा॑हु॒र्यं प्र॒शꣳस॑न्ति⁠॥ आर्या॑ वस॒तिर्भ॑वति⁠। य ए॒वव्ँवेद॑⁠ ॥ [२०] (१०) यद्वा इ॒दं किं च॑⁠। तथ् सर्वं॒ चतु॑र्‌होतारः⁠। चतु॑र्‌होतृ॒भ्योऽधि॑ य॒ज्ञो निमि॑र्तः⁠। स य ए॒वव्ँवि॒द्वान्‌वि॒वदे॑त⁠। अ॒हमे॒व भूयो॑ वेद⁠। यश्चतु॑र्‌होतॄ॒न्॒‌वेदेति॑⁠। स ह्ये॑व भूयो॒ वेद॑⁠। यश्चतु॑र्‌होतॄ॒न्॒‌वेद॑⁠॥ यो वै चतु॑र्‌होतृणा॒ꣳ॒ होतॄ॒न्॒‌वेद॑⁠। सर्वा॑सु प्र॒जास्वन्न॑मत्ति⁠ ॥ [२१] (१०) सर्वा॒ दिशो॒ऽभिज॑यति⁠। प्र॒जाप॑ति॒र्वै दश॑होतृणा॒ꣳ॒ होता᳚⁠। सोम॒श्चतु॑र्‌होतृणा॒ꣳ॒ होता᳚⁠। अ॒ग्निः पञ्च॑होतृणा॒ꣳ॒ होता᳚⁠। धा॒ता षड्ढो॑तृणा॒ꣳ॒ होता᳚⁠। अ॒र्य॒मा स॒प्तहो॑तृणा॒ꣳ॒ होता᳚⁠। ए॒ते वै चतु॑र्‌होतृणा॒ꣳ॒ होता॑रः⁠। तान्‌य ए॒वव्ँवेद॑⁠। सर्वा॑सु प्र॒जास्वन्न॑मत्ति⁠। सर्वा॒ दिशो॒ऽभि ज॑यति⁠ ॥ [२२] (१०) (आ॒द्‌र्ध्नु॒व॒ न्ना॒ध्नु॒व॒ न्नित्ये॒ वव्ँवेदा᳚ त्ति॒ सर्वा॒ दिशो॒भि ज॑यति) ॥५॥
प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा व्य॑स्रꣳसत⁠। स हृद॑यं भू॒तो॑ऽशयत्⁠। आत्म॒न्॒‌हा(३) इत्यह्व॑यत्⁠। आपः॒ प्रत्य॑शृण्वन्न्⁠। ता अ॑ग्निहो॒त्रेणै॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त⁠। ताः कुसि॑न्ध॒मुपौ॑हन्न्⁠। तस्मा॑दग्निहो॒त्रस्य॑ यज्ञक्र॒तोः⁠। एक॑ ऋ॒त्विक्⁠॥ च॒तु॒ष्कृत्वोऽह्व॑यत्⁠। अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमाः᳚⁠ ॥ [२३] (१०) ते प्रत्य॑शृण्वन्न्⁠। ते द॑र्‌शपूर्णमा॒साभ्या॑मे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त⁠। त उपौ॑हꣴश्च॒त्वार्यङ्गा॑नि⁠। तस्मा᳚द्दर्‌शपूर्णमा॒सयो᳚र् यज्ञक्र॒तोः⁠। च॒त्वार॑ ऋ॒त्विजः॑⁠॥ प॒ञ्च॒ कृत्वोऽह्व॑यत्⁠। प॒शवः॒ प्रत्य॑शृण्वन्न्⁠। ते चा॑तुर्मा॒स्यैरे॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त⁠। त उपौ॑ह॒ल्ँलोम॑ छ॒वीं मा॒ꣳ॒समस्थि॑ म॒ज्जान᳚म्⁠। तस्मा᳚च्चातुर्मा॒स्याना᳚य्ँयज्ञक्र॒तोः⁠ ॥ [२४] (१०) पञ्च॒र्त्विजः॑⁠॥ ष॒ट्कृत्वोऽह्व॑यत्⁠। ऋ॒तवः॒ प्रत्य॑शृण्वन्न्⁠। ते प॑शुब॒न्धेनै॒व य॑ज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त⁠। त उपौ॑ह॒न्थ्स्तना॑वा॒ण्डौ शि॒श्ञमवा᳚ञ्चं प्रा॒णम्⁠। तस्मा᳚त्पशुब॒न्धस्य॑ यज्ञक्र॒तोः⁠। षडृ॒त्विजः॑⁠॥ स॒प्त॒कृत्वोऽह्व॑यत्⁠। होत्राः॒ प्रत्य॑शृण्वन्न्⁠। ताः सौ॒म्येनै॒वाद्ध्व॒रेण॑ यज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त⁠ ॥ [२५] (१०) ता उपौ॑हन्थ्स॒प्तशी॑र्‌ष॒ण्या᳚न्प्रा॒णान्⁠। तस्मा᳚थ्सौ॒म्यस्या᳚द्ध्व॒रस्य॑ यज्ञक्र॒तोः⁠। स॒प्त होत्राः॒ प्राची॒र्वष॑ट्कुर्वन्ति⁠॥ द॒श॒कृत्वोऽह्व॑यत्⁠। तपः॒ प्रत्य॑शृणोत्⁠। तत्कर्म॑णै॒व स॑व्ँवथ्स॒रेण॒ सर्वै᳚र्यज्ञक्र॒तुभि॒रुप॑ प॒र्याव॑र्तत⁠। तथ् सर्व॑मा॒त्मान॒मप॑रिवर्ग॒मुपौ॑हत्⁠। तस्मा᳚थ् सव्ँवथ्स॒रे सर्वे॑ यज्ञक्र॒तवोऽव॑रुद्ध्यन्ते⁠॥ तस्मा॒द्दश॑होता॒ चतु॑र्‌होता⁠। पञ्च॑होता॒ षड्ढो॑ता स॒प्तहो॑ता⁠। एक॑होत्रे ब॒लिꣳ ह॑रन्ति⁠। हर॑न्त्यस्मै प्र॒जा ब॒लिम्⁠। ऐन॒मप्र॑तिख्यातं गच्छति⁠। य ए॒वव्ँवेद॑⁠ ॥ [२६] (१४) (च॒न्द्रमा᳚ श्चातुर्मा॒स्याना᳚य्ँयज्ञक्र॒तो र॑द्ध्व॒रेण॑ यज्ञक्र॒तुनोप॑ प॒र्याव॑र्तन्त स॒प्तहो॑ता च॒त्वारि॑ च) ॥६॥
अग्निहोत्रस्य सर्वक्रतुरुद्भावसाधनेन प्रशंसा
प्र॒जाप॑तिः॒ पुरु॑षमसृजत⁠। सो᳚ऽग्निर॑ब्रवीत्⁠। ममा॒यमन्न॑म॒स्त्विति॑⁠। सो॑ऽबिभेत्⁠। सर्व॒व्ँवै मा॒ऽयं प्रध॑ख्‍ष्य॒तीति॑⁠। स ए॒ताꣴश्चतु॑र्‌होतॄनात्म॒स्पर॑णानपश्यत्⁠। तान॑जुहोत्⁠। तैर्वै स आ॒त्मान॑मस्पृणोत्⁠॥ यद॑ग्निहो॒त्रं जु॒होति॑⁠। एक॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोत्यग्निहो॒त्रम्⁠ ॥ [२७] (१०) कुसि॑न्धं चा॒त्मनः॑ स्पृ॒णोति॑⁠। आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति⁠॥ च॒तुरुन्न॑यति⁠। चतु॑र्‌होतारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति दर्‌शपूर्णमा॒सौ⁠। च॒त्वारि॑ चा॒त्मनोऽङ्गा॑नि स्पृ॒णोति॑⁠। आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति⁠॥ च॒तुरुन्न॑यति⁠। स॒मित्‌प॑ञ्च॒मी⁠। पञ्च॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति चातुर्मा॒स्यानि॑⁠। लोम॑ छ॒वीं मा॒ꣳ॒समस्थि॑ म॒ज्जान᳚म्⁠ ॥ [२८] (१०) तानि॑ चा॒त्मनः॑ स्पृ॒णोति॑⁠। आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति⁠॥ च॒तुरुन्न॑यति⁠। द्विर्जु॑होति⁠। षड्ढो॑तारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति पशुब॒न्धम्⁠। स्तना॑वा॒ण्डौ शि॒श्ञमवा᳚ञ्चं प्रा॒णम्⁠। तानि॑ चा॒त्मनः॑ स्पृ॒णोति॑⁠। आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति⁠। च॒तुरुन्न॑यति⁠। द्विर्जु॑होति⁠ ॥ [२९] (१०) स॒मिथ् स॑प्त॒मी⁠। स॒प्तहो॑तारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति सौ॒म्यम॑द्ध्व॒रम्⁠। स॒प्त चा॒त्मनः॑ शीर्‌ष॒ण्या᳚न्प्रा॒णान्थ्स्पृ॒णोति॑⁠। आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति⁠॥ च॒तुरुन्न॑यति⁠। द्विर्जु॒होति॑⁠। द्विर्निमा᳚र्ष्टि⁠। द्विः प्राश्ञा॑ति⁠। दश॑होतारमे॒व तद्य॑ज्ञक्र॒तुमा᳚प्नोति सव्ँवथ्स॒रम्⁠। सर्वं॑ चा॒त्मान॒मप॑रिवर्गꣴ स्पृ॒णोति॑⁠। आ॒दि॒त्यस्य॑ च॒ सायु॑ज्यं गच्छति⁠ ॥ [३०] (११) (अ॒ग्नि॒हो॒त्रं म॒ज्जानं॒ द्विर्जु॑हो॒ त्यप॑रिवर्गꣴ स्पृ॒णोत्येकं॑ च) ॥७॥
सृष्टिसाधनत्वेन होतृमन्त्रासामर्थ्य प्रशंसा
[(अप॑क्रामत गर्भि॒ण्यः) इस् ओन्ल्य् इन्स्त्रुच्तिओन् , नोत् अ मन्त्र] प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॑⁠। स तपो॑ऽतप्यत⁠। सो᳚ऽन्तर्वा॑नभवत्⁠। स हरि॑तः श्या॒वो॑ऽभवत्⁠। तस्मा॒थ्स्त्र्य॑न्तर्व॑त्नी⁠। हरि॑णी स॒ती श्या॒वा भ॑वति⁠। स वि॒जाय॑मानो॒ गर्भे॑णाताम्यत्⁠। स ता॒न्तः कृ॒ष्णः श्या॒वो॑ऽभवत्⁠। तस्मा᳚त् ता॒न्तः कृ॒ष्णः श्या॒वो भ॑वति⁠। तस्यासु॑रे॒वाजी॑वत्⁠ ॥ [३१] (१०) तेनासु॒नाऽसु॑रानसृजत⁠। तदसु॑राणामसुर॒त्वम्⁠। य ए॒वमसु॑राणामसुर॒त्वव्ँवेद॑⁠। असु॑माने॒व भ॑वति⁠। नैन॒मसु॑र्जहाति⁠॥ सोऽसु॑रान्थ् सृ॒ष्ट्वा पि॒तेवा॑मन्यत⁠। तदनु॑ पि॒तॄन॑सृजत⁠। तत्पि॑तृ॒णां पि॑तृ॒त्वम्⁠। य ए॒वं पि॑तृ॒णां पि॑तृ॒त्वव्ँवेद॑⁠। पि॒तेवै॒व स्वानां᳚ भवति⁠ ॥ [३२] (१०) यन्त्य॑स्य पि॒तरो॒ हव᳚म्⁠॥ स पि॒तॄन्थ् सृ॒ष्ट्वाऽम॑नस्यत्⁠। तदनु॑ मनु॒ष्या॑नसृजत⁠। तन्म॑नु॒ष्या॑णां मनुष्य॒त्वम्⁠। य ए॒वं म॑नु॒ष्या॑णां मनुष्य॒त्वव्ँवेद॑⁠। म॒न॒स्व्ये॑व भ॑वति⁠। नैनं॒ मनु॑र्जहाति⁠॥ तस्मै॑ मनु॒ष्या᳚न्थ् ससृजा॒नाय॑⁠। दिवा॑ देव॒त्राऽभ॑वत्⁠। तदनु॑ दे॒वान॑सृजत⁠। तद्दे॒वानां᳚ देव॒त्वम्⁠। य ए॒वं दे॒वानां᳚ देव॒त्वव्ँवेद॑⁠। दिवा॑ है॒वास्य॑ देव॒त्रा भ॑वति⁠॥ तानि॒ वा ए॒तानि॑ च॒त्वार्यम्भा॑ꣳसि⁠। दे॒वा म॑नु॒ष्याः᳚ पि॒तरोऽसु॑राः⁠॥ तेषु॒ सर्वे॒ष्वम्भो॒ नभ॑ इव भवति⁠। य ए॒वव्ँवेद॑⁠ ॥ [३३] (१७) (अ॒जी॒व॒थ् स्वानां᳚ भवति दे॒वान॑सृजत स॒प्त च॑) ॥८॥
वायुरूपत्वज्ञानेन होतृमन्त्राणां प्रशंसा
[(य॒था॒स्था॒नं ग॑र्भि॒ण्यः॑) इस् ओन्ल्य् इन्स्त्रुच्तिओन् , नोत् अ मन्त्र] ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। यो वा इ॒मव्ँवि॒द्यात्⁠। यतो॒ऽयं पव॑ते⁠। यद॑भि॒ पव॑ते⁠। यद॑भि स॒पंव॑ते⁠। सर्व॒मायु॑रियात्⁠। न पु॒राऽऽयु॑षः॒ प्रमी॑येत⁠। प॒शु॒मान्थ् स्या᳚त्⁠। वि॒न्देत॑ प्र॒जाम्⁠॥ यो वा इ॒मव्ँवेद॑⁠ ॥ [३४] (१०) यतो॒ऽयं पव॑ते⁠। यद॑भि॒ पव॑ते⁠। यद॑भि स॒पंव॑ते⁠। सर्व॒मायु॑रेति⁠। न पु॒राऽऽयु॑षः॒ प्रमी॑यते⁠। प॒शु॒मान् भ॑वति⁠। वि॒न्दते᳚ प्र॒जाम्⁠॥ अ॒द्भ्यः प॑वते⁠। अ॒पो॑ऽभि प॑वते⁠। अ॒पो॑ऽभि संप॑वते⁠ ॥ [३५] (१०) अ॒स्याः प॑वते⁠। इ॒माम॒भि प॑वते⁠। इ॒माम॒भि संप॑वते⁠। अ॒ग्नेः प॑वते⁠। अ॒ग्निम॒भि प॑वते⁠। अ॒ग्निम॒भि सं प॑वते⁠। अ॒न्तरि॑ख्‍षात् पवते⁠। अ॒न्तरि॑ख्‍षम॒भि प॑वते⁠। अ॒न्तरि॑ख्‍षम॒भि सं प॑वते⁠। आ॒दि॒त्यात् प॑वते⁠ ॥ [३६] (१०) आ॒दि॒त्यम॒भि प॑वते⁠। आ॒दि॒त्यम॒भि सं प॑वते⁠। द्योः प॑वते⁠। दिव॑म॒भि प॑वते⁠॥ दिव॑म॒भि सं प॑वते⁠। दि॒ग्भ्यः प॑वते⁠। दिशो॒ऽभि प॑वते⁠। दिशो॒ऽभि सं प॑वते⁠। स यत्पु॒रस्ता॒द्वाति॑⁠। प्रा॒ण ए॒व भू॒त्वा पु॒रस्ता᳚द्वाति⁠ ॥ [३७] (१०) तस्मा᳚त्पु॒रस्ता॒द्वान्त᳚म्⁠। सर्वाः᳚ प्र॒जाः प्रति॑ नन्दन्ति⁠। प्रा॒णो हि प्रि॒यः प्र॒जाना᳚म्⁠। प्रा॒ण इ॑व प्रि॒यः प्र॒जानां᳚ भवति⁠। य ए॒वव्ँवेद॑⁠। स वा ए॒ष प्रा॒ण ए॒व⁠॥ अथ॒ यद्द॑ख्‍षिण॒तो वाति॑⁠। मा॒त॒रिश्वै॒व भू॒त्वा द॑ख्‍षिण॒तो वा॑ति⁠। तस्मा᳚द्दख्‍षिण॒तो वान्त॑व्ँवि॒द्यात्⁠। सर्वा॒ दिश॒ आवा॑ति⁠ ॥ [३८] (१०) सर्वा॒ दिशोऽनु॒ विवा॑ति⁠। सर्वा॒ दिशोऽनु॒ सव्ँवा॒तीति॑⁠। स वा ए॒ष मा॑त॒रिश्वै॒व⁠॥ अथ॒ यत्प॒श्चाद्वाति॑⁠। पव॑मान ए॒व भू॒त्वा प॒श्चाद्वा॑ति⁠। पू॒तम॑स्मा॒ आह॑रन्ति⁠। पू॒तमुप॑हरन्ति⁠। पू॒तम॑श्ञाति⁠। य ए॒वव्ँवेद॑⁠। स वा ए॒ष पव॑मान ए॒व⁠ ॥ [३९] (१०) अथ॒ यदु॑त्तर॒तो वाति॑⁠। स॒वि॒तैव भू॒त्वोत्त॑र॒तो वा॑ति⁠। स॒वि॒तेव॒ स्वानां᳚ भवति⁠। य ए॒वव्ँवेद॑⁠। स वा ए॒ष स॑वि॒तैव⁠॥ ते य ए॑नं पु॒रस्ता॑दा॒यन्त॑मुप॒वद॑न्ति⁠। य ए॒वास्य॑ पु॒रस्ता᳚त्पा॒प्मानः॑⁠। ताꣴस्तेऽप॑घ्नन्ति⁠। पु॒रस्ता॒दित॑रान्पा॒प्मनः॑ सचन्ते⁠॥ अथ॒ य ए॑नं दख्‍षिण॒त आ॒यन्त॑मुप॒वद॑न्ति⁠ ॥ [४०] (१०) य ए॒वास्य॑ दख्‍षिण॒तः पा॒प्मानः॑⁠। ताꣴस्तेऽप॑घ्नन्ति⁠। द॒ख्‍षि॒ण॒त इत॑रान् पा॒प्मनः॑ सचन्ते⁠॥ अथ॒ य ए॑नं प॒श्चादा॒यन्त॑मुप॒वद॑न्ति⁠। य ए॒वास्य॑ प॒श्चात्पा॒प्मानः॑⁠। ताꣴस्तेऽप॑घ्नन्ति⁠। प॒श्चादित॑रान्पा॒प्मनः॑ सचन्ते⁠॥ अथ॒ य ए॑नमुत्तर॒त आ॒यन्त॑मुप॒ वद॑न्ति⁠। य ए॒वास्यो᳚त्तर॒तः पा॒प्मानः॑⁠। ताꣴस्तेऽप॑घ्नन्ति⁠ ॥ [४१] (१०) उ॒त्त॒र॒त इत॑रान् पा॒प्मनः॑ सचन्ते⁠॥ तस्मा॑ दे॒वव्ँवि॒द्वान्⁠। वीव॑ नृत्येत्⁠। प्रेव॑ चलेत्⁠। व्यस्ये॑वा॒ख्‍ष्यौ भा॑षेत⁠। म॒ण्टये॑दिव⁠। क्रा॒थये॑दिव⁠। शृ॒ङ्गा॒येते॑व⁠॥ उ॒त मोप॑वदेयुः⁠। उ॒त मे॑ पा॒प्मान॒मप॑हन्यु॒रिति॑⁠॥ स यां दिश॑ꣳ स॒निमे॒ष्यन्थ्स्यात्⁠। य॒दा तां दिश॒व्ँवातो॑ वा॒यात्⁠। अथ॒ प्रवे॒यात्⁠। प्र वा॑ धापयेत् (धावयेत्)⁠। सा॒तमे॒व र॑दि॒तव्ँव्यू॑ढं ग॒न्धम॒भि प्रच्य॑वते⁠। आऽस्य॒ तं ज॑नप॒दं पूर्वा॑ की॒र्तिर्ग॑च्छति⁠॥ दान॑कामा अस्मै प्र॒जा भ॑वन्ति⁠। य ए॒वव्ँवेद॑⁠ ॥ [४२] (१८) (वेद॒ संप॑वत आदि॒त्यात् प॑वते वा॒त्या वा᳚त्ये॒ ष पव॑मान ए॒व द॑ख्‍षिण॒त आ॒यन्त॑मुप॒ वद॑न् त्युत्तर॒तः पा॒प्मान॒स्ताꣴस्तेऽप॑घ्न॒ न्तीत्य॒ष्टौ च॑) ॥९॥
दशहोतृमन्त्राणां काम्यप्रयोगः
प्र॒जाप॑तिः॒ सोम॒ꣳ॒ राजा॑नमसृजत⁠। तं त्रयो॒ वेदा॒ अन्व॑सृज्यन्त⁠। तान्‌हस्ते॑ऽकुरुत⁠। अथ॒ ह सीता॑ सावि॒त्री⁠। सोम॒ꣳ॒ राजा॑नं चकमे⁠। श्र॒द्धामु॒ स च॑कमे⁠। सा ह॑ पि॒तरं॑ प्र॒जाप॑ति॒मुप॑ससार⁠। तꣳ हो॑वाच⁠। नम॑स्ते अस्तु भगवः⁠। उप॑ त्वाऽयानि⁠ ॥ [४३] (१०) प्र त्वा॑ पद्ये⁠॥ सोम॒व्ँवै राजा॑नं कामये⁠। श्र॒द्धामु॒ स का॑मयत॒ इति॑⁠। तस्या॑ उ॒ ह स्था॑ग॒रम॑लङ्का॒रं क॑ल्पयि॒त्वा⁠। दश॑होतारं पु॒रस्ता᳚द्व्या॒ख्याय॑⁠। चतु॑र्‌होतारं दख्‍षिण॒तः⁠। पञ्च॑ होतारं प॒श्चात्⁠। षड्ढो॑तारमुत्तर॒तः⁠। स॒प्तहो॑तारमु॒परि॑ष्टात्⁠। स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑⁠ ॥ [४४] (१०) आऽस्याद्‌र्धव्ँव॑व्राज⁠। ताꣳ हो॒दीख्‍ष्यो॑वाच⁠। उप॒ माऽऽव॑र्त॒स्वेति॑⁠। तꣳ हो॑वाच⁠। भोगं॒ तु म॒ आच॑ख्‍ष्व⁠। ए॒तन् म॒ आच॑ख्‍ष्व⁠। यत्ते॑ पा॒णाविति॑⁠। तस्या॑ उ॒ ह त्रीन्‌वेदा॒न् प्रद॑दौ⁠। तस्मा॒दु ह॒ स्त्रियो॒ भोग॒मैव हा॑रयन्ते⁠॥ स यः का॒मये॑त प्रि॒यः स्या॒मिति॑⁠ ॥ [४५] (१०) यव्ँवा॑ का॒मये॑त प्रि॒यः स्या॒दिति॑⁠। तस्मा॑ ए॒तꣴ स्था॑ग॒रम॑लङ्का॒रं क॑ल्पयि॒त्वा⁠। दश॑होतारं पु॒रस्ता᳚द्व्या॒ख्याय॑⁠। चतु॑र्‌होतारं दख्‍षिण॒तः⁠। पञ्च॑होतारं प॒श्चात्⁠। षड्ढो॑तारमुत्तर॒तः⁠। स॒प्तहो॑तारमु॒परि॑ष्टात्⁠। स॒म्भा॒रैश्च॒ पत्नि॑भिश्च॒ मुखे॑ऽल॒ङ्कृत्य॑⁠। आऽस्याद्‌र्धव्ँव्र॑जेत्⁠। प्रि॒यो है॒व भ॑वति⁠ ॥ [४६] (१०) (अ॒या॒ न्य॒ल॒ङ्कृत्य॑ स्या॒मिति॑ भवति) ॥१०॥
दशहोत्रादिमन्त्रनाम्नां प्रवृत्तिनिमित्तम्
