कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणम्
तृतीयाष्टके नवमः प्रपाठकः

अष्टक ३ प्रपाठक ९

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

३. कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टकं

ॐ
अष्टादशिनां ग्राभ्याणां आरण्यानां च पशूनां प्रयोगः
प्र॒जाप॑तिरश्वमे॒धम॑सृजत⁠। सो᳚ऽस्माथ्सृ॒ष्टोऽपा᳚क्रामत्⁠। तम॑ष्टाद॒शिभि॒रनु॒ प्रायु॑ङ्क्त⁠। तमा᳚प्नोत्⁠। तमा॒प्त्वाऽष्टा॑द॒शिभि॒रवा॑रुन्ध⁠। यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते᳚⁠। य॒ज्ञमे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे⁠॥ स॒व्ँव॒थ्स॒रस्य॒ वा ए॒षा प्र॑ति॒मा⁠। यद॑ष्टाद॒शिनः॑⁠। द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑⁠ ॥ [१] (१०) स॒व्ँव॒थ्स॒रो᳚ऽष्टाद॒शः⁠। यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते॑⁠। स॒व्ँव॒थ्स॒रमे॒व तैरा॒प्त्वा यजमा॒नोऽव॑रुन्धे⁠॥ अ॒ग्नि॒ष्ठे᳚ऽन्यान् प॒शूनु॑पाक॒रोति॑⁠। इत॑रेषु॒ यूपे᳚ष्वष्टाद॒शिनोऽजा॑मित्वाय⁠॥ नव॑ न॒वाल॑भ्यन्ते सवीर्य॒त्वाय॑⁠॥ यदा॑र॒ण्यैः स॑ꣴ स्था॒पये᳚त्⁠। व्यव॑स्येतां पिता पु॒त्रौ⁠। व्यद्ध्वा॑नः क्रामेयुः⁠। विदू॑रं॒ ग्राम॑यो र्ग्रामा॒न्तौ स्या॑ताम्⁠ ॥ [२] (१०) ऋ॒ख्‍षीकाः᳚ पुरुषव्या॒घ्राः प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वाजा॑येरन्न्⁠॥ तदा॑हुः⁠। अप॑शवो॒ वा ए॒ते⁠। यदा॑र॒ण्याः⁠। यदा॑र॒ण्यैः स॑ꣴस्था॒पये᳚त⁠। ख्‍षि॒प्रे यज॑मान॒म॑रण्यं मृ॒तꣳ ह॑रेयुः⁠। अर॑ण्यायतना॒ ह्या॑र॒ण्याः प॒शव॒ इति॑⁠। यत्प॒शून्नालभे॑त⁠। अन॑वरुद्धा अस्य प॒शवः॑ स्युः⁠। यत्पर्य॑ग्निकृतानुथ्सृ॒जेत्⁠ ॥ [३] (१०) य॒ज्ञ॒वे॒श॒सं कु॑र्यात्⁠॥ यत्प॒शूना॒लभ॑ते⁠। तेनै॒व प॒शूनव॑रुन्धे⁠। यत्पर्य॑ग्निकृतानुथ्सृ॒जत्यय॑ज्ञवेशसाय⁠। अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति⁠। न य॑ज्ञवेश॒ संभ॑वति⁠। न यज॑मान॒मर॑ण्यं मृ॒तꣳ ह॑रन्ति⁠॥ ग्रा॒म्यैः सꣴस्था॑पयति⁠। ए॒ते वै प॒शवः॒ ख्‍षेमो॒ नाम॑⁠। सं पि॑ता पु॒त्राव व॑स्यतः⁠। समद्ध्वा॑नः क्रामन्ति⁠। स॒म॒न्ति॒कं ग्राम॑योर्ग्रामा॒न्तौ भ॑वतः⁠। नर्ख्‍षीकाः᳚ पुरुषव्या॒घ्राः प॑रिमो॒षिण॑ आव्या॒धिनी॒स्तस्क॑रा॒ अर॑ण्ये॒ष्वा जा॑यन्ते⁠ ॥ [४] (१३) (ऋ॒तवः॑ स्याता मुथ्सृ॒जेथ् स्य॑त॒स्त्रीणि॑ च) ॥१॥
चातुर्मास्यपशूनां प्रयोगः
प्र॒जाप॑तिरकामयतो॒भौ लो॒कावव॑रुन्धी॒येति॑⁠। स ए॒तानु॒भया᳚न् प॒शून॑ पश्यत्⁠। ग्रा॒म्याꣴश्चा॑र॒ण्याꣴश्च॑⁠। तानाल॑भत⁠। तैर्वै स उ॒भौ लो॒काव वा॑रुन्ध⁠। ग्रा॒म्यैरे॒व प॒शुभि॑रि॒मल्ँलो॒कम वा॑रुन्ध⁠। आ॒र॒ण्यैर॒मुम्⁠। यद्ग्रा॒म्यान् प॒शूना॒लभ॑ते⁠। इ॒ममे॒व तैर्लो॒कमव॑रुन्धे⁠। यदा॑र॒ण्यान्⁠ ॥ [५] (१०) अ॒मुं तैः⁠॥ अन॑वरुद्धो॒ वा ए॒तस्य॑ सव्ँवथ्स॒र इत्या॑हुः⁠। य इ॒त इ॒तश्चातुर्मा॒स्यानि॑ स॒व्ँवथ्स॒रं प्र॑यु॒ङ्क्त इति॑⁠। ए॒तावा॒न्॒‌वै स॑व्ँवथ्स॒रः⁠। यच्चा॑तुर्मा॒स्यानि॑⁠। यदे॒ते चातु॑र्मा॒स्याः प॒शव॑ आल॒भ्यन्ते᳚⁠। प्र॒त्यख्‍ष॑मे॒व तैः स॑व्ँवथ्स॒रं यज॑मा॒नोऽव॑रुन्धे⁠॥ ⁠। वि वा ए॒ष प्र॒जया॑ प॒शुभि॑र्‌ऋद्ध्यते⁠। यः स॑व्ँवथ्स॒रं प्र॑यु॒ङ्क्ते⁠। स॒व्ँव॒थ्स॒रः सु॑व॒र्गो लो॒कः⁠ ॥ [६] (१०) सु॒व॒र्गं तु लो॒कं नाप॑राद्ध्नोति⁠। प्र॒जा वै प॒शव॑ एकाद॒शिनी᳚⁠। यदे॒त ऐ॑कादशि॒नाः प॒शव॑ आल॒भ्यन्ते᳚⁠। सा॒ख्‍षादे॒व प्र॒जां प॒शून्‌यज॑मा॒नोऽव॑रुन्धे⁠॥ प्र॒जाप॑तिर्वि॒राज॑मसृजत⁠। सा सृ॒ष्टाऽश्व॑मे॒धं प्रावि॑शत्⁠। तां द॒शिभि॒रनु॒ प्रायु॑ङ्क्त⁠। तामा᳚प्नोत्⁠। तामा॒प्त्वा द॒शिभि॒रवा॑रुन्ध⁠। यद्द॒शिन॑ आल॒भ्यन्ते᳚⁠ ॥ [७] (१०) वि॒राज॑मे॒व तैरा॒प्त्वा यज॑मा॒नोऽव॑रुन्धे⁠॥ एका॑दश द॒शत॒ आल॑भ्यन्ते⁠। एका॑दशाख्‍षरा त्रि॒ष्टुप्⁠। त्रैष्टु॑भाः प॒शवः॑⁠। प॒शूने॒वाव॑रुन्धे⁠॥ वै॒श्व॒दे॒वो वा अश्वः॑⁠। ना॒ना॒दे॒व॒त्याः᳚ प॒शवो॑ भवन्ति⁠। अश्व॑स्य सर्व॒त्वाय॑⁠। नाना॑रूपा भवन्ति⁠। तस्मा॒न्नाना॑रूपाः प॒शवः॑⁠। ब॒हु॒रू॒पा भ॑वन्ति⁠। तस्मा᳚द् बहुरू॒पाः प॒शवः॒ समृ॑द्ध्यै⁠ ॥ [८] (१२) (आ॒र॒ण्यान्लो॒कोद॒शिन॑ आल॒भ्यन्ते॒नाना॑रूपाः प॒शवो॒ द्वे च॑) ॥२॥
रोहितादीनां पशूनां वपाहोमसाहित्यम्
अ॒स्मै वै लो॒काय॑ ग्रा॒म्याः प॒शव॒ आल॑भ्यन्ते⁠। अ॒मुष्मा॑ आर॒ण्याः⁠। यद्ग्रा॒म्यान् प॒शूना॒लभ॑ते⁠। इ॒ममे॒व तैर्लो॒कमव॑रुन्धे⁠। यदा॑र॒ण्यान्⁠। अ॒मुं तैः⁠। उ॒भया᳚न् प॒शूनाल॑भते⁠। ग्रा॒म्याꣴश्चा॑र॒ण्याꣴश्च॑⁠। उ॒भयो᳚र् लो॒कयो॒र व॑रुद्ध्यै⁠। उ॒भया᳚न् प॒शूनाल॑भते⁠ ॥ [९] (१०) ग्रा॒म्याꣴश्चा॑र॒ण्याꣴश्च॑⁠। उ॒भय॑स्या॒न्नाद्य॒स्याव॑रुद्ध्यै⁠। उभया᳚न् प॒शूनालभते⁠। ग्राम्याꣴश्चा॑र॒ण्याꣴश्च॑⁠। उ॒भये॑षां पशू॒नामव॑रुद्ध्यै⁠॥ त्रय॑स्त्रयो भवन्ति⁠। त्रय॑ इ॒मे लो॒काः⁠। ए॒षाल्ँलो॒काना॒माप्त्यै᳚⁠॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠। कस्मा᳚थ्स॒त्यात्⁠ ॥ [१०] (१०) अ॒स्मिल्ँलो॒के ब॒हवः॒ कामा॒ इति॑⁠। यथ्स॑मा॒नीभ्यो॑ दे॒वता᳚भ्यो॒ऽन्ये᳚ऽन्ये प॒शव॑ आल॒भ्यन्ते᳚⁠। अ॒स्मिन्ने॒व तल्लो॒के कामा᳚न्दधाति⁠। तस्मा॑द॒स्मिन्लो॒के ब॒हवः॒ कामाः᳚⁠॥ त्र॒या॒णां त्र॑याणाꣳ स॒ह व॒पा जु॑होति⁠। त्र्या॑वृतो॒ वै दे॒वाः⁠। त्र्या॑वृत इ॒मे लो॒काः⁠। ए॒षाल्ँलो॒काना॒माप्त्यै᳚⁠। ए॒षाल्ँलो॒कानां॒ क्लृप्त्यै᳚⁠॥ पर्य॑ग्निकृतानार॒ण्यानुथ्सृ॑ज॒न्त्यहि॑ꣳसायै⁠ ॥ [११] (१०) (अव॑रुद्ध्या उ॒भया᳚न् प॒शूनाल॑भते स॒त्या दहि॑ꣳसायै) ॥३॥
अश्वस्य रथयोजनालंकारादयः
यु॒ञ्जन्ति॑ ब्र॒द्ध्नमित्या॑ह⁠। अ॒सौ वा आ॑दि॒त्यो ब्र॒द्ध्नः⁠। आ॒दि॒त्यमे॒वास्मै॑ युनक्ति⁠। अ॒रु॒षमित्या॑ह⁠। अ॒ग्निर्वा अ॑रु॒षः⁠। अ॒ग्निमे॒वास्मै॑ युनक्ति⁠। चर॑न्त॒मित्या॑ह⁠। वा॒युर्वै चर॑न्न्⁠। वा॒युमे॒वास्मै॑ युनक्ति⁠। परि॑त॒स्थुष॒ इत्या॑ह⁠ ॥ [१२] (१०) इ॒मे वै लो॒काः परि॑त॒स्थुषः॑⁠। इ॒मने॒वास्मै॑ लो॒कान्‌यु॑नक्ति⁠॥ रोच॑न्ते रोच॒ना दि॒वीत्या॑ह⁠। नख्‍ष॑त्राणि॒ वै रो॑च॒ना दि॒वि⁠। नख्‍ष॑त्राण्ये॒वास्मै॑ रोचयति⁠॥ यु॒ञ्जन्त्य॑स्य॒ काम्येत्या॑ह⁠। कामा॑ने॒वास्मै॑ युनक्ति⁠॥ हरी॒ विप॑ख्‍ष॒सेत्या॑ह⁠। इ॒मे वै हरी॒ विप॑ख्‍षसा⁠। इ॒मे ए॒वास्मै॑ युनक्ति⁠ ॥ [१३] (१०) शोणा॑ धृ॒ष्णू नृ॒वाह॒सेत्या॑ह⁠। अ॒हो॒रा॒त्रे वै नृ॒वाह॑सा⁠। अ॒हो॒रा॒त्रे ए॒वास्मै॑ युनक्ति⁠॥ ए॒ता ए॒वास्मै॑ दे॒वता॑ युनक्ति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠॥ के॒तुं कृ॒ण्वन्न॑के॒तव॒ इति॑ द्ध्व॒जं प्रति॑मुञ्चति⁠। यश॑ ए॒वैन॒ꣳ॒ राज्ञां᳚ गमयति⁠॥ जी॒मूत॑स्येव भवति॒ प्रती॑क॒मित्या॑ह⁠। य॒था॒ य॒जुरे॒वैतत्⁠॥ ये ते॒ पन्था॑नः सवितः पू॒र्व्यास॒ इत्य॑द्ध्व॒र्युर्यज॑मानव्ँवाचयत्य॒भिजि॑त्यै⁠ ॥ [१४] (१०) परा॒ वा ए॒तस्य॑ य॒ज्ञ ए॑ति⁠। यस्य॑ प॒शुरु॒पाकृ॑तो॒ऽन्यत्र॒ वेद्या॒ एति॑⁠। एतꣴ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒माव॑र्तयासि न॒ इत्या॑ह⁠। वा॒युर्वै स्तोता᳚⁠। वा॒युमे॒वास्य॑ प॒रस्ता᳚द्दधा॒त्यावृ॑त्त्यै⁠॥ यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति⁠। ए॒वव्ँवा ए॒तदश्व॑स्य स्कन्दति⁠। यद॑स्यो॒पाकृ॑तस्य॒ लोमा॑नि॒ शीय॑न्ते⁠। यद्वाले॑षु का॒चाना॒वय॑न्ति⁠। लोमा᳚न्ये॒वास्य॒ तथ्संभ॑रन्ति⁠ ॥ [१५] (१०) भूर्भुव॒स्सुव॒रिति॑ प्राजाप॒त्याभि॒राव॑यन्ति⁠। प्रा॒जा॒प॒त्यो वा अश्वः॑⁠। स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑द्‌र्धयन्ति⁠॥ भूरिति॒ महि॑षी⁠। भुव॒ इति॑ वा॒वाता᳚⁠। सुव॒रिति॑ परिवृ॒क्ती⁠। ए॒षाल्ँलो॒काना॑म॒भिजि॑त्यै⁠॥ हि॒र॒ण्ययाः᳚ का॒चा भ॑वन्ति⁠। ज्योति॒र्वै हिर॑ण्यम्⁠। रा॒ष्ट्रम॑श्वमे॒धः⁠ ॥ [१६] (१०) ज्योति॑श्चै॒वास्मै॑ रा॒ष्ट्रं च॑ स॒मीची॑ दधाति⁠॥ स॒हस्रं॑ भवन्ति⁠। स॒हस्र॑ संमितः सुव॒र्गो लो॒कः⁠। सु॒व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै⁠॥ अप॒ वा ए॒तस्मा॒त्तेज॑ इन्द्रि॒यं प॒शवः॒ श्रीः क्रा॑मन्ति⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। वस॑वस्त्वाऽञ्जन्तु गाय॒त्रेण॒ छन्द॒सेति॒ महि॑ष्य॒भ्य॑नक्ति⁠। तेजो॒ वा आज्य᳚म्⁠। तेजो॑ गाय॒त्री⁠। तेज॑सै॒वास्मै॒ तेजोऽव॑रुन्धे⁠ ॥ [१७] (१०) रु॒द्रास्त्वा᳚ऽञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॒सेति॑ वा॒वाता᳚⁠। तेजो॒ वा आज्य᳚म्⁠। इ॒न्द्रि॒यं त्रि॒ष्टुप्⁠। तेज॑सै॒वास्मा॑ इन्द्रि॒यमव॑रुन्धे⁠। आ॒दि॒त्यास्त्वा᳚ऽञ्जन्तु॒ जाग॑तेन॒ छन्द॒सेति॑ परिवृ॒क्ती⁠। तेजो॒ वा आज्य᳚म्⁠। प॒शवो॒ जग॑ती⁠। तेज॑सै॒वास्मै॑ प॒शूनव॑रुन्धे⁠॥ पत्न॑यो॒ऽभ्य॑ञ्जन्ति⁠। श्रि॒या वा ए॒तद् रू॒पम्⁠ ॥ [१८] (१०) यत्पत्न॑यः⁠। श्रिय॑मे॒वास्मि॒न् तद्द॑धति⁠। नास्मा॒त्तेज॑ इन्द्रि॒यं प॒शवः॒ श्रीरप॑क्रामन्ति⁠॥ लाजी(३)ञ्छाची(३)न्‌यशो॑ म॒मा(४) इँत्यति॑रिक्त॒मन्न॒मश्वा॑यो॒ पाह॑रन्ति⁠। प्र॒जामे॒वान्ना॒दीं कु॑र्वते⁠॥ ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापत॒ इत्या॑ह⁠। प्र॒जाया॑मे॒वान्नाद्यं॑ दधते⁠॥ यदि॒ नाव॒जिघ्र᳚त्⁠। अ॒ग्निः प॒शुरा॑सी॒दित्यव॑घ्रापयेत्⁠। अव॑ है॒व जि॑घ्रति⁠॥ आक्रान्॑‌वा॒जी क्रमै॒रत्य॑क्रमीद्वा॒जी द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॒मित्यश्व॒मनु॑मन्त्रयते⁠। ए॒षाल्ँलो॒काना॑म॒भिजि॑त्यै⁠॥ समि॑द्धो अ॒ञ्जन्कृद॑रं मती॒नामित्यश्व॑स्या॒ प्रियो॑ भवन्ति सरूप॒त्वाय॑⁠ ॥ [१९] (१३) (परि॑त॒स्थुष॒ इत्या॑हे॒ मे ए॒वास्मै॑ युनक्त्य॒ भिजि॑त्यैभरन्त्यश्वमे॒धो रु॑न्धे रू॒पम् जि॑घ्रति॒ त्रीणि॑ च) ॥४॥
ब्रह्मोद्यनामकः होतृब्राह्मणोस्संवादः
तेज॑सा॒ वा ए॒ष ब्र॑ह्मवर्च॒सेन॒ व्यृ॑द्ध्यते⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। होता॑ च ब्र॒ह्मा च॑ ब्र॒ह्मोद्य॑व्ँवदतः⁠। तेज॑सा चै॒वैनं॑ ब्रह्मवर्च॒सेन॑ च॒ सम॑द्‌र्धयतः⁠॥ द॒ख्‍षि॒ण॒तो ब्र॒ह्मा भ॑वति⁠। द॒ख्‍षि॒ण॒त आ॑यतनो॒ वै ब्र॒ह्मा⁠। बा॒र्॒‌ह॒स्प॒त्यो वै ब्र॒ह्मा⁠। ब्र॒ह्म॒व॒र्च॒समे॒वास्य॑ दख्‍षिण॒तो (दख्‍षि॒णतो) द॑धाति⁠। तस्मा॒द्दख्‍षि॒णोऽद्‌र्धो᳚ ब्रह्मवर्च॒सित॑रः⁠॥ उ॒त्त॒र॒तो होता॑ भवति⁠ ॥ [२०] (१०) उ॒त्त॒र॒त आ॑यतनो॒ वै होता᳚⁠। आ॒ग्ने॒यो वै होता᳚⁠। तेजो॒ वा अ॒ग्निः⁠। तेज॑ ए॒वास्यो᳚त्तर॒तो द॑धाति⁠। तस्मा॒दुत्त॒रोऽद्‌र्ध॑स्तेज॒स्वित॑रः⁠॥ यूप॑म॒भितो॑ वदतः⁠। य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै यूपः॑⁠। यज॑मानमे॒व तेज॑सा च ब्रह्मवर्च॒सेन॑ च॒ सम॑द्‌र्धयतः⁠॥ किꣴ स्वि॑दासीत्पू॒र्वचि॑त्ति॒रित्या॑ह⁠। द्यौर्वै वृष्टिः॑ पू॒र्वचि॑त्तिः⁠ ॥ [२१] (१०) दिव॑मे॒व वृष्टि॒मव॑रुन्धे⁠॥ किꣴ स्वि॑दासीद्बृ॒हद्वय॒ इत्या॑ह⁠। अश्वो॒ वै बृ॒हद्वयः॑⁠। अश्व॑मे॒वाव॑रुन्धे⁠॥ किꣴ स्वि॑दासीत्पिशङ्गि॒लेत्या॑ह⁠। रात्रि॒र्वै पि॑शङ्गि॒ला⁠। रात्रि॑मे॒वाव॑रुन्धे⁠॥ किꣴ स्वि॑दासीत्पिलिप्पि॒लेत्या॑ह⁠। श्रीर्वै पि॑लिप्पि॒ला⁠। अ॒न्नाद्य॑मे॒वाव॑रुन्धे⁠ ॥ [२२] (१०) कः स्वि॑देका॒की च॑र॒तीत्या॑ह⁠। अ॒सौ वा आ॑दि॒त्य ए॑का॒की च॑रति⁠। तेज॑ ए॒वाव॑रुन्धे⁠॥ क उ॑ स्विज्जायते॒ पुन॒रित्या॑ह⁠। च॒न्द्रमा॒ वै जा॑यते॒ पुनः॑⁠। आयु॑रे॒वाव॑रुन्धे⁠॥ किꣴ स्वि॑द्धि॒मस्य॑ भेष॒जमित्या॑ह⁠। अ॒ग्निर्वै हि॒मस्य॑ भेष॒जम्⁠। ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे⁠॥ किꣴ स्वि॑दा॒वप॑नं म॒हदित्या॑ह⁠ ॥ [२३] (१०) अ॒यव्ँवै लो॒क आ॒वप॑नं म॒हत्⁠। अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति⁠॥ पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्या इत्या॑ह⁠। वेदि॒र्वै परोऽन्तः॑ पृथि॒व्याः⁠। वेदि॑मे॒वाव॑रुन्धे⁠॥ पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॒मित्या॑ह⁠। य॒ज्ञो वै भुव॑नस्य॒ नाभिः॑⁠। य॒ज्ञमे॒वाव॑रुन्धे⁠॥ पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॒ इत्या॑ह⁠। सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेतः॑⁠। सो॒म॒पी॒थमे॒वाव॑रुन्धे⁠॥ पृ॒च्छामि॑ वा॒चः प॑र॒मव्ँव्यो॑मेत्या॑ह⁠। ब्रह्म॒ वै वा॒चः प॑र॒मव्ँव्यो॑म⁠। ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे⁠ ॥ [२४] (१४) (होता॑ भवति॒ वै वृष्टिः॑ पू॒र्वचि॑त्ति र॒न्नाद्य॑मे॒वाव॑रुन्धे म॒हदित्या॑ह॒ सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेत॑श्च॒त्वारि॑ च) ॥५॥
अश्वस्य मृतोपचारः संज्ञपनप्रकारः
अप॒ वा ए॒तस्मा᳚त्प्रा॒णाः क्रा॑मन्ति⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहेति॑ संज्ञ॒प्यमा॑न॒ आहु॑तीर्जुहोति⁠। प्रा॒णाने॒वास्मि॑न्दधाति⁠। नास्मा᳚त्प्रा॒णा अप॑क्रामन्ति⁠॥ अव॑न्तीः॒स्थाव॑न्तीस्त्वाऽवन्तु⁠। प्रि॒यं त्वा᳚ प्रि॒याणा᳚म्⁠। वर्‌षि॑ष्ठ॒माप्यानाम्⁠। नि॒धी॒नां त्वा॑ निधि॒पति॑ꣳ हवामहे वसोम॒मेत्या॑ह⁠। अपै॒वास्मै॒ तद्ध्नु॑वते⁠ ॥ [२५] (१०) अथो॑ धु॒वन्त्ये॒वैन᳚म्⁠। अथो॒ न्ये॑वास्मै᳚ ह्नुवते⁠॥ त्रिः परि॑यन्ति⁠। त्रय॑ इ॒मे लो॒काः⁠। ए॒भ्य ए॒वैन॑ल्ँलो॒केभ्यो॑ धुवते⁠॥ त्रिः पुनः॒ परि॑यन्ति⁠। षट्थ्संप॑द्यन्ते⁠। षड्वा ऋ॒तवः॑⁠। ऋ॒तुभि॑रे॒वैनं॑ धुवते⁠॥ अप॒ वा ए॒तेभ्यः॑ प्रा॒णाः क्रा॑मन्ति⁠ ॥ [२६] (१०) ये य॒ज्ञे धुव॑नं त॒न्वते᳚⁠। न॒व॒कृत्वः॒ परि॑यन्ति⁠। नव॒ वै पुरु॑षे प्रा॒णाः⁠। प्रा॒णाने॒वात्मन्द॑धते⁠। नैभ्यः॑ प्रा॒णा अप॑क्रामन्ति⁠॥ अम्बे॒ अम्बा॒ल्यम्बि॑क॒ इति॒ पत्नी॑मु॒दान॑यति⁠। अह्व॑तै॒वैना᳚म्⁠॥ सुभ॑गे॒ काम्पी॑लवासि॒नीत्या॑ह⁠। तप॑ ए॒वैना॒मुप॑नयति⁠॥ सु॒व॒र्गे लो॒के संप्रोर्ण्वा॑था॒मित्या॑ह⁠ ॥ [२७] (१०) सु॒व॒र्गमे॒वैना᳚ल्ँलो॒कं ग॑मयति⁠॥ आऽहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धमित्या॑ह⁠। प्र॒जा वै प॒शवो॒ गर्भः॑⁠। प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते⁠॥ दे॒वा वा अ॑श्वमे॒धे पव॑माने⁠। सु॒व॒र्गल्ँलो॒कं न प्राजा॑नन्न्⁠। तमश्वः॒ प्राजा॑नात्⁠। यथ्सू॒चीभि॑रसिप॒थान्क॒ल्पय॑न्ति⁠। सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै⁠॥ गा॒य॒त्री त्रि॒ष्टुब्जग॒तीत्या॑ह⁠ ॥ [२८] (१०) य॒था॒ य॒जुरे॒वैतत्⁠॥ त्र॒य्यः सू॒च्यो॑ भवन्ति⁠। अ॒य॒स्मय्यो॑ रज॒ता हरि॑ण्यः⁠। अ॒स्य वै लो॒कस्य॑ रू॒पम॑य॒स्मय्यः॑⁠। अ॒न्तरि॑ख्‍षस्य रज॒ताः⁠। दि॒वो हरि॑ण्यः⁠। दिशो॒ वा अ॑य॒स्मय्यः॑⁠। अ॒वा॒न्त॒र॒दि॒शा र॑ज॒ताः⁠। ऊ॒द्‌र्ध्वा हरि॑ण्यः⁠। दिश॑ ए॒वास्मै॑ कल्पयति⁠॥ कस्त्वा᳚छ्यति॒ कस्त्वा॒ विशा॒स्तीत्या॒हा हि॑ꣳसायै⁠ ॥ [२९] (११) (ह्नु॒व॒ते॒क्रा॒म॒न्त्यू॒र्ण्वा॒था॒मित्या॑ह॒जग॒तीत्या॑हकल्पय॒त्येकं॑ च) ॥६॥
तत्र मन्त्राः
अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रं क्रा॑मति⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। ऊ॒द्‌र्ध्वामे॑ना॒मुच्छ्र॑यता॒दित्या॑ह⁠। श्रीर्वै रा॒ष्ट्रम॑श्वमे॒धः⁠। श्रिय॑मे॒वास्म॑ रा॒ष्ट्रमू॒द्‌र्ध्वमुच्छ्र॑यति⁠॥ वे॒णु॒भा॒रं गि॒रावि॒वेत्या॑ह⁠। रा॒ष्ट्रव्ँवै भा॒रः⁠। रा॒ष्ट्रमे॒वास्मै॒ पर्यू॑हति⁠॥ अथा᳚स्या॒ मद्ध्य॑मेधता॒मित्या॑ह⁠। श्रीर्वै रा॒ष्ट्रस्य॒ मद्ध्य᳚म्⁠ ॥ [३०] (१०) श्रिय॑मे॒वाव॑रुन्धे⁠॥ शी॒ते वाते॑ पु॒नन्नि॒वेत्या॑ह⁠। ख्‍षेमो॒ वै रा॒ष्ट्रस्य॑ शी॒तो वातः॑⁠। ख्‍षेम॑मे॒वाव॑रुन्धे⁠॥ यद्ध॑रि॒णी यव॒मत्तीत्या॑ह⁠। विड्वै ह॑रि॒णी⁠। रा॒ष्ट्रय्ँयवः॑⁠। विशं॑ चै॒वास्मै॑ रा॒ष्ट्रं च॑ स॒मीची॑ दधाति⁠॥ न पु॒ष्टं प॒शु म॑न्यत॒ इत्या॑ह⁠। तस्मा॒द् राजा॑ प॒शून्न पुष्य॑ति⁠ ॥ [३१] (१०) शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनाय॒तीत्या॑ह⁠। तस्मा᳚द्वैशीपु॒त्रं नाभिषि॑ञ्चन्ते⁠॥ इ॒यय्ँय॒का श॑कुन्ति॒केत्या॑ह⁠। विड्वै श॑कुन्ति॒का⁠। रा॒ष्ट्रम॑श्वमे॒धः⁠। विशं॑ चै॒वास्मै॑ रा॒ष्ट्रं च॑ स॒मीची॑ दधाति⁠॥ आ॒हल॒मिति॒ सर्प॒तीत्या॑ह⁠। तस्मा᳚द् रा॒ष्ट्राय॒ विशः॑ सर्पन्ति⁠॥ आह॑तं ग॒भे पस॒ इत्या॑ह⁠। विड्वै गभः॑⁠ ॥ [३२] (१०) रा॒ष्ट्रं पसः॑⁠। रा॒ष्ट्रम॒व वि॒श्याह॑न्ति⁠। तस्मा᳚द् रा॒ष्ट्रव्ँविशं॒ घातु॑कम्⁠॥ मा॒ता च॑ ते पि॒ता च॑ त॒ इत्या॑ह⁠। इ॒यव्ँवै मा॒ता⁠। अ॒सौ पि॒ता⁠। आ॒भ्यामे॒वैनं॒ परि॑ददाति⁠॥ अग्र॑व्ँवृ॒ख्‍षस्य॑ रोहत॒ इत्या॑ह⁠। श्रीर्वै व॒ख्‍षस्याग्र᳚म्⁠। श्रिय॑मे॒वाव॑रुन्धे⁠ ॥ [३३] (१०) प्रसु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तꣳसय॒दित्या॑ह⁠। विड्वै गभः॑⁠। रा॒ष्ट्रं मु॒ष्टिः⁠। रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति⁠। तस्मा᳚द् रा॒ष्ट्रव्ँविशं॒ घातु॑कम्⁠॥ अप॒ वा ए॒तेभ्यः॑ प्रा॒णाः क्रा॑मन्ति⁠। ये य॒ज्ञेऽपू॑त॒व्ँवद॑न्ति⁠। द॒धि॒क्राव्‌ण्णो॑ अकारिष॒मिति॑ सुरभि॒मती॒मृच॑व्ँवदन्ति⁠। प्रा॒णा वै सु॑र॒भयः॑⁠। प्रा॒णाने॒वात्मन्द॑धते⁠। नैभ्यः॑ प्रा॒णा अप॑क्रामन्ति⁠॥ आपो॒ हिष्ठा म॑यो॒भुव॒ इत्य॒द्भिर्मा᳚र्जयन्ते⁠। आपो॒ वै सर्वा॑ दे॒वताः᳚⁠। दे॒वता॑भिरे॒वात्मानं॑ पवयन्ते⁠ ॥ [३४] (१४) (रा॒ष्ट्रस्य॒ मद्ध्य॒म् पुष्य॑ति॒ गभो॑ रुन्धे दधते च॒त्वारि॑ च) ॥७॥
अश्वमेधस्य तत्पशूनां च प्रशंसा
