कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणम्
तृतीयाष्टके द्वितीयः प्रपाठकः

अष्टक ३ प्रपाठक २
दशपूर्णमासेष्टिब्राह्मणम्

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
वथ्सापाकरणम्
तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत्⁠। तं गा॑य॒त्र्याह॑रत्⁠। तस्य॑ प॒र्णम॑च्छिद्यत⁠। तत् प॒र्णो॑ऽभवत्⁠। तत् प॒र्णस्य॑ पर्ण॒त्वम्⁠। ब्रह्म॒ वै प॒र्णः⁠। यत् प॑र्णशा॒खया॑ व॒थ्सान॑पाक॒रोति॑⁠। ब्रह्म॑णै॒वैना॑न॒पाक॑रोति⁠॥ गा॒य॒त्रो वै प॒र्णः⁠। गा॒य॒त्राः प॒शवः॑⁠ ॥ [१] (१०) तस्मा॒त् त्रीणि॑त्रीणि प॒र्णस्य॑ पला॒शानि॑⁠। त्रि॒पदा॑ गाय॒त्री⁠। यत् प॑र्णश॒खया॒ गाः प्रा॒र्पय॑ति⁠। स्वयै॒वैना॑ दे॒वत॑या॒ प्रार्प॑यति⁠। यं का॒मये॑ता प॒शुः स्या॒दिति॑⁠। अ॒प॒र्णां तस्मै॒ शुष्का᳚ग्रा॒माह॑रेत्⁠। अ॒प॒शुरे॒व भ॑वति⁠। यं का॒मये॑त पशु॒मान्थ् स्या॒दिति॑⁠। ब॒हु॒प॒र्णां तस्मै॑ बहुशा॒खामाह॑रेत्⁠। प॒शु॒मन्त॑मे॒वैनं॑ करोति⁠ ॥ [२] (१०) यत् प्राची॑मा॒हरे᳚त्⁠। दे॒व॒लो॒कम॒भिज॑येत्⁠। यदुदी॑चीं मनुष्यलो॒कम्⁠। प्राची॒मुदी॑ची॒माह॑रति⁠। उ॒भयो᳚र् लो॒कयो॑र॒भिजि॑त्यै⁠॥ इ॒षे त्वो॒र्जे त्वेत्या॑ह⁠। इष॑मे॒वोर्ज॒य्ँयज॑माने दधाति⁠॥ वा॒यवः॒ स्थेत्या॑ह⁠। वा॒युर्वा अ॒न्तरि॑ख्‍ष॒स्याद्ध्य॑ख्‍षाः⁠। अ॒न्त॒रि॒ख्‍ष॒दे॒व॒त्याः᳚ खलु॒ वै प॒शवः॑⁠ ॥ [३] (१०) वा॒यव॑ ए॒वैना॒न् परि॑ ददाति⁠। प्र वा ए॑नाने॒तदाक॑रोति⁠। यदाह॑⁠। वा॒यवः॒ स्थेत्यु॑पा॒यवः॒ स्थेत्या॑ह⁠। यज॑मानायै॒व प॒शूनुप॑ह्वयते⁠॥ दे॒वो वः॑ सवि॒ता प्रार्प॑य॒त्वित्या॑ह॒ प्रसू᳚त्यै⁠॥ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ इत्या॑ह⁠। य॒ज्ञो हि श्रेष्ठ॑तमं॒ कर्म॑⁠। तस्मा॑दे॒वमा॑ह⁠॥ आप्या॑यद्ध्वमघ्निया देवभा॒गमित्या॑ह⁠ ॥ [४] (१०) व॒थ्सेभ्य॑श्च॒ वा ए॒ताः पु॒रा म॑नु॒ष्ये᳚भ्य॒श्चाप्या॑यन्त⁠। दे॒वेभ्य॑ ए॒वैना॒ इन्द्रा॒याप्या॑यति⁠॥ ऊर्ज॑स्वतीः॒ पय॑स्वती॒रित्या॑ह⁠। ऊर्ज॒ꣳ॒ हि पयः॑ स॒म्भर॑न्ति⁠॥ प्र॒जाव॑तीरनमी॒वा अ॑य॒ख्‍ष्मा इत्या॑ह॒ प्रजा᳚त्यै⁠। मावः॑ स्ते॒न ई॑शत॒ माऽघश॑ꣳस॒ इत्या॑ह॒ गुप्त्यै᳚⁠॥ रु॒द्रस्य॑ हे॒तिः परि॑ वो वृण॒क्त्वित्या॑ह⁠। रु॒द्रा दे॒वैना᳚स्त्रायते⁠॥ ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीरित्या॑ह⁠। ध्रु॒वा ए॒वास्मि॑न् ब॒ह्वीः क॑रोति⁠ ॥ [५] (१०) यज॑मानस्य प॒शून् पा॒हीत्या॑ह⁠। प॒शु॒नां गो॑पी॒थाय॑⁠। तस्मा᳚थ्सा॒यं प॒शव॒ उप॑ स॒माव॑र्तन्ते⁠॥ अन॑धः सादयति⁠। गर्भा॑णां॒ धृत्या॒ अप्र॑पादाय⁠। तस्मा॒द्गर्भाः᳚ प्र॒जाना॒मप्र॑पादुकाः⁠। उ॒परी॑व॒ निद॑धाति⁠। उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠ ॥ [६] (९) (प॒शवः॑ करोति प॒शवो॑ देवभा॒गमित्या॑ह करोति॒ +नव॑ च) ॥१॥
बर्हिराहरणम्
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्य॑श्वप॒र्॒‌शुमाद॑त्ते॒ प्रसू᳚त्यै⁠। अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह⁠। अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म्⁠। पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚⁠॥ यो वा ओष॑धीः पर्व॒शो वेद॑⁠। नैनाः॒ स हि॑नस्ति⁠। प्र॒जाप॑ति॒र्वा ओष॑धीः पर्व॒शो वे॑द⁠। स ए॑ना॒ न हि॑नस्ति⁠। अ॒श्व॒प॒र्श्वा ब॒र्॒‌हिरच्छै॑ति⁠। प्रा॒जा॒प॒त्यो वा अश्वः॑ सयोनि॒त्वाय॑⁠ ॥ [७] (१०) ओष॑धीना॒महि॑ꣳसायै⁠॥ य॒ज्ञस्य॑ घो॒षद॒सीत्या॑ह⁠। यज॑मान ए॒व र॒यिं द॑धाति⁠। प्रत्यु॑ष्ट॒ꣳ॒ रख्‍षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह⁠। रख्‍ष॑सा॒मप॑हत्यै⁠॥ प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒‌हिरच्छेत्या॑ह⁠। वि॒द्या वै धि॒षणा᳚⁠। वि॒द्ययै॒वैन॒दच्छै॑ति⁠॥ मनु॑ना कृ॒ता स्व॒धया॒ वित॒ष्टेत्या॑ह⁠। मा॒न॒वी हि पर्‌शुः॑ स्व॒धाकृ॑ता⁠ ॥ [८] (१०) त आव॑हन्ति क॒वयः॑ पु॒रस्ता॒दित्या॑ह⁠। शु॒श्रु॒वाꣳसो॒ वै क॒वयः॑⁠। य॒ज्ञः पु॒रस्ता᳚त्⁠। मु॒ख॒त ए॒व य॒ज्ञमार॑भते⁠। अथो॒ यदे॒तदु॒क्त्वा यतः॒ कुत॑श्चा॒हर॑ति⁠। तत् प्राच्या॑ ए॒व दि॒शो भ॑वति⁠॥ दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒‌हिरा॒सद॒ इत्या॑ह⁠। ब॒र्॒‌हिषः॒ समृ॑द्ध्यै⁠। कर्म॒णोऽन॑पराधाय⁠॥ दे॒वानां᳚ परिषू॒तम॒सीत्या॑ह⁠ ॥ [९] (१०) यद्वा इ॒दं किं च॑⁠। तद्दे॒वानां᳚ परिषू॒तम्⁠। अथो॒ यथा॒ वस्य॑से प्रति॒ प्रोच्याहे॒दं क॑रिष्या॒मीति॑⁠। ए॒वमे॒व तद॑द्ध्व॒र्युर्दे॒वेभ्यः॑ प्रति॒ प्रोच्य॑ ब॒र्॒‌हिर्दा॑ति⁠। आ॒त्मनोऽहि॑ꣳसायै⁠॥ याव॑तः स्त॒म्बान् प॑रि दि॒शेत्⁠। यत्तेषा॑मुच्छि॒ꣴ॒ष्यात्⁠। अति॒ तद्य॒ज्ञस्य॑ रेचयेत्⁠। एक॑ꣴ स्त॒म्बं परि॑दिशेत्⁠। तꣳ सर्वं॑ दायात्⁠ ॥ [१०] (१०) य॒ज्ञस्यान॑तिरेकाय⁠॥ व॒र्॒‌षवृ॑द्धम॒सीत्या॑ह⁠। व॒र्॒‌ष वृ॑द्धा॒ वा ओष॑धयः⁠॥ देव॑ बर्‌हि॒रित्या॑ह⁠। दे॒वेभ्य॑ ए॒वैन॑त् करोति⁠। मा त्वा॒ऽन्वङ्मा ति॒र्यगित्या॒हा हि॑ꣳसायै⁠। पर्व॑ ते राद्ध्यास॒मित्या॒हर्द्ध्यै᳚⁠॥ आ॒च्छे॒त्ता ते॒ मा रि॑ष॒मित्या॑ह⁠। नास्या॒त्मनो॑ मीयते⁠। य ए॒वव्ँवेद॑⁠ ॥ [११] (१०) देव॑बर्‌हिः श॒तव॑ल्‌श॒व्ँविरो॒हेत्या॑ह⁠। प्र॒जा वै ब॒र्॒‌हिः⁠। प्र॒जानां᳚ प्र॒जन॑नाय⁠॥ स॒हस्र॑वल्‌शा॒ वि व॒यꣳ रु॑हे॒मेत्या॑ह⁠। आ॒शिष॑मे॒वैतामाशा᳚स्ते⁠॥ पृ॒थि॒व्याः स॒पृंचः॑ पा॒हीत्या॑ह॒ प्रति॑ष्ठित्यै⁠॥ अयु॑ङ्गायुङ्गान्मु॒ष्टील्ँलु॑नोति⁠। मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै⁠॥ सु॒स॒भृंता᳚ त्वा॒ संभ॑रा॒मीत्या॑ह⁠। ब्रह्म॑णै॒वैन॒थ् संभ॑रति⁠ ॥ [१२] (१०) अदि॑त्यै॒ रास्ना॒ऽसीत्या॑ह⁠। इ॒यव्ँवा अदि॑तिः⁠। अ॒स्या ए॒वैन॒द्रास्नां᳚ करोति⁠॥ इ॒न्द्रा॒ण्यै स॒नंह॑न॒मित्या॑ह⁠। इ॒न्द्रा॒णी वा अग्रे॑ दे॒वता॑ना॒ꣳ॒ सम॑नह्यत⁠। साऽऽर्द्ध्नो᳚त्⁠। ऋद्ध्यै॒ संन॑ह्यति⁠। प्र॒जा वै ब॒र्॒‌हिः⁠। प्र॒जाना॒मप॑रावापाय⁠। तस्मा॒थ्स्नाव॑संतताः प्र॒जा जा॑यन्ते⁠ ॥ [१३] (१०) पू॒षा ते᳚ ग्र॒न्थिं ग्र॑थ्ना॒त्वित्या॑ह⁠। पुष्टि॑मे॒व यज॑माने दधाति⁠॥ स ते॒ माऽऽस्था॒दित्या॒हाहि॑ꣳसायै⁠॥ प॒श्चात् प्राञ्च॒मुप॑गूहति⁠। प॒श्चाद् वै प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते⁠। प॒श्चादे॒वास्मै᳚ प्रा॒चीन॒ꣳ॒ रेतो॑ दधाति⁠॥ इन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छ॒ इत्या॑ह⁠। इ॒न्द्रि॒यमे॒व यज॑माने दधाति⁠॥ बृह॒स्पते᳚र्मू॒र्द्ध्ना ह॑रा॒मीत्या॑ह⁠। ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पतिः॑⁠ ॥ [१४] (१०) ब्रह्म॑णै॒वैन॑द्धरति⁠॥ उ॒र्व॑न्तरि॑ख्‍ष॒मन्वि॒हीत्या॑ह॒ गत्यै᳚⁠॥ दे॒व॒गं॒मम॒सीत्या॑ह⁠। दे॒वाने॒वैन॑द्गमयति⁠॥ अन॑धः सादयति⁠। गर्भा॑णां॒ धृत्या॒ अप्र॑पादाय⁠। तस्मा॒द्गर्भाः᳚ प्र॒जाना॒मप्र॑पादुकाः⁠। उ॒परी॑व॒ निद॑धाति⁠। उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠ ॥ [१५] (१०) (स॒यो॒नि॒त्वाय॑ स्व॒धाकृ॑ता॒ ऽसीत्या॑ह दाया॒द् वेद॑ भरति जायन्ते॒ बृह॒स्पतिः॒ सम॑ष्ट्यै) ॥२॥
दोहनम्
पू॒र्वे॒द्युरि॒द्ध्मा ब॒र्॒‌हिः क॑रोति⁠। य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑वसति⁠॥ प्र॒जाप॑तिर् य॒ज्ञम॑सृजत⁠। तस्यो॒खे अ॑स्रꣳसेताम्⁠। य॒ज्ञो वै प्र॒जाप॑तिः⁠। यथ् सा᳚न्नाय्यो॒खे भव॑तः⁠। य॒ज्ञस्यै॒व तदु॒खे उप॑दधा॒त्यप्र॑स्रꣳसाय⁠॥ शुन्ध॑द्ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह⁠। दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति⁠॥ मा॒त॒रिश्व॑नो घ॒र्मो॑ऽसीत्या॑ह⁠ ॥ [१६] (१०) अ॒न्तरि॑ख्‍ष॒व्ँवै मा॑त॒रिश्व॑नो घ॒र्मः⁠। ए॒षाल्ँलो॒काना॒व्ँविधृ॑त्यै⁠॥ द्यौर॑सि पृथि॒व्य॑सीत्या॑ह⁠। दि॒वश्च॒ ह्ये॑षा पृ॑थि॒व्याश्च॒ संभृ॑ता⁠। यदु॒खा⁠। तस्मा॑दे॒वमा॑ह⁠॥ वि॒श्वधा॑या असि पर॒मेण॒ धाम्नेत्या॑ह⁠। वृष्टि॒र्वै वि॒श्वधा॑याः⁠। वृष्टि॑मे॒वाव॑रुन्धे⁠। दृꣳह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै᳚⁠ ॥ [१७] (१०) वसू॑नां प॒वित्र॑म॒सीत्या॑ह⁠। प्रा॒णा वै वस॑वः⁠। तेषा॒व्ँवा ए॒तद्भा॑ग॒धेय᳚म्⁠। यत् प॒वित्र᳚म्⁠। तेभ्य॑ ए॒वैन॑त् करोति⁠॥ श॒तधा॑रꣳ स॒हस्र॑धार॒मित्या॑ह⁠। प्रा॒णेष्वे॒वायु॑र्दधाति सर्व॒त्वाय॑⁠॥ त्रि॒वृत् प॑लाशशा॒खायां᳚ दर्भ॒मयं॑ भवति⁠। त्रि॒वृद्वै प्रा॒णः⁠। त्रि॒वृत॑मे॒व प्रा॒णं म॑द्ध्य॒तो यज॑माने दधाति⁠ ॥ [१८] (१०) सौ॒म्यः प॒र्णः स॑योनि॒त्वाय॑⁠। सा॒ख्‍षात् प॒वित्रं॑ द॒र्भाः⁠। प्राख्सा॒यमधि॒ निद॑धाति⁠। तत् प्रा॑णापा॒नयो॑ रू॒पम्⁠। ति॒र्यक्प्रा॒तः⁠। तद्दर्‌श॑स्य रू॒पम्⁠। दा॒र्श्यꣴ ह्ये॑तदहः॑⁠। अन्न॒व्ँवै च॒न्द्रमाः᳚⁠। अन्नं॑ प्रा॒णाः⁠। उ॒भय॑मे॒वोपै॒त्यजा॑मित्वाय⁠ ॥ [१९] (१०) तस्मा॑द॒यꣳ स॒र्वतः॑ पवते⁠॥ हु॒तः स्तो॒को हु॒तो द्र॒फ्स इत्या॑ह॒ प्रति॑ष्ठित्यै⁠। ह॒विषोऽस्क॑न्दाय⁠। न हि हु॒तꣴ स्वाहा॑कृत॒ꣴ॒ स्कन्द॑ति⁠। दि॒वि नाको॒ नामा॒ग्निः⁠। तस्य॑ वि॒प्रुषो॑ भाग॒धेय᳚म्⁠। अ॒ग्नये॑ बृह॒ते नाका॒येत्या॑ह⁠। नाक॑मे॒वाग्निं भा॑ग॒धेये॑न॒ सम॑र्द्धयति⁠। स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह⁠। द्यावा॑पृथि॒व्योरे॒वैन॒त्प्रति॑ष्ठापयति⁠ ॥ [२०] (१०) प॒वित्र॑व॒त्यान॑यति⁠। अ॒पां चै॒वौष॑धीनां च॒ रस॒ꣳ॒ सꣳसृ॑जति⁠। अथो॒ ओष॑धीष्वे॒व प॒शून् प्रति॑ष्ठापयति⁠॥ अ॒न्वा॒रभ्य॒ वाच॑य्ँयच्छति⁠। य॒ज्ञस्य॒ धृत्यै᳚⁠। धा॒रय॑न्नास्ते⁠। धा॒रय॑न्त इव॒ हि दु॒हन्ति॑⁠। काम॑धुख्‍ष॒ इत्या॒हातृ॒तीय॑स्यै⁠। त्रय॑ इ॒मे लो॒काः⁠। इ॒माने॒व लो॒कान्‌यज॑मानो दुहे⁠ ॥ [२१] (१०) अ॒मूमिति॒ नाम॑ गृह्णाति⁠। भ॒द्रमे॒वासां॒ कर्मा॒विष्क॑रोति⁠॥ सा वि॒श्वायुः॒ सा वि॒श्वव्य॑चाः॒ सा वि॒श्वक॒र्मेत्या॑ह⁠। इ॒यव्ँवै वि॒श्वायुः॑⁠। अ॒न्तरि॑ख्‍षव्ँवि॒श्वव्य॑चाः⁠। अ॒सौ वि॒श्वक॑र्मा⁠। इ॒माने॒वैताभि॑र्लो॒कान्‌य॑थापू॒र्वं दु॑हे⁠। अथो॒ यथा᳚ प्रदा॒त्रे पुण्य॑मा॒शास्ते᳚⁠। ए॒वमे॒वैना॑ ए॒तदुप॑स्तौति⁠। तस्मा॒त्प्रादा॒दित्यु॒न्नीय॒ वन्द॑माना उपस्तु॒वन्तः॑ प॒शून् दु॑हन्ति⁠ ॥ [२२] (१०) ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यो॑ ह॒विरिति॒ वाच॒व्ँविसृ॑जते⁠। य॒था॒ दे॒व॒तमे॒व प्रसौ॑ति⁠। दैव्य॑स्य च मानु॒षस्य॑ च॒ व्यावृ॑त्त्यै⁠। त्रिरा॑ह⁠। त्रिष॑त्या॒ हि दे॒वाः⁠। अवा॑चय्ँय॒मोऽन॑न्वार॒भ्योत्त॑राः⁠। अप॑रिमितमे॒वाव॑रुन्धे⁠॥ न दा॑रुपा॒त्रेण॑ दुह्यात्⁠। अ॒ग्नि॒वद्वै दा॑रुपा॒त्रम्⁠। यद्दा॑रुपा॒त्रेण॑ दु॒ह्यात्⁠ ॥ [२३] (१०) या॒तया᳚म्ना ह॒विषा॑ यजेत⁠। अथो॒ खल्वा॑हुः⁠। पु॒रो॒डाश॑मुखानि॒ वै ह॒वीꣳषि॑⁠। नेत इ॑तः पुरो॒डाश॑ꣳ ह॒विषो॒ यामो॒ऽस्तीति॑⁠। काम॑मे॒व दा॑रुपा॒त्रेण॑ दुह्यात्⁠॥ शू॒द्र ए॒व न दु॑ह्यात्⁠। अस॑तो॒ वा ए॒ष संभू॑तः⁠। यच्छू॒द्रः⁠। अह॑विरे॒व तदित्या॑हुः⁠। यच्छू॒द्रो दोग्धीति॑⁠ ॥ [२४] (१०) अ॒ग्नि॒हो॒त्रमे॒वन दु॑ह्याच्छू॒द्रः⁠। तद्धि नोत्पु॒नन्ति॑⁠। य॒दा खलु॒ वै प॒वित्र॑म॒त्येति॑⁠। अथ॒ तद्ध॒विरिति॑⁠॥ संपृ॑च्यद्ध्वमृतावरी॒रित्या॑ह⁠। अ॒पां चै॒वौष॑धीनां च॒ रस॒ꣳ॒ सꣳसृ॑जति⁠। तस्मा॑द॒पां चौष॑धीनां च॒ रस॒मुप॑ जीवामः⁠। म॒न्द्रा धन॑स्य सा॒तय॒ इत्या॑ह⁠। पुष्टि॑मे॒व यज॑माने दधाति⁠॥ सोमे॑न॒ त्वाऽऽत॑न॒च्मीन्द्रा॑य॒ दधीत्या॑ह⁠ ॥ [२५] (१०) सोम॑मे॒वैन॑त् करोति⁠। यो वै सोमं॑ भख्‍षयि॒त्वा⁠। स॒व्ँव॒थ्स॒रꣳ सोमं॒ न पिब॑ति⁠। पु॒न॒र्भख्‍ष्यो᳚ऽस्य सोमपी॒थो भ॑वति⁠॥ सोमः॒ खलु॒ वै सा᳚नां॒य्यम्⁠। य ए॒वव्ँवि॒द्वान्थ् सा᳚नां॒य्यं पिब॑ति⁠। अ॒पु॒न॒र्भख्‍ष्यो᳚ऽस्य सोमपी॒थो भ॑वति⁠। न मृ॒न्मये॒नापि॑दद्ध्यात्⁠। यन् मृ॒न्मये॑नापिद॒द्ध्यात्⁠। पि॒तृ॒दे॒व॒त्य॑ꣴ स्यात्⁠ ॥ [२६] (१०) अ॒य॒स्पा॒त्रेण॑ वा दारुपा॒त्रेण॒ वाऽपि॑दधाति⁠। तद्धि सदे॑वम्⁠॥ उ॒द॒न्वद् भ॑वति⁠। आपो॒ वै र॑ख्‍षो॒घ्नीः⁠। रख्‍ष॑सा॒मप॑हत्यै⁠॥ अद॑स्तमसि॒ विष्ण॑वे॒ त्वेत्या॑ह⁠। य॒ज्ञो वै विष्णुः॑⁠। य॒ज्ञायै॒वैन॒दद॑स्तं करोति⁠। विष्णो॑ ह॒व्यꣳ र॑ख्‍ष॒स्वेत्या॑ह॒ गुप्त्यै᳚⁠॥ अन॑धः सादयति⁠। गर्भा॑णां॒ धृत्या॒ अप्र॑पादाय⁠। तस्मा॒द्गर्भाः᳚ प्र॒जाना॒म प्र॑पादुकाः⁠। उ॒परी॑व॒ निद॑धाति⁠। उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠ ॥ [२७] (१५) (अ॒सीत्या॑ह॒ धृत्यै॒ यज॑माने दधा॒ त्यजा॑मित्वाय स्थापयति दुहे दुहन्ति दु॒ह्याद् दोग्धीति॒ दधीत्या॑ह स्याथ् सादयति॒ पञ्च॑ च) ॥३॥
हविर्निर्वापः
कर्म॑णे वां दे॒वेभ्यः॑ शकेय॒मित्या॑ह॒ शक्त्यै᳚⁠। य॒ज्ञस्य॒ वै सन्त॑ति॒मनु॑ प्र॒जाः प॒शवो॒ यज॑मानस्य॒ सन्ता॑यन्ते⁠। य॒ज्ञस्य॒ विच्छि॑त्ति॒मनु॑ प्र॒जाः प॒शवो॒ यज॑मानस्य॒ विच्छि॑द्यन्ते⁠। य॒ज्ञस्य॒ सन्त॑तिरसि य॒ज्ञस्य॑ त्वा॒ संत॑त्यै स्तृणामि॒ सन्त॑त्यै त्वा य॒ज्ञस्येत्याह॑व॒नीया॒थ् सन्त॑नोति⁠। यज॑मानस्य प्र॒जायै॑ पशू॒नाꣳ सन्त॑त्यै⁠॥ अ॒पः प्रण॑यति⁠। श्र॒द्धा वा आपः॑⁠। श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति⁠। अ॒पः प्रण॑यति⁠। य॒ज्ञो वा आपः॑⁠ ॥ [२८] (१०) य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति⁠। अ॒पः प्रण॑यति⁠। वज्रो॒ वा आपः॑⁠। वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति⁠। अ॒पः प्रण॑यति⁠। आपो॒ वै र॑ख्‍षो॒घ्नीः⁠। रख्‍ष॑सा॒मप॑हत्यै⁠। अ॒पः प्रण॑यति⁠। आपो॒ वै दे॒वानां᳚ प्रि॒यं धाम॑⁠। दे॒वाना॑मे॒व प्रि॒यं धाम॑ प्र॒णीय॒ प्रच॑रति⁠ ॥ [२९] (१०) अ॒पः प्रण॑यति⁠। आपो॒ वै सर्वा॑ दे॒वताः᳚⁠। दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति⁠॥ वेषा॑य॒ त्वेत्या॑ह⁠। वेषा॑य॒ ह्ये॑नदाद॒त्ते⁠॥ प्रत्यु॑ष्ट॒ꣳ॒ रख्‍षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह⁠। रख्‍ष॑सा॒मप॑हत्यै⁠॥ धूर॒सीत्या॑ह⁠। ए॒ष वै धुर्यो॒ऽग्निः⁠। तय्ँयदनु॑पस्पृश्याती॒यात्⁠ ॥ [३०] (१०) अ॒द्ध्व॒र्युं च॒ यज॑मानं च॒ प्रद॑हेत्⁠। उ॒प॒स्पृश्यात्ये॑ति⁠। अ॒द्ध्व॒र्योश्च॒ यज॑मानस्य॒ चाप्र॑दाहाय⁠॥ धूर्व॒ तय्ँयो᳚ऽस्मान् धूर्व॑ति॒ तं धू᳚र्व॒ यव्ँव॒यं धूर्वा॑म॒ इत्या॑ह⁠। द्वौ वाव पुरु॑षौ⁠। यं चै॒व धूर्व॑ति⁠। यश्चै॑नं॒ धूर्व॑ति⁠। तावु॒भौ शु॒चाऽर्प॑यति⁠॥ त्वं दे॒वाना॑मसि॒ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तम॒व्ँवह्नि॑तमं देव॒हूत॑म॒मित्या॑ह⁠। य॒था॒ य॒जुरे॒वै तत्⁠ ॥ [३१] (१०) अह्रु॑तमसि हवि॒र्द्धान॒मित्या॒हाना᳚र्त्यै⁠। दृꣳह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै᳚⁠॥ मि॒त्रस्य॑ त्वा॒ चख्‍षु॑षा॒ प्रेख्‍ष॒ इत्या॑ह मित्र॒त्वाय॑⁠। मा भेर्मा सव्ँवि॑क्था॒ मा त्वा॑ हिꣳसिष॒मित्या॒हाहि॑ꣳसायै⁠। यद्वै किं च॒ वातो॒ नाभि॒वाति॑⁠। तथ् सर्व॑व्ँवरुणदेव॒त्य᳚म्⁠॥ उ॒रु वाता॒येत्या॑ह⁠। अवा॑रुणमे॒वैन॑त् करोति⁠॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै⁠। अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह⁠ ॥ [३२] (१०) अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म्⁠। पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚⁠। अ॒ग्नये॒ जुष्टं॒ निर्व॑पा॒मीत्या॑ह⁠। अ॒ग्नय॑ ए॒वैना॒ञ्जुष्टं॒ निर्व॑पति⁠। त्रिर्यजु॑षा⁠। त्रय॑ इ॒मे लो॒काः⁠। ए॒षाल्ँलो॒काना॒माप्त्यै᳚⁠। तू॒ष्णीं च॑तु॒र्थम्⁠। अप॑रिमितमे॒वाव॑रुन्धे⁠। स ए॒वमे॒वानु॑पू॒र्वꣳ ह॒वीꣳषि॒ निर्व॑पति⁠ ॥ [३३] (१०) इ॒दं दे॒वाना॑मि॒दमु॑ नः स॒हेत्या॑ह॒ व्यावृ॑त्त्यै⁠॥ स्फा॒त्यै त्वा॒ नारा᳚त्या॒ इत्या॑ह॒ गुप्त्यै᳚⁠। तम॑सीव॒ वा ए॒षो᳚ऽन्तश्च॑रति⁠। यः प॑री॒णहि॑⁠॥ सुव॑र॒भि विख्ये॑षव्ँवैश्वान॒रं ज्योति॒रित्या॑ह⁠। सुव॑रे॒वाभि वि प॑श्यति वैश्वान॒रं ज्योतिः॑⁠। द्यावा॑पृथि॒वी ह॒विषि॑ गृही॒त उद॑वेपेताम्⁠॥ दृꣳह॑न्तां॒ दुर्या॒ द्यावा॑पृथि॒व्योरित्या॑ह⁠। गृ॒हाणां॒ द्यावा॑पृथि॒व्योर्द्धृत्यै᳚⁠॥ उ॒र्व॑न्तरि॑ख्‍ष॒मन्वि॒हीत्या॑ह॒ गत्यै᳚⁠॥ अदि॑त्यास्त्वो॒पस्थे॑ सादया॒मीत्या॑ह⁠। इ॒यव्ँवा अदि॑तिः⁠। अ॒स्या ए॒वैन॑दु॒पस्थे॑ सादयति⁠॥ अग्ने॑ ह॒व्यꣳ र॑ख्‍ष॒स्वेत्या॑ह॒ गुप्त्यै᳚⁠ ॥ [३४] (१४) (य॒ज्ञो वा आपो॒ धाम॑ प्र॒णीय॒ प्रच॑र त्यती॒या दे॒तद् बा॒हुभ्या॒मित्या॑ह ह॒विꣳषि॒ निर्व॑पति॒ गत्यै॑ च॒त्वारि॑ च) ॥४॥
व्रीह्यवघातः
इन्द्रो॑ वृ॒त्रम॑हन्न्⁠। सो॑ऽपः⁠। अ॒भ्य॑म्रियत⁠। तासा॒य्ँयन्मेद्ध्य॑य्ँय॒ज्ञिय॒ꣳ॒ सदे॑व॒मासी᳚त्⁠। तदपोद॑क्रामत्⁠। ते द॒र्भा अ॑भवन्न्⁠। यद्द॒र्भैर॒प उ॑त्पु॒नाति॑⁠। या ए॒व मेद्ध्या॑ य॒ज्ञियाः॒ सदे॑वा॒ आपः॑⁠। ताभि॑रे॒वैना॒ उत्पु॑नाति⁠। द्वाभ्या॒मुत्पु॑नाति⁠ ॥ [३५] (१०) द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै⁠॥ दे॒वो वः॑ सवि॒तोत्पु॑ना॒त्वित्या॑ह⁠। स॒वि॒तृप्र॑सूत ए॒वैना॒ उत्पु॑नाति⁠। अच्छि॑द्रेण प॒वित्रे॒णेत्या॑ह⁠। अ॒सौ वा आ॑दि॒त्योऽच्छि॑द्रं प॒वित्र᳚म्⁠। तेनै॒वैना॒ उत्पु॑नाति⁠। वसोः॒ सूर्य॑स्य र॒श्मिभि॒रित्या॑ह⁠। प्रा॒णा वा आपः॑⁠। प्रा॒णा वस॑वः⁠। प्रा॒णा र॒श्मयः॑⁠ ॥ [३६] (१०) प्रा॒णैरे॒व प्रा॒णान्थ् संपृ॑णक्ति⁠। सा॒वि॒त्रि॒यर्चा⁠। स॒वि॒तृप्र॑सूतं मे॒ कर्मा॑स॒दिति॑⁠। स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति⁠। प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑⁠॥ आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह⁠। रू॒पमे॒वासा॑मे॒तन्म॑हि॒मान॒व्ँव्याच॑ष्टे⁠। अग्र॑ इ॒मय्ँय॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह⁠। अग्रे॑ ए॒व य॒ज्ञं न॑यन्ति⁠। अग्रे॑ य॒ज्ञप॑तिम्⁠ ॥ [३७] (१०) यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूये॑ यू॒यमिन्द्र॑मवृणीद्ध्वव्ँवृत्र॒तूर्य॒ इत्या॑ह⁠। वृ॒त्रꣳ ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे⁠। आपो॒ हेन्द्र॑व्ँवव्रिरे⁠। स॒ज्ञांमे॒वासा॑मे॒तथ्सामा॑न॒व्ँव्याच॑ष्टे⁠॥ प्रोख्‍षि॑ताः॒ स्थेत्या॑ह⁠। तेनापः॒ प्रोख्‍षि॑ताः⁠॥ अ॒ग्नये॑ वो॒ जुष्टं॒ प्रोख्‍षा᳚म्य॒ग्नीषोमा᳚भ्या॒मित्या॑ह⁠। य॒था॒ दे॒व॒तमे॒वैना॒न् प्रोख्‍ष॑ति⁠। त्रिः प्रोख्‍ष॑ति⁠। त्र्या॑वृ॒द्धि य॒ज्ञः⁠ ॥ [३८] (१०) अथो॒ रख्‍ष॑सा॒मप॑हत्यै⁠। शुन्ध॑द्ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह⁠। दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति⁠। त्रिः प्रोख्‍ष॑ति⁠। त्र्या॑वृ॒द्धि य॒ज्ञः⁠। अथो॑ मेद्ध्य॒त्वाय॑⁠। अव॑धूत॒ꣳ॒ रख्‍षोऽव॑धूता॒ अरा॑तय॒ इत्या॑ह⁠। रख्‍ष॑सा॒मप॑हत्यै⁠। अदि॑त्या॒स्त्वग॒सीत्या॑ह⁠। इ॒यव्ँवा अदि॑तिः⁠ ॥ [३९] (१०) अ॒स्या ए॒वैन॒त् त्वचं॑ करोति⁠। प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै⁠॥ पु॒रस्ता᳚त् प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेद्ध्य॒त्वाय॑⁠। तस्मा᳚त् पु॒रस्ता᳚त् प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते⁠। तस्मा᳚त् प्र॒जा मृ॒गं ग्राहु॑काः⁠। य॒ज्ञो दे॒वेभ्यो॒ निला॑यत⁠। कृष्णो॑ रू॒पं कृ॒त्वा⁠। यत् कृ॑ष्णाजि॒ने ह॒विर॑द्ध्यव॒हन्ति॑⁠। य॒ज्ञादे॒वतद्य॒ज्ञं प्रयु॑ङ्क्ते⁠। ह॒विषोऽस्क॑न्दाय⁠ ॥ [४०] (१०) अ॒धि॒षव॑णमसि वानस्प॒त्यमित्या॑ह⁠। अ॒धि॒षव॑णमे॒वैन॑त् करोति⁠। प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह सय॒त्वाय॑⁠॥ अ॒ग्नेस्त॒नूर॒सीत्या॑ह⁠। अ॒ग्नेर्वा ए॒षा त॒नूः⁠। यदोष॑धयः⁠। वा॒चो वि॒सर्ज॑न॒मित्या॑ह⁠। य॒दा हि प्र॒जा ओष॑धीनाम॒श्नन्ति॑⁠। अथ॒ वाच॒व्ँविसृ॑जन्ते⁠। दे॒ववी॑तये त्वा गृह्णा॒मीत्या॑ह⁠ ॥ [४१] (१०) दे॒वता॑भिरे॒वैन॒थ् सम॑र्द्धयति⁠॥ अद्रि॑रसि वानस्प॒त्य इत्या॑ह⁠। ग्रावा॑णमे॒वैन॑त् करोति⁠। स इ॒दं दे॒वेभ्यो॑ ह॒व्यꣳ सु॒शमि॑ शमि॒ष्वेत्या॑ह॒ शान्त्यै᳚⁠॥ हवि॑ष्कृ॒देहीत्या॑ह⁠। य ए॒व दे॒वाना॑ꣳ हवि॒ष्कृतः॑⁠। तान्‌ह्व॑यति⁠। त्रिर्ह्व॑यति⁠। त्रिष॑त्या॒ हि दे॒वाः⁠॥ इष॒मा व॒दोर्ज॒मा व॒देत्या॑ह⁠ ॥ [४२] (१०) इष॑मे॒वोर्ज॒य्ँयज॑माने दधाति⁠। द्यु॒मद्व॑दत व॒यꣳ स॑घां॒तं जे॒ष्मेत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै⁠॥ मनोः᳚ श्र॒द्धादे॑वस्य॒ यज॑मानस्यासुर॒घ्नी वाक्⁠। य॒ज्ञा॒यु॒धेषु॒ प्रवि॑ष्टाऽऽसीत्⁠। तेऽसु॑रा॒ याव॑न्तो यज्ञायु॒धाना॑मु॒द्वद॑तामु॒पाशृ॑ण्वन्न्⁠। ते परा॑ऽभवन्न्⁠। तस्मा॒थ् स्वानां॒ मद्ध्ये॑ऽव॒साय॑ यजेत⁠। याव॑न्तोऽस्य॒ भ्रातृ॑व्या यज्ञायु॒धाना॑मु॒द्वद॑तामुपशृ॒ण्वन्ति॑⁠। ते परा॑ भवन्ति⁠। उ॒च्चैः स॒माह॑न्त॒वा आ॑ह॒ विजि॑त्यै⁠ ॥ [४३] (१०) वृ॒ङ्क्त ए॑षामिन्द्रि॒यव्ँवी॒र्य᳚म्⁠। श्रेष्ठ॑ एषां भवति⁠॥ व॒र्॒‌ष वृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒‌षवृ॑द्धव्ँवे॒त्त्वित्या॑ह⁠। व॒र्॒‌षवृ॑द्धा॒ वा ओष॑धयः⁠। व॒र्॒‌षवृ॑द्धा इ॒षीकाः॒ समृ॑द्ध्यै⁠। य॒ज्ञꣳ रख्‍षा॒ꣴ॒स्यनु॒ प्रावि॑शन्न्⁠। तान्य॒स्ना प॒शुभ्यो॑ नि॒रवा॑दयन्त⁠। तुषै॒रोष॑धीभ्यः⁠॥ परा॑पूत॒ꣳ॒ रख्‍षः॒ परा॑पूता॒ अरा॑तय॒ इत्या॑ह⁠। रख्‍ष॑सा॒मप॑हत्यै⁠ ॥ [४४] (१०) रख्‍ष॑सां भा॒गो॑ऽसीत्या॑ह⁠। तुषै॑रे॒व रख्‍षा॑ꣳसि नि॒रव॑दयते⁠। अ॒प उप॑स्पृशति मेद्ध्य॒त्वाय॑⁠। वा॒युर्वो॒ वि वि॑न॒क्त्वित्या॑ह⁠। प॒वित्र॒व्ँवै वा॒युः⁠। पु॒नात्ये॒वैना॑न्⁠। अ॒न्तरि॑ख्‍षादिव॒ वा ए॒ते प्रस्क॑न्दन्ति⁠। ये शूर्पा᳚त्⁠। दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै⁠। ह॒विषोऽस्क॑न्दाय⁠। त्रिष्फ॒लीक॑र्त॒वा आ॑ह⁠। त्र्या॑वृ॒द्धि य॒ज्ञः⁠। अथो॑ मेद्ध्य॒त्वाय॑⁠ ॥ [४५] (१३) (द्वाभ्या॒मुत् पु॑नाति र॒श्मयो॑ नय॒न्त्यग्रे॑ य॒ज्ञप॑तिं य॒ज्ञो ऽदि॑ति॒ रस्क॑न्दाय गृह्णा॒मीत्या॑ह व॒देत्या॑ह॒ विजि॑त्या॒ अप॑हत्या॒ अस्क॑न्दाय॒ त्रीणि॑ च) ॥५॥
तण्डुलपेषणम्
अव॑धूत॒ꣳ॒ रख्‍षोऽव॑धूता॒ अरा॑तय॒ इत्या॑ह⁠। रख्‍ष॑सा॒मप॑हत्यै⁠। अदि॑त्या॒स्त्वग॒सीत्या॑ह⁠। इ॒यव्ँवा अदि॑तिः⁠। अ॒स्या ए॒वैन॒त् त्वचं॑ करोति⁠। प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै⁠। पु॒रस्ता᳚त् प्रती॒चीन॑ग्रीव॒मुत्त॑रलो॒मोप॑स्तृणाति मेद्ध्य॒त्वाय॑⁠। तस्मा᳚त् पु॒रस्ता᳚त् प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते⁠। तस्मा᳚त् प्र॒जा मृ॒गं ग्राहु॑काः⁠। य॒ज्ञो दे॒वेभ्यो॒ निला॑यत⁠ ॥ [४६] (१०) कृष्णो॑ रू॒पं कृ॒त्वा⁠। यत् कृ॑ष्णाजि॒ने ह॒विर॑धिपि॒नष्टि॑⁠। य॒ज्ञादे॒व तद् य॒ज्ञं प्रयु॑ङ्क्ते⁠। ह॒विषोऽस्क॑न्दाय⁠॥ द्यावा॑पृथि॒वी स॒हास्ता᳚म्⁠। ते श॑म्यामा॒त्रमेक॒मह॒र्व्यैता॑ꣳ शम्यामा॒त्रमेक॒महः॑⁠॥ दि॒वः स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह⁠। द्यावा॑पृथि॒व्योर् वीत्यै᳚⁠। धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वः स्क॑म्भ॒निर्वे॒त्त्वित्या॑ह⁠। द्यावा॑पृथि॒व्योर् विधृ॑त्यै⁠ ॥ [४७] (१०) धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे॒त्त्वित्या॑ह⁠। द्यावा॑पृथि॒व्योर्द्धृत्यै᳚⁠॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै⁠। अ॒श्विनो᳚र् बा॒हुभ्या॒मित्या॑ह⁠। अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म्⁠। पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚⁠। अधि॑वपा॒मीत्या॑ह⁠। य॒था॒दे॒व॒तमे॒वैना॒नधि॑ वपति⁠॥ धा॒न्य॑मसि धिनु॒हि दे॒वानित्या॑ह⁠। ए॒तस्य॒ यजु॑षो वी॒र्ये॑ण⁠ ॥ [४८] (१०) याव॒देका॑ दे॒वता॑ का॒मय॑ते॒ याव॒देका᳚⁠। ताव॒दाहु॑तिः प्रथते⁠। न हि तदस्ति॑⁠। यत्ताव॑दे॒व स्यात्⁠। याव॑ज्जु॒होति॑⁠॥ प्रा॒णाय॑ त्वाऽपा॒नाय॒ त्वेत्या॑ह⁠। प्रा॒णाने॒व यज॑माने दधाति⁠। दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धा॒मित्या॑ह⁠। आयु॑रे॒वास्मि॑न् दधाति⁠। अ॒न्तरि॑ख्‍षादिव॒ वा ए॒तानि॒ प्रस्क॑न्दन्ति⁠। यानि॑ दृ॒षदः॑⁠। दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै⁠। ह॒विषोऽस्क॑न्दाय⁠॥ अस॑व्ँवपन्ती पि॑ꣳषा॒णूनि॑ कुरुता॒दित्या॑ह मेद्ध्य॒त्वाय॑⁠ ॥ [४९] (१४) (निला॑यत॒ विधृ॑त्यै वी॒र्ये॑ण स्कन्दन्ति च॒त्वारि॑ च) ॥६॥
कपालोपधानम्
धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छेत्या॑ह॒ धृत्यै᳚⁠॥ अपा᳚ग्ने॒ऽग्निमा॒मादं॑ जहि॒ निष्क्र॒व्याद॑ꣳ से॒धा दे॑व॒यज॑व्ँव॒हेत्या॑ह⁠। य ए॒वामात्क्र॒व्यात्⁠। तम॑प॒हत्य॑⁠। मेद्ध्ये॒ऽग्नौ क॒पाल॒मुप॑दधाति⁠॥ निर्द॑ग्ध॒ꣳ॒ रख्‍षो॒ निर्द॑ग्धा॒ अरा॑तय॒ इत्या॑ह⁠। रख्‍षा॑ꣴस्ये॒व निर्द॑हति⁠। अ॒ग्नि॒वत्युप॑दधाति⁠। अ॒स्मिन्ने॒व लो॒के ज्योति॑र्द्धत्ते⁠। अङ्गा॑र॒मधि॑वर्तयति⁠ ॥ [५०] (१०) अ॒न्तरि॑ख्‍ष ए॒व ज्योति॑र्द्धत्ते⁠। आ॒दि॒त्यमे॒वामुष्मि॑ल्ँलो॒के ज्योति॑र्द्धत्ते⁠। ज्योति॑ष्मन्तोऽस्मा इ॒मे लो॒का भ॑वन्ति⁠। य ए॒वव्ँवेद॑⁠॥ ध्रु॒वम॑सि पृथि॒वीं दृ॒ꣳ॒हेत्या॑ह⁠। पृ॒थि॒वीमे॒वैतेन॑ दृꣳहति⁠। ध॒र्त्रम॑स्य॒न्तरि॑ख्‍षं दृ॒ꣳ॒हेत्या॑ह⁠। अ॒न्तरि॑ख्‍षमे॒वैतेन॑ दृꣳहति⁠। ध॒रुण॑मसि॒ दिवं॑ दृ॒ꣳ॒हेत्या॑ह⁠। दिव॑मे॒वैतेन॑ दृꣳहति⁠ ॥ [५१] (१०) धर्मा॑सि॒ दिशो॑ दृ॒ꣳ॒हेत्या॑ह⁠। दिश॑ ए॒वैतेन॑ दृꣳहति⁠। इ॒माने॒वैतैर् लो॒कान् दृ॑ꣳहति⁠। दृꣳ ह॑न्तेऽस्मा इ॒मे लो॒काः प्र॒जया॑ प॒शुभिः॑⁠। य ए॒वव्ँवेद॑⁠॥ त्रीण्यग्रे॑ क॒पाला॒न्युप॑दधाति⁠। त्रय॑ इ॒मे लो॒काः⁠। ए॒षाल्ँलो॒काना॒माप्त्यै᳚⁠। एक॒मग्रे॑ क॒पाल॒मुप॑दधाति⁠। एक॒व्ँवा अग्रे॑ क॒पालं॒ पुरु॑षस्य स॒भंव॑ति⁠ ॥ [५२] (१०) अथ॒ द्वे⁠। अथ॒ त्रीणि॑⁠। अथ॑ च॒त्वारि॑⁠। अथा॒ष्टौ⁠। तस्मा॑द॒ष्टाक॑पालं॒ पुरु॑षस्य॒ शिरः॑⁠। यदे॒वं क॒पाला᳚न्युप॒ दधा॑ति⁠। य॒ज्ञो वै प्र॒जाप॑तिः⁠। य॒ज्ञमे॒व प्र॒जाप॑ति॒ꣳ॒ सꣴस्क॑रोति⁠। आ॒त्मान॑मे॒व तथ् सꣴस्क॑रोति⁠। तꣳ सꣴस्कृ॑तमा॒त्मान᳚म्⁠ ॥ [५३] (१०) अ॒मुष्मि॑ल्ँलो॒केऽनु॒परै॑ति⁠॥ यद॒ष्टावु॑प॒ दधा॑ति⁠। गा॒य॒त्रि॒या तथ् संमि॑तम्⁠। यन्नव॑⁠। त्रि॒वृता॒ तत्⁠। यद् दश॑⁠। वि॒राजा॒ तत्⁠। यदेका॑दश⁠। त्रि॒ष्टुभा॒ तत्⁠। यद्द्वाद॑श⁠ ॥ [५४] (१०) जग॑त्या॒ तत्⁠। छन्दः॑ संमितानि॒ स उ॑प॒दध॑त् क॒पाला॑नि⁠। इ॒माल्ँलो॒कान॑नुपू॒र्वं दिशो॒ विधृ॑त्यै दृꣳहति⁠। अथायुः॑ प्रा॒णान् प्र॒जां प॒शून्‌यज॑माने दधाति⁠। स॒जा॒तान॑स्मा अ॒भितो॑ बहु॒लान् क॑रोति⁠॥ चितः॒ स्थेत्या॑ह⁠। य॒था॒ य॒जुरे॒वैतत्⁠॥ भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यद्ध्व॒मित्या॑ह⁠। दे॒वता॑नामे॒वैना॑नि॒ तप॑सा तपति⁠। तानि॒ ततः॒ सꣴस्थि॑ते⁠। यानि॑ घ॒र्मे क॒पाला᳚न् युपचि॒न्वन्ति॑ वे॒धस॒ इति॒ चतु॑ष्पदय॒र्चा विमु॑ञ्चति⁠। चतु॑ष्पादः प॒शवः॑⁠। प॒शुष्वे॒वोपरि॑ष्टा॒त् प्रति॑तिष्ठति⁠ ॥ [५५] (१३) (व॒र्त॒य॒ति॒ दिव॑मे॒वैतेन॑ दृꣳहति स॒म्भव॑ति॒ तꣳ सꣴस्कृ॑तमा॒त्मानं॒ द्वाद॑श॒ सꣴस्थि॑ते॒ त्रीणि॑ च) ॥७॥
पुरोडाशानिष्पादनम्
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै⁠। अ॒श्विनो᳚र् बा॒हुभ्या॒मित्या॑ह⁠। अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म्⁠। पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚⁠। सव्ँव॑पा॒मीत्या॑ह⁠। य॒था॒ दे॒व॒तमे॒वैना॑नि॒ सव्ँव॑पति⁠॥ समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॒नेत्या॑ह⁠। आपो॒ वा ओष॑धीर्जिन्वन्ति⁠। ओष॑धयो॒ऽपो जि॑न्वन्ति⁠। अ॒न्या वा ए॒तासा॑म॒न्या जि॑न्वन्ति⁠ ॥ [५६] (१०) तस्मा॑दे॒वमा॑ह⁠। सꣳ रे॒वती॒र्जग॑तीभि॒र्मधु॑मती॒र्मधु॑मतीभिः सृज्यद्ध्व॒मित्या॑ह⁠। आपो॒ वै रे॒वतीः᳚⁠। प॒शवो॒ जग॑तीः⁠। ओष॑धयो॒ मधु॑मतीः⁠। आप॒ ओष॑धीः प॒शून्⁠। ताने॒वास्मा॑ एक॒धा स॒ꣳ॒सृज्य॑⁠। मधु॑मतः करोति⁠। अ॒द्भ्यः परि॒ प्रजा॑ताः स्थ॒ सम॒द्भिः पृ॑च्यद्ध्व॒मिति॑ प॒र्याप्ला॑वयति⁠। यथा॒ सुवृ॑ष्ट इ॒माम॑नु वि॒सृत्य॑⁠ ॥ [५७] (१०) आप॒ ओष॑धीर्म॒हय॑न्ति⁠। ता॒दृगे॒व तत्⁠॥ जन॑यत्यै त्वा॒ सय्ँयौ॒मीत्या॑ह⁠। प्र॒जा ए॒वैतेन॑ दाधार⁠। अ॒ग्नये᳚ त्वा॒ऽग्नीषोमा᳚भ्या॒मित्या॑ह॒ व्यावृ॑त्त्यै⁠। म॒खस्य॒ शिरो॒ऽसीत्या॑ह⁠। य॒ज्ञो वै म॒खः⁠। तस्यै॒तच्छिरः॑⁠। यत् पु॑रो॒डाशः॑⁠। तस्मा॑दे॒वमा॑ह⁠ ॥ [५८] (१०) घ॒र्मो॑ऽसि वि॒श्वायु॒रित्या॑ह⁠। विश्व॑मे॒वायु॒र् यज॑माने दधाति⁠। उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒मित्या॑ह⁠। यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति⁠। त्वचं॑ गृह्णी॒ष्वेत्या॑ह⁠। सर्व॑मे॒वैन॒ꣳ॒ सत॑नुं करोति⁠। अथा॒प आ॒नीय॒ परि॑ मार्ष्टि⁠। मा॒ꣳ॒स ए॒व तत् त्वचं॑ दधाति⁠। तस्मा᳚त् त्व॒चा मा॒ꣳ॒सं छ॒न्नम्⁠॥ घ॒र्मो वा ए॒षोऽशा᳚न्तः⁠ ॥ [५९] (१०) अ॒र्द्ध॒मा॒से᳚ऽर्द्धमासे॒ प्रवृ॑ज्यते⁠। यत् पु॑रो॒डाशः॑⁠। स ई᳚श्व॒रो यज॑मानꣳ शु॒चा प्र॒दहः॑⁠। पर्य॑ग्नि करोति⁠। प॒शुमे॒वैन॑मकः⁠। शान्त्या॒ अप्र॑दाहाय⁠। त्रिः पर्य॑ग्नि करोति⁠। त्र्या॑वृ॒द्धि य॒ज्ञः⁠। अथो॒ रख्‍ष॑सा॒मप॑हत्यै⁠॥ अ॒न्तरि॑त॒ꣳ॒ रख्‍षो॒ऽन्तरि॑ता॒ अरा॑तय॒ इत्या॑ह⁠ ॥ [६०] (१०) रख्‍ष॑साम॒न्तर्‌हि॑त्यै⁠। पु॒रो॒डाश॒व्ँवा अधि॑श्रित॒ꣳ॒ रख्‍षा॑ꣴस्यजिघाꣳसन्न्⁠। दि॒वि नाको॒ नामा॒ग्नी र॑ख्‍षो॒हा⁠। स ए॒वास्मा॒द्रख्‍षा॒ꣴ॒स्यपा॑हन्न्⁠। दे॒वस्त्वा॑ सवि॒ता श्र॑पय॒त्वित्या॑ह⁠। स॒वि॒तृप्र॑सूत ए॒वैन॑ꣴ श्रपयति⁠। वर्‌षि॑ष्ठे॒ अधि॒ नाक॒ इत्या॑ह⁠। रख्‍ष॑सा॒मप॑हत्यै⁠। अ॒ग्निस्ते॑ त॒नुवं॒ माऽति॑ धा॒गित्या॒हान॑तिदाहाय⁠। अग्ने॑ ह॒व्यꣳ र॑ख्‍ष॒स्वेत्या॑ह॒ गुप्त्यै᳚⁠ ॥ [६१] (१०) अवि॑दहन्तः श्रपय॒तेति॒ वाच॒व्ँविसृ॑जते⁠। य॒ज्ञमे॒व ह॒वीꣴष्य॑भिव्या॒हृत्य॒ प्रत॑नुते⁠। पु॒रो॒रुच॒मवि॑दाहाय॒ शृत्यै॑ करोति⁠॥ म॒स्तिष्को॒ वै पु॑रो॒डाशः॑⁠। तय्ँयन्नाभि॑वा॒सये᳚त्⁠। आ॒विर्म॒स्तिष्कः॑ स्यात्⁠। अ॒भिवा॑सयति⁠। तस्मा॒द्गुहा॑ म॒स्तिष्कः॑⁠। भस्म॑ना॒ऽभि वा॑सयति⁠। तस्मा᳚न् मा॒ꣳ॒सेनास्थि॑ छ॒न्नम्⁠ ॥ [६२] (१०) वे॒देना॒भि वा॑सयति⁠। तस्मा॒त् केशैः॒ शिरः॑ छ॒न्नम्⁠। अख॑लतिभावुको भवति⁠। य ए॒वव्ँवेद॑⁠॥ प॒शोर्वै प्र॑ति॒मा पु॑रो॒डाशः॑⁠। स नाय॒जुष्क॑मभि॒वास्यः॑⁠। वृथे॑व स्यात्⁠। ई॒श्व॒रा यज॑मानस्य प॒शवः॒ प्रमे॑तोः⁠॥ सं ब्रह्म॑णा पृच्य॒स्वेत्या॑ह⁠। प्रा॒णा वै ब्रह्म॑⁠ ॥ [६३] (१०) प्रा॒णाः प॒शवः॑⁠। प्रा॒णैरे॒व प॒शून्थ् संपृ॑णक्ति⁠। न प्र॒मायु॑का भवन्ति⁠। यज॑मानो॒ वै पु॑रो॒डाशः॑⁠। प्र॒जा प॒शवः॒ पुरी॑षम्⁠। यदे॒वम॑भि वा॒सय॑ति⁠। यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॒ सम॑र्द्धयति⁠॥ दे॒वा वै ह॒विर् भृ॒त्वाऽब्रु॑वन्न्⁠। कस्मि॑न्नि॒दं म्र॑ख्‍ष्यामह॒ इति॑⁠। सो᳚ऽग्निर॑ब्रवीत्⁠ ॥ [६४] (१०) मयि॑ त॒नूः संनिध॑द्ध्वम्⁠। अ॒हव्ँव॒स्तं ज॑नयिष्यामि⁠। यस्मि॑न् म्र॒ख्‍ष्यद्ध्व॒ इति॑⁠। ते दे॒वा अ॒ग्नौ त॒नूः सं न्य॑दधत⁠। तस्मा॑दाहुः⁠। अ॒ग्निः सर्वा॑ दे॒वता॒ इति॑⁠। सोऽङ्गा॑रेणा॒पः⁠। अ॒भ्य॑पातयत्⁠। तत॑ एक॒तो॑ऽजायत⁠। स द्वि॒तीय॑म॒भ्य॑पातयत्⁠ ॥ [६५] (१०) ततो᳚ द्वि॒तो॑ऽजायत⁠। स तृ॒तीय॑म॒भ्य॑पातयत्⁠। तत॑स्त्रि॒तो॑ऽजायत⁠। यद॒द्भ्योऽजा॑यन्त⁠। तदा॒प्याना॑माप्य॒त्वम्⁠। यदा॒त्मभ्योऽजा॑यन्त⁠। तदा॒त्म्याना॑मात्म्य॒त्वम्⁠॥ ते दे॒वा आ॒प्येष्व॑मृजत⁠। आ॒प्या अ॑मृजत॒ सूर्या᳚भ्युदिते⁠। सूर्या᳚भ्युदितः॒ सूर्या॑भिनिम्रुक्ते⁠ ॥ [६६] (१०) सूर्या॑भिनिम्रुक्तः कुन॒खिनि॑⁠। कु॒न॒खी श्या॒वद॑ति⁠। श्या॒वद॑न्नग्रदिधि॒षौ⁠। अ॒ग्र॒दि॒धि॒षुः प॑रिवि॒त्ते⁠। प॒रि॒वि॒त्तो वी॑र॒हणि॑⁠। वी॒र॒हा ब्र॑ह्म॒हणि॑⁠। तद्ब्र॑ह्म॒हणं॒ नात्य॑च्यवत⁠। अ॒न्त॒र्वे॒दि निन॑य॒त्यव॑रुद्ध्यै⁠। उल्मु॑केना॒भि गृ॑ह्णाति शृत॒त्वाय॑⁠। शृ॒तका॑मा इव॒ हि दे॒वाः⁠ ॥ [६७] (१०) (अ॒न्या जि॑न्वन्त्यनुवि॒सृत्यै॒वमा॒हाशा᳚न्ताह॒गुप्त्यै॑छ॒न्नं ब्रह्मा᳚ब्रवीद्द्वि॒तीय॑म॒भ्य॑पातय॒थ्सूर्या॑भिनिम्रुक्तेदे॒वाः) ॥८॥
वेदिकरणम्
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ स्फ्यमाद॑त्ते॒ प्रसू᳚त्यै⁠। अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह⁠। अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म्⁠। पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚⁠॥ आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दख्‍षि॑ण॒ इत्या॑ह⁠। इ॒न्द्रि॒यमे॒व यज॑माने दधाति⁠। स॒हस्र॑भृष्टिः श॒तते॑जा॒ इत्या॑ह⁠। रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्ँव्याच॑ष्टे⁠॥ वा॒युर॑सि ति॒ग्मते॑जा॒ इत्या॑ह⁠। तेजो॒ वै वा॒युः⁠ ॥ [६८] (१०) तेज॑ ए॒वास्मि॑न् दधाति⁠॥ वि॒षाद्वै नामा॑सु॒र आ॑सीत्⁠। सो॑ऽबिभेत्⁠। य॒ज्ञेन॑ मा दे॒वा अ॒भिभ॑विष्य॒न्तीति॑⁠। स पृ॑थि॒वीम॒भ्य॑वमीत्⁠। साऽमे॒द्ध्याऽभ॑वत्⁠। अथो॒ यदिन्द्रो॑ वृ॒त्रमह॑न्न्⁠। तस्य॒ लोहि॑तं पृथि॒वीमनु॒ व्य॑धावत्⁠। साऽमे॒द्ध्याऽभ॑वत्⁠। पृथि॑वि देवयज॒नीत्या॑ह⁠ ॥ [६९] (१०) मेद्ध्या॑मे॒वैनां᳚ देव॒यज॑नीं करोति⁠। ओष॑द्ध्यास्ते॒ मूलं॒ मा हि॑ꣳसिष॒मित्या॑ह⁠। ओष॑धीना॒महि॑ꣳसायै⁠॥ व्र॒जं ग॑च्छ गो॒स्थान॒मित्या॑ह⁠। छन्दा॑ꣳसि॒ वै व्र॒जो गो॒स्थानः॑⁠। छन्दा॑ꣴस्ये॒वास्मै᳚ व्र॒जं गो॒स्थानं॑ करोति⁠॥ वर्‌ष॑तु ते॒ द्यौरित्या॑ह⁠। वृष्टि॒र्वै द्यौः⁠। वृष्टि॑मे॒वाव॑रुन्धे⁠॥ ब॒धा॒न दे॑व सवितः पर॒मस्यां᳚ परा॒वतीत्या॑ह⁠ ॥ [७०] (१०) द्वौ वाव पुरु॑षौ⁠। यं चै॒व द्वेष्टि॑⁠। यश्चै॑नं॒ द्वेष्टि॑⁠। तावु॒भौ ब॑द्ध्नाति पर॒मस्यां᳚ परा॒वति॑ श॒तेन॒ पाशैः᳚⁠। यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॒गित्या॒हानि॑म्रुक्त्यै⁠॥ अ॒ररु॒र्वै नामा॑सु॒र आ॑सीत्⁠। स पृ॑थि॒व्यामुप॑म्लुप्तोऽशयत्⁠। तं दे॒वा अप॑हतो॒ऽररुः॑ पृथि॒व्या इति॑ पृथि॒व्या अपा᳚घ्नन्न्⁠। भ्रातृ॑व्यो॒ वा अ॒ररुः॑⁠। अप॑हतो॒ऽररुः॑ पृथि॒व्या इति॒ यदाह॑⁠ ॥ [७१] (१०) भ्रातृ॑व्यमे॒व पृ॑थि॒व्या अप॑हन्ति⁠। ते॑ऽमन्यन्त⁠। दिव॒व्ँवा अ॒यमि॒तः प॑तिष्य॒तीति॑⁠। तम॒ररु॑स्ते॒ दिवं॒ मा स्का॒निति॑ दि॒वः पर्य॑बाधन्त⁠। भ्रातृ॑व्यो॒ वा अ॒ररुः॑⁠। अ॒ररु॑स्ते॒ दिवं॒ मा स्का॒निति॒ यदाह॑⁠। भ्रातृ॑व्यमे॒व दि॒वः परि॑बाधते⁠। स्त॒म्ब॒ य॒जुर्‌ह॑रति⁠। पृ॒थि॒व्या ए॒व भ्रातृ॑व्य॒मप॑हन्ति⁠। द्वि॒तीय॑ꣳ हरति⁠ ॥ [७२] (१०) अ॒न्तरि॑ख्‍षादे॒वैन॒मप॑हन्ति⁠। तृ॒तीय॑ꣳ हरति⁠। दि॒व ए॒वैन॒मप॑हन्ति⁠। तू॒ष्णीं च॑तु॒र्थꣳ ह॑रति⁠। अप॑रिमितादे॒वैन॒मप॑हन्ति⁠॥ असु॑राणा॒व्ँवा इ॒यमग्र॑ आसीत्⁠। याव॒दासी॑नः परा॒ पश्य॑ति⁠। ताव॑द्दे॒वाना᳚म्⁠। ते दे॒वा अ॑ब्रुवन्न्⁠। अस्त्वे॒व नो॒ऽस्यामपीति॑⁠ ॥ [७३] (१०) क्य॑न्नो दास्य॒थेति॑⁠। याव॑थ्स्व॒यं प॑रिगृह्णी॒थेति॑⁠। ते वस॑व॒स्त्वेति॑ दख्‍षिण॒तः पर्य॑गृह्णन्न्⁠। रु॒द्रास्त्वेति॑ प॒श्चात्⁠। आ॒दि॒त्यास्त्वेत्यु॑त्तर॒तः⁠। ते᳚ऽग्निना॒ प्राञ्चो॑ऽजयन्न्⁠। वसु॑भिर् दख्‍षि॒णा⁠। रु॒द्रैः प्र॒त्यञ्चः॑⁠। आ॒दि॒त्यैरुद॑ञ्चः⁠। यस्यै॒वव्ँवि॒दुषो॒ वेदिं॑ परि गृ॒ह्णन्ति॑⁠ ॥ [७४] (१०) भव॑त्या॒त्मना᳚⁠। परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति⁠॥ दे॒वस्य॑ सवि॒तुः स॒व इत्या॑ह॒ प्रसू᳚त्यै⁠। कर्म॑ कृण्वन्ति वे॒धस॒ इत्या॑ह⁠। इ॒षि॒तꣳ हि कर्म॑ क्रि॒यते᳚⁠। पृ॒थि॒व्यै मेद्ध्यं॑ चामे॒द्ध्यं च॒ व्युद॑क्रामताम्⁠। प्रा॒चीन॑मुदी॒चीनं॒ मेद्ध्य᳚म्⁠। प्र॒ती॒चीनं॑ दख्‍षि॒णाऽमे॒द्ध्यम्⁠। प्राची॒मुदी॑चीं प्रव॒णां क॑रोति⁠। मेद्ध्या॑मे॒वैनां᳚ देव॒यज॑नीं करोति⁠ ॥ [७५] (१०) प्राञ्चौ॑ वेद्य॒ꣳ॒ सावुन्न॑यति⁠। आ॒ह॒व॒नीय॑स्य॒ परि॑गृहीत्यै⁠। प्र॒तीची॒ श्रोणी᳚⁠। गार्‌ह॑पत्यस्य॒ परि॑गृहीत्यै⁠। अथो॑ मिथुन॒त्वाय॑⁠। उद्ध॑न्ति⁠। यदे॒वास्या॑ अमे॒द्ध्यम्⁠। तदप॑हन्ति⁠। उद्ध॑न्ति⁠। तस्मा॒दोष॑धयः॒ परा॑भवन्ति⁠ ॥ [७६] (१०) मूलं॑ छिनत्ति⁠। भ्रातृ॑व्यस्यै॒व मूलं॑ छिनत्ति⁠। मूल॒व्ँवा अ॑ति॒तिष्ठ॒द्रख्‍षा॒ꣴ॒स्यनूत् पि॑पते⁠। यद्धस्ते॑न छि॒न्द्यात्⁠। कु॒न॒खिनीः᳚ प्र॒जाः स्युः॑⁠। स्फ्येन॑ छिनत्ति⁠। वज्रो॒ वै स्फ्यः⁠। वज्रे॑णै॒व य॒ज्ञाद्रख्‍षा॒ꣴ॒स्यप॑हन्ति⁠। पि॒तृ॒दे॒व॒त्याऽति॑खाता⁠। इय॑तीं खनति⁠ ॥ [७७] (१०) प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑ताम्⁠॥ वेदि॑र्दे॒वेभ्यो॒ निला॑यत⁠। तां च॑तुरङ्गु॒लेऽन्व॑विन्दन्न्⁠। तस्मा᳚च्चतुरङ्गु॒लं खेया᳚⁠। च॒तु॒रङ्गु॒लं ख॑नति⁠। च॒तु॒र॒ङ्गु॒ले ह्योष॑धयः प्रति॒तिष्ठ॑न्ति⁠। आप्र॑ति॒ष्ठायै॑ खनति⁠। यज॑मानमे॒व प्र॑ति॒ष्ठां ग॑मयति⁠। द॒ख्‍षि॒ण॒तो वर्‌षी॑यसीं करोति⁠। दे॒व॒यज॑नस्यै॒व रू॒पम॑कः⁠ ॥ [७८] (१०) पुरी॑षवतीं करोति⁠। प्र॒जा वै प॒शवः॒ पुरी॑षम्⁠। प्र॒जयै॒वैनं॑ प॒शुभिः॒ पुरी॑षवन्तं करोति⁠। उत्त॑रं परिग्रा॒हं परि॑गृह्णाति⁠। ए॒ताव॑ती॒ वै पृ॑थि॒वी⁠। याव॑ती॒ वेदिः॑⁠। तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्यं नि॒र्भज्य॑⁠। आ॒त्मन॒ उत्त॑रं परिग्रा॒हं परि॑गृह्णाति⁠। ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्रीर॒सीत्या॑ह⁠। य॒था॒ य॒जुरे॒वै तत्⁠ ॥ [७९] (१०) क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति⁠। यद्वेदिं॑ क॒रोति॑⁠। धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै᳚⁠। उ॒र्वी चासि॒ वस्वी॑ चा॒सीत्या॑ह⁠। उ॒र्वीमे॒वैना॒व्ँवस्वीं᳚ करोति⁠। पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शि॒न्नित्या॑ह मेद्ध्य॒त्वाय॑⁠। उ॒दा॒दाय॑ पृथि॒वीं जी॒रदा॑नु॒र्यामैर॑यं च॒न्द्रम॑सि स्व॒धाभि॒रित्या॑ह⁠। यदे॒वास्या॑ अमे॒द्ध्यम्⁠। तद॑प॒हत्य॑⁠। मेद्ध्यां᳚ देव॒यज॑नीं कृ॒त्वा⁠ ॥ [८०] (१०) यद॒दश्च॒न्द्रम॑सि॒ मेद्ध्य᳚म्⁠। तद॒स्यामेर॑यति⁠। तां धीरा॑सो अनु॒दृश्य॑ यजन्त॒ इत्या॒हानु॑ख्यात्यै⁠॥ प्रोख्‍ष॑णी॒रासा॑दय⁠। इ॒द्ध्माब॒र्॒‌हिरुप॑सादय⁠। स्रु॒वं च॒ स्रुच॑श्च॒ संमृ॑ड्ढि⁠। पत्नी॒ꣳ॒ संन॑ह्य⁠। आज्ये॑नो॒देहीत्या॑हानुपू॒र्वता॑यै⁠। प्रोख्‍ष॑णी॒रासा॑दयति⁠। आपो॒ वै र॑ख्‍षो॒घ्नीः⁠ ॥ [८१] (१०) रख्‍ष॑सा॒मप॑हत्यै⁠। स्फ्यस्य॒ वर्त्म᳚न्थ्सादयति⁠। य॒ज्ञस्य॒ सन्त॑त्यै⁠। उ॒वाच॒ हासि॑तो दैव॒लः⁠। ए॒ताव॑ती॒र्वा अ॒मुष्मि॑ल्ँलो॒क आप॑ आसन्न्⁠। याव॑तीः॒ प्रोख्‍ष॑णी॒रिति॑⁠। तस्मा᳚द् ब॒ह्वीरा॒साद्याः᳚⁠। स्फ्यमु॒दस्य॑न्न्⁠। यं द्वि॒ष्यात्तं ध्या॑येत्⁠। शु॒चैवैन॑मर्पयति⁠ ॥ [८२] (१०) (वै वा॒यु रा॑ह परा॒वतीत्या॒हा ह॑ द्वि॒तीय॑ꣳ हर॒ तीति॑ परिगृ॒ह्णन्ति॑ देव॒यज॑नीं करोति भवन्ति खनत्य क रे॒तत् कृ॒त्वा र॑ख्‍षो॒घ्नी र॑र्पयति) ॥९॥
इध्माबर्हिः सादनम्
वज्रो॒ वै स्फ्यः⁠। यद॒न्वञ्चं॑ धा॒रये᳚त्⁠। वज्रे᳚ऽद्ध्व॒र्युः ख्‍ष॑ण्वीत⁠। पु॒रस्ता᳚त् ति॒र्यञ्चं॑ धारयति⁠। वज्रो॒ वै स्फ्यः⁠। वज्रे॑णै॒व य॒ज्ञस्य॑ दख्‍षिण॒तो रख्‍षा॒ꣴ॒स्यप॑हन्ति⁠। अ॒ग्निभ्यां॒ प्राच॑श्च प्र॒तीच॑श्च⁠। स्फ्येनोदी॑चश्चाध॒राच॑श्च⁠। स्फ्येन॒ वा ए॒ष वज्रे॑णा॒स्यै पा॒प्मानं॒ भ्रातृ॑व्यमप॒हत्य॑⁠। उ॒त्क॒रेऽधि॒ प्रवृ॑श्चति⁠ ॥ [८३] (१०) यथो॑प॒धाय॑ वृ॒श्चन्त्य॒वम्⁠। हस्ता॒वव॑ नेनिक्ते⁠। आ॒त्मान॑मे॒व प॑वयते⁠। स्फ्यं प्रख्‍षा॑लयति मेद्ध्य॒त्वाय॑⁠। अथो॑ पा॒प्मन॑ ए॒व भ्रातृ॑व्यस्य न्य॒ङ्गं छि॑नत्ति⁠॥ इ॒द्ध्माब॒र्॒‌हिरुप॑सादयति॒ युक्त्यै᳚⁠। य॒ज्ञस्य॑ मिथुन॒त्वाय॑⁠। अथो॑ पुरो॒रुच॑मे॒वैतां द॑धाति⁠। उत्त॑रस्य॒ कर्म॒णोऽनु॑ख्यात्यै⁠। न पु॒रस्ता᳚त् प्र॒त्यगुप॑सादयेत्⁠ ॥ [८४] (१०) यत् पु॒रस्ता᳚त् प्र॒त्यगु॑पसा॒दये᳚त्⁠। अ॒न्यत्रा॑हुतिप॒थादि॒द्ध्मं प्रति॑पादयेत्⁠। प्र॒जा वै ब॒र्॒‌हिः⁠। अप॑राद्ध्नुयाद्ब॒र्॒‌हिषा᳚ प्र॒जानां᳚ प्र॒जन॑नम्⁠। प॒श्चात्प्रागुप॑सादयति⁠। आ॒हु॒ति॒प॒थेने॒द्ध्मं प्रति॑पादयति⁠। स॒प्रं॒त्ये॑व ब॒र्॒‌हिषा᳚ प्र॒जानां᳚ प्र॒जन॑न॒मुपै॑ति⁠। दख्‍षि॑णमि॒द्ध्मम्⁠। उत्त॑रं ब॒र॒हिः⁠। आ॒त्मा वा इ॒द्ध्मः⁠। प्र॒जा ब॒र्॒‌हिः⁠। प्र॒जा ह्या᳚त्मन॒ उत्त॑रतरा ती॒र्थे⁠। ततो॒ मेध॑मुप॒नीय॑⁠। य॒था॒ दे॒व॒तमे॒वैन॒त्प्रति॑ष्ठापयति⁠। प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र् यज॑मानः⁠ ॥ [८५] (१५) (वृ॒श्च॒ति॒ सा॒द॒ये॒ दि॒द्ध्मः पञ्च॑ च) ॥१०॥
अनुवाकाः पञ्चशती
१० ८५