ब्रह्मा᳚त्म॒न्वद॑सृजत⁠। तद॑कामयत⁠। समा॒त्मना॑ पद्ये॒येति॑⁠। आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत⁠। तस्मै॑ दश॒मꣳ हू॒तः प्रत्य॑शृणोत्⁠। स दश॑हूतोऽभवत्⁠। दश॑हूतो ह॒ वै नामै॒षः⁠। तव्ँवा ए॒तं दश॑हूत॒ꣳ॒ सन्त᳚म्⁠। दश॑हो॒तेत्याच॑ख्‍षते प॒रोख्‍षे॑ण⁠। प॒रोख्‍ष॑प्रिया इव॒ हि दे॒वाः⁠ ॥ [४७] (१०) आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत⁠। तस्मै॑ सप्त॒मꣳ हू॒तः प्रत्य॑शृणोत्⁠। स स॒प्तहू॑तोऽभवत्⁠। स॒प्तहू॑तो ह॒ वै नामै॒षः⁠। तव्ँवा ए॒तꣳ स॒प्तहू॑त॒ꣳ॒ सन्त᳚म्⁠। स॒प्तहो॒तेत्याच॑ख्‍षते प॒रोख्‍षे॑ण⁠। प॒रोख्‍ष॑प्रिया इव॒ हि दे॒वाः⁠॥ आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत⁠। तस्मै॑ ष॒ष्ठꣳ हू॒तः प्रत्य॑शृणोत्⁠। स षड्ढू॑तोऽभवत्⁠ ॥ [४८] (१०) षड्ढू॑तो ह॒ वै नामै॒षः⁠। तव्ँवा ए॒तꣳ षड्ढू॑त॒ꣳ॒ सन्त᳚म्⁠। षड्ढो॒तेत्याच॑ख्‍षते प॒रोख्‍षे॑ण⁠। प॒रोख्‍ष॑प्रिया इव॒ हि दे॒वाः⁠॥ आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत⁠। तस्मै॑ पञ्च॒मꣳ हू॒तः प्रत्य॑ शृणोत्⁠। स पञ्च॑ हूतोऽभवत्⁠। पञ्च॑हूतो ह॒ वै नामै॒षः⁠। तव्ँवा ए॒तं पञ्च॑हूत॒ꣳ॒ सन्त᳚म्⁠। पञ्च॑हो॒तेत्याच॑ख्‍षते प॒रोख्‍षे॑ण⁠ ॥ [४९] (१०) प॒रोख्‍ष॑प्रिया इव॒ हि दे॒वाः⁠॥ आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत⁠। तस्मै॑ चतु॒र्थꣳ हू॒तः प्रत्य॑शृणोत्⁠। स चतु॑र्‌हूतोऽभवत्⁠। चतु॑र्‌हूतो ह॒ वै नामै॒षः⁠। तव्ँवा ए॒तं चतु॑र्‌हूत॒ꣳ॒ सन्त᳚म्⁠। चतु॑र्‌हो॒तेत्याच॑ख्‍षते प॒रोख्‍षे॑ण⁠। प॒रोख्‍ष॑प्रिया इव॒ हि दे॒वाः⁠॥ तम॑ब्रवीत्⁠। त्वव्ँवै मे॒ नेदि॑ष्ठꣳ हू॒तः प्रत्य॑श्रौषीः⁠। त्वयै॑नानाख्या॒तार॒ इति॑⁠। तस्मा॒न्नु है॑ना॒ꣴ॒श्चतु॑र्‌होतार॒ इत्याच॑ख्‍षते⁠। तस्मा᳚च्छुश्रू॒षुः पु॒त्राणा॒ꣳ॒ हृद्य॑तमः⁠। नेदि॑ष्ठो॒ हृद्य॑तमः⁠। नेदि॑ष्ठो॒ ब्रह्म॑णो भवति⁠। य ए॒वव्ँवेद॑⁠ ॥ [५०] (१६) (दे॒वाः षड्ढू॑तोऽभव॒त् पञ्च॑हो॒तेत्याच॑ख्‍षते प॒रोख्‍षे॑णा श्रौषीः॒ षट्च॑) ॥११॥
अनुवाकाः पञ्चशती
११ ५०