प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा प्रे॒णाऽनु॒ प्रावि॑शत्⁠। ताभ्यः॒ पुनः॒ संभ॑वितुं॒ नाश॑क्नोत्⁠। सो᳚ऽब्रवीत्⁠। ऋ॒द्ध्नव॒दिथ्सः⁠। यो मे॒तः पुनः॑ स॒भंर॒दिति॑⁠। तं दे॒वा अ॑श्वमे॒धेनै॒व सम॑भरन्न्⁠। ततो॒ वै त आ᳚द्‌र्ध्नुवन्न⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। प्र॒जाप॑तिमे॒व संभ॑रत्यृ॒द्ध्नोति॑⁠॥ पुरु॑ष॒माल॑भते⁠ ॥ [३५] (१०) वै॒रा॒जो वै पुरु॑षः⁠। वि॒राज॑मे॒वाल॑भते⁠। अथो॒ अन्न॒व्ँवै वि॒राट्⁠। अन्न॑मे॒वाव॑रुन्धे⁠॥ अश्व॒माल॑भते⁠। प्रा॒जा॒प॒त्यो वा अश्वः॑⁠। प्र॒जाप॑तिमे॒वाल॑भते⁠। अथो॒ श्रीर्वा एक॑शफम्⁠। श्रिय॑मे॒वाव॑रुन्धे⁠॥ गामाल॑भते⁠ ॥ [३६] (१०) य॒ज्ञो वै गौः⁠। य॒ज्ञमे॒वाल॑भते⁠। अथो॒ अन्न॒व्ँवै गौः⁠। अन्न॑मे॒वाव॑रुन्धे⁠॥ अ॒जा॒वी आल॑भते भू॒म्ने⁠। अथो॒ पुष्टि॒र्वै भू॒मा⁠। पुष्टि॑मे॒वाव॑रुन्धे⁠॥ पर्य॑ग्निकृतं॒ पुरु॑षं चार॒ण्याꣴश्चोथ् सृ॑ज॒न्त्यहि॑ꣳसायै⁠॥ उ॒भौ वा ए॒तौ प॒शू आल॑भ्येते⁠। यश्चा॑व॒मो यश्च॑ पर॒मः⁠। ते᳚ऽस्यो॒भये॑ य॒ज्ञे ब॒द्धाः⁠। अ॒भीष्टा॑ अ॒भिप्री॑ताः⁠। अ॒भिजि॑ता अ॒भिहु॑ता भवन्ति⁠॥ नैनं॑ द॒ङ्ख्‍ष्णवः॑ प॒शवो॑ य॒ज्ञे ब॒द्धाः⁠। अ॒भीष्टा॑ अ॒भिप्री॑ताः⁠। अ॒भिजि॑ता अ॒भिहु॑ता हिꣳसन्ति⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠ ॥ [३७] (१८) (ल॒भ॒ते॒ गामाल॑भते पर॒मो᳚ऽष्टौ च॑) ॥८॥
उत्तमेऽहनि प्रशवः
प्र॒थ॒मेन॒ वा ए॒ष स्तोम॑न रा॒द्ध्वा⁠। च॒तु॒ष्टो॒मेन॑ कृ॒तेनाया॑ना॒मुत्त॒रेऽह॑न्न्⁠। ए॒क॒वि॒ꣳ॒शे प्र॑ति॒ष्ठायां॒ प्रति॑तिष्ठति⁠॥ ए॒क॒वि॒ꣳ॒शात्प्र॑ति॒ष्ठाया॑ ऋ॒तून॒न्वारो॑हति⁠। ऋ॒तवो॒ वै पृ॒ष्ठानि॑⁠। ऋ॒तवः॑ सव्ँवथ्स॒रः⁠। ऋ॒तुष्वे॒व स॑व्ँवथ्स॒रे प्र॑ति॒ष्ठाय॑⁠। दे॒वता॑ अ॒भ्यारो॑हति⁠। शक्व॑रयः पृ॒ष्ठं भ॑वन्त्य॒न्यद॑न्य॒च्छन्दः॑⁠। अ॒न्ये᳚ऽन्ये॒ वा ए॒ते प॒शव॒ आल॑भ्यन्ते⁠ ॥ [३८] (१०) उ॒तेव॑ ग्रा॒म्याः⁠। उ॒तेवा॑र॒ण्याः⁠। अह॑रे॒व रू॒पेण॒ सम॑द्‌र्धयति⁠। अथो॒ अह्न॑ ए॒वैष ब॒लिर्‌ह्रि॑यते⁠॥ तदा॑हुः⁠। अप॑शवो॒ वा ए॒ते⁠। यद॑जा॒वय॑श्चार॒ण्याश्च॑⁠। ए॒ते वै सर्वे॑ प॒शवः॑⁠। यद्ग॒व्या इति॑⁠। ग॒व्यान् प॒शूनु॑त्त॒मेऽह॒न्नाल॑भते⁠ ॥ [३९] (१०) तेनै॒वोभया᳚न् प॒शूनव॑रुन्धे⁠॥ प्रा॒जा॒प॒त्या भ॑वन्ति⁠। अन॑भिजितस्या॒भिजि॑त्यै⁠॥ सौ॒रीर्नव॑ श्वे॒ताव॒शा अ॑नूब॒न्ध्या॑ भवन्ति⁠। अ॒न्त॒त ए॒व ब॑ह्मवर्च॒समव॑रुन्धे⁠॥ सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॒विति॑ द्व॒न्द्विनः॑ प॒शूनाल॑भते⁠। अ॒हो॒रा॒त्राणा॑म॒भिजि॑त्यै⁠॥ प॒शुभि॒र्वा ए॒ष व्यृ॑द्ध्यते⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। छ॒ग॒लं क॒ल्माषं॑ किकिदी॒विव्ँवि॑दी॒गय॒मिति॑ त्वा॒ष्ट्रान् प॒शूनाल॑भते⁠। प॒शुभि॑रे॒वात्मान॒ꣳ॒ सम॑द्‌र्धयति⁠॥ ऋ॒तुभि॒र्वा ए॒ष व्यृ॑द्ध्यते⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। पि॒शङ्गा॒स्त्रयो॑ वास॒न्ता इत्यृ॑तुप॒शूनाल॑भते⁠। ऋ॒तुभि॑रे॒वात्मान॒ꣳ॒ सम॑द्‌र्धयति⁠॥ आ वा ए॒ष प॒शुभ्यो॑ वृश्च्यते⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। पर्य॑ग्निकृता॒ उथ्सृ॑ज॒न्त्यना᳚व्रस्काय⁠ ॥ [४०] (१८) (ल॒भ्य॒न्ते॒ ल॒भ॒ते॒ त्वा॒ष्ट्रान् प॒शूनाल॑भते॒ऽष्टौ च॑) ॥९॥
महिमाभिधानौ प्रहौ
