कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणम्
तृतीयाष्टके तृतीयः प्रपाठकः

अष्टक ३ प्रपाठक ३
दर्‌शपूर्णमासेष्टिब्राह्मणम्

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
स्त्रुख्संमार्गः
प्रत्यु॑ष्ट॒ꣳ॒ रख्‍षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह⁠। रख्‍ष॑सा॒मप॑हत्यै⁠। अ॒ग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पा॒मीत्या॑ह मेद्ध्य॒त्वाय॑⁠। स्रुचः॒ संमा᳚र्ष्टि⁠। स्रु॒वमग्रे᳚⁠। पुमा॑ꣳ समे॒वाभ्यः॒ सꣴश्य॑ति मिथुन॒त्वाय॑⁠। अथ॑ जु॒हूम्⁠। अथो॑प॒भृत᳚म्⁠। अथ॑ ध्रु॒वाम्⁠। अ॒सौ वै जु॒हूः⁠ ॥ [१] (१०) अ॒न्तरि॑ख्‍षमुप॒भृत्⁠। पृ॒थि॒वी ध्रु॒वा⁠। इ॒मे वै लो॒काः स्रुचः॑⁠। वृष्टिः॑ स॒मांर्ज॑नानि⁠। वृष्टि॒र्वा इ॒माल्ँलो॒कान॑नुपू॒र्वं क॑ल्पयति⁠। ते ततः॑ क्लृ॒प्ताः समे॑धन्ते⁠। समे॑धन्तेऽस्मा इ॒मे लो॒काः प्र॒जया॑ प॒शुभिः॑⁠। य ए॒वव्ँवेद॑⁠॥ यदि॑ का॒मये॑त॒ वर्‌षु॑कः प॒र्जन्यः॑ स्या॒दिति॑⁠। अ॒ग्र॒तः संमृ॑ज्यात्⁠ ॥ [२] (१०) वृष्टि॑मे॒व निय॑च्छति⁠। अ॒वा॒चीना᳚ग्रा॒ हि वृष्टिः॑⁠। यदि॑ का॒मये॒ताव॑र्‌षुकः स्या॒दिति॑⁠। मू॒ल॒तः संमृ॑ज्यात्⁠। वृष्टि॑मे॒वोद्य॑च्छति⁠। तदु॒ वा आ॑हुः⁠। अ॒ग्र॒त ए॒वोपरि॑ष्टा॒थ् संमृ॑ज्यात्⁠। मू॒ल॒तो॑ऽधस्ता᳚त्⁠। तद॑नुपू॒र्वं क॑ल्पते⁠। वर्‌षु॑को भव॒तीति॑⁠ ॥ [३] (१०) प्राची॑मभ्या॒कार᳚म्⁠। अग्रै॑रन्तर॒तः⁠। ए॒वमि॑व॒ ह्यन्न॑म॒द्यते᳚⁠। अथो॒ अग्रा॒द्वा ओष॑धीना॒मूर्जं॑ प्र॒जा उप॑जीवन्ति⁠। ऊ॒र्ज ए॒वान्नाद्य॒स्याव॑रुद्ध्यै⁠। अ॒धस्ता᳚त् प्र॒तीची᳚म्⁠। द॒ण्डमु॑त्तम॒तः⁠। मूले॑न॒ मूलं॒ प्रति॑ष्ठित्यै⁠। तस्मा॑दर॒त्नौ प्राञ्च्यु॒परि॑ष्टा॒ल् लोमा॑नि⁠। प्र॒त्यञ्च्य॒धस्ता᳚त्⁠ ॥ [४] (१०) स्रुग्घ्ये॑षा⁠॥ प्रा॒णो वै स्रु॒वः⁠। जु॒हूर्दख्‍षि॑णो॒ हस्तः॑⁠। उ॒प॒भृथ्स॒व्यः⁠। आ॒त्मा ध्रु॒वा⁠। अन्न॑ꣳ स॒मांर्ज॑नानि⁠। मु॒ख॒तो वै प्रा॒णो॑ऽपा॒नो भू॒त्वा⁠। आ॒त्मान॒मन्नं॑ प्र॒विश्य॑⁠। बा॒ह्य॒तस्त॒नुव॑ꣳ शुभयति⁠। तस्मा᳚थ् स्रु॒वमे॒वाग्रे॒ संमा᳚र्ष्टि⁠॥ मु॒ख॒तो हि प्रा॒णो॑ऽपा॒नो भू॒त्वा⁠। आ॒त्मान॒मन्न॑मावि॒शति॑⁠। तौ प्रा॑णापा॒नौ⁠। अव्य॑र्द्धुकः प्राणापा॒नाभ्यां᳚ भवति⁠। य ए॒वव्ँवेद॑⁠ ॥ [५] (१५) (जु॒हुर् मृ॑ज्याद् भव॒तीति॑ प्र॒त्यञ्च्य॒धस्ता᳚न् मार्ष्टि॒ पञ्च॑ च) ॥१॥
दि॒वः शिल्प॒मव॑ततम्⁠। पृ॒थि॒व्याः क॒कुभि॑ श्रि॒तम्⁠। तेन॑ व॒यꣳ स॒हस्र॑वल्‌शेन⁠। स॒पत्नं॑ नाशयामसि॒ स्वाहेति॑ स्रुख्स॒मांर्ज॑नान्य॒ग्नौ प्रह॑रति⁠। आपो॒ वै द॒र्भाः⁠। रू॒पमे॒वैषा॑मे॒तन् म॑हि॒मान॒व्ँव्याच॑ष्टे⁠॥ अ॒नु॒ष्टुभ॒र्चा⁠। आनु॑ष्टुभः प्र॒जाप॑तिः⁠। प्रा॒जा॒प॒त्यो वे॒दः⁠। वे॒दस्याग्र॑ꣴ स्रुख्स॒मांर्ज॑नानि⁠ ॥ [६] (१०) स्वेनै॒वैना॑नि॒ छन्द॑सा⁠। स्वया॑ दे॒वत॑या॒ सम॑र्द्धयति⁠। अथो॒ ऋग्वाव योषा᳚⁠। द॒र्भो वृषा᳚⁠। तन्मि॑थु॒नम्⁠। मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय⁠। प्रजा॑यते प्र॒जया॑ प॒शुभि॒र्यज॑मानः⁠॥ तान्येके॒ वृथै॒वापा᳚स्यन्ति⁠। तत्तथा॒ न का᳚र्यम्⁠। आर॑ब्धस्य य॒ज्ञिय॑स्य॒ कर्म॑णः॒ स वि॑दो॒हः⁠ ॥ [७] (१०) यद्ये॑नानि प॒शवो॑ऽभि॒तिष्ठे॑युः⁠। न तत् प॒शुभ्यः॒ कम्⁠। अ॒द्भिर्मा᳚र्जयि॒त्वोत्क॒रे न्य॑स्येत्⁠। यद्वै य॒ज्ञिय॑स्य॒ कर्म॑णो॒ऽन्यत्राहु॑तीभ्यः स॒न्तिष्ठ॑ते⁠। उ॒त्क॒रो वाव तस्य॑ प्रति॒ष्ठा⁠। ए॒ताꣳ हि तस्मै᳚ प्रति॒ष्ठां दे॒वाः स॒मभ॑रन्न्⁠। यद॒द्भिर्मा॒र्जय॑ति⁠। तेन॑ शा॒न्तम्⁠। यदु॑त्क॒रे न्य॒स्यति॑⁠। प्र॒ति॒ष्ठामे॒वैना॑नि॒ तद्ग॑मयति⁠ ॥ [८] (१०) प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः⁠॥ अथो᳚ स्त॒म्बस्य॒ वा ए॒तद्रू॒पम्⁠। यथ् स्रु॑ख्स॒मांर्ज॑नानि⁠। स्त॒म्ब॒शो वा ओष॑धयः⁠। तासां᳚ जरत्क॒ख्‍षे प॒शवो॒ न र॑मन्ते⁠। अप्रि॑यो॒ ह्ये॑षां जरत्क॒ख्‍षः⁠। याव॑दप्रियो ह॒ वै ज॑रत्क॒ख्‍षः प॑शू॒नाम्⁠। ताव॑दप्रियः पशू॒नां भ॑वति⁠। यस्यै॒तान्य॒न्यत्रा॒ग्नेर्दध॑ति⁠। न॒व॒दाव्या॑सु॒ वा ओष॑धीषु प॒शवो॑ रमन्ते⁠ ॥ [९] (१०) न॒व॒दा॒वो ह्ये॑षां प्रि॒यः⁠। याव॑त्प्रियो ह॒ वै न॑वदा॒वः प॑शू॒नाम्⁠। ताव॑त्प्रियः पशू॒नां भ॑वति⁠। यस्यै॒तान्य॒ग्नौ प्र॒हर॑न्ति⁠। तस्मा॑दे॒तान्य॒ग्नावे॒व प्रह॑रेत्⁠। य॒त॒रस्मि᳚न्थ्संमृ॒ज्यात्⁠। प॒शू॒नां धृत्यै᳚⁠॥ यो भू॒ताना॒मधि॑पतिः⁠। रु॒द्रस्त॑न्तिच॒रो वृषा᳚⁠। प॒शून॒स्माकं॒ मा हि॑ꣳसीः⁠। ए॒तद॑स्तु हु॒तं तव॒ स्वाहेत्य॑ग्नि स॒मांर्ज॑नान्य॒ग्नौ प्रह॑रति⁠। ए॒षा वा ए॒तेषा॒य्ँयोनिः॑⁠। ए॒षा प्र॑ति॒ष्ठा⁠। स्वामे॒वैना॑नि॒ योनि᳚म्⁠। स्वां प्र॑ति॒ष्ठां ग॑मयति⁠। प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः⁠ ॥ [१०] (१६) (वे॒दस्याग्र॑ꣴ स्रुख्स॒मांर्ज॑नानि विदो॒हो ग॑मयति प॒शवो॑ रमन्ते हिꣳसीः॒ षट्च॑) ॥२॥
