कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणम्
तृतीयाष्टके अष्टमः प्रपाठकः

अष्टक ३ प्रपाठक ८

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

३. कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टकं

ॐ
सांग्रहण्येष्ट्यादयः याजमानसंस्काराः
सा॒ग्रं॒ह॒ण्येष्ट्या॑ यजते⁠। इ॒मां ज॒नता॒ꣳ॒ संग॑ह्णा॒नीति॑⁠॥ द्वाद॑शारत्नी रश॒ना भ॑वति⁠। द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः⁠। स॒व्ँव॒थ्स॒रमे॒वा व॑रुन्धे⁠। मौ॒ञ्जी भ॑वति⁠। ऊर्ग्वै मुञ्जाः᳚⁠। ऊर्ज॑मे॒ वा व॑रुन्धे⁠॥ चि॒त्रा नख्‍ष॑त्रं भवति⁠। चि॒त्रव्ँवा ए॒तत्कर्म॑⁠ ॥ [१] (१०) यद॑श्वमे॒धः समृ॑द्ध्यै⁠॥ पुण्य॑नाम देव॒यज॑नम॒द्ध्यव॑स्यति⁠। पुण्या॑मे॒व तेन॑ की॒र्तिम॒भिज॑यति⁠॥ अप॑दातीनृ॒त्विजः॑ स॒माव॑ह॒न्त्या सु॑ब्रह्म॒ण्यायाः᳚⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠॥ के॒श॒श्म॒श्रु व॑पते⁠। न॒खानि॒ निकृ॑न्तते⁠। द॒तो धा॑वते⁠। स्नाति॑⁠। अह॑त॒व्ँवासः॒ परि॑धत्ते⁠। पा॒प्मनोऽप॑हत्यै⁠। वाच॑य्ँय॒त्वोप॑वसति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ गुप्त्यै᳚⁠। रात्रिं॑ जाग॒रय॑न्त आसते⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠ ॥ [२] (१५) (कर्म॑ धत्ते॒ पञ्च॑ च) ॥१॥
ब्रह्मौदनाभिधानम्
चतु॑ष्टय्य॒ आपो॑ भवन्ति⁠। चतु॑श्शफो॒ वा अश्वः॑ प्राजाप॒त्यः समृ॑द्ध्यै⁠॥ ता दि॒ग्भ्यः स॒माभृ॑ता भवन्ति⁠। दि॒ख्‍षु वा आपः॑⁠। अन्न॒व्ँवा आपः॑⁠। अ॒द्भ्यो वा अन्नं॑ जायते⁠। यदे॒वाद्भ्योऽन्नं॒ जाय॑ते⁠। तदव॑रुन्धे⁠॥ तासु॑ ब्रह्मौद॒नं प॑चति⁠। रेत॑ ए॒व तद्द॑धाति⁠ ॥ [३] (१०) चतु॑श्शरावो भवति⁠। दि॒ख्‍ष्वे॑व प्रति॑तिष्ठति⁠॥ उ॒भ॒यतो॑ रु॒क्मौ भ॑वतः⁠। उ॒भ॒यत॑ ए॒वास्मि॒न्रुचं॑ दधाति⁠। उद्ध॑रति शृत॒त्वाय॑⁠। स॒र्पिष्वा᳚न् भवति मेद्ध्य॒त्वाय॑⁠। च॒त्वार॑ आर्‌षे॒याः प्राश्न॑न्ति⁠। दि॒शामे॒व ज्योति॑षि जुहोति⁠। च॒त्वारि॒ हिर॑ण्यानि ददाति⁠। दि॒शाम॒व ज्योती॒ꣴ॒ष्य व॑रुन्धे⁠ ॥ [४] (१०) यदाज्य॑मु॒च्छिष्य॑ते⁠। तस्मि॑न्रश॒नां न्यु॑नत्ति⁠। प्र॒जाप॑ति॒र्वा ओ॑द॒नः⁠। रेत॒ आज्य᳚म्⁠। यदाज्ये॑ रश॒नां न्यु॒नत्ति॑⁠। प्र॒जाप॑तिमे॒व रेत॑सा॒ सम॑द्‌र्धयति⁠॥ द॒र्भ॒मयी॑ रश॒ना भ॑वति⁠। ब॒हु वा ए॒ष कु॑च॒रो॑ऽमे॒द्ध्यमुप॑गच्छति⁠। यदश्वः॑⁠। प॒वित्र॒व्ँवै द॒र्भाः⁠ ॥ [५] (१०) यद्द॑र्भ॒मयी॑ रश॒ना भव॑ति⁠। पु॒नात्ये॒वैन᳚म्⁠। पू॒तमे॑नं॒ मेद्ध्य॒माल॑भते⁠॥ अश्व॑स्य॒ वा आल॑ब्धस्य महि॒मोद॑क्रामत्⁠। स म॒हर्त्वि॑जः॒ प्रावि॑शत्⁠। तन्म॒हर्त्वि॑जां महर्त्वि॒क्त्वम्⁠। यन्म॒हर्त्वि॑जः प्रा॒श्नन्ति॑⁠। म॒हि॒मान॑मे॒वास्मि॒न्तद्द॑धति⁠॥ अश्व॑स्य॒ वा आल॑ब्धस्य॒ रेत॒ उद॑क्रामत्⁠। तथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यमभवत्⁠। यथ्सु॒वर्ण॒ꣳ॒ हिर॑ण्यं॒ ददा॑ति⁠। रेत॑ ए॒व तद्द॑धाति⁠॥ ओ॒द॒ने द॑दाति⁠। रेतो॒ वा ओ॑द॒नः⁠। रेतो॒ हिर॑ण्यम्⁠। रेत॑सै॒वास्मि॒न् रेतो॑ दधाति⁠ ॥ [६] (१६) (द॒धा॒ति॒ रु॒न्धे॒ द॒र्भा अ॑भव॒थ् षट्च॑) ॥२॥
रशनयाऽश्वबन्धनम्
यो वै ब्रह्म॑णे दे॒वेभ्यः॑ प्र॒जाप॑त॒येऽप्र॑तिप्रो॒च्याश्वं॒ मेद्ध्यं॑ ब॒द्ध्नाति॑⁠। आ दे॒वता᳚भ्यो वृश्च्यते⁠। पापी॑यान्भवति⁠। यः प्र॑ति॒प्रोच्य॑⁠। न दे॒वता᳚भ्य॒ आवृ॑श्च्यते⁠। वसी॑यान्भवति⁠॥ यदाह॑⁠। ब्रह्म॒न्नश्वं॒ मेद्ध्यं॑ भन्थ्स्यामि दे॒वेभ्यः॑ प्र॒जाप॑तये॒ तेन॑ राद्ध्यास॒मिति॑⁠। ब्रह्म॒ वै ब्र॒ह्मा⁠। ब्रह्म॑ण ए॒व दे॒वेभ्यः॑ प्र॒जाप॑तये प्रति॒प्रोच्याश्वं॒ मेद्ध्यं॑ बद्ध्नाति⁠ ॥ [७] (१०) न दे॒वता᳚भ्य॒ आवृ॑श्च्यते⁠। वसी॑यान् भवति⁠॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ रश॒नामाद॑त्ते॒ प्रसू᳚त्यै⁠। अ॒श्विनो᳚र्बा॒हुभ्या॒मित्या॑ह⁠। अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म्⁠। पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚⁠॥ व्यृ॑द्ध॒व्ँवा ए॒तद्य॒ज्ञस्य॑⁠। यद॑य॒जुष्के॑ण क्रि॒यते᳚⁠। इ॒माम॑गृभ्णन्रश॒नामृ॒तस्येत्यधि॑ वदति॒ यजु॑ष्कृत्यै⁠। य॒ज्ञस्य॒ समृ॑द्ध्यै⁠ ॥ [८] (१०) तदा॑हुः⁠। द्वाद॑शारत्नी रश॒ना क॑र्त॒व्या(३) त्रयो॑दशार॒त्नी(३)रिति॑⁠। ऋ॒ष॒भो वा ए॒ष ऋ॑तू॒नाम्⁠। यथ्स॑व्ँवथ्स॒रः⁠। तस्य॑ त्रयोद॒शो मासो॑ वि॒ष्टप᳚म्⁠। ऋ॒ष॒भ ए॒ष य॒ज्ञाना᳚म्⁠। यद॑श्वमे॒धः⁠। यथा॒ वा ऋ॑ष॒भस्य॑ वि॒ष्टप᳚म्⁠। ए॒वमे॒तस्य॑ वि॒ष्टप᳚म्⁠। त्र॒यो॒द॒शम॑र॒त्निꣳ र॑श॒नाया॑मु॒पाद॑धाति⁠ ॥ [९] (१०) यथ॑र्‌ष॒भस्य॑ वि॒ष्टप॑ꣳ सꣴस्क॒रोति॑⁠। ता॒दृगे॒व तत्⁠॥ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्येत्या॑ह⁠। आयु॑रे॒वास्मि॑न् दधाति⁠॥ तया॑ दे॒वाः सु॒तमाब॑भूवु॒रित्या॑ह⁠। भूति॑मे॒वोपाव॑र्तते⁠॥ ऋ॒तस्य॒ सामन᳚थ् स॒रमा॒रप॒न्तीत्या॑ह⁠। स॒त्यव्ँवा ऋ॒तम्⁠। स॒त्येनै॒वैन॑ मृ॒तेनार॑भते⁠॥ अ॒भि॒धा अ॒सीत्या॑ह⁠ ॥ [१०] (१०) तस्मा॑दश्वमेधया॒जी सर्वा॑णि भू॒तान्य॒भि भ॑वति⁠। भुव॑नम॒सीत्या॑ह⁠। भू॒मान॑मे॒वोप॑ति⁠। य॒न्ताऽसीत्या॑ह⁠। य॒न्तार॑मे॒वैनं॑ करोति⁠। ध॒र्ताऽसीत्या॑ह⁠। ध॒र्तार॑मे॒वैनं॑ करोति⁠। सो᳚ऽग्निव्ँवै᳚श्वान॒रमित्या॑ह⁠। अ॒ग्नावे॒वैन॑व्ँवैश्वान॒रे जु॑होति⁠। सप्र॑थस॒मित्या॑ह⁠ ॥ [११] (१०) प्र॒जयै॒वैनं॑ प॒शुभिः॑ प्रथयति⁠। स्वाहा॑कृत॒ इत्या॑ह⁠। होम॑ ए॒वास्य॒षः⁠। पृ॒थि॒व्यामित्या॑ह⁠। अ॒स्यामे॒वैनं॒ प्रति॑ष्ठापयति⁠। य॒न्ता राड्य॒न्ताऽसि॒ यम॑नो ध॒र्ताऽसि॑ ध॒रुण॒ इत्या॑ह⁠। रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्ँव्याच॑ष्टे⁠। कृ॒ष्यै त्वा॒ ख्‍षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य॒ त्वेत्या॑ह⁠। आ॒शिष॑मे॒वैतामाशा᳚स्ते⁠॥ स्व॒गा त्वा॑ दे॒वेभ्य॒ इत्या॑ह⁠। दे॒वेभ्य॑ ए॒वैन॑ꣴ स्व॒गा क॑रोति⁠। स्वाहा᳚ त्वा प्र॒जाप॑तय॒ इत्या॑ह⁠। प्रा॒जा॒प॒त्यो वा अश्वः॑⁠। यस्या॑ ए॒व दे॒वता॑या आल॒भ्यत᳚⁠। तयै॒वैन॒ꣳ॒ सम॑द्‌र्धयति⁠ ॥ [१२] (१५) (ब॒ध्ना॒ति॒ समृ॑द्ध्या उ॒पद॑धा त्य॒सीत्या॑ह॒ सप्र॑थस॒मीत्या॑ह दे॒वेभ्य॒ इत्या॑ह॒ पञ्च॑ च) ॥३॥