प्र॒जाप॑तिरकामयत म॒हान॑न्ना॒दः स्या॒मिति॑⁠। स ए॒ताव॑श्वमे॒धे म॑हि॒माना॑वपश्यत्⁠। ताव॑गृह्णीत⁠। ततो॒ वै स म॒हान॑न्ना॒दो॑ऽभवत्⁠। यः का॒मये॑त म॒हान॑न्ना॒दः स्या॒मिति॑⁠। स ए॒ताव॑श्वमे॒धे म॑हि॒मानौ॑ गृह्णीत⁠। म॒हाने॒वान्ना॒दो भ॑वति⁠॥ य॒ज॒मा॒न॒दे॒व॒त्या॑ वै व॒पा⁠। राजा॑ महि॒मा⁠। यद्व॒पां म॑हि॒म्नोभ॒यतः॑ परि॒यज॑ति⁠। यज॑मानमे॒व रा॒ज्येनो॑भ॒यतः॒ परि॑गृह्णाति⁠॥ पु॒रस्ता᳚थ्स्वाहाकारा॒ वा अ॒न्ये दे॒वाः⁠। उ॒परि॑ष्टाथ्स्वाहाकारा अ॒न्ये⁠। ते वा ए॒तेऽश्व॑ ए॒व मेद्ध्य॑ उ॒भयेऽव॑रुद्ध्यन्ते⁠। यद्व॒पां म॑हि॒म्नोभ॒यतः॑ परि॒यज॑ति⁠। ताने॒वोभया᳚न् प्रीणाति⁠ ॥ [४१] (१६) (प॒रि॒यज॑ति॒ षट्च॑) ॥१०॥
शरीरहोमाः स्विष्टकृदादयश्च
वै॒श्व॒दे॒वो वा अश्वः॑⁠। तय्ँयत्प्रा॑जाप॒त्यं कु॒र्यात्⁠। या दे॒वता॒ अपि॑भागाः⁠। ता भा॑ग॒धेये॑न॒ व्य॑द्‌र्धयेत्⁠। दे॒वता᳚भ्यः स॒मदं॑ दद्ध्यात्⁠। स्ते॒गान्दꣴष्ट्रा᳚भ्यां म॒ण्डूका॒ञ्जम्भ्ये॑भि॒रिति॑⁠। आज्य॑मव॒दानं॑ कृ॒त्वा प्रति॑सं॒ख्याय॒माहु॑तीर्जुहोति⁠। या ए॒व दे॒वता॒ अपि॑भागाः⁠। ता भा॑ग॒धेये॑न॒ सम॑द्‌र्धयति⁠। न दे॒वता᳚भ्यः स॒मदं॑ दधाति⁠ ॥ [४२] (१०) चतु॑र्दशै॒तान॑नुवा॒काञ्जु॑हो॒त्यन॑न्तरित्यै⁠॥ प्र॒या॒साय॒ स्वाहेति॑ पञ्चद॒शम्⁠। पञ्च॑दश॒ वा अ॑द्‌र्धमा॒सस्य॒ रात्र॑यः⁠। अ॒द्‌र्ध॒मा॒स॒शः स॑व्ँवथ्स॒र आ᳚प्यते⁠॥ दे॒वा॒सु॒राः सय्ँयं॑त्ता आसन्न्⁠। ते᳚ऽब्रुवन्न॒ग्नयः॑ स्विष्ट॒कृतः॑⁠। अश्व॑स्य॒ मेद्ध्य॑स्य व॒यमु॑द्धा॒रमुद्ध॑रामहै⁠। अथै॒तान॒भिभ॑वा॒मेति॑⁠। ते लोहि॑त॒मुद॑हरन्त⁠। ततो॑ दे॒वा अभ॑वन्न्⁠ ॥ [४३] (१०) पराऽसु॑राः⁠। यथ्स्वि॑ष्ट॒कृद्भ्यो॒ लोहि॑तं जु॒होति॒ भ्रातृ॑व्याभिभूत्यै⁠। भव॑त्या॒त्मना᳚⁠। परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति⁠॥ गो॒मृ॒ग॒क॒ण्ठेन॑ प्रथ॒मामाहु॑तिं जुहोति⁠। प॒शवो॒ वै गो॑मृ॒गः⁠। रु॒द्रो᳚ऽग्निः स्वि॑ष्ट॒कृत्⁠। रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति⁠। अथो॒ यत्रै॒षाऽऽहु॑तिर्‌हू॒यते᳚⁠। न तत्र॑ रु॒द्रः प॒शून॒भिम॑न्यते⁠ ॥ [४४] (१०) अ॒श्व॒श॒फेन॑ द्वि॒तीया॒माहु॑तिं जुहोति⁠। प॒शवो॒ वा एक॑शफम्⁠। रु॒द्रो᳚ऽग्निः स्वि॑ष्ट॒कृत्⁠। रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति⁠। अथो॒ यत्रै॒षाऽऽहु॑तिरह॒यते᳚⁠। न तत्र॑ रु॒द्रः प॒शून॒भिम॑न्यते⁠॥ अ॒य॒स्मये॑न कम॒ण्डलु॑ना तृ॒तीया᳚म्⁠। आहु॑तिं जुहोत्याय॒स्यो॑ वै प्र॒जाः⁠। रु॒द्रो᳚ऽग्निः स्वि॑ष्ट॒कृत्⁠। रु॒द्रादे॒व प्र॒जा अ॒न्तर्द॑धाति⁠। अथो॒ यत्रै॒षाऽऽहु॑तिर्‌हू॒यते᳚⁠। न तत्र॑ रु॒द्रः प्र॒जा अ॒भिम॑न्यते⁠ ॥ [४५] (१२) (द॒धा॒ त्यभ॑वन् मन्यते प्र॒जा अ॒न्तर् द॑धाति॒ द्वे च॑) ॥११॥
तदुभयहोममध्यवर्त्यश्चस्तोमीयहोमः
अश्व॑स्य॒ वा आल॑ब्धस्य॒ मेध॒ उद॑क्रामत्⁠। तद॑श्वस्तो॒मीय॑मभवत्⁠। यद॑श्वस्तो॒मीयं॑ जु॒होति॑⁠। समे॑धमे॒वैन॒माल॑भते⁠॥ आज्ये॑न जुहोति⁠। मेधो॒ वा आज्य᳚म्⁠। मेधो᳚ऽश्वस्तो॒मीय᳚म्⁠। मेधे॑नै॒वास्मि॒न् मेधं॑ दधाति⁠॥ षटत्र॑ꣳशतं जुहोति⁠। षटत्र॑ꣳशदख्‍षरा बृह॒ती⁠ ॥ [४६] (१०) बार्‌ह॑ताः प॒शवः॑⁠। सा प॑शू॒नां मात्रा᳚⁠। प॒शूने॒व मात्र॑या॒ सम॑द्‌र्धयति⁠॥ ता यद्भूय॑सीर्वा॒ कनी॑यसीर्वा जुहु॒यात्⁠। प॒शून्मात्र॑या॒ व्य॑द्‌र्धयेत्⁠। षटत्र॑ꣳशतं जुहोति⁠। षटत्र॑ꣳशदख्‍षरा बृह॒ती⁠। बार्‌ह॑ताः प॒शवः॑⁠। सा प॑शू॒नां मात्रा᳚⁠। प॒शूने॒व मात्र॑या॒ सम॑द्‌र्धयति⁠ ॥ [४७] (१०) अ॒श्व॒स्तो॒मीय॑ꣳ हु॒त्वा द्वि॒पदा॑ जुहोति⁠। द्वि॒पाद्वै पुरु॑षो॒ द्विप्र॑तिष्ठः⁠। तदे॑नं प्रति॒ष्ठया॒ सम॑द्‌र्धयति⁠॥ तदा॑हुः⁠। अ॒श्व॒स्तो॒मीयं॒ पूर्व॑ꣳ होत॒व्या(३)न् द्वि॒पदा(३) इति॑⁠। अश्वो॒ वा अ॑श्वस्तो॒मीय᳚म्⁠। पुरु॑षो द्वि॒पदाः᳚⁠। अ॒श्व॒स्तो॒मीय॑ꣳ हु॒त्वा द्वि॒पदा॑ जुहोति⁠। तस्मा᳚द्द्वि॒पाच्चतु॑ष्पादमत्ति⁠। अथो᳚ द्वि॒पद्ये॒व चतु॑ष्पदः॒ प्रति॑ष्ठापयति⁠॥ द्वि॒पदा॑ हु॒त्वा⁠। नान्यामुत्त॑रा॒माहु॑तिं जुहुयात्⁠। यद॒न्यामुत्त॑रा॒माहु॑तिं जुहु॒यात्⁠। प्र प्र॑ति॒ष्ठाया᳚श्च्यवेत⁠। द्वि॒पदा॑ अन्त॒तो ज॑होति॒ प्रति॑ष्ठित्यै⁠ ॥ [४८] (१५) (बृ॒ह॒ त्य॑द्‌र्धयति स्थापयति॒ पञ्च॑ च) ॥१२॥