पत्नीसंनहनम्
अय॑ज्ञो॒ वा ए॒षः⁠। यो॑ऽप॒त्नीकः॑⁠। न प्र॒जाः प्रजा॑येरन्न्⁠। पत्न्यन्वा᳚स्ते⁠। य॒ज्ञमे॒वाकः॑⁠। प्र॒जानां᳚ प्र॒जन॑नाय⁠। यत् तिष्ठ॑न्ती स॒नंह्ये॑त⁠। प्रि॒यं ज्ञा॒तिꣳ रु॑न्ध्यात्⁠। आसी॑ना॒ संन॑ह्यते⁠। आसी॑ना॒ ह्ये॑षा वी॒र्यं॑ क॒रोति॑⁠ ॥ [११] (१०) यत् प॒श्चात्प्राच्य॒न्वासी॑त⁠। अ॒नया॑ स॒मदं॑ दधीत⁠। दे॒वानां॒ पत्नि॑या स॒मदं॑ दधीत⁠। देशा᳚द्दख्‍षिण॒त उदी॒च्यन्वा᳚स्ते⁠। आ॒त्मनो॑ गोपी॒थाय॑⁠॥ आ॒शासा॑ना सौमन॒समित्या॑ह⁠। मेद्ध्या॑मे॒वैनां॒ केव॑लीं कृ॒त्वा⁠। आ॒शिषा॒ सम॑र्द्धयति⁠। अ॒ग्नेरनु॑व्रता भू॒त्वा संन॑ह्ये सुकृ॒ताय॒ कमित्या॑ह⁠। ए॒तद्वै पत्नि॑यै व्रतोप॒नय॑नम्⁠ ॥ [१२] (१०) तेनै॒वैना᳚व्ँव्र॒तमुप॑नयति⁠। तस्मा॑दाहुः⁠। यश्चै॒वव्ँवेद॒ यश्च॒न⁠। योक्त्र॑मे॒व यु॑ते⁠। यम॒न्वास्ते᳚⁠। तस्या॒मुष्मि॑ल्ँलो॒के भ॑व॒तीति॒ योक्त्रे॑ण⁠। यद् योक्त्र᳚म्⁠। स योगः॑⁠। यदास्ते᳚⁠। स ख्‍षेमः॑⁠ ॥ [१३] (१०) यो॒ग॒ख्‍षे॒मस्य॒ क्लृप्त्यै᳚⁠॥ यु॒क्तं क्रि॑याता आ॒शीः कामे॑ युज्याता॒ इति॑⁠। आ॒शिषः॒ समृ॑द्ध्यै⁠। ग्र॒न्थिं ग्र॑थ्नाति⁠। आ॒शिष॑ ए॒वास्यां॒ परि॑गृह्णाति⁠। पुमा॒न्॒‌वै ग्र॒न्थिः⁠। स्त्री पत्नी᳚⁠। तन् मि॑थु॒नम्⁠। मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय⁠। प्रजा॑यते प्र॒जया॑ प॒शुभि॒र् यज॑मानः⁠ ॥ [१४] (१०) अथो॑ अ॒र्द्धो वा ए॒ष आ॒त्मनः॑⁠। यत् पत्नी᳚⁠। य॒ज्ञस्य॒ धृत्या॒ अशि॑थिलंभावाय⁠॥ सु॒प्र॒जस॑स्त्वा व॒यꣳ सु॒पत्नी॒रुप॑सेदि॒मेत्या॑ह⁠। य॒ज्ञमे॒व तन् मि॑थु॒नी क॑रोति⁠। ऊ॒नेऽति॑रिक्तं धीयाता॒ इति॒ प्रजा᳚त्यै⁠॥ म॒ही॒नां पयो॒ऽस्योष॑धीना॒ꣳ॒ रस॒ इत्या॑ह⁠। रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्ँव्याच॑ष्टे⁠। तस्य॒ तेऽख्‍षी॑यमाणस्य॒ निर्व॑पामि देवय॒ज्याया॒ इत्या॑ह⁠। आ॒शिष॑मे॒वैतामाशा᳚स्ते⁠ ॥ [१५] (१०) (क॒रोति॑ व्रतोप॒नय॑नं॒ ख्‍षेमो॒ यज॑मानः शास्ते) ॥३॥
आज्योत्पवनम्
घृ॒तं च॒ वै मधु॑ च प्र॒जाप॑तिरासीत्⁠। यतो॒ मद्ध्वा॑सीत्⁠। ततः॑ प्र॒जा अ॑सृजत⁠। तस्मा॒न् मधु॑षि प्र॒जन॑नमिवास्ति⁠। तस्मा॒न् मधु॑षा॒ न प्रच॑रन्ति⁠। या॒तया॑म॒ हि⁠। आज्ये॑न॒ प्रच॑रन्ति⁠। य॒ज्ञो वा आज्य᳚म्⁠। य॒ज्ञेनै॒व य॒ज्ञं प्रच॑र॒न्त्यया॑तयामत्वाय⁠। पत्न्यवे᳚ख्‍षते⁠ ॥ [१६] (१०) मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै⁠। यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑⁠। मि॒थु॒नं तत्⁠। अथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या᳚न्वार॒म्भोऽन॑वच्छित्त्यै⁠॥ अ॒मे॒द्ध्यव्ँवा ए॒तत् क॑रोति⁠। यत् पत्न्य॒वेख्‍ष॑ते⁠। गार्‌ह॑प॒त्येऽधि॑श्रयति मेद्ध्य॒त्वाय॑⁠। आ॒ह॒व॒नीय॑म॒भ्युद्द्र॑वति⁠। य॒ज्ञस्य॒ सन्त॑त्यै⁠। तेजो॑ऽसि॒ तेजोऽनु॒ प्रेहीत्या॑ह⁠ ॥ [१७] (१०) तेजो॒ वा अ॒ग्निः⁠। तेज॒ आज्य᳚म्⁠। तेज॑सै॒व तेजः॒ सम॑र्द्धयति⁠। अ॒ग्निस्ते॒ तेजो॒ मा विनै॒दित्या॒हाहि॑ꣳसायै⁠। स्फ्यस्य॒ वर्त्म᳚न्थ् सादयति⁠। य॒ज्ञस्य॒ सन्त॑त्यै⁠। अ॒ग्नेर्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वाना॒मित्या॑ह⁠। य॒था॒ य॒जुरे॒वैतत्⁠। धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भ॒वेत्या॑ह⁠। आ॒शिष॑मे॒वैतामाशा᳚स्ते⁠ ॥ [१८] (१०) तद्वा अतः॑ प॒वित्रा᳚भ्यामे॒वोत् पु॑नाति⁠। यज॑मानो॒ वा आज्य᳚म्⁠। प्रा॒णा॒पा॒नौ प॒वित्रे᳚⁠। यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति⁠। पु॒न॒रा॒हार᳚म्⁠। ए॒वमि॑व॒ हि प्रा॑णापा॒नौ स॒चंर॑तः⁠। शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॒ऽसीत्या॑ह⁠। रू॒पमे॒वास्यै॒ तन् म॑हि॒मान॒व्ँव्याच॑ष्टे⁠। त्रिर्यजु॑षा⁠। त्रय॑ इ॒मे लो॒काः⁠ ॥ [१९] (१०) ए॒षाल्ँलो॒काना॒माप्त्यै᳚⁠। त्रिः⁠। त्र्या॑वृ॒द्धि य॒ज्ञः⁠। अथो॑ मेद्ध्य॒त्वाय॑⁠। अथाज्य॑वतीभ्याम॒पः⁠। रू॒पमे॒वासा॑मे॒तद्वर्णं॑ दधाति⁠। अपि॒ वा उ॒ताहुः॑⁠। यथा॑ ह॒ वै योषा॑ सु॒वर्ण॒ꣳ॒ हिर॑ण्यं पेश॒लं बिभ्र॑ती रू॒पाण्यास्ते᳚⁠। ए॒वमे॒ता ए॒तर्‌हीति॑⁠। आपो॒ वै सर्वा॑ दे॒वताः᳚⁠ ॥ [२०] (१०) ए॒षा हि विश्वे॑षां दे॒वानां᳚ त॒नूः⁠। यदाज्य᳚म्⁠॥ तत्रो॒भयो᳚र्मीमा॒ꣳ॒सा⁠। जा॒मि स्यात्⁠। यद्यजु॒षाऽऽज्य॒य्ँयजु॑षा॒ऽप उ॑त्पुनी॒यात्⁠। छन्द॑सा॒ऽप उत्पु॑ना॒त्यजा॑मित्वाय⁠। अथो॑ मिथुन॒त्वाय॑⁠। सा॒वि॒त्रि॒यर्चा⁠। स॒वि॒तृप्र॑सूतं मे॒ कर्मा॑स॒दिति॑⁠। स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति⁠। प॒च्छो गा॑यत्रि॒या त्रिः॑ षमृद्ध॒त्वाय॑⁠। अ॒द्भिरे॒वौष॑धीः॒ संन॑यति⁠। ओष॑धीभिः प॒शून्⁠। प॒शुभि॒र्यज॑मानम्⁠। शु॒क्रं त्वा॑ शु॒क्रायां॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषीत्या॑ह सर्व॒त्वाय॑⁠। पर्या᳚प्त्या॒ अन॑न्तरायाय⁠ ॥ [२१] (१६) (ई॒ख्‍ष॒त॒ आ॒ह॒शा॒स्ते॒लो॒का दे॒वता॑ भवति॒ षट्च॑) ॥४॥
आज्यग्रहणम्
दे॒वा॒सु॒राः सय्ँय॑त्ता आसन्न्⁠। स ए॒तमिन्द्र॒ आज्य॑स्यावका॒शम॑पश्यत्⁠। तेनावै᳚ख्‍षत⁠। ततो॑ दे॒वा अभ॑वन्न्⁠। पराऽसु॑राः⁠। य ए॒वव्ँवि॒द्वानाज्य॑म॒वेख्‍ष॑ते⁠। भव॑त्या॒त्मना᳚⁠। परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति⁠। ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। यदाज्ये॑ना॒न्यानि॑ ह॒वीꣴष्य॑भिघा॒रय॑ति⁠ ॥ [२२] (१०) अथ॒ केनाज्य॒मिति॑⁠। स॒त्येनेति॑ ब्रूयात्⁠। चख्‍षु॒र्वै स॒त्यम्⁠। स॒त्येनै॒वैन॑द॒भिघा॑रयति⁠। ई॒श्व॒रो वा ए॒षो᳚ऽन्धो भवि॑तोः⁠। यश्चख्‍षु॒षाऽऽज्य॑म॒वेख्‍ष॑ते⁠। नि॒मील्यावे᳚ख्‍षेत⁠। दा॒धारा॒त्मञ्चख्‍षुः॑⁠। अ॒भ्याज्यं॑ घारयति⁠॥ आज्यं॑ गृह्णाति⁠ ॥ [२३] (१०) छन्दा॑ꣳसि॒ वा आज्य᳚म्⁠। छन्दा॑ꣴस्ये॒व प्री॑णाति⁠। च॒तुर्जु॒ह्वां गृ॑ह्णाति⁠। चतु॑ष्पादः प॒शवः॑⁠। प॒शूने॒वाव॑रुन्धे⁠। अ॒ष्टावु॑प॒भृति॑⁠। अ॒ष्टाख्‍ष॑रा गाय॒त्री⁠। गा॒य॒त्रः प्रा॒णः⁠। प्रा॒णमे॒व प॒शुषु॑ दधाति⁠। च॒तुर्द्ध्रु॒वाया᳚म्⁠ ॥ [२४] (१०) चतु॑ष्पादः प॒शवः॑⁠। प॒शुष्वे॒वोपरि॑ष्टा॒त्प्रति॑तिष्ठति⁠। य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः⁠। भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत्⁠। च॒तुर्जु॒ह्वां गृ॒ह्णन्भूयो॑ गृह्णीयात्⁠। अ॒ष्टावु॑प॒भृति॑ गृ॒ह्णन् कनी॑यः⁠। यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिं करोति⁠॥ गौर्वै स्रुचः॑⁠। च॒तुर्जु॒ह्वां गृ॑ह्णाति⁠। तस्मा॒च्चतु॑ष्पदी⁠ ॥ [२५] (१०) अ॒ष्टावु॑प॒भृति॑⁠। तस्मा॑द॒ष्टाश॑फा⁠। च॒तुर्द्ध्रु॒वाया᳚म्⁠। तस्मा॒च्चतुः॑ स्तना⁠। गामे॒व तथ् सꣴस्क॑रोति⁠। साऽस्मै॒ सꣴस्कृ॒तेष॒मूर्जं॑ दुहे⁠। यज्जु॒ह्वां गृ॒ह्णाति॑⁠। प्र॒या॒जेभ्य॒स्तत्⁠। यदु॑प॒भृति॑⁠। प्र॒या॒जा॒नू॒या॒जेभ्य॒स्तत्⁠। सर्व॑स्मै॒ वा ए॒तद्य॒ज्ञाय॑ गृह्यते⁠। यद्ध्रु॒वाया॒माज्य᳚म्⁠ ॥ [२६] (१२) (अ॒भि॒घा॒रय॑ति गृह्णाति ध्रु॒वायां॒ चतु॑ष्पदी॒ प्रयाजानूया॒जेभ्य॒स्तद् द्वे॒ च॑) ॥५॥
स्त्रुख्सादनम्
आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह⁠। रू॒पमे॒वासा॑मे॒तन्म॑हि॒मान॒व्ँव्याच॑ष्टे⁠। अग्र॑ इ॒मय्ँय॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑ति॒मित्या॑ह⁠। अग्र॑ ए॒व य॒ज्ञं न॑यन्ति⁠। अग्रे॑ य॒ज्ञप॑तिम्⁠। यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीद्ध्वव्ँवृत्र॒तूर्य॒ इत्या॑ह⁠। वृ॒त्रꣳ ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे⁠। आपो॒ हेन्द्र॑व्ँवव्रिरे⁠। स॒ज्ञांमे॒वासा॑मे॒तथ्सामा॑न॒व्ँव्याच॑ष्टे⁠। प्रोख्‍षि॑ताः॒ स्थेत्या॑ह⁠ ॥ [२७] (१०) तेनापः॒ प्रोख्‍षि॑ताः⁠॥ अ॒ग्निर् दे॒वेभ्यो॒ निला॑यत⁠। कृष्णो॑ रू॒पं कृ॒त्वा⁠। स वन॒स्पती॒न् प्रावि॑शत्⁠। कृष्णो᳚ऽस्याखरे॒ष्ठो᳚ऽग्नये᳚ त्वा॒ स्वाहेत्या॑ह⁠। अ॒ग्नय॑ ए॒वैनं॒ जुष्टं॑ करोति⁠। अथो॑ अ॒ग्नेरे॒व मेध॒मव॑रुन्धे⁠॥ वेदि॑रसि ब॒र्॒‌हिषे᳚ त्वा॒ स्वाहेत्या॑ह⁠। प्र॒जा वै ब॒र्॒‌हिः⁠। पृ॒थि॒वी वेदिः॑⁠ ॥ [२८] (१०) प्र॒जा ए॒व पृ॑थि॒व्यां प्रति॑ष्ठापयति⁠। ब॒र्॒‌हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहेत्या॑ह⁠। प्र॒जा वै ब॒र्॒‌हिः⁠। यज॑मानः॒ स्रुचः॑⁠। यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति⁠॥ दि॒वे त्वा॒ऽन्तरि॑ख्‍षाय त्वा पृथि॒व्यै त्वेति॑ ब॒र्॒‌हिरा॒साद्य॒ प्रोख्‍ष॑ति⁠। ए॒भ्य ए॒वैन॑ल्ँलो॒केभ्यः॒ प्रोख्‍ष॑ति⁠। अथ॒ ततः॑ स॒ह स्रु॒चा पु॒रस्ता᳚त् प्र॒त्यञ्चं॑ ग्र॒न्थिं प्रत्यु॑ख्‍षति⁠। प्र॒जा वै ब॒र्॒‌हिः⁠। यथा॒ सूत्यै॑ का॒ल आपः॑ पु॒रस्ता॒द्यन्ति॑⁠ ॥ [२९] (१०) ता॒दृगे॒व तत्⁠॥ स्व॒धा पि॒तृभ्य॒ इत्या॑ह⁠। स्व॒धा॒का॒रो हि पि॑तृ॒णाम्⁠। ऊर्ग्भ॑व बर्‌हि॒षद्भ्य॒ इति॒ दख्‍षि॑णायै॒ श्रोणे॒रोत्त॑रस्यै॒ निन॑यति॒ सन्त॑त्यै⁠। मासा॒ वै पि॒तरो॑ बर्‌हि॒षदः॑⁠। मासा॑ने॒व प्री॑णाति⁠। मासा॒ वा ओष॑धीर्व॒र्द्धय॑न्ति⁠। मासाः᳚ पचन्ति॒ समृ॑द्ध्यै⁠। अन॑तिस्कन्दन्‌ह प॒र्जन्यो॑ वर्‌षति⁠। यत्रै॒तदे॒वं क्रि॒यते᳚⁠ ॥ [३०] (१०) ऊ॒र्जा पृ॑थि॒वीं ग॑च्छ॒तेत्या॑ह⁠। पृ॒थि॒व्यामे॒वोर्जं॑ दधाति⁠। तस्मा᳚त् पृथि॒व्या ऊ॒र्जा भु॑ञ्जते⁠। ग्र॒न्थिव्ँविस्र॑ꣳसयति⁠। प्रज॑नयत्ये॒व तत्⁠। ऊ॒र्द्ध्वं प्राञ्च॒मुद्गू॑ढं प्र॒त्यञ्च॒माय॑च्छति⁠। तस्मा᳚त् प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते⁠। प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते⁠॥ विष्णोः॒ स्तूपो॒ऽसीत्या॑ह⁠। य॒ज्ञो वै विष्णुः॑⁠ ॥ [३१] (१०) य॒ज्ञस्य॒ धृत्यै᳚⁠। पु॒रस्ता᳚त् प्रस्त॒रं गृ॑ह्णाति⁠। मुख्य॑मे॒वैनं॑ करोति⁠। इय॑न्तं गृह्णाति⁠। प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑तम्⁠। इय॑न्तं गृह्णाति⁠। य॒ज्ञ॒प॒रुषा॒ संमि॑तम्⁠। इय॑न्तं गृह्णाति⁠। ए॒ताव॒द्वै पुरु॑षे वी॒र्य᳚म्⁠। वी॒र्य॑ संमितम्⁠ ॥ [३२] (१०) अप॑रिमितं गृह्णाति⁠। अप॑रिमित॒स्याव॑रुद्ध्यै⁠। तस्मि॑न् प॒वित्रे॒ अपि॑सृजति⁠। यज॑मानो॒ वै प्र॑स्त॒रः⁠। प्रा॒णा॒पा॒नौ प॒वित्रे᳚⁠। यज॑मान ए॒व प्रा॑णापा॒नौ द॑धाति⁠॥ ऊर्णा᳚म्रदसं त्वा स्तृणा॒मीत्या॑ह⁠। य॒था॒य॒जुरे॒वै तत्⁠। स्वा॒स॒स्थं दे॒वेभ्य॒ इत्या॑ह⁠। दे॒वेभ्य॑ ए॒वैन॑थ् स्वास॒स्थं क॑रोति⁠ ॥ [३३] (१०) ब॒र्॒॒‌हिः स्तृ॑णाति⁠। प्र॒जा वै ब॒र्॒‌हिः⁠। पृ॒थि॒वी वेदिः॑⁠। प्र॒जा ए॒व पृ॑थि॒व्यां प्रति॑ष्ठापयति⁠॥ अन॑तिदृश्नꣴ स्तृणाति⁠। प्र॒जयै॒वैनं॑ प॒शुभि॒रन॑तिदृश्नं करोति⁠। धा॒रय॑न् प्रस्त॒रं प॑रि॒धीन् परि॑ दधाति⁠। यज॑मानो॒ वै प्र॑स्त॒रः⁠। यज॑मान ए॒व तथ् स्व॒यं प॑रि॒धीन् परि॑ दधाति⁠॥ ग॒न्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒रित्या॑ह⁠ ॥ [३४] (१०) विश्व॑मे॒वायु॒र्यज॑माने दधाति⁠। इन्द्र॑स्य बा॒हुर॑सि॒ दख्‍षि॑ण॒ इत्या॑ह⁠। इ॒न्द्रि॒यमे॒व यज॑माने दधाति⁠। मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्ता॒मित्या॑ह⁠। प्रा॒णा॒पा॒नौ मि॒त्रावरु॑णौ⁠। प्रा॒णा॒पा॒नावे॒वास्मि॑न् दधाति⁠। सूर्य॑स्त्वा पु॒रस्ता᳚त् पा॒त्वित्या॑ह⁠। रख्‍ष॑सा॒मप॑हत्यै⁠। कस्या᳚श्चिद॒भिश॑स्त्या॒ इत्या॑ह⁠। अप॑रिमितादे॒वैनं॑ पाति⁠ ॥ [३५] (१०) वी॒तिहो᳚त्रं त्वा कव॒ इत्या॑ह⁠। अ॒ग्निमे॒व हो॒त्रेण॒ सम॑र्द्धयति⁠। द्यु॒मन्त॒ꣳ॒ समि॑धीम॒हीत्या॑ह॒ समि॑द्ध्यै⁠। अग्ने॑ बृ॒हन्त॑मद्ध्व॒र इत्या॑ह॒ वृद्ध्यै᳚⁠। वि॒शो य॒न्त्रे स्थ॒ इत्या॑ह⁠। वि॒शाय्ँयत्यै᳚⁠। उ॒दी॒चीना᳚ग्रे॒ निद॑धाति॒ प्रति॑ष्ठित्यै⁠। वसू॑नाꣳ रु॒द्राणा॑मादि॒त्याना॒ꣳ॒ सद॑सि सी॒देत्या॑ह⁠। दे॒वता॑नामे॒व सद॑ने प्रस्त॒रꣳ सा॑दयति⁠॥ जु॒हूर॑सि घृ॒ताची॒ नाम्नेत्या॑ह⁠ ॥ [३६] (१०) अ॒सौ वै जु॒हूः⁠। अ॒न्तरि॑ख्‍षमुप॒भृत्⁠। पृ॒थि॒वी ध्रु॒वा⁠। तासा॑मे॒तदे॒व प्रि॒यं नाम॑⁠। यद्घृ॒ताचीति॑⁠। यद्घृ॒ताचीत्याह॑⁠। प्रि॒येणै॒वैना॒ नाम्ना॑ सादयति⁠॥ ए॒ता अ॑सदन्थ्सुकृ॒तस्य॑ लो॒क इत्या॑ह⁠। स॒त्यव्ँवै सु॑कृ॒तस्य॑ लो॒कः⁠। स॒त्य ए॒वैनाः᳚ सुकृ॒तस्य॑ लो॒के सा॑दयति⁠। ता वि॑ष्णो पा॒हीत्या॑ह⁠। य॒ज्ञो वै विष्णुः॑⁠। य॒ज्ञस्य॒ धृत्यै᳚⁠। पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि माय्ँय॑ज्ञ॒निय॒मित्या॑ह⁠। य॒ज्ञाय॒ यज॑मानाया॒त्मने᳚⁠। तेभ्य॑ ए॒वाशिष॒माशा॒स्तेऽना᳚र्त्यै⁠ ॥ [३७] (१६) (स्थेत्या॑ह पृथि॒वी वेदि॒र् यन्ति॑ क्रि॒यते॒ विष्णु॑र् वी॒र्य॑संमितं करो त्याह पाति॒ नाम्नेत्या॑ह लो॒के सा॑दयति॒ षट्च॑) ॥६॥
आघारः