अश्वस्य जलेऽवगाहनम्
यः पि॒तुर॑नु॒जायाः᳚ पु॒त्रः⁠। स पु॒रस्ता᳚न्नयति⁠। यो मा॒तुर॑नु॒जायाः᳚ पु॒त्रः⁠। स प॒श्चान्न॑यति⁠। विष्व॑ञ्चमे॒वास्मा᳚त्पा॒प्मान॒व्ँविवृ॑हतः⁠॥ यो अर्व॑न्तं॒ जिघा॑ꣳसति॒ तम॒भ्य॑मीति॒ वरु॑ण॒ इति॒ श्वानं॑ चतुर॒ख्‍षं प्रसौ॑ति⁠। प॒रो मर्तः॑ प॒रः श्वेति॒ शुन॑श्चतुर॒ख्‍षस्य॒ प्रह॑न्ति⁠। श्वेव॒ वै पा॒प्मा भ्रातृ॑व्यः⁠। पा॒प्मान॑मे॒वास्य॒ भ्रातृ॑व्यꣳ हन्ति⁠॥ सै॒द्ध्र॒कं मुस॑लं भवति⁠ ॥ [१३] (१०) कर्म॑ कर्मै॒वास्मै॑ साधयति⁠॥ पौ॒ꣴ॒श्च॒ले॒यो ह॑न्ति⁠। पु॒ꣴ॒श्च॒ल्वाव्ँवै दे॒वाः शुचं॒ न्य॑दधुः⁠। शु॒चैवास्य॒ शुच॑ꣳ हन्ति⁠॥ पा॒प्मा वा ए॒तमी᳚फ्स॒तीत्या॑हुः⁠। यो᳚ऽश्वमे॒धेन॒ यज॑त॒ इति॑⁠। अश्व॑स्याधस्प॒दमुपा᳚स्यति⁠। व॒ज्री वा अश्वः॑ प्राजाप॒त्यः⁠। वज्रे॑णै॒व पा॒प्मानं॒ भ्रातृ॑व्य॒मव॑क्रामति⁠॥ द॒ख्‍षि॒णाऽप॑प्लावयति⁠ ॥ [१४] (१०) पा॒प्मान॑मे॒वास्मा॒च्छम॑ल॒मप॑प्लावयति⁠॥ ऐ॒षी॒क उ॑दू॒हो भ॑वति⁠। आयु॒र्वा इ॒षीकाः᳚⁠। आयु॑रे॒वास्मि॑न् दधति⁠। अ॒मृत॒व्ँवा इ॒षीकाः᳚⁠। अ॒मृत॑मे॒वास्मि॑न् दधति⁠॥ वे॒त॒स॒शा॒खोप॒संब॑द्धा भवति⁠। अ॒फ्सुयो॑नि॒र्वा अश्वः॑⁠। अ॒फ्सु॒जो वे॑त॒सः⁠। स्वादे॒वैन॒य्ँयोने॒र्निर्मि॑मीते⁠॥ पु॒रस्ता᳚त्प्र॒त्यञ्च॑म॒भ्युदू॑हति⁠। पु॒रस्ता॑दे॒वास्मि॑न् प्र॒तीच्य॒ मृतं॑ दधाति⁠॥ अ॒हं च॒ त्वं च॑ वृत्रह॒न्निति॑ ब्र॒ह्मा यज॑मानस्य॒ हस्तं॑ गृह्णाति⁠। ब्र॒ह्म॒ख्‍ष॒त्रे ए॒व संद॑धाति⁠। अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्नित्य॑ध्व॒र्युर्यज॑मानव्ँवाचयत्य॒भिजि॑त्यै⁠ ॥ [१५] (१५) (भ॒व॒ति॒ प्ला॒व॒य॒ति॒ मि॒मी॒ते॒ पञ्च॑ च) ॥४॥
अश्वस्य प्रोख्‍षणं महर्त्विजाम्
च॒त्वार॑ ऋ॒त्विजः॒ समु॑ख्‍षन्ति⁠। आ॒भ्य ए॒वैनं॑ चत॒सृभ्यो॑ दि॒ग्भ्यो॑ऽभिसमी॑रयन्ति⁠॥ श॒तेन॑ राजपु॒त्रैः स॒हाद्ध्व॒र्युः⁠। पु॒रस्ता᳚त्प्र॒त्यङ्तिष्ठ॒न् प्रोख्‍ष॑ति⁠। अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ने॒ष्ट्वा⁠। अ॒यꣳ राजा॑ वृ॒त्रव्ँव॑द्ध्या॒दिति॑⁠। रा॒ज्यव्ँवा अ॑द्ध्व॒र्युः⁠। ख्‍ष॒त्रꣳ रा॑जपु॒त्रः⁠। रा॒ज्येनै॒वास्मि॑न् ख्‍ष॒त्रं द॑धाति⁠॥ श॒तेना॑रा॒जभि॑रु॒ग्रैः स॒ह ब्र॒ह्मा⁠ ॥ [१६] (१०) द॒ख्‍षि॒ण॒त उद॒ङ्तिष्ठ॒न् प्रोख्‍ष॑ति⁠। अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ने॒ष्ट्वा⁠। अ॒यꣳ राजा᳚ऽप्रतिधृ॒ष्यो᳚ऽस्त्विति॑⁠। बल॒व्ँवै ब्र॒ह्मा⁠। बल॑मरा॒जोग्रः⁠। बल॑नै॒वास्मि॒न् बलं॑ दधाति⁠॥ श॒तेन॑ सूतग्राम॒णिभिः॑ स॒ह होता᳚⁠। प॒श्चात्प्राङ्तिष्ठ॒न् प्रोख्‍ष॑ति⁠। अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ने॒ष्ट्वा⁠। अ॒यꣳ राजा॒ऽस्यै वि॒शः⁠ ॥ [१७] (१०) ब॒हु॒ग्वै ब॑ह्व॒श्वायै॑ बह्वजावि॒कायै᳚⁠। ब॒हु॒व्री॒हि॒य॒वायै॑ बहुमाषति॒लायै᳚⁠। ब॒हु॒हि॒र॒ण्यायै॑ बहुह॒स्तिका॑यै⁠। ब॒हु॒दा॒स॒पू॒रु॒षायै॑ रयि॒मत्यै॒ पुष्टि॑मत्यै⁠। ब॒हु॒रा॒य॒स्पो॒षायै॒ राजा॒ऽस्त्विति॑⁠। भू॒मा वै होता᳚⁠। भू॒मा सू॑तग्राम॒ण्यः॑⁠। भू॒म्नैवास्मि॑न् भू॒मानं॑ दधाति⁠॥ श॒तेन॑ ख्‍षत्तसंग्रही॒तृभिः॑ स॒होद्गा॒ता⁠। उ॒त्त॒र॒तो द॑ख्‍षि॒णा तिष्ठ॒न् प्रोख्‍ष॑ति⁠ ॥ [१८] (१०) अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ ने॒ष्ट्वा⁠। अ॒यꣳ राजा॒ सर्व॒मायु॑रे॒त्विति॑⁠। आयु॒र्वा उ॑द्गा॒ता⁠। आयुः॑ ख्‍षत्तसंग्रही॒तारः॑⁠। आयु॑षै॒वास्मि॒न्नायु॑र्दधाति⁠॥ श॒तꣳ श॑तं भवन्ति⁠। श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः⁠। आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति⁠॥ च॒तुः॒ श॒ता भ॑वन्ति⁠। चत॑स्रो॒ दिशः॑⁠। दि॒ख्‍ष्वे॑व प्रति॑तिष्ठति⁠ ॥ [१९] (११) (ब्र॒ह्मा वि॒श उ॑ख्‍षति॒ दिश॒ एकं॑ च) ॥५॥
भूमौ पततां बिन्दूनामभिमन्त्रणम्
यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति⁠। ए॒वव्ँवा ए॒तदश्व॑स्य स्कन्दति⁠। यन्नि॒क्तमना॑लब्धमुथ्सृ॒जन्ति॑⁠। यथ्स्तोक्या॑ अ॒न्वाह॑⁠। स॒र्व॒हुत॑मे॒वैनं॑ करो॒त्यस्क॑न्दाय⁠। अस्क॑न्न॒ꣳ॒ हि तत्⁠। यद्धु॒तस्य॒ स्कन्द॑ति⁠॥ स॒हस्र॒मन्वा॑ह⁠। स॒हस्र॑ संमितः सुव॒र्गो लो॒कः⁠। सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै⁠ ॥ [२०] (१०) यत्परि॑मिता अनुब्रू॒यात्⁠। परि॑मित॒मव॑रुन्धीत⁠। अप॑रिमिता॒ अन्वा॑ह⁠। अप॑रिमितः सुव॒र्गो लो॒कः⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠॥ स्तोक्या॑ जुहोति⁠। या ए॒व वर्ष्या॒ आपः॑⁠। ता अव॑रुन्धे⁠॥ अ॒स्यां जु॑होति⁠। इ॒यव्ँवा अ॒ग्निर्वै᳚श्वान॒रः⁠ ॥ [२१] (१०) अ॒स्यामे॒वैनाः॒ प्रति॑ष्ठापयति⁠॥ उ॒वाच॑ ह प्र॒जाप॑तिः⁠। स्तोक्या॑सु॒ वा अ॒हम॑श्वमे॒धꣳ सꣴस्था॑पयामि⁠। तेन॒ ततः॒ सꣴस्थि॑तेन चरा॒मीति॑⁠॥ अ॒ग्नये॒ स्वाहेत्या॑ह⁠। अ॒ग्नय॑ ए॒वैनं॑ जुहोति⁠॥ सोमा॑य॒ स्वाहेत्या॑ह⁠। सोमा॑यै॒वैनं॑ जुहोति⁠। स॒वि॒त्रे स्वाहेत्या॑ह⁠। स॒वि॒त्र ए॒वैनं॑ जुहोति⁠ ॥ [२२] (१०) सर॑स्वत्यै॒ स्वाहेत्या॑ह⁠। सर॑स्वत्या ए॒वैनं॑ जुहोति⁠। पू॒ष्णे स्वाहेत्या॑ह⁠। पू॒ष्ण ए॒वैनं॑ जुहोति⁠। बृह॒स्पत॑ये॒ स्वाहेत्या॑ह⁠। बृह॒स्पत॑य ए॒वैनं॑ जुहोति⁠। अ॒पां मोदा॑य॒ स्वाहेत्या॑ह⁠। अ॒द्भ्य ए॒वैनं॑ जुहोति⁠। वा॒यवे॒ स्वाहेत्या॑ह⁠। वा॒यव॑ ए॒वैनं॑ जुहोति⁠ ॥ [२३] (१०) मि॒त्राय॒ स्वाहेत्या॑ह⁠। मि॒त्रायै॒वैनं॑ जुहोति⁠। वरु॑णाय॒ स्वाहेत्या॑ह⁠। वरु॑णायै॒वैनं॑ जुहोति⁠॥ ए॒ताभ्य॑ ए॒वैनं॑ दे॒वता᳚भ्यो जुहोति⁠॥ दश॑ दश स॒पांदं॑ जुहोति⁠। दशा᳚ख्‍षरा वि॒राट्⁠। अन्न॑व्ँवि॒राट्⁠। वि॒राजै॒वान्नाद्य॒मव॑रुन्धे⁠॥ प्र वा ए॒षो᳚ऽस्माल्लो॒काच्च्य॑वते⁠। यः परा॑ची॒राहु॑तीर्जु॒होति॑⁠। पुनः॑ पुनरभ्या॒वर्तं॑ जुहोति⁠। अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति⁠॥ ए॒ताꣳ ह॒ वाव सो᳚ऽश्वमे॒धस्य॒ सꣴस्थि॑ति मुवा॒चास्क॑न्दाय⁠। अस्क॑न्न॒ꣳ॒ हि तत्⁠। यद्य॒ज्ञस्य॒ सꣴस्थि॑तस्य॒ स्कन्द॑ति⁠ ॥ [२४] (१६) (अ॒भिजि॑त्यै वैश्वान॒रः स॑वि॒त्र ए॒वैन॑म् जुहोति वा॒यव॑ ए॒वैन॑म् जुहोति च्यवते॒ षट्च॑) ॥६॥