संवथ्सरानुष्ठानमिष्टीनाम्
प्र॒जाप॑तिरश्वमे॒धम॑सृजत⁠। सो᳚ऽस्माथ्सृ॒ष्टोऽपा᳚क्रामत्⁠। तय्ँय॑ज्ञक्र॒तुभि॒रन्वै᳚च्छत्⁠। तय्ँय॑ज्ञक्र॒तुभि॒र्नान्व॑विन्दत्⁠। तमिष्टि॑भि॒रन्वै᳚च्छत्⁠। तमिष्टि॑भि॒रन्व॑विन्दत्⁠। तदिष्टी॑नामिष्टि॒त्वम्⁠। यथ्स॑व्ँवथ्स॒रमिष्टि॑भि॒र्यज॑ते⁠। अश्व॑मे॒व तदन्वि॑च्छति⁠॥ सा॒वि॒त्रियो॑ भवन्ति⁠ ॥ [४९] (१०) इ॒यव्ँवै स॑वि॒ता⁠। यो वा अ॒स्यां नश्य॑ति॒ यो नि॒लय॑ते⁠। अ॒स्याव्ँवाव तव्ँवि॑न्दन्ति⁠। न वा इ॒मां कश्च॒नेत्या॑हुः⁠। ति॒र्यङ्नोद्‌र्ध्वोऽत्ये॑तुमर्‌ह॒तीति॑⁠। यथ्सा॑वि॒त्रियो॒ भव॑न्ति⁠। स॒वि॒तृप्र॑सूत ए॒वैन॑मिच्छति⁠॥ ई॒श्व॒रो वा अश्वः॒ प्रमु॑क्तः॒ परां᳚ परा॒वतं॒ गन्तोः᳚⁠। यथ्सा॒यं धृती᳚र्जु॒होति॑⁠। अश्व॑स्य॒ यत्यै॒ धृत्यै᳚⁠ ॥ [५०] (१०) यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते⁠। अश्व॑मे॒व तदन्वि॑च्छति⁠। यथ्सा॒यं धृती᳚र्जु॒होति॑⁠। अश्व॑स्यै॒व यत्यै॒ धृत्यै᳚⁠। तस्मा᳚थ्सा॒यं प्र॒जाः ख्‍षे॒म्या॑ भवन्ति⁠॥ यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते⁠। अश्व॑मे॒व तदन्वि॑च्छति⁠। तस्मा॒द्दिवा॑ नष्टै॒ष ए॑ति⁠॥ यत्प्रा॒तरिष्टि॑भि॒र्यज॑ते सा॒यं धृती᳚र्जु॒होति॑⁠। अ॒हो॒रा॒त्राभ्या॑मे॒वैन॒मन्वि॑च्छति⁠। अथो॑ अहोरा॒त्राभ्या॑मे॒वास्मै॑ योगख्‍षे॒मं क॑ल्पयति⁠ ॥ [५१] (११) (भ॒व॒न्ति॒ धृत्या॑ एन॒ मन्वि॑च्छ॒त्येकं॑ च) ॥१३॥
तास्विष्टिषु ब्राह्मणराजन्ययोर्गानम्
अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रं क्रा॑मति⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। ब्रा॒ह्म॒णौ वी॑णागा॒थिनौ॑ गायतः⁠। श्रि॒या वा ए॒तद् रू॒पम्⁠। यद्वीणा᳚⁠। श्रिय॑मे॒वास्मि॒न्तद्ध॑त्तः⁠। य॒दा खलु॒ वै पुरु॑षः॒ श्रिय॑मश्नु॒ते⁠। वीणा᳚ऽस्मै वाद्यते⁠॥ तदा॑हुः⁠। यदु॒भौ ब्रा᳚ह्म॒णौ गाये॑ताम्⁠ ॥ [५२] (१०) प्र॒भ्रꣳशु॑काऽस्मा॒च्छ्रीः स्या᳚त्⁠। न वै ब्रा᳚ह्म॒णे श्री र॑मत॒ इति॑⁠। ब्रा॒ह्म॒णो᳚ऽन्यो गाये᳚त्⁠। रा॒ज॒न्यो᳚ऽन्यः⁠। ब्रह्म॒ वै ब्रा᳚ह्म॒णः⁠। ख्‍ष॒त्रꣳ रा॑ज॒न्यः॑⁠। तथा॑ हास्य॒ ब्रह्म॑णा च ख्‍ष॒त्रेण॑ चोभ॒यतः॒ श्रीः परि॑गृहीता भवति⁠॥ तदा॑हुः⁠। यदु॒भौ दिवा॒ गाये॑ताम्⁠। अपा᳚स्माद् रा॒ष्ट्रं क्रा॑मेत्⁠ ॥ [५३] (१०) न वै ब्रा᳚ह्म॒णे रा॒ष्ट्रꣳ र॑मत॒ इति॑⁠। य॒दा खलु॒ वै राजा॑ का॒मय॑ते⁠। अथ॑ ब्राह्म॒णं जि॑नाति⁠। दिवा᳚ ब्राह्म॒णो गा॑येत्⁠। नक्त॑ꣳ राज॒न्यः॑⁠। ब्रह्म॑णो॒ वै रू॒पमहः॑⁠। ख्‍ष॒त्रस्य॒ रात्रिः॑⁠। तथा॑ हास्य॒ ब्रह्म॑णा च ख्‍ष॒त्रेण॑ चोभ॒यतो॑ रा॒ष्ट्रं परि॑गृहीतं भवति⁠॥ इत्य॑ददा॒ इत्य॑यजथा॒ इत्य॑पच॒ इति॑ ब्राह्म॒णो गाये᳚त्⁠। इ॒ष्टा॒पू॒र्तव्ँवै ब्रा᳚ह्म॒णस्य॑⁠ ॥ [५४] (१०) इ॒ष्टा॒पू॒र्तेनै॒वैन॒ꣳ॒ स सम॑द्‌र्धयति⁠॥ इत्य॑जिना॒ इत्य॑युद्ध्यथा॒ इत्य॒मुꣳ स॑ग्रां॒मम॑ह॒न्निति॑ राज॒न्यः॑⁠। यु॒द्धव्ँवै रा॑ज॒न्य॑स्