अ॒ग्निना॒ वै होत्रा᳚⁠। दे॒वा असु॑रान॒भ्य॑भवन्न्⁠। अ॒ग्नये॑ समि॒द्ध्यमा॑ना॒यानु॑ब्रू॒हीत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै⁠। एक॑विꣳशतिमिद्ध्मदा॒रूणि॑ भवन्ति⁠। ए॒क॒वि॒ꣳ॒शो वै पुरु॑षः⁠। पुरु॑ष॒स्याप्त्यै᳚⁠। पञ्च॑दशेद्ध्मदा॒रूण्य॒भ्याद॑धाति⁠। पञ्च॑दश॒ वा अ॑र्द्धमा॒सस्य॒ रात्र॑यः⁠। अ॒र्द्ध॒मा॒स॒शः स॑व्ँवथ्स॒र आ᳚प्यते⁠। त्रीन्प॑रि॒धीन्परि॑दधाति⁠ ॥ [३८] (१०) ऊ॒र्द्ध्वे स॒मिधा॒वाद॑धाति⁠। अ॒नू॒या॒जेभ्यः॑ स॒मिध॒मति॑शिनष्टि⁠। षट्थ्सं प॑द्यन्ते⁠। षड्वा ऋ॒तवः॑⁠। ऋ॒तूने॒व प्री॑णाति⁠। वे॒देनोप॑वाजयति⁠। प्रा॒जा॒प॒त्यो वै वे॒दः⁠। प्रा॒जा॒प॒त्यः प्रा॒णः⁠। यज॑मान आहव॒नीयः॑⁠। यज॑मान ए॒व प्रा॒णं द॑धाति⁠ ॥ [३९] (१०) त्रिरुप॑वाजयति⁠। त्रयो॒ वै प्रा॒णाः⁠। प्रा॒णाने॒वास्मि॑न् दधाति⁠। वे॒देनो॑प॒यत्य॑ स्रु॒वेण॑ प्राजाप॒त्यमा॑घा॒रमाघा॑रयति⁠। य॒ज्ञो वै प्र॒जाप॑तिः⁠। य॒ज्ञमे॒व प्र॒जाप॑तिं मुख॒त आर॑भते⁠। अथो᳚ प्र॒जाप॑तिः॒ सर्वा॑ दे॒वताः᳚⁠। सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति⁠॥ अ॒ग्निम॑ग्नीत् त्रिस्त्रिः॒ संमृ॒ड्ढीत्या॑ह⁠। त्र्या॑वृ॒द्धि य॒ज्ञः⁠ ॥ [४०] (१०) अथो॒ रख्‍ष॑सा॒मप॑हत्यै⁠। प॒रि॒धीन्थ्संमा᳚र्ष्टि⁠। पु॒नात्ये॒वैना॑न्⁠। त्रिस्त्रिः॒ संमा᳚र्ष्टि⁠। त्र्या॑वृ॒द्धि य॒ज्ञः⁠। अथो॑ मेद्ध्य॒त्वाय॑⁠। अथो॑ ए॒ते वै दे॑वाश्वाः⁠। दे॒वा॒श्वाने॒व तथ् संमा᳚र्ष्टि⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠। आसी॑नो॒ऽन्यमा॑घा॒रमाघा॑रयति⁠ ॥ [४१] (१०) तिष्ठ॑न्न॒न्यम्⁠। यथाऽनो॑ वा॒ रथ॑व्ँवा यु॒ञ्ज्यात्⁠। ए॒वमे॒व तद॑द्ध्व॒र्युर्य॒ज्ञय्ँयु॑नक्ति⁠। सु॒व॒र्गस्य॑ लो॒कस्या॒भ्यू᳚ढ्यै⁠। वह॑न्त्येनं ग्रा॒म्याः प॒शवः॑⁠। य ए॒वव्ँवेद॑⁠॥ भुव॑नमसि॒ विप्र॑थ॒स्वेत्या॑ह⁠। य॒ज्ञो वै भुव॑नम्⁠। य॒ज्ञ ए॒व यज॑मानं प्र॒जया॑ प॒शुभिः॑ प्रथयति⁠। अग्ने॒ यष्ट॑रि॒दं नम॒ इत्या॑ह⁠ ॥ [४२] (१०) अ॒ग्निर्वै दे॒वाना॒य्ँयष्टा᳚⁠। य ए॒व दे॒वाना॒य्ँयष्टा᳚⁠। तस्मा॑ ए॒व नम॑स्करोति⁠॥ जुह्वेह्य॒ग्निस्त्वा᳚ ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ इत्या॑ह⁠। आ॒ग्ने॒यी वै जु॒हूः⁠। सा॒वि॒त्र्यु॑प॒भृत्⁠। ताभ्या॑मे॒वैने॒ प्रसू॑त॒ आद॑त्ते⁠॥ अग्ना॑विष्णू॒ मा वा॒मव॑क्रमिष॒मित्या॑ह⁠। अ॒ग्निः पु॒रस्ता᳚त्⁠। विष्णु॑र्य॒ज्ञः प॒श्चात्⁠ ॥ [४३] (१०) ताभ्या॑मे॒व प्र॑ति॒ प्रोच्या॒त्याक्रा॑मति⁠। विजि॑हाथां॒ मा मा॒ संता᳚प्त॒मित्या॒हाहि॑ꣳसायै⁠। लो॒कं मे॑ लोककृतौ कृणुत॒मित्या॑ह⁠। आ॒शिष॑मे॒वैतामाशा᳚स्ते⁠॥ विष्णोः॒ स्थान॑म॒सीत्या॑ह⁠। य॒ज्ञो वै विष्णुः॑⁠। ए॒तत् खलु॒ वै दे॒वाना॒मप॑राजितमा॒यत॑नम्⁠। यद्य॒ज्ञः⁠। दे॒वाना॑मे॒वाप॑राजित आ॒यत॑ने तिष्ठति⁠॥ इ॒त इन्द्रो॑ अकृणोद्वी॒र्या॑णीत्या॑ह⁠ ॥ [४४] (१०) इ॒न्द्रि॒यमे॒व यज॑माने दधाति⁠। स॒मा॒रभ्यो॒र्द्ध्वो अ॑द्ध्व॒रो दि॑वि॒स्पृश॒मित्या॑ह॒ वृद्ध्यै᳚⁠। आ॒घा॒रमा॑घा॒र्यमा॑ण॒मनु॑ समा॒रभ्य॑⁠। ए॒तस्मि॑न् का॒ले दे॒वाः सु॑व॒र्गल्ँलो॒कमा॑यन्न्⁠। सा॒ख्‍षादे॒व यज॑मानः सुव॒र्गल्ँलो॒कमे॑ति⁠। अथो॒ समृ॑द्धेनै॒व य॒ज्ञेन॒ यज॑मानः सुव॒र्गल्ँलो॒कमे॑ति⁠। अह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रित्या॒हाना᳚र्त्यै⁠। इन्द्रा॑वा॒न्थ्स्वाहेत्या॑ह⁠। इ॒न्द्रि॒यमे॒व यज॑माने दधाति⁠। बृ॒हद्भा इत्या॑ह⁠ ॥ [४५] (१०) सु॒व॒र्गो वै लो॒को बृ॒हद्भाः⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠॥ य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः⁠। भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत्⁠। प्रा॒ण आ॑घा॒रः⁠। यथ् स॑ꣴस्प॒र्‌शये᳚त्⁠। भ्रातृ॑व्येऽस्य प्रा॒णं द॑द्ध्यात्⁠। अस॑ꣴस्पर्‌शयन्न॒त्याक्रा॑मति⁠। यज॑मान ए॒व प्रा॒णं द॑धाति⁠। पा॒हिमा᳚ऽग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भ॒जेत्या॑ह⁠ ॥ [४६] (१०) अ॒ग्निर्वाव प॒वित्र᳚म्⁠। वृ॒जि॒नमनृ॑तं॒ दुश्च॑रितम्⁠। ऋ॒जु॒क॒र्मꣳ स॒त्यꣳ सुच॑रितम्⁠। अ॒ग्निरे॒वैन॑व्ँवृजि॒नादनृ॑ता॒द्दुश्च॑रितात्पाति⁠। ऋ॒जु॒क॒र्मे स॒त्ये सुच॑रिते भजति⁠। तस्मा॑दे॒वमाशा᳚स्ते⁠। आ॒त्मनो॑ गोपी॒थाय॑⁠॥ शिरो॒ वा ए॒तद्य॒ज्ञस्य॑⁠। यदा॑घा॒रः⁠। आ॒त्मा ध्रु॒वा⁠ ॥ [४७] (१०) आ॒घा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्ति⁠। आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति⁠। द्विः सम॑नक्ति⁠। द्वौ हि प्रा॑णापा॒नौ⁠। तदा॑हुः⁠। त्रिरे॒व सम॑ञ्ज्यात्⁠। त्रिधा॑तु॒ हि शिर॒ इति॑⁠। शिर॑ इवै॒तद्य॒ज्ञस्य॑⁠। अथो॒ त्रयो॒ वै प्रा॒णाः⁠। प्रा॒णाने॒वास्मि॑न् दधाति⁠॥ म॒खस्य॒ शिरो॑ऽसि॒ संज्योति॑षा॒ ज्योति॑रङ्क्ता॒मित्या॑ह⁠। ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति⁠। सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै⁠ ॥ [४८] (१३) (परि॑दधाति प्रा॒णं द॑धाति॒ हि य॒ज्ञो घा॑रयति॒ नम॒ इत्या॑ह प॒श्चाद् वी॒र्या॑णीत्या॑ह॒ भा इत्या॑ह भ॒जेत्या॑ह ध्रु॒ वैवास्मि॑न् दधाति॒ त्रीणि॑ च) ॥७॥
इडाभख्‍षणम्
धिष्णि॑या॒ वा ए॒ते न्यु॑प्यन्ते⁠। यद्ब्र॒ह्मा⁠। यद्धोता᳚⁠। यद॑द्ध्व॒र्युः⁠। यद॒ग्नीत्⁠। यद्यज॑मानः⁠। तान्‌यद॑न्तरे॒यात्⁠। यज॑मानस्य प्रा॒णान्थ्संक॑र्‌षेत्⁠। प्र॒मायु॑कः स्यात्⁠। पु॒रो॒डाश॑मप॒गृह्य॒ संच॑रत्यद्ध्व॒र्युः⁠ ॥ [४९] (१०) यज॑मानायै॒व तल्लो॒कꣳ शि॑ꣳषति⁠। नास्य॑ प्रा॒णान्थ्संक॑र्‌षति⁠। न प्र॒मायु॑को भवति⁠। पु॒रस्ता᳚त् प्र॒त्यङ्ङासी॑नः⁠। इडा॑या॒ इडा॒माद॑धाति⁠। हस्त्या॒ꣳ॒ होत्रे᳚⁠। प॒शवो॒ वा इडा᳚⁠। प॒शवः॒ पुरु॑षः⁠। प॒शुष्वे॒व प॒शून् प्रति॑ष्ठापयति⁠। इडा॑यै॒ वा ए॒षा प्रजा॑तिः⁠ ॥ [५०] (१०) तां प्रजा॑ति॒य्ँयज॑मा॒नोऽनु॒ प्रजा॑यते⁠। द्विर॒ङ्गुला॑वनक्ति॒ पर्व॑णोः⁠। द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै⁠। स॒कृदुप॑स्तृणाति⁠। द्विराद॑धाति⁠। स॒कृद॒भिघा॑रयति⁠। च॒तुः संप॑द्यते⁠। च॒त्वारि॒ वै प॒शोः प्र॑ति॒ष्ठाना॑नि⁠। यावा॑ने॒व प॒शुः⁠। तमुप॑ह्वयते⁠ ॥ [५१] (१०) मुख॑मिव॒ प्रत्युप॑ह्वयेत⁠। स॒मुं॒खाने॒व प॒शूनुप॑ह्वयते⁠। प॒शवो॒ वा इडा᳚⁠। तस्मा॒थ् साऽन्वा॒रभ्या᳚⁠। अ॒द्ध्व॒र्युणा॑ च॒ यज॑मानेन च⁠। उप॑हूतः पशु॒मान॑सा॒नीत्या॑ह⁠। उप॒ ह्ये॑नौ॒ ह्वय॑ते॒ होता᳚⁠। इडा॑यै दे॒वता॑नामुपह॒वे⁠। उप॑हूतः पशु॒मान् भ॑वति⁠। य ए॒वव्ँवेद॑⁠ ॥ [५२] (१०) याव्ँवै हस्त्या॒मिडा॑मा॒दधा॑ति⁠। वा॒चः सा भा॑ग॒धेय᳚म्⁠। यामु॑प॒ह्वय॑ते⁠। प्रा॒णाना॒ꣳ॒ सा⁠। वाचं॑ चै॒व प्रा॒णाꣴश्चाव॑रुन्धे⁠॥ अथ॒ वा ए॒तर्ह्युप॑हूताया॒मिडा॑याम्⁠। पु॒रो॒डाश॑स्यै॒व ब॑र्हि॒षदो॑ मीमा॒ꣳ॒सा⁠। यज॑मानं दे॒वा अ॑ब्रुवन्न्⁠। ह॒विर्नो॒ निर्व॒पेति॑⁠। नाहम॑भा॒गो निर्व॑फ्स्या॒मीत्य॑ब्रवीत्⁠ ॥ [५३] (१०) न मया॑ऽभा॒गयाऽनु॑वख्‍ष्य॒थेति॒ वाग॑ब्रवीत्⁠। नाहम॑भा॒गा पु॑रोऽनुवा॒क्या॑ भविष्या॒मीति॑ पुरोऽनुवा॒क्या᳚⁠। नाहम॑भा॒गा या॒ज्या॑ भविष्या॒मीति॑ या॒ज्या᳚⁠। न मया॑ऽभा॒गेन॒ वष॑ट्करिष्य॒थेति॑ वषट्का॒रः⁠। यद्य॑जमानभा॒गं नि॒धाय॑ पुरो॒डाशं॑ बर्‌हि॒षदं॑ क॒रोति॑⁠। ताने॒व तद्भा॒गिनः॑ करोति⁠। च॒तु॒र्द्धा क॑रोति⁠। चत॑स्रो॒ दिशः॑⁠। दि॒ख्‍ष्वे॑व प्रति॑तिष्ठति⁠। ब॒र्॒‌हि॒षदं॑ करोति⁠ ॥ [५४] (१०) यज॑मानो॒ वै पु॑रो॒डाशः॑⁠। प्र॒जा ब॒र्॒‌हिः⁠। यज॑मानमे॒व प्र॒जासु॒ प्रति॑ष्ठापयति⁠। तस्मा॑द॒स्थ्नाऽन्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति⁠। मा॒ꣳ॒सेना॒न्याः⁠। अथो॒ खल्वा॑हुः⁠। दख्‍षि॑णा॒ वा ए॒ता ह॑विर्य॒ज्ञस्या᳚न्तर्वे॒द्यव॑रुद्ध्यन्ते⁠। यत् पु॑रो॒डाशं॑ बर्‌हि॒षदं॑ क॒रोतीति॑⁠। च॒तु॒र्द्धा क॑रोति⁠। च॒त्वारो॒ ह्ये॑ते ह॑विर्य॒ज्ञस्य॒र्त्विजः॑⁠ ॥ [५५] (१०) ब्र॒ह्मा होता᳚ऽद्ध्व॒र्युर॒ग्नीत्⁠। तम॒भिमृ॑शेत्⁠। इ॒दं ब्र॒ह्मणः॑⁠। इ॒दꣳ होतुः॑⁠। इ॒दम॑द्ध्व॒र्योः⁠। इ॒दम॒ग्नीध॒ इति॑⁠। यथै॒वादः सौ॒म्ये᳚ऽद्ध्व॒रे⁠। आ॒देश॑मृ॒त्विग्भ्यो॒ दख्‍षि॑णा नी॒यन्ते᳚⁠। ता॒दृगे॒व तत्⁠। अ॒ग्नीधे᳚ प्रथ॒मायाद॑धाति⁠ ॥ [५६] (१०) अ॒ग्निमु॑खा॒ ह्यृद्धिः॑⁠। अ॒ग्निमु॑खामे॒वर्द्धि॒य्ँयज॑मान ऋद्ध्नोति⁠॥ स॒कृदु॑प॒स्तीर्य॒ द्विरा॒दध॑त्⁠। उ॒प॒स्तीर्य॒ द्विर॒भिघा॑रयति⁠। षट्थ् संप॑द्यन्ते⁠। षड्वा ऋ॒तवः॑⁠। ऋ॒तूने॒व प्री॑णाति⁠। वे॒देन॑ ब्र॒ह्मणे᳚ ब्रह्मभा॒गं परि॑हरति⁠। प्रा॒जा॒प॒त्यो वै वे॒दः⁠। प्रा॒जा॒प॒त्यो ब्र॒ह्मा⁠ ॥ [५७] (१०) स॒वि॒ता य॒ज्ञस्य॒ प्रसू᳚त्यै⁠। अथ॒ काम॑म॒न्येन॑⁠। ततो॒ होत्रे᳚⁠। मद्ध्य॒व्ँवा ए॒तद्य॒ज्ञस्य॑⁠। यद्धोता᳚⁠। म॒द्ध्य॒त ए॒व य॒ज्ञं प्री॑णाति⁠। अथा᳚द्ध्व॒र्यवे᳚⁠। प्र॒ति॒ष्ठा वा ए॒षा य॒ज्ञस्य॑⁠। यद॑द्ध्व॒र्युः⁠। तस्मा᳚द्धविर्य॒ज्ञस्यै॒तामे॒वावृत॒मनु॑⁠ ॥ [५८] (१०) अ॒न्या दख्‍षि॑णा नीयन्ते⁠। य॒ज्ञस्य॒ प्रति॑ष्ठित्यै⁠। अ॒ग्निम॑ग्नीथ् स॒कृथ् स॑कृ॒थ् संमृ॒ड्ढीत्या॑ह⁠। परा॑ङिव॒ ह्ये॑तर्‌हि॑ य॒ज्ञः⁠॥ इ॒षि॒ता दैव्या॒ होता॑र॒ इत्या॑ह⁠। इ॒षि॒तꣳ हि कर्म॑ क्रि॒यते᳚⁠। भ॒द्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः सूक्तवा॒काय॑ सू॒क्ता ब्रू॒हीत्या॑ह⁠। आ॒शिष॑मे॒वैतामाशा᳚स्ते⁠। स्व॒गा दैव्या॒ होतृ॑भ्य॒ इत्या॑ह⁠। य॒ज्ञमे॒व तथ्स्व॒गा क॑रोति⁠। स्व॒स्तिर्मानु॑षेभ्य॒ इत्या॑ह⁠। आ॒शिष॑मे॒वैतामाशा᳚स्ते⁠। श॒य्ँयोर्ब्रू॒हीत्या॑ह⁠। श॒य्ँयुमे॒व बा॑र्‌हस्प॒त्यं भा॑ग॒धेये॑न॒ सम॑र्द्धयति⁠ ॥ [५९] (१४) (च॒र॒त्य॒द्ध्व॒र्युः प्रजा॑तिर् ह्वयते॒ वेदा᳚ ब्रवीद् बर्‌हि॒षदं॑ करोत्यृ॒त्विजो॑दधातिब्र॒ह्माऽनु॑करोति च॒त्वारि॑ च) ॥८॥
प्रस्तरप्रहारादिकम्
अथ॒ स्रुचा॑वनु॒ष्टुग्भ्या॒व्ँवाज॑वतीभ्या॒व्ँव्यू॑हति⁠। प्र॒ति॒ष्ठा वा अ॑नु॒ष्टुक्⁠। अन्न॒व्ँवाजः॒ प्रति॑ष्ठित्यै⁠। अ॒न्नाद्य॒स्याव॑रुद्ध्यै⁠। प्राचीं᳚ जु॒हूमू॑हति⁠। जा॒ताने॒व भ्रातृ॑व्या॒न् प्रणु॑दते⁠। प्र॒तीची॑मुप॒भृत᳚म्⁠। ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते⁠। स विषू॑च ए॒वापोह्य॑ स॒पत्ना॒न्॒‌यज॑मानः⁠। अ॒स्मिल्ँलो॒के प्रति॑तिष्ठति⁠ ॥ [६०] (१०) द्वाभ्या᳚म्⁠। द्विप्र॑तिष्ठो॒ हि⁠॥ वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॒स्त्वेत्या॑ह⁠। य॒था॒य॒जुरे॒वै तत्⁠। स्रु॒ख्‍षु प्र॑स्त॒रम॑नक्ति⁠। इ॒मे वै लो॒काः स्रुचः॑⁠। यज॑मानः प्रस्त॒रः⁠। यज॑मानमे॒व तेज॑साऽनक्ति⁠। त्रे॒धाऽन॑क्ति⁠। त्रय॑ इ॒मे लो॒काः⁠ ॥ [६१] (१०) ए॒भ्य ए॒वैन॑ल्ँलो॒केभ्यो॑ऽनक्ति⁠। अ॒भि॒पू॒र्वम॑नक्ति⁠। अ॒भि॒पू॒र्वमे॒व यज॑मानं॒ तेज॑साऽनक्ति⁠॥ अ॒क्तꣳ रिहा॑णा॒ इत्या॑ह⁠। तेजो॒ वा आज्य᳚म्⁠। यज॑मानः प्रस्त॒रः⁠। यज॑मानमे॒व तेज॑साऽनक्ति⁠। वि॒यन्तु॒ वय॒ इत्या॑ह⁠। वय॑ ए॒वैनं॑ कृ॒त्वा⁠। सु॒व॒र्गल्ँलो॒कं ग॑मयति⁠ ॥ [६२] (१०) प्र॒जाय्ँयोनिं॒ मा निर्मृ॑ख्‍ष॒मित्या॑ह⁠। प्र॒जायै॑ गोपी॒थाय॑⁠॥ आप्या॑यन्ता॒माप॒ ओष॑धय॒ इत्या॑ह⁠। आप॑ ए॒वौष॑धी॒राप्या॑ययति⁠। म॒रुतां॒ पृष॑तयः॒ स्थेत्या॑ह⁠। म॒रुतो॒ वै वृष्ट्या॑ ईशते⁠। वृष्टि॑मे॒वाव॑रुन्धे⁠। दिवं॑ गच्छ॒ ततो॑ नो॒ वृष्टि॒मेर॒येत्या॑ह⁠। वृष्टि॒र्वै द्यौः⁠। वृष्टि॑मे॒वाव॑रुन्धे⁠ ॥ [६३] (१०) याव॒द्वा अ॑द्ध्व॒र्युः प्र॑स्त॒रं प्र॒हर॑ति⁠। ताव॑द॒स्यायु॑र्मीयते⁠। आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पा॒हीत्या॑ह⁠। आयु॑रे॒वात्मन्ध॑त्ते⁠। याव॒द्वा अ॑द्ध्व॒र्युः प्र॑स्त॒रं प्र॒हर॑ति⁠। ताव॑दस्य॒ चख्‍षु॑र्मीयते⁠। च॒ख्‍षु॒ष्पा अ॑ग्नेऽसि॒ चख्‍षु॑र्मे पा॒हीत्या॑ह⁠। चख्‍षु॑रे॒वात्मन्ध॑त्ते⁠॥ ध्रु॒वाऽसीत्या॑ह॒ प्रति॑ष्ठित्यै⁠॥ यं प॑रि॒धिं प॒र्यध॑त्था॒ इत्या॑ह⁠ ॥ [६४] (१०) य॒था॒य॒जुरे॒वैतत्⁠। अग्ने॑ देव प॒णिभि॑र्वी॒यमा॑ण॒ इत्या॑ह⁠। अ॒ग्नय॑ ए॒वैनं॒ जुष्टं॑ करोति⁠। तं त॑ ए॒तमनु॒ जोषं॑ भरा॒मीत्या॑ह⁠। स॒जा॒ताने॒वास्मा॒ अनु॑कान्करोति⁠। नेदे॒ष त्वद॑पचे॒तया॑ता॒ इत्या॒हानु॑ख्यात्यै⁠॥ य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑त॒मित्या॑ह⁠। भू॒मान॑मे॒वोपै॑ति⁠। प॒रि॒धीन्प्रह॑रति⁠। य॒ज्ञस्य॒ समि॑ष्ट्यै⁠ ॥ [६५] (१०) स्रुचौ॒ सं प्रस्रा॑वयति⁠। यदे॒व तत्र॑ क्रू॒रम्⁠। तत्तेन॑ शमयति⁠। जु॒ह्वामु॑प॒भृत᳚म्⁠। य॒ज॒मा॒न॒दे॒व॒त्या॑ वै जु॒हूः⁠। भ्रा॒तृ॒व्य॒दे॒व॒त्यो॑प॒भृत्⁠। यज॑मानायै॒व भ्रातृ॑व्य॒मुप॑स्तिं करोति⁠॥ स॒ꣴ॒स्रा॒वभा॑गाः॒ स्थेत्या॑ह⁠। वस॑वो॒ वै रु॒द्रा आ॑दि॒त्याः स॑ꣴस्रा॒वभा॑गाः⁠। तेषां॒ तद्भा॑ग॒धेय᳚म्⁠ ॥ [६६] (१०) ताने॒व तेन॑ प्रीणाति⁠। वै॒श्व॒दे॒व्यर्चा⁠। ए॒ते हि विश्वे॑ दे॒वाः⁠। त्रि॒ष्टुग्भ॑वति⁠। इ॒न्द्रि॒यव्ँवै त्रि॒ष्टुक्⁠। इ॒न्द्रि॒यमे॒व यज॑माने दधाति⁠॥ अ॒ग्नेर्वा॒मप॑न्नगृहस्य॒ सद॑सि सादया॒मीत्या॑ह⁠। इ॒यव्ँवा अ॒ग्निरप॑न्नगृहः⁠। अ॒स्या ए॒वैने॒ सद॑ने सादयति⁠। सु॒म्नाय॑ सुम्निनी सु॒म्ने मा॑ धत्त॒मित्या॑ह⁠ ॥ [६७] (१०) प्र॒जा वै प॒शवः॑ सु॒म्नम्⁠। प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते⁠। धु॒रि धु॒र्यौ॑ पात॒मित्या॑ह⁠। जा॒या॒प॒त्योर्गो॑पी॒थाय॑⁠॥ अग्ने॑ऽदब्धायोऽशीततनो॒ इत्या॑ह⁠। य॒था॒य॒जुरे॒वैतत्⁠। पा॒हि मा॒ऽद्य दि॒वः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दित्या॑ह⁠। आ॒शिष॑मे॒वैतामाशा᳚स्ते⁠। अवि॑षं नः पि॒तुं कृ॑णु सु॒षदा॒ योनि॒ꣴ॒ स्वाहेती᳚द्ध्मस॒व्ँवृश्च॑नान्यन्वाहार्य॒पच॑नेऽभ्या॒धाय॑ फलीकरणहो॒मं जु॑होति⁠। अति॑रिक्तानि॒ वा इ॑द्ध्म स॒व्ँवृश्च॑नानि⁠ ॥ [६८] (१०) अति॑रिक्ताः फली॒कर॑णाः⁠। अति॑रिक्तमाज्योच्छेष॒णम्⁠। अति॑रिक्त ए॒वाति॑रिक्तं दधाति⁠। अथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाऽव॑रुन्धे⁠॥ वेदि॑र्दे॒वेभ्यो॒ निला॑यत⁠। ताव्ँवे॒देनान्व॑विन्दन्न्⁠। वे॒देन॒ वेदि॑व्ँविविदुः पृथि॒वीम्⁠। सा प॑प्रथे पृथि॒वी पार्थि॑वानि⁠। गर्भं॑ बिभर्ति॒ भुव॑नेष्व॒न्तः⁠। ततो॑ य॒ज्ञो जा॑यते विश्व॒दानि॒रिति॑ पु॒रस्ता᳚थ् स्तम्बय॒जुषो॑ वे॒देन॒ वेदि॒ꣳ॒ संमा॒ष्ट्र्यनु॑वित्त्यै⁠ ॥ [६९] (१०) अथो॒ यद्वे॒दश्च॒ वेदि॑श्च॒ भव॑तः⁠। मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै⁠। प्र॒जाप॑ते॒र्वा ए॒तानि॒ श्मश्रू॑णि⁠। यद्वे॒दः⁠। पत्नि॑या उ॒पस्थ॒ आस्य॑ति⁠। मि॒थु॒नमे॒व क॑रोति⁠। वि॒न्दते᳚ प्र॒जाम्⁠। वे॒दꣳ होताऽऽह॑व॒नीया᳚थ्स्तृ॒णन्ने॑ति⁠। य॒ज्ञमे॒व तथ् सन्त॑नो॒त्योत्त॑रस्मादर्द्धमा॒सात्⁠। तꣳ सन्त॑त॒मुत्त॑रेऽर्द्धमा॒स आल॑भते⁠ ॥ [७०] (१०) तं का॒लेका॑ल॒ आग॑ते यजते⁠॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। स त्वा अ॑द्ध्व॒र्युः स्या᳚त्⁠। यो यतो॑ य॒ज्ञं प्र॑यु॒ङ्क्ते⁠। तदे॑नं प्रतिष्ठा॒पय॒तीति॑⁠। वाता॒द्वा अ॑द्ध्व॒र्युर्य॒ज्ञं प्रयु॑ङ्क्ते⁠। देवा॑ गातुविदो गा॒तुव्ँवि॒त्वा गा॒तुमि॒तेत्या॑ह⁠। यत॑ ए॒व य॒ज्ञं प्र॑यु॒ङ्क्ते⁠। तदे॑नं॒ प्रति॑ष्ठापयति⁠। प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒र्यज॑मानः⁠ ॥ [७१] (१०) (ति॒ष्ठ॒ती॒ मे लो॒का ग॑मयति॒ द्यौर् वृष्टि॑मे॒वाव॑रुन्धे प॒र्यध॑त्था॒ इत्या॑ह॒ समि॑ष्ट्यै भाग॒धेयं॑ धत्त॒मित्या॑ह॒ वा इ॑द्ध्म स॒व्ँवृश्च॑ना॒ न्यनु॑वित्त्यै लभते॒ यज॑मानः) ॥९॥
पत्नीयोक्रविमोकः
यो वा अय॑थादेवतय्ँय॒ज्ञमु॑प॒चर॑ति⁠। आ दे॒वता᳚भ्यो वृश्च्यते⁠। पापी॑यान् भवति⁠। यो य॑थादेव॒तम्⁠। न दे॒वता᳚भ्य॒ आवृ॑श्च्यते⁠। वसी॑यान् भवति⁠। वा॒रु॒णो वै पाशः॑⁠। इ॒मव्ँविष्या॑मि॒ वरु॑णस्य॒ पाश॒मित्या॑ह⁠। व॒रु॒ण॒पा॒शादे॒वैनां᳚ मुञ्चति⁠। स॒वि॒तृप्र॑सूतो यथादेव॒तम्⁠ ॥ [७२] (१०) न दे॒वता᳚भ्य॒ आवृ॑श्च्यते⁠। वसी॑यान् भवति⁠। धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒क इत्या॑ह⁠। अ॒ग्निर्वै धा॒ता⁠। पुण्यं॒ कर्म॑ सुकृ॒तस्य॑ लो॒कः⁠। अ॒ग्निरे॒वैनां᳚ धा॒ता⁠। पुण्ये॒ कर्म॑णि सुकृ॒तस्य॑ लो॒के द॑धाति⁠। स्यो॒नं मे॑ स॒ह पत्या॑ करो॒मीत्या॑ह⁠। आ॒त्मन॑श्च॒ यज॑मानस्य॒ चाना᳚त्यै स॒त्वांय॑⁠॥ समायु॑षा॒ संप्र॒जयेत्या॑ह⁠ ॥ [७३] (१०) आ॒शिष॑मे॒वैतामाशा᳚स्ते पूर्णपा॒त्रे⁠। अ॒न्त॒तो॑ऽनु॒ष्टुभा᳚⁠। चतु॑ष्प॒द्वा ए॒तच्छन्दः॒ प्रति॑ष्ठितं॒ पत्नि॑यै पूर्णपा॒त्रे भ॑वति⁠। अ॒स्मिल्ँलो॒के प्रति॑तिष्ठा॒नीति॑⁠। अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति⁠। अथो॒ वाग्वा अ॑नु॒ष्टुक्⁠। वाङ्मि॑थु॒नम्⁠। आपो॒ रेतः॑ प्र॒जन॑नम्⁠। ए॒तस्मा॒द्वै मि॑थु॒नाद्वि॒द्योत॑मानः स्त॒नय॑न्वर्‌षति⁠। रेतः॑ सि॒ञ्चन्न्⁠ ॥ [७४] (१०) प्र॒जाः प्र॑ज॒नय॑न्न्⁠॥ यद्वै य॒ज्ञस्य॒ ब्रह्म॑णा यु॒ज्यते᳚⁠। ब्रह्म॑णा॒ वै तस्य॑ विमो॒कः⁠। अ॒द्भिः शान्तिः॑⁠। विमु॑क्त॒व्ँवा ए॒तर्‌हि॒ योक्त्रं॒ ब्रह्म॑णा⁠। आ॒दायै॑न॒त्पत्नी॑ स॒हाप उप॑गृह्णीते॒ शान्त्यै᳚⁠। अ॒ञ्ज॒लौ पू᳚र्णपा॒त्रमान॑यति⁠। रेत॑ ए॒वास्यां᳚ प्र॒जां द॑धाति⁠। प्र॒जया॒ हि म॑नु॒ष्यः॑ पू॒र्णः⁠। मुख॒व्ँविमृ॑ष्टे⁠। अ॒व॒भृ॒थस्यै॒व रू॒पं कृ॒त्वोत्ति॑ष्ठति⁠ ॥ [७५] (११) (स॒वि॒तृप्र॑सूतो यथादेव॒तंप्र॒जयेत्या॑हसि॒ञ्चन्मृ॑ष्ट॒ एकं॑ च) ॥१०॥
उपवेषोपगूहनम्
प॒रि॒वे॒षो वा ए॒ष वन॒स्पती॑नाम्⁠। यदु॑पवे॒षः⁠। य ए॒वव्ँवेद॑⁠। वि॒न्दते॑ परिवे॒ष्टार᳚म्⁠। तमु॑त्क॒रे⁠॥ यं दे॒वा म॑नु॒ष्ये॑षु⁠। उ॒प॒वे॒षमधा॑रयन्न्⁠। ये अ॒स्मदप॑चेतसः⁠। तान॒स्मभ्य॑मि॒हाकु॑रु⁠। उप॑वे॒षोप॑विड्ढि नः⁠ ॥ [७६] (१०) प्र॒जां पुष्टि॒मथो॒ धन᳚म्⁠। द्वि॒पदो॑ न॒श्चतु॑ष्पदः⁠। ध्रु॒वानन॑पगान्कु॒र्विति॑ पु॒रस्ता᳚त् प्र॒त्यञ्च॒मुप॑गूहति⁠। तस्मा᳚त् पु॒रस्ता᳚त् प्र॒त्यञ्चः॑ शू॒द्रा अव॑स्यन्ति⁠। स्थ॒वि॒म॒त उप॑गूहति⁠। अप्र॑तिवादिन ए॒वैना᳚न् कुरुते⁠॥ धृष्टि॒र्वा उ॑पवे॒षः⁠। शु॒चार्तो वज्रो॒ ब्रह्म॑णा॒ सꣳशि॑तः⁠। योप॑वे॒षे शुक्⁠। साऽमुमृ॑च्छतु॒ यं द्वि॒ष्म इति॑⁠ ॥ [७७] (१०) अथा᳚स्मै नाम॒ गृह्य॒ प्रह॑रति⁠। निर॒मुं नु॑द॒ ओक॑सः⁠। स॒पत्नो॒ यः पृ॑त॒न्यति॑⁠। नि॒र्बा॒द्ध्ये॑न ह॒विषा᳚⁠। इन्द्र॑ एणं॒ परा॑शरीत्⁠। इ॒हि ति॒स्रः प॑रा॒वतः॑⁠। इ॒हि पञ्च॒जना॒ꣳ॒ अति॑⁠। इ॒हि ति॒स्रोऽति॑ रोच॒ना याव॑त्⁠। सूर्यो॒ अस॑द्दि॒वि⁠। प॒र॒मां त्वा॑ परा॒वत᳚म्⁠ ॥ [७८] (१०) इन्द्रो॑ नयतु वृत्र॒हा⁠। यतो॒ न पुन॒राय॑सि⁠। श॒श्व॒तीभ्यः॒ समा᳚भ्य॒ इति॑⁠। त्रि॒वृद्वा ए॒ष वज्रो॒ ब्रह्म॑णा॒ सꣳशि॑तः⁠। शु॒चैवैन॑व्ँवि॒द्ध्वा⁠। ए॒भ्यो लो॒केभ्यो॑ नि॒र्णुद्य॑⁠। वज्रे॑ण॒ ब्रह्म॑णा स्तृणुते⁠। ह॒तो॑ऽसावव॑धिष्मा॒मुमित्या॑ह॒ स्तृत्यै᳚⁠। यं द्वि॒ष्यात्तं ध्या॑येत्⁠। शु॒चैवैन॑मर्पयति⁠ ॥ [७९] (१०) (नो॒द्वि॒ष्म इति॑परा॒वत॑मर्पयति) ॥११॥
अनुवाकाः पञ्चशती
११ ७९