अथाध्वर्युप्रोख्‍षणम्
प्र॒जाप॑तये त्वा॒ जुष्टं॒ प्रोख्‍षा॒मीति॑ पुर॒स्ता᳚त्प॒त्यङ्तिष्ठ॒न् प्रोख्‍ष॑ति⁠। प्र॒जाप॑ति॒र्वै दे॒वाना॑मन्ना॒दो वी॒र्या॑वान्⁠। अ॒न्नाद्य॑मे॒वास्मि॑न् वी॒र्यं॑ दधाति⁠। तस्मा॒दश्वः॑ पशू॒नाम॑न्ना॒दो वी॒र्या॑वत्तमः⁠॥ इ॒न्द्रा॒ग्निभ्यां॒ त्वेति॑ दख्‍षिण॒तः⁠। इ॒न्द्रा॒ग्नी वै दे॒वाना॒मोजि॑ष्ठौ॒ बलि॑ष्ठौ⁠। ओज॑ ए॒वास्मि॒न् बलं॑ दधाति⁠। तस्मा॒दश्वः॑ पशू॒नामोजि॑ष्ठो॒ बलि॑ष्ठः⁠॥ वा॒यवे॒ त्वेति॑ प॒श्चात्⁠। वा॒युर्वै दे॒वाना॑मा॒शुः सा॑रसा॒रित॑मः⁠ ॥ [२५] (१०) ज॒वमे॒वास्मि॑न्दधाति⁠। तस्मा॒दश्वः॑ पशू॒नामा॒शुः सा॑रसा॒रित॑मः⁠॥ विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्यु॑त्तर॒तः⁠। विश्वे॒ वै दे॒वा दे॒वाना᳚य्ँयश॒स्वित॑माः⁠। यश॑ ए॒वास्मि॑न्दधाति⁠। तस्मा॒दश्वः॑ पशू॒नाय्ँय॑श॒स्वित॑मः⁠॥ दे॒वेभ्य॒स्त्वेत्य॒धस्ता᳚त्⁠। दे॒वा वै दे॒वाना॒मप॑चिततमाः⁠। अप॑चितिमे॒वास्मि॑न्दधाति⁠। तस्मा॒दश्वः॑ पशू॒नामप॑चिततमः⁠ ॥ [२६] (१०) सर्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्यु॒परि॑ष्टात्⁠। सर्वे॒ वै दे॒वास्त्विषि॑मन्तो हर॒स्विनः॑⁠। त्विषि॑मे॒वास्मि॒न्॒‌हरो॑ दधाति⁠। तस्मा॒दश्वः॑ पशू॒नां त्विषि॑मान् हर॒स्वित॑मः⁠॥ दि॒वे त्वा॒ऽन्तरि॑ख्‍षाय त्वा पृथि॒व्यै त्वेत्या॑ह⁠। ए॒भ्य ए॒वैन॑ल्ँलो॒केभ्यः॒ प्रोख्‍ष॑ति⁠॥ स॒ते त्वाऽस॑ते त्वा॒ऽद्भ्यस्त्वौष॑धीभ्यस्त्वा॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्य॒ इत्या॑ह⁠। तस्मा॑दश्वमेधया॒जिन॒ꣳ॒ सर्वा॑णि भू॒तान्युप॑ जीवन्ति⁠॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। यत्प्रा॑जाप॒त्योऽश्वः॑⁠। अथ॒ कस्मा॑देनम॒न्याभ्यो॑ दे॒वता॒भ्योऽपि॒ प्रोख्‍ष॒तीति॑⁠। अश्वे॒ वै सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः⁠। तय्ँयद्विश्वे᳚भ्यस्त्वा भू॒तेभ्य॒ इति॑ प्रा॒ख्‍षति॑⁠। दे॒वता॑ ए॒वास्मि॑न्न॒न्वाया॑तयति⁠। तस्मा॒दश्वे॒ सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः⁠ ॥ [२७] (१५) (सा॒र॒सा॒रित॒मो ऽप॑चिततमः प्राजाप॒त्योऽश्व॒ पञ्च॑ च) ॥७॥
अश्वचरितानामश्वरूपाणां च होमाः
यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति⁠। ए॒वव्ँवा ए॒तदश्व॑स्य स्कन्दति⁠। यत्प्रोख्‍षि॑त॒मना॑लब्धमुथ्सृ॒जन्ति॑⁠। यद॑श्वचरि॒तानि॑ जु॒होति॑⁠। स॒र्व॒हुत॑मे॒वैनं॑ करो॒त्यस्क॑न्दाय⁠। अस्क॑न्न॒ꣳ॒ हि तत्⁠। यद्धु॒तस्य॒ स्कन्द॑ति⁠॥ ईं॒का॒राय॒ स्वाहें कृ॑ताय॒ स्वाहेत्या॑ह⁠। ए॒तानि॒ वा अ॑श्वचरि॒तानि॑⁠। च॒रि॒तैरे॒वैन॒ꣳ॒ सम॑द्‌र्धयति⁠ ॥ [२८] (१०) तदा॑हुः⁠। अना॑हुतयो॒ वा अ॑श्वचरि॒तानि॑⁠। नैता हो॑त॒व्या॑ इति॑⁠। अथो॒ खल्वा॑हुः⁠। हो॒त॒व्या॑ ए॒व⁠। अत्र॒ वावैवव्ँवि॒द्वान॑श्वमे॒धꣳ सꣴस्था॑पयति⁠। यद॑श्वचरि॒तानि॑ जु॒होति॑⁠। तस्मा᳚द्धोत॒व्या॑ इति॑⁠॥ ब॒हि॒द्‌र्धा वा ए॑नमे॒तदा॒यत॑नाद्दधाति⁠। भ्रातृ॑व्यमस्मै जनयति⁠ ॥ [२९] (१०) यस्या॑ नायत॒ने᳚ऽन्यत्रा॒ग्नेराहु॑तीर् जु॒होति॑⁠। सा॒वि॒त्रि॒या इष्ट्याः᳚ पु॒रस्ता᳚थ्स्विष्ट॒ कृतः॑⁠। आ॒ह॒व॒नीये᳚ऽश्वचरि॒तानि॑ जुहोति⁠। आ॒यत॑न ए॒वास्याहु॑तीर् जुहोति⁠। नास्मै॒ भ्रातृ॑व्यं जनयति⁠॥ तदा॑हुः⁠। य॒ज्ञ॒मु॒खे य॑ज्ञमुखे होत॒व्याः᳚⁠। य॒ज्ञस्य॒ क्लृप्त्यै᳚⁠। सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या॒ इति॑⁠॥ अथो॒ खल्वा॑हुः⁠ ॥ [३०] (१०) यद्य॑ज्ञमु॒खे य॑ज्ञमुखे जुहु॒यात्⁠। प॒शुभि॒र्यज॑मान॒व्ँव्य॑द्‌र्धयेत्⁠। अव॑ सुव॒र्गाल्लो॒कात्प॑द्येत⁠। पापी॑यान् थ्स्या॒दिति॑⁠। स॒कृदे॒व हो॑त॒व्याः᳚⁠। न यज॑मानं प॒शुभि॒र्व्य॑द्‌र्धयति⁠। अ॒भि सु॑व॒र्गल्ँलो॒कं ज॑यति⁠। न पापी॑यान् भवति⁠॥ अ॒ष्टाच॑त्वारिꣳशतमश्व रू॒पाणि॑ जुहोति⁠। अ॒ष्टाच॑त्वारिꣳशदख्‍षरा॒ जग॑ती⁠। जाग॒तोऽश्वः॑ प्राजाप॒त्यः समृ॑द्ध्यै⁠॥ एक॒मति॑रिक्तं जुहोति⁠। तस्मा॒देकः॑ प्र॒जास्वद्‌र्धु॑कः⁠ ॥ [३१] (१३) (अ॒द्‌र्ध॒य॒ति॒ ज॒न॒य॒ति॒ खल्वा॑हु॒र् जग॑ती॒ त्रीणि॑ च) ॥८॥
अश्वस्य नाम्नामभिवाचनं, उथ्सर्गश्च
वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्रेत्या॑ह⁠। इ॒यव्ँवै मा॒ता⁠। अ॒सौ पि॒ता⁠। आ॒भ्यामे॒वैनं॒ परि॑ददाति⁠॥ अश्वो॑ऽसि॒ हयो॒ऽसीत्या॑ह⁠। शास्त्ये॒वैन॑मे॒तत्⁠। तस्मा᳚च्छि॒ष्टाः प्र॒जा जा॑यन्ते⁠॥ अत्यो॒ऽसीत्या॑ह⁠। तस्मा॒दश्वः॒ सर्वा᳚न् प॒शूनत्ये॑ऽति⁠। तस्मा॒दश्वः॒ सर्वे॑षां पशू॒नाꣴ श्रैष्‌ठ्यं॑ गच्छति⁠ ॥ [३२] (१०) प्र यशः॒ श्रैष्‌ठ्य॑माप्नोति⁠। य ए॒वव्ँवेद॑⁠॥ नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह⁠। रू॒पमे॒वास्यै॒तन्म॑हि॒मान॒व्ँव्याच॑ष्टे⁠॥ ययु॒र्नामा॒ऽसीत्या॑ह⁠। ए॒तद्वा अश्व॑स्य प्रि॒यं ना॑म॒धेय᳚म्⁠। प्रि॒येणै॒वैनं॑ नाम॒धेये॑ना॒भिव॑दति⁠। तस्मा॒दप्या॑मि॒त्रौ स॒गंत्य॑⁠। नाम्ना॒ चेद्ध्वये॑ते⁠। मि॒त्रमे॒व भ॑वतः⁠ ॥ [३३] (१०) आ॒दि॒त्यानां॒ पत्वाऽन्वि॒हीत्या॑ह⁠। आ॒दि॒त्याने॒वैनं॑ गमयति⁠॥ अ॒ग्नये॒ स्वाहा॒ स्वाहे᳚न्द्रा॒ग्निभ्या॒मिति॑ पूर्वहो॒माञ्जु॑होति⁠। पूव॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑क्रामति⁠॥ भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वेत्युथ्सृ॑जति सर्व॒त्वाय॑⁠॥ देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्वं॒ मेधा॑य॒ प्रोख्‍षि॑तं गोपाय॒तेत्या॑ह⁠। श॒तव्ँवै तल्प्या॑ राजपु॒त्रा दे॒वा आ॑शापा॒लाः⁠। तेभ्य॑ ए॒वैनं॒ परि॑ददाति⁠॥ ई॒श्व॒रो वा अश्वः॒ प्रमु॑क्तः॒ परां᳚ परा॒वतं॒ गन्तोः᳚⁠। इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहेति॑ चतृ॒षु प॒थ्सु जु॑होति⁠ ॥ [३४] (१०) ए॒ता वा अश्व॑स्य॒ बन्ध॑नम्⁠। ताभि॑रे॒वैनं॑ बद्ध्नाति⁠। तस्मा॒दश्वः॒ प्रमु॑क्तो॒ बन्ध॑न॒माग॑च्छति⁠। तस्मा॒दश्वः॒ प्रमु॑क्तो॒ बन्ध॑नं॒ न ज॑हाति⁠॥ रा॒ष्ट्रव्ँवा अ॑श्वमे॒धः⁠। रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते⁠। येऽश्वं॒ मेद्ध्य॒ꣳ॒ रख्‍ष॑न्ति⁠। तेषा॒य्ँय उ॒दृचं॒ गच्छ॑न्ति⁠। रा॒ष्ट्रादे॒व ते रा॒ष्ट्रं ग॑च्छन्ति⁠। अ॒थ य उ॒दृचं॒ न गच्छ॑न्ति⁠ ॥ [३५] (१०) रा॒ष्ट्रादे॒व ते व्यव॑च्छिद्यन्ते⁠। परा॒ वा ए॒ष सि॑च्यते⁠। यो॑ऽब॒लो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। यद॒मित्रा॒ अश्व॑व्ँवि॒न्देर॑न्न्⁠। ह॒न्येता᳚स्य य॒ज्ञः⁠। च॒तु॒श्श॒ता र॑ख्‍षन्ति⁠। य॒ज्ञस्याघाताय⁠॥ अथा॒न्यमा॒नीय॒ प्रोख्‍षे॑युः⁠। सैव ततः॒ प्राय॑श्चित्तिः⁠ ॥ [३६] (९) (ग॒च्छ॒ति॒ भ॒व॒तः॒ प॒थ्सु जु॑होति॒ न गच्छ॑न्ति॒ +नव॑ च) ॥९॥
दीख्‍षाभिधानम् तत्र वैश्वदेवहोमः
प्र॒जाप॑तिरकामयताश्वमे॒धेन॑ यजे॒येति॑⁠। स तपो॑ऽतप्यत⁠। तस्य॑ तेपा॒नस्य॑⁠। स॒प्तात्मनो॑ दे॒वता॒ उद॑क्रामन्न्⁠। सा दी॒ख्‍षाऽभ॑वत्⁠। स ए॒तानि॑ वैश्वदे॒वान्य॑पश्यत्⁠। तान्य॑ जुहोत्⁠। तैर्वै स दी॒ख्‍षामवा॑रुन्ध⁠। यद्वै᳚श्व दे॒वानि॑ जु॒होति॑⁠। दी॒ख्‍षामे॒वतैर्यज॑मा॒नोऽव॑रुन्धे⁠ ॥ [३७] (१०) स॒प्त जु॑होति⁠। स॒प्त हि ता दे॒वता॑ उ॒दक्रा॑मन्न्⁠॥ अ॒न्व॒हं जु॑होति⁠। अ॒न्व॒हमे॒व दी॒ख्‍षामव॑रुन्धे⁠॥ त्रीणि॑ वैश्वदे॒वानि॑ जुहोति⁠। च॒त्वार्यौ᳚द्ग्रह॒णानि॑⁠। स॒प्त संप॑द्यन्ते⁠। स॒प्त वै शी॑रष॒ण्याः᳚ प्रा॒णाः⁠। प्रा॒णा दी॒ख्‍षा⁠। प्रा॒णैरे॒व प्रा॒णान्दी॒ख्‍षामव॑रुन्धे⁠ ॥ [३८] (१०) एक॑विꣳशतिव्ँवैश्वदे॒वानि॑ जुहोति⁠। एक॑विꣳशति॒र्वै दे॑वलो॒काः⁠। द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑⁠। त्रय॑ इ॒मे लो॒काः⁠। अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒शः⁠॥ ए॒ष सु॑व॒र्गो लो॒कः⁠। तद्दैव्यं॑ ख्‍ष॒त्त्रम्⁠। सा श्रीः⁠। तद्ब्र॒द्ध्नस्य॑ वि॒ष्टप᳚म्⁠। तथ्स्वारा᳚ज्यमुच्यते⁠ ॥ [३९] (१०) त्रि॒ꣳ॒शत॑मौद्ग्रह॒णानि॑ जुहोति⁠। त्रि॒ꣳ॒शद॑ख्‍षरा वि॒राट्⁠। अन्न॑व्ँवि॒राट्⁠। वि॒राजै॒वान्नाद्य॒मव॑रुन्धे⁠॥ त्रे॒धा वि॒भज्य॑ दे॒वतां᳚ जुहोति⁠। त्र्या॑वृतो॒ वै दे॒वाः⁠। त्र्या॑वृत इ॒मे लो॒काः⁠। ए॒षाल्ँलो॒काना॒माप्त्यै᳚⁠। ए॒षाल्ँलो॒कानां॒ क्लृप्त्यै᳚⁠॥ अप॒ वा ए॒तस्मा᳚त्प्रा॒णाः क्रा॑मन्ति⁠ ॥ [४०] (१०) यो दी॒ख्‍षाम॑तिरे॒चय॑ति⁠। स॒प्ता॒हं प्रच॑रन्ति⁠। स॒प्त वै शी॑र्‌ष॒ण्याः᳚ प्रा॒णाः⁠। प्रा॒णा दी॒ख्‍षा⁠। प्रा॒णैरे॒व प्रा॒णान्दी॒ख्‍षामव॑रुन्धे⁠॥ पू॒र्णा॒हु॒तिमु॑त्त॒मां जु॑होति⁠। सर्व॒व्ँवै पू᳚र्णाहु॒तिः⁠। सर्व॑मे॒वाप्नो॑ति⁠। अथो॑ इ॒यव्ँवै पू᳚र्णाहु॒तिः⁠। अ॒स्यामे॒व प्रति॑तिष्ठति⁠ ॥ [४१] (१०) (रु॒न्धे॒ प्रा॒णान् दी॒ख्‍षामव॑रुन्ध उच्यते क्रामन्ति तिष्ठति) ॥१०॥
वैश्वदेवहोममन्त्रव्याख्यानम्
प्रजाप॑तिरश्वमे॒धम॑सृजत⁠। तꣳ सृ॒ष्टं न किञ्च॒नोद॑यच्छत्⁠। तव्ँवै᳚श्वदे॒वान्ये॒वोद॑यच्छन्न्⁠। यद्वै᳚श्वदे॒वानि॑ जु॒होति॑⁠। य॒ज्ञस्योद्य॑त्यै⁠॥ स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहा᳚⁠। स्वाहाऽऽधी॑तं॒ मन॑से॒ स्वाहा᳚⁠। स्वाहा॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा᳚⁠। काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहेति॑ प्राजाप॒त्ये मुख्ये॑ भवतः⁠। प्र॒जाप॑तिमुखाभिरे॒वैनं॑ दे॒वता॑भि॒रुद्य॑च्छते⁠ ॥ [४२] (१०) अदि॑त्यै॒ स्वाहाऽदि॑त्यै म॒ह्यै᳚ स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहेत्या॑ह⁠। इ॒यव्ँवा अदि॑तिः⁠। अ॒स्या ए॒वैनं॑ प्रति॒ष्ठायोद्य॑च्छते⁠॥ सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै᳚ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहेत्या॑ह⁠। वाग्वै सर॑स्वती⁠। वा॒चैवैन॒मुद्य॑च्छते⁠॥ पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहेत्या॑ह⁠। प॒शवो॒ वै पू॒षा⁠। प॒शुभि॑रे॒वैन॒मुद्य॑च्छते⁠॥ त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्र॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहेत्या॑ह⁠। त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नाना॑ꣳ रूप॒कृत्⁠। रू॒पमे॒व प॒शुषु॑ दधाति⁠। अथो॑ रू॒पैरे॒वैन॒मुद्य॑च्छते⁠॥ विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहेत्या॑ह⁠। य॒ज्ञो वै विष्णुः॑⁠। य॒ज्ञायै॒वैन॒मुद्य॑च्छते⁠॥ पू॒र्णा॒हु॒तिमु॑त्त॒मां जु॑होति⁠। प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑⁠ ॥ [४३] (१८) (य॒च्छ॒ते॒ पु॒रु॒रूपा॑य॒ स्वाहेत्या॑हा॒ष्टौ च॑) ॥११॥
अश्वसंचरणवथ्सरे प्रतिदिनं देवयजनदेशे कर्तव्यमिष्टित्रयमभिधीयते
सा॒वि॒त्रम॒ष्टक॑पालं प्रा॒तर्निर्व॑पति⁠। अ॒ष्टाख्‍ष॑रा गाय॒त्री⁠। गा॒य॒त्रं प्रा॑तस्सव॒नम्⁠। प्रा॒त॒स्स॒व॒ना दे॒वैनं॑ गायत्रि॒या॑ ००७आ;छन्द॒सोऽधि॒ निर्मि॑मीते⁠। अथो᳚ प्रातस्सव॒नमे॒व तेना᳚प्नोति⁠। गा॒य॒त्रीं छन्दः॑⁠॥ स॒वि॒त्रे प्र॑सवि॒त्र एका॑दशकपालं म॒द्ध्यन्दि॑ने⁠। एका॑दशाख्‍षरा त्रि॒ष्टुप्⁠। त्रैष्टु॑भं॒ माद्ध्य॑न्दिन॒ꣳ॒ सव॑नम्⁠। माद्ध्य॑न्दिनादे॒वैन॒ꣳ॒ सव॑नात्‌त्रि॒ष्टुभः॒छन्द॒सोऽधि॒ निर्मि॑मीते⁠ ॥ [४४] (१०) अथो॒ माद्ध्य॑न्दिनमे॒व सव॑नं॒ तेना᳚प्नोति⁠। त्रि॒ष्टुभं॒ छन्दः॑⁠॥ स॒वि॒त्र आ॑सवि॒त्रे द्वाद॑शकपालमपरा॒ह्णे⁠। द्वाद॑शाख्‍षरा॒ जग॑ती⁠। जाग॑तं तृतीय सव॒नम्⁠। तृ॒ती॒य॒ स॒व॒नादे॒वैनं॒ जग॑त्या॒॑ ००७आ;छन्द॒सोऽधि॒ निर्मि॑मीते⁠। अथो॑ तृतीय सव॒नमे॒व तेना᳚प्नोति⁠। जग॑तीं॒ छन्दः॑⁠॥ ई॒श्व॒रो वा अश्वः॒ प्रमु॑क्तः॒ परां᳚ परा॒वतं॒ गन्तोः᳚⁠। इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहेति॒ चत॑स्र॒ आहु॑तीर्जुहोति⁠ ॥ [४५] (१०) चत॑स्रो॒ दिशः॑⁠। दि॒ग्भिरे॒वैनं॒ परि॑गृह्णाति⁠॥ आश्व॑त्थो व्र॒जो भ॑वति⁠। प्र॒जाप॑तिर्दे॒वेभ्यो॒ निला॑यत⁠। अश्वो॑ रू॒पं कृ॒त्वा⁠। सो᳚ऽश्व॒त्थे स॑व्ँवथ्स॒रम॑तिष्ठत्⁠। तद॑श्व॒त्थस्या᳚श्वत्थ॒त्वम्⁠। यदाश्व॑त्थो व्र॒जो भव॑ति⁠। स्व ए॒वैन॒य्ँयोनौ॒ प्रति॑ष्ठापयति⁠ ॥ [४६] (९) (त्रि॒ष्टुभ॒॑ ००७आ;छन्द॒सोऽधि॒ निर्मि॑मीते जुहोति॒ +नव॑ च) ॥१२॥
संवथ्सराद्‌र्ध्वमुख्यस्याग्रेरूपस्थानम्
आ ब्र॑ह्मन् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒मित्या॑ह⁠। ब्रा॒ह्म॒ण ए॒व ब्र॑ह्मवर्च॒सं दधाति⁠। तस्मा᳚त्पु॒रा ब्रा᳚ह्म॒णो ब्र॑ह्मवर्च॒स्य॑ जायत⁠॥ आऽस्मिन् रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो जा॑यता॒मित्या॑ह⁠। रा॒ज॒न्य॑ ए॒व शौ॒र्यं म॑हि॒मानं॑ दधाति⁠। तस्मा᳚त्पु॒रा रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो॑ऽजायत⁠॥ दोग्ध्री॑ धे॒नुरित्या॑ह⁠। धे॒न्वामे॒व पयो॑ दधाति⁠। तस्मा᳚त्पु॒रा दोग्ध्री॑ धे॒नुर॑जायत⁠। वोढा॑ऽन॒ड्वानित्या॑ह⁠ ॥ [४७] (१०) अ॒न॒डुह्ये॒व वी॒र्यं॑ दधाति⁠। तस्मा᳚त्पु॒रा वोढा॑ऽन॒ड्वान॑जायत⁠। आ॒शुः सप्ति॒रित्या॑ह⁠। अश्व॑ ए॒व ज॒वं द॑धाति⁠। तस्मा᳚त्पु॒राऽऽशुरश्वो॑ऽजायत⁠। पुर॑धिं॒र्योषेत्या॑ह⁠। यो॒षित्ये॒व रू॒पं द॑धाति⁠। तस्मा॒थ्स्त्री यु॑व॒तिः प्रि॒या भावु॑का⁠॥ जि॒ष्णू र॑थे॒ष्ठा इत्या॑ह⁠। आ ह॒ वै तत्र॑ जि॒ष्णू र॑थे॒ष्ठा जा॑यते⁠ ॥ [४८] (१०) यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ स॒भेयो॒ युवेत्या॑ह⁠। यो वै पू᳚र्ववय॒सी⁠। स स॒भेयो॒ युवा᳚⁠। तस्मा॒द्युवा॒ पुमा᳚न् प्रि॒यो भावु॑कः⁠॥ आऽस्य यज॑मानस्य वी॒रो जा॑यता॒मित्या॑ह⁠। आ ह॒ वै तत्र॒ यज॑मानस्य वी॒रो जा॑यते⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ नि॒का॒मेनि॑कामे नः प॒र्जन्यो॑ वर्‌ष॒त्वित्या॑ह⁠। नि॒का॒मेनि॑कामे ह॒ वै तत्र॑ प॒र्जन्यो॑ वर्‌षति⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्ता॒मित्या॑ह⁠। फ॒लिन्यो॑ ह॒ वै तत्रौष॑धयः पच्यन्ते⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠। यो॒ग॒ख्‍षे॒मो नः॑ कल्पता॒मित्या॑ह⁠। कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगख्‍षे॒मः⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠ ॥ [४९] (१७) (अ॒न॒ड्वानित्या॑ह जायते वर्‌षति स॒प्त च॑) ॥१३॥
अन्नहोमाः. त्रिरात्ररूपस्याश्वमेधस्य प्रथमदिनरात्रौ
प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑शत्⁠। स आ॒त्मन्न॑श्वमे॒धम॑धत्त⁠। तं दे॒वा अ॑ब्रुवन्न्⁠। ए॒ष वाव य॒ज्ञः⁠। यद॑श्वमे॒धः⁠। अप्ये॒व नोऽत्रा॒स्त्विति॑⁠। तेभ्य॑ ए॒तान॑न्नहो॒मान् प्राय॑च्छत्⁠। तान॑जुहोत्⁠। तैर्वै स दे॒वान॑ प्रीणात्⁠। यद॑न्नहो॒माञ्जु॒होति॑⁠ ॥ [५०] (१०) दे॒वाने॒व तैर्यज॑मानः प्रीणाति⁠॥ आज्ये॑न जुहोति⁠। अ॒ग्नेर्वा ए॒तद्रू॒पम्⁠। यदाज्य᳚म्⁠। यदाज्ये॑न जु॒होति॑⁠। अ॒ग्निमे॒व तत्प्री॑णाति⁠॥ मधु॑ना जुहोति⁠। म॒ह॒त्यै वा ए॒तद्दे॒वता॑यै रू॒पम्⁠। यन्मधु॑⁠। यन्मधु॑ना जु॒होति॑⁠ ॥ [५१] (१०) म॒ह॒तीमे॒व तद्दे॒वतां᳚ प्रीणाति⁠। त॒ण्डु॒लैर्जु॑होति⁠। वसू॑ना॒व्ँवा ए॒तद्रू॒पम्⁠। यत्त॑ण्डु॒लाः⁠। यत्त॑ण्डु॒लैर्जु॒होति॑⁠। वसू॑ने॒व तत्प्री॑णाति⁠। पृथु॑कैर्जु॒होति॑ (र्जुहोति)⁠। रु॒द्राणा॒व्ँवा ए॒तद्रू॒पम्⁠। यत्पृथु॑काः⁠। यत्पृथु॑कैर्जु॒होति॑⁠ ॥ [५२] (१०) रु॒द्राने॒व तत्प्री॑णाति⁠। ला॒जैर्जु॑होति⁠। आ॒दि॒त्याना॒व्ँवा ए॒तद्रू॒पम्⁠। यल्ला॒जाः⁠। यल्ला॒जैर्जु॒होति॑⁠। आ॒दि॒त्याने॒व तत्प्री॑णाति⁠। क॒रम्बै᳚र्जुहोति⁠। विश्वे॑षा॒व्ँवा ए॒तद्दे॒वाना॑ꣳ रू॒पम्⁠। यत्क॒रम्बाः᳚⁠। यत्क॒रम्बै᳚र्जु॒होति॑⁠ ॥ [५३] (१०) विश्वा॑ने॒व तद्दे॒वान् प्री॑णाति⁠। धा॒नाभि॑र्जुहोति⁠। नख्‍ष॑त्राणा॒व्ँवा ए॒तद्रू॒पम्⁠। यद्धा॒नाः⁠। यद्धा॒नाभि॑र्जु॒होति॑⁠। नख्‍ष॑त्राण्ये॒व तत्प्री॑णाति⁠। सक्तु॑भिर्जुहोति⁠। प्र॒जाप॑ते॒र्वा ए॒तद्रू॒पम्⁠। यथ्सक्त॑वः⁠। यथ्सक्तु॑भिर्जु॒होति॑⁠ ॥ [५४] (१०) प्र॒जाप॑तिमे॒व तत्प्री॑णाति⁠। म॒सूस्यै᳚र्जुहोति⁠। सर्वा॑सा॒व्ँवा ए॒तद्दे॒वता॑नाꣳ रू॒पम्⁠। यन्म॒सूस्या॑नि⁠। यन्म॒सूस्यै᳚र्जु॒होति॑⁠। सर्वा॑ ए॒व तद्दे॒वताः᳚ प्रीणाति⁠। प्रि॒य॒ङ्गु॒त॒ण्डु॒लैर्जु॑होति⁠। प्रि॒याङ्गा॑ ह॒ वै नामै॒ते⁠। ए॒तैर्वै दे॒वा अश्व॒स्याङ्गा॑नि॒ सम॑दधुः⁠। यत्प्रि॑यङ्गुतण्डु॒लैर्जु॒होति॑⁠। अश्व॑स्यै॒वाङ्गा॑नि॒ संद॑धाति⁠॥ दशान्ना॑नि जुहोति⁠। दशा᳚ख्‍षरा वि॒राट्⁠। वि॒राट्कृ॒थ्स्नस्या॒न्नाद्य॒स्याव॑रुद्ध्यै⁠ ॥ [५५] (१४) (अ॒न्न॒हो॒मानाज्ये॑ना॒ग्नेर्मधु॑ना तण्डु॒लैः पृथु॑कैर्ला॒जैः क॒रम्बै᳚द्‌र्धा॒नाभिः॒ सक्तु॑भिर्म॒सूस्यैः᳚ प्रियङ्गुतण्डु॒लैर् दशान्ना॑नि॒ द्वाद॑श) ॥१४॥
तत्प्रकारविशेष
प्र॒जाप॑तिरश्वमे॒धम॑सृजत⁠। तꣳ सृ॒ष्टꣳ रख्‍षा॑ꣴस्य जिघाꣳसन्न्⁠। स ए॒तान् प्र॒जाप॑तिर्नक्तꣳ हो॒मान॑पश्यत्⁠। तान॑ जुहोत्⁠। तैर्वै स य॒ज्ञाद् रख्‍षा॒ꣴ॒स्यपा॑हन्न्⁠। यन्न॑क्तꣳ हो॒माञ्जु॒होति॑⁠। य॒ज्ञादे॒व तैर्यज॑मानो॒ रख्‍षा॒ꣴ॒स्यप॑हन्ति⁠॥ आज्ये॑न जुहोति⁠। वज्रो॒ वा आज्य᳚म्⁠। वज्रे॑णै॒व य॒ज्ञाद् रख्‍षा॒ꣴ॒स्यप॑हन्ति⁠ ॥ [५६] (१०) आज्य॑स्य प्रति॒पदं॑ करोति⁠। प्रा॒णो वा आज्य᳚म्⁠। मु॒ख॒त ए॒वास्य॑ प्रा॒णं द॑धाति⁠॥ अ॒न्न॒हो॒माञ्जु॑होति⁠। शरी॑रवदे॒वाव॑रुन्धे⁠॥ व्य॒त्यासं॑ जुहोति⁠। उ॒भय॒स्या व॑रुद्ध्यै⁠॥ नक्तं॑ जुहोति⁠। रख्‍ष॑सा॒मप॑हत्यै⁠॥ आज्ये॑नान् त॒तो जु॑होति⁠ ॥ [५७] (१०) प्रा॒णो वा आज्य᳚म्⁠। उ॒भ॒यत॑ ए॒वास्य॑ प्रा॒णं द॑धाति⁠। पु॒रस्ता᳚च्चो॒परि॑ष्टाच्च⁠॥ एक॑स्मै॒ स्वाहेत्या॑ह⁠। अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति⁠। द्वाभ्या॒ꣴ॒ स्वाहेत्या॑ह⁠। अ॒मुष्मि॑न्ने॒व लो॒के प्रति॑तिष्ठति⁠। उ॒भयो॑रे॒व लो॒कयाः॒ प्रति॑तिष्ठति⁠। अ॒स्मिꣴश्चा॒मुष्मि॑ꣴश्च⁠॥ श॒ताय॒ स्वाहेत्या॑ह⁠। श॒तायु॒र्वै पुरु॑षः श॒तवी᳚र्यः⁠। आयु॑रे॒व वी॒र्य॑मव॑रुन्धे⁠। स॒हस्रा॑य॒ स्वाहेत्या॑ह⁠। आयु॒र्वै स॒हस्र᳚म्⁠। आयु॑रे॒वाव॑रुन्धे⁠॥ सर्व॑स्मै॒ स्वाहेत्या॑ह⁠। अप॑रिमितमे॒वा व॑रुन्धे⁠ ॥ [५८] (१७) (ए॒व य॒ज्ञद् रख्‍षा॒ꣴ॒स्यप॑हन् त्यन्त॒तो जु॑होति श॒ताय॒ स्वाहेत्या॑ह सप्त च॑) ॥१५॥
विवरणमेतयोः
प्र॒जाप॑ति॒व्ँवा ए॒ष ई᳚फ्स॒तीत्या॑हुः⁠। यो᳚ऽश्वमे॒धेन॒ यज॑त॒ इति॑⁠। अथो॑ आहुः⁠। सर्वा॑णि भू॒तानीति॑⁠॥ एक॑स्मै॒ स्वाहेत्या॑ह⁠। प्र॒जाप॑ति॒र्वा एकः॑⁠। तमे॒वाप्नो॑ति⁠॥ एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒ꣴ॒ स्वाहेत्य॑भिपू॒र्वमाहु॑तीर्जुहोति⁠। अ॒भि॒पू॒र्वमे॒व स॑व॒र्गल्ँलो॒कमे॑ति⁠॥ ए॒को॒त्त॒रं जु॑होति⁠ ॥ [५९] (१०) ए॒क॒वदे॒व सु॑व॒र्गल्ँलो॒कमे॑ति⁠॥ सन्त॑तं जुहोति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै⁠॥ श॒ताय॒ स्वाहेत्या॑ह⁠। श॒तायु॒र्वै पुरु॑षः श॒तवी᳚र्यः⁠। आयु॑रे॒व वी॒र्य॑मव॑रुन्धे⁠। स॒हस्रा॑य॒ स्वाहेत्या॑ह⁠। आयु॒र्वै स॒हस्र᳚म्⁠। आयु॑रे॒वा व॑रुन्धे⁠॥ अ॒युता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा᳚ प्र॒युता॑य॒ स्वाहेत्या॑ह⁠ ॥ [६०] (१०) त्रय॑ इ॒मे लो॒काः⁠। इ॒माने॒व लो॒कानव॑रुन्धे⁠॥ अर्बु॑दाय॒ स्वाहेत्या॑ह⁠। वाग्वा अर्बु॑दम्⁠। वाच॑मे॒वा व॑रुन्धे⁠॥ न्य॑र्बुदाय॒ स्वाहेत्या॑ह⁠। यो वै वा॒चो भू॒मा⁠। तन्न्य॑र्बुदम्⁠। वा॒च ए॒व भू॒मान॒मव॑रुन्धे⁠॥ स॒मु॒द्राय॒ स्वाहेत्या॑ह⁠ ॥ [६१] (१०) स॒मु॒द्रमे॒वाप्नो॑ति⁠। मद्ध्या॑य॒ स्वाहेत्या॑ह⁠। मद्ध्य॑मे॒वाप्नो॑ति⁠। अन्ता॑य॒ स्वाहेत्या॑ह⁠। अन्त॑मे॒वाप्नो॑ति⁠। प॒रा॒द्‌र्धाय॒ स्वाहेत्या॑ह⁠। प॒रा॒द्‌र्धमे॒वाप्नो॑ति⁠॥ उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्या॑ह⁠। रात्रि॒र्वा उ॒षाः⁠। अह॒र्व्यु॑ष्टिः⁠। अ॒हो॒रा॒त्रे ए॒वाव॑रुन्धे⁠। अथो॑ अहोरा॒त्रयो॑रे॒व प्रति॑तिष्ठति⁠॥ ता यदु॒भयी॒र्दिवा॑ वा॒ नक्त॑व्ँवा जुहु॒यात्⁠। अ॒हो॒रा॒त्रे मो॑हयेत्⁠। उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहो᳚द्य॒ते स्वाहेत्यनु॑दिते जुहोति⁠। उदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहेत्युदि॑ते जुहोति⁠। अ॒हो॒रा॒त्रयो॒रव्य॑तिमोहाय⁠ ॥ [६२] (१७) (ए॒को॒त्त॒रम् जु॑होति प्र॒युता॑य॒ स्वाहेत्या॑ह समु॒द्राय॒ स्वाहेत्या॒हाह॒र् व्यु॑ष्टिः स॒प्त च॑) ॥१६॥
सप्तमकाण्डगतान्नहोमानुवाका व्याख्यायन्ते
वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्रेत्य॑श्वना॒मानि॑ जुहोति⁠। उ॒भयो॑रे॒वैन॑ल्ँलो॒कयो᳚र्नाम॒धेयं॑ गमयति⁠॥ आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहेत्यु॑द्द्रा॒वाञ्जु॑होति⁠। सर्व॑मे॒वैन॒मस्क॑न्नꣳ सुव॒र्गल्ँलो॒कं ग॑मयति⁠॥ अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वहा॒माञ्जु॑होति⁠। पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑क्रामति⁠॥ पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑ख्‍षाय॒ स्वाहेत्या॑ह⁠। य॒था॒ य॒जुरे॒वैतत्⁠॥ अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वदी॒ख्‍षा जु॑होति⁠। पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑क्रामति⁠ ॥ [६३] (१०) पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑ख्‍षाय॒ स्वाहेत्ये॑कवि॒ꣳ॒शिनीं᳚ दी॒ख्‍षां जु॑होति⁠। एक॑विꣳशति॒र्वै दे॑वलो॒काः⁠। द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑⁠। त्रय॑ इ॒मे लो॒काः⁠। अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒शः⁠। ए॒ष सु॑व॒र्गो लो॒कः⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠॥ भुवो॑ दे॒वानां॒ कर्म॒णेत्यृ॑तुदी॒ख्‍षा जु॑होति⁠। ऋ॒तूने॒वास्मै॑ कल्पयति⁠॥ अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहेति॑ जुहो॒त्यन॑न्तरित्यै⁠ ॥ [६४] (१०) अ॒र्वाङ्य॒ज्ञः संक्रा॑म॒त्वित्याप्ती᳚र्जुहोति⁠। सु॒व॒र्गस्य॑ लो॒कस्याप्त्यै᳚⁠॥ भू॒तं भव्यं॑ भवि॒ष्यदिति॒ पर्या᳚प्तीर्जुहोति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ पर्या᳚प्त्यै⁠॥ आ मे॑ गृ॒हा भ॑व॒न्त्वित्या॒भूर्जु॑होति⁠। सु॒व॒र्गस्य॑ लो॒कस्या भू᳚त्यै⁠॥ अ॒ग्निना॒ तपोऽन्व॑भव॒दित्य॑नु॒भूर्जु॑होति⁠। सु॒व॒र्गस्य॑ लो॒कस्यानु॑भूत्यै⁠॥ स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहेति॒ सम॑स्तानि वैश्वदे॒वानि॑ जुहोति⁠। सम॑स्तमे॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒मति॑क्रामति⁠ ॥ [६५] (१०) द॒द्भ्यः स्वाहा॒ हनू᳚भ्या॒ꣴ॒ स्वाहेत्य॑ङ्गहो॒माञ्जु॑होति⁠। अङ्गे॑ अङ्गे॒ वै पुरु॑षस्य पा॒प्मोप॑श्लिष्टः⁠। अङ्गा॑दङ्गा दे॒वैनं॑ पा॒प्मन॒स्तेन॑ मुञ्चति⁠॥ अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा᳚ श्वे॒ताय॒ स्वाहेत्य॑ श्वरू॒पाणि॑ जुहोति⁠। रू॒पैरे॒वैन॒ꣳ॒ सम॑द्‌र्धयति⁠॥ ओष॑धीभ्यः॒ स्वाहा॒ मूले᳚भ्यः॒ स्वाहेत्यो॑षधि हो॒माञ्जु॑होति⁠। द्व॒य्यो वा ओष॑धयः⁠। पुष्पे᳚भ्यो॒ऽन्याः फलं॑ गृ॒ह्णन्ति॑⁠। मूले᳚भ्यो॒ऽन्याः⁠। ता ए॒वोभयी॒रव॑रुन्धे⁠ ॥ [६६] (१०) वन॒स्पति॑भ्यः॒ स्वाहेति॑ वनस्पतिहो॒माञ्जु॑होति⁠। आ॒र॒ण्यस्या॒न्नाद्य॒स्याव॑रुद्ध्यै⁠॥ मे॒षस्त्वा॑ पच॒तैर॑व॒त्वित्यपा᳚व्यानि जुहोति⁠। प्रा॒णा वै दे॒वा अपा᳚व्याः⁠। प्रा॒णाने॒वाव॑रुन्धे⁠॥ कूप्या᳚भ्यः॒ स्वाहा॒ऽद्भ्यः स्वाहेत्य॒पाꣳ होमा᳚ञ्जुहोति⁠। अ॒फ्सु वा आपः॑⁠। अन्न॒व्ँवा आपः॑⁠। अ॒द्भ्यो वा अन्नं॑ जायते⁠। यदे॒वाद्भ्योऽन्नं॒ जाय॑ते⁠। तदव॑रुन्धे⁠ ॥ [६७] (११) (पू॒र्व॒दी॒ख्‍षा जु॑होति॒ पूर्व॑ ए॒व द्वि॒षन्त॒म् भ्रातृ॑व्य॒मति॑क्राम॒ त्यन॑न्तरित्यै क्रामति रुन्धे॒ जाय॑त॒ एकं॑ च) ॥१७॥
सप्तमकाण्डगतान्नहोमानुवाका व्याख्यायन्ते
अम्भा॑ꣳसि जुहोति⁠। अ॒यव्ँवै लो॒कोऽम्भा॑ꣳसि⁠। तस्य॒ वस॒वोऽधि॑पतयः⁠। अ॒ग्निर्ज्योतिः॑⁠। यदम्भा॑ꣳसि जु॒होति॑⁠। इ॒ममे॒व लो॒कमव॑रुन्धे⁠। वसू॑ना॒ꣳ॒ सायु॑ज्यं गच्छति⁠। अ॒ग्निं ज्योति॒रव॑रुन्धे⁠॥ नभा॑ꣳसि जुहोति⁠। अ॒न्तरि॑ख्‍षव्ँवै नभा॑ꣳसि⁠ ॥ [६८] (१०) तस्य॑ रु॒द्रा अधि॑पतयः⁠। वा॒युर्ज्योतिः॑⁠। यन्नभा॑ꣳसि जु॒होति॑⁠। अ॒न्तरि॑ख्‍षमे॒वाव॑रुन्धे⁠। रु॒द्राणा॒ꣳ॒ सायु॑ज्यं गच्छति⁠। वा॒युं ज्योति॒रव॑रुन्धे⁠। महा॑ꣳसि जुहोति⁠। अ॒सौ वै लो॒को महा॑ꣳसि⁠। तस्या॑दि॒त्या अधि॑पतयः⁠। सूर्यो॒ ज्योतिः॑⁠ ॥ [६९] (१०) यन्महा॑ꣳसि जु॒होति॑⁠। अ॒मुमे॒व लो॒कमव॑रुन्धे⁠। आ॒दि॒त्याना॒ꣳ॒ सायु॑ज्यं गच्छति⁠। सूर्यं॒ ज्योति॒रव॑रुन्धे⁠॥ नमो॒ राज्ञ॒ नमो॒ वरु॑णा॒येति॑ य॒व्यानि॑ जुहोति⁠। अ॒न्नाद्य॒स्याव॑रुद्ध्यै⁠॥ म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा इति॑ ग॒व्यानि॑ जुहोति⁠। प॒शू॒नामव॑रुद्ध्यै⁠॥ प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहेति॑ सन्ततिहो॒माञ्जु॑होति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै⁠ ॥ [७०] (१०) सि॒ताय॒ स्वाहाऽसि॑ताय॒ स्वाहेति॒ प्रमु॑क्तीर्जुहोति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रमु॑क्त्यै⁠॥ पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑ख्‍षाय॒ स्वाहेत्या॑ह⁠। य॒था॒ य॒जुरे॒वैतत्⁠॥ द॒त्त्वते॒ स्वाहा॑ऽद॒न्तका॑य॒ स्वाहेति॑ शरीरहो॒माञ्जु॑होति⁠। पि॒तृ॒लो॒कमे॒व तैर्यज॑मा॒नोऽव॑रुन्धे⁠॥ कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्विति॑ परि॒धीन्‌यु॑नक्ति⁠। इ॒मे वै लो॒काः प॑रि॒धयः॑⁠। इ॒माने॒वास्मै॑ लो॒कान्‌यु॑नक्ति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠ ॥ [७१] (१०) यः प्रा॑ण॒तो य आ᳚त्म॒दा इति॑ महि॒मानौ॑ जुहोति⁠। सु॒व॒र्गो वै लो॒को महः॑⁠। सु॒व॒र्गमे॒व ताभ्या᳚ल्ँलो॒कय्ँयज॑मा॒नोऽव॑रुन्धे⁠॥ आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवच॒र्सी जा॑यता॒मिति॒ सम॑स्तानि ब्रह्मवर्च॒सानि॑ जुहोति⁠। ब्र॒ह्म॒व॒र्च॒समे॒व तैर्यज॑मा॒नोऽव॑रुन्धे⁠॥ जज्ञि॒ बीज॒मिति॑ जुहो॒त्यन॑न्तरित्यै⁠॥ अ॒ग्नये॒ सम॑नमत्पृथि॒व्यै समन॑म॒दिति॑ सन्नति हो॒माञ्जु॑होति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ संन॑त्यै⁠॥ भू॒ताय॒ स्वाहा॑ भविष्य॒ते स्वाहेति॑ भूताभ॒व्यौ होमौ॑ जुहोति⁠। अ॒यव्ँवै लो॒को भू॒तम्⁠ ॥ [७२] (१०) असौ भ॑वि॒ष्यत्⁠। अ॒नयो॑रे॒व लो॒कयोः॒ प्रति॑तिष्ठति⁠। सर्व॒स्याप्त्यै᳚⁠। सर्व॒स्याव॑रुद्ध्यै⁠॥ यदक्र॑न्दः प्रथ॒मं जाय॑मान॒ इत्य॑श्वस्तो॒मीयं॑ जुहोति⁠। सर्व॒स्याप्त्यै᳚⁠। सर्व॑स्य॒ जित्यै᳚⁠॥ सर्व॑मे॒व तेना᳚प्नोति⁠। सर्वं॑ जयति⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠ ॥ [७३] (१०) य उ॑ चैनमे॒वव्ँवेद॑⁠॥ य॒ज्ञꣳ रख्‍षा॑ꣴस्य जिघाꣳसन्न्⁠। स ए॒तान् प्र॒जाप॑तिर्नक्तꣳ हो॒मान॑पश्यत्⁠। तान॑जुहोत्⁠। तैर्वै स य॒ज्ञाद्रख्‍षा॒ꣴ॒स्यपा॑हन्न्⁠। यन्न॑क्तꣳ हो॒माञ्जु॒होति॑⁠। य॒ज्ञादे॒व तैर्यज॑मानो॒ रख्‍षा॒ꣴ॒स्यप॑हन्ति⁠॥ उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्य॑न्त॒तो जु॑होति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠ ॥ [७४] (९) (वै नभा॑ꣳसि॒ सूर्यो॒ ज्योतिः॒ सन्त॑त्यै॒ सम॑ष्ट्यै भु॒तम् यज॑ते॒ +नव॑ च) ॥१८॥
औपसथ्यदिने यूपप्रयोगाः
ए॒क॒यू॒पो वै॑काद॒शिनी॑ वा⁠। अ॒न्येषा᳚य्ँय॒ज्ञाना॒य्ँयूपा॑ भवन्ति⁠। ए॒क॒वि॒शिन्य॑श्वमे॒धस्य॑⁠। सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै⁠॥ बै॒ल॒वो वा॑ खादि॒रो वा॑ पाला॒शो वा᳚⁠। अ॒न्येषा᳚य्ँयज्ञक्रतू॒नाय्ँयूपा॑ भवन्ति⁠। राज्जु॑दाल॒ एक॑विꣳशत्यरत्निरश्वमे॒धस्य॑⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠॥ नान्येषां᳚ पशू॒नां ते॑ज॒न्या अ॑व॒द्यन्ति॑⁠। अव॑द्य॒न्त्यश्व॑स्य⁠ ॥ [७५] (१०) पा॒प्मा वै ते॑ज॒नी⁠। पा॒प्मनोऽप॑हत्यै⁠॥ प्ल॒ख्‍ष॒शा॒खाया॑म॒न्येषां᳚ पशू॒नाम॑व॒द्यन्ति॑⁠। वे॒त॒स॒शा॒खाया॒मश्व॑स्य⁠। अ॒फ्सुयो॑नि॒र्वा अश्वः॑⁠। अ॒फ्सु॒जो वे॑त॒सः⁠। स्व ए॒वास्य॒ योना॒वव॑द्यति⁠॥ यूपे॑षु ग्रा॒म्यान् प॒शून्नि॑यु॒ञ्जन्ति॑⁠। आ॒रो॒केष्वा॑र॒ण्यान्धा॑रयन्ति⁠। प॒शू॒नाव्ँव्यावृ॑त्त्यै⁠॥ आ ग्रा॒म्यान् प॒शून्लभ॑न्ते⁠। प्रार॒ण्यान्‌थ्सृ॑जन्ति⁠। पा॒प्मनोऽप॑हत्यै⁠ ॥ [७६] (१३) (अश्व॑स्य॒ व्यावृ॑त्त्य॒ त्रीणि॑ च) ॥१९॥
यूपानां स्थानादयः
राज्जु॑दालमग्नि॒ष्ठं मि॑नोति⁠। भ्रू॒ण॒ह॒त्याया॒ अप॑हत्यै⁠॥ पौतु॑द्रवाव॒भितो॑ भवतः⁠। पुण्य॑स्य ग॒न्धस्याव॑रुद्ध्यै⁠। भ्रू॒ण॒ह॒त्यामे॒वास्मा॑दप॒हत्य॑⁠। पुण्ये॑न ग॒न्धेनो॑भ॒यतः॒ परि॑गृह्णाति⁠॥ षड्बै॒ल्॒‌वा भ॑वन्ति⁠। ब्र॒ह्म॒व॒र्च॒सस्याव॑रुद्ध्यै⁠॥ षट्खा॑दि॒राः⁠। तेज॒सोऽव॑रुद्ध्यै⁠ ॥ [७७] (१०) षट्पा॑ला॒शाः⁠। सो॒म॒पी॒थस्याव॑रुद्ध्यै⁠॥ एक॑विꣳशतिः॒ संप॑द्यन्ते⁠। एक॑विꣳशति॒र्वै दे॑वलो॒काः⁠। द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑⁠। त्रय॑ इ॒मे लो॒काः⁠। अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒शः⁠। ए॒ष सु॑व॒र्गो लो॒कः⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠॥ श॒तं प॒शवो॑ भवन्ति⁠ ॥ [७८] (१०) श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः⁠। आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति⁠॥ सर्व॒व्ँवा अ॑श्वमे॒द्ध्याप्नो॑ति⁠। अप॑रिमिता भवन्ति⁠। अप॑रिमित॒स्याव॑रुद्ध्यै⁠॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। कस्मा᳚थ्स॒त्यात्⁠। द॒ख्‍षि॒ण॒तो᳚ऽन्येषां᳚ पशू॒नाम॑व॒द्यन्ति॑⁠। उ॒त्त॒र॒तोऽश्व॒स्येति॑⁠। वा॒रु॒णो वा अश्वः॑⁠ ॥ [७९] (१०) ए॒षा वै वरु॑णस्य॒ दिक्⁠। स्वाया॑मे॒वास्य॑ दि॒श्यव॑द्यति⁠। यदित॑रेषां पशू॒नाम॑व॒द्यति॑⁠। श॒त॒दे॒व॒त्यं॑ तेनाव॑रुन्धे⁠॥ चि॒ते᳚ऽग्नावधि॑वैत॒से कटेऽश्वं॑ चिनोति⁠। अ॒फ्सुयो॑नि॒र्वा अश्वः॑⁠। अ॒फ्सु॒जो वे॑त॒सः⁠। स्व ए॒वैन॒य्ँयोनौ॒ प्रति॑ष्ठापयति⁠॥ पु॒रस्ता᳚त्प्र॒त्यञ्चं॑ तूप॒रं चि॑नोति⁠। प॒श्चात्प्रा॒चीनं॑ गोमृ॒गम्⁠ ॥ [८०] (१०) प्रा॒णा॒पा॒नावे॒वास्मिन᳚ थ्स॒म्यञ्चौ॑ दधाति⁠॥ अश्वं॑ तूप॒रं गो॑मृ॒गमिति॑ सर्व॒हुत॑ ए॒ताञ्जु॑होति⁠। ए॒षाल्ँलो॒काना॑म॒भिजि॑त्यै⁠॥ आ॒त्मना॒ऽभिजु॑होति⁠। सात्मा॑नमे॒वैन॒ꣳ॒ सत॑नुं करोति⁠॥ सात्मा॒ऽमुष्मि॑ल्ँला॒के भ॑वति⁠। य ए॒वव्ँवेद॑⁠। अथो॒ वसो॑रे॒व धारां॒ तेनाव॑रुन्धे⁠॥ इ॒लु॒वर्दा॑य॒ स्वाहा॑ बलि॒वर्दा॑य॒ स्वाहेत्या॑ह⁠। स॒व्ँव॒थ्स॒रो वा इ॑लु॒वर्दः॑⁠। प॒रि॒व॒थ्स॒रो ब॑लि॒वर्दः॑⁠। स॒व्ँव॒थ्स॒रादे॒व प॑रिवथ्स॒रादायु॒र व॑रुन्धे⁠। आयु॑रे॒वास्मि॑न्दधाति⁠। तस्मा॑दश्वमेधया॒जी ज॒रसा॑ वि॒स्रसा॒ऽमुल्ँलो॒कमे॑ति⁠ ॥ [८१] (१४) (तेज॒सोऽव॑रुद्धै भव॒न् त्यश्वो॑ गोमृ॒ग मि॑लु॒वर्द॑ श्च॒त्वारि॑ च) ॥२०॥
चेतव्याग्नयादेर्विशेषः
ए॒क॒वि॒ꣳ॒शो᳚ऽग्निर्भ॑वति⁠। ए॒क॒वि॒ꣳ॒शः स्तोमः॑⁠। एक॑विꣳशति॒र्यूपाः᳚⁠॥ यथा॒ वा अश्वा॑ वर्‌र्ष॒भा वा॒ वृषा॑णः सꣴस्फु॒रेर॑न्न्⁠। ए॒वमे॒तथ्स्तोमाः॒ सꣴस्फु॑रन्ते⁠। यदे॑कवि॒ꣳ॒शाः⁠। ते यथ्स॑मृ॒च्छेर॑न्न्⁠। ह॒न्येता᳚स्य य॒ज्ञः⁠॥ द्वा॒द॒श ए॒वाग्निः स्या॒दित्या॑हुः⁠। द्वा॒द॒शः स्तोमः॑⁠ ॥ [८२] (१०) एका॑दश॒ यूपाः᳚⁠॥ यद्द्वा॑द॒शो᳚ऽग्निर्भव॑ति⁠। द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः⁠। स॒व्ँव॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑रुन्धे⁠॥ यद्दश॒ यूपा॒ भव॑न्ति⁠। दशा᳚ख्‍षरा वि॒राट्⁠। अन्न॑व्ँवि॒राट्⁠। वि॒राजै॒वान्नाद्य॒मव॑रुन्धे⁠। य ए॑काद॒शः⁠। स्तन॑ ए॒वास्यै॒ सः⁠ ॥ [८३] (१०) दु॒ह ए॒वैनां॒ तेन॑⁠॥ तदा॑हुः⁠। यद्द्वा॑द॒शो᳚ऽग्निः स्या᳚द्द्वाद॒शः स्तोम॒ एका॑दश॒ यूपाः᳚⁠। यथा॒ स्थूरि॑णा या॒यात्⁠। ता॒दृक्तत्⁠॥ ए॒क॒वि॒ꣳ॒श ए॒वाग्निः स्या॒दित्या॑हुः⁠। ए॒क॒वि॒ꣳ॒शः स्तोमः॑⁠। एक॑विꣳशति॒र्यूपाः᳚⁠। यथा॒ प्रष्टि॑भि॒र्याति॑⁠। ता॒दृगे॒व तत्⁠ ॥ [८४] (१०) यो वा अ॑श्वमे॒धे ति॒स्रः क॒कुभो॒ वेद॑⁠। क॒कुद्ध॒ राज्ञां᳚ भवति⁠। ए॒क॒वि॒ꣳ॒शो᳚ऽग्निर्भ॑वति⁠। ए॒क॒वि॒ꣳ॒शः स्तोमः॑⁠। एक॑विꣳशति॒र्यूपाः᳚⁠। ए॒ता वा अ॑श्वम॒धे ति॒स्रः क॒कुभः॑⁠। य ए॒वव्ँवेद॑⁠। क॒कुद्ध॒ राज्ञां᳚ भवति⁠॥ यो वा अ॑श्वमे॒धे त्रीणि॑ शी॒र्॒‌षाणि॒ वेद॑⁠। शिरो॑ ह॒ राज्ञां᳚ भवति⁠। ए॒क॒वि॒ꣳ॒शो᳚ऽग्निर्भ॑वति⁠। ए॒क॒वि॒ꣳ॒शः स्तोमः॑⁠। एक॑विꣳशति॒र्यूपाः᳚⁠। ए॒तानि॒ वा अ॑श्वमे॒धे त्रीणि॑ शी॒र॒षाणि॑⁠। य ए॒वव्ँवेद॑⁠। शिरो॑ ह॒ राज्ञां᳚ भवति⁠ ॥ [८५] (१६) (द्वा॒द॒शः स्तोमः॒स ए॒व तच् छिरो॑ ह॒ राज्ञां᳚ भवति॒ षट्च॑) ॥२१॥
उक्थ्याख्ये द्वितीयेऽहनि बहिष्पवमाने अश्वस्योद्रातृत्वम्
दे॒वा वा अ॑श्वमे॒धे पव॑माने⁠। सु॒व॒र्गल्ँलो॒कं न प्राजा॑नन्न्⁠। तमश्वः॒ प्राजा॑नात्⁠। यद॑श्वम॒धेऽश्वे॑न॒ मेद्ध्ये॒नोद॑ञ्चो बहिष्पवमा॒नꣳ सर्प॑न्ति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै⁠। न वै म॑नु॒ष्यः॑ सुव॒र्गं लो॒कमञ्ज॑सा वेद⁠। अश्वो॒ वै सु॑व॒र्गल्ँलो॒कमञ्ज॑सा वेद⁠॥ यदु॑द्गा॒तोद्गाये᳚त्⁠। यथाऽख्‍षे᳚त्रज्ञो॒ऽन्येन॑ प॒था प्र॑तिपा॒दये᳚त्⁠। ता॒दृक्तत्⁠ ॥ [८६] (१०) उ॒द्गा॒तार॑मप॒रुद्ध्य॑⁠। अश्व॑मुद्गी॒थाय॑ वृणीते⁠। यथा᳚ ख्‍षेत्र॒ज्ञोऽञ्ज॑सा॒ नय॑ति⁠। ए॒वमे॒वैन॒मश्वः॑ सुव॒र्गल्ँलो॒कमञ्ज॑सा नयति⁠॥ पुच्छ॑म॒न्वार॑भन्ते⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠॥ हिं क॑रोति⁠। सामै॒वाकः॑⁠। हिं क॑रोति⁠। उ॒द्गी॒थ ए॒वास्य॒ सः⁠ ॥ [८७] (१०) वड॑बा॒ उप॑ रुन्धन्ति⁠। मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै⁠। अथो॒ यथो॑पगा॒तार॑ उप॒गाय॑न्ति⁠। ता॒दृगे॒व तत्⁠॥ उद॑गासी॒दश्वो॒ मेद्ध्य॒ इत्या॑ह⁠। प्रा॒जा॒प॒त्यो वा अश्वः॑⁠। प्र॒जाप॑तिरुद्गी॒थः⁠। उ॒द्गी॒थमे॒वाव॑रुन्धे⁠। अथो॑ ऋख्सा॒मयो॑रे॒व प्रति॑तिष्ठति⁠॥ हिर॑ण्येनो॒पाक॑रोति⁠। ज्योति॒र्वै हिर॑ण्यम्⁠। ज्योति॑रे॒व मु॑ख॒तो द॑धाति⁠। यज॑माने च प्र॒जासु॑ च⁠। अथो॒ हिर॑ण्यज्योतिरे॒व यज॑मानः सुव॒र्गल्ँलो॒कमे॑ति⁠ ॥ [८८] (१४) (तथ् स उ॒पाक॑रोति च॒त्वारि॑ च) ॥२२॥
अश्वे पर्यग्न्यप्रयन्तानां पशूनां नियोजनं
पुरु॑षो॒ वै य॒ज्ञः⁠। य॒ज्ञः प्र॒जाप॑तिः⁠। यदश्वे॑ प॒शून्नि॑यु॒ञ्जन्ति॑⁠। य॒ज्ञादे॒व तद्य॒ज्ञं प्रयु॑ङ्क्ते⁠॥ अश्वं॑ तूप॒रं गो॑मृ॒गम्⁠। तान॑ग्नि॒ष्ठ आल॑भते⁠। से॒ना॒मु॒खमे॒व तथ्सꣴश्य॑ति⁠। तस्मा᳚द् राजमु॒खं भी॒ष्मं भावु॑कम्⁠॥ आ॒ग्ने॒यं कृ॒ष्णग्री॑वं पु॒रस्ता᳚ल्ल॒लाटे᳚⁠। पू॒र्वा॒ग्निमे॒व तं कु॑रुते⁠ ॥ [८९] (१०) तस्मा᳚त्पूर्वा॒ग्निं पु॒रस्ता᳚थ्स्थापयन्ति⁠॥ पौ॒ष्णम॒न्वञ्च᳚म्⁠। अन्न॒व्ँवै पू॒षा⁠। तस्मा᳚त्पूर्वा॒ग्नावा॑हा॒र्य॑माह॑रन्ति⁠॥ ऐ॒न्द्रा॒पौ॒ष्ण मु॒परि॑ष्टात्⁠। ऐ॒न्द्रो वै रा॑ज॒न्योऽन्नं॑ पू॒षा⁠। अ॒न्नाद्ये॑नै॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति⁠। तस्मा᳚द् राज॒न्यो᳚न्ना॒दो भावु॑कः⁠॥ आ॒ग्ने॒यौ कृ॒ष्णग्री॑वौ बाहु॒वोः⁠। बा॒हु॒वोरे॒व वी॒र्यं॑ धत्ते⁠ ॥ [९०] (१०) तस्मा᳚द् राज॒न्यो॑ बाहुब॒ली भावु॑कः⁠॥ त्वा॒ष्ट्रौ लो॑मशस॒क्थौ स॒क्थ्योः⁠। स॒क्थ्योरे॒व वी॒र्यं॑ धत्ते⁠। तस्मा᳚द् राज॒न्य॑ ऊरुब॒ली भावु॑कः⁠॥ शि॒ति॒पृ॒ष्ठौ बा॑र्‌हस्प॒त्यौ पृ॒ष्ठे⁠। ब्र॒ह्म॒व॒र्च॒समे॒वोपरि॑ष्टाद्धत्ते⁠। अथो॑ क॒वचे॑ ए॒वैते अ॒भितः॒ पर्यू॑हते⁠। तस्मा᳚द् राज॒न्यः॑ सन्न॑द्धो वी॒र्यं॑ करोति⁠॥ धा॒त्रे पृ॑षोद॒रम॒धस्ता᳚त्⁠। प्र॒ति॒ष्ठामे॒वैतां कु॑रुते⁠। अथो॑ इ॒यव्ँवै धा॒ता⁠। अ॒स्यामे॒व प्रति॑तिष्ठति⁠॥ सौ॒र्यं ब॒लख्‍षं॒ पुच्छे᳚⁠। उ॒थ्से॒धमे॒व तं कु॑रुते⁠। तस्मा॑दुथ्से॒धं भ॒ये प्र॒जा अ॒भिसꣴश्र॑यन्ति⁠ ॥ [९१] (१५) (कु॒रु॒ते॒ ध॒त्ते॒ कु॒रु॒ते॒ पञ्च॑ च) ॥२३॥
अनुवाकाः पञ्चशती
२३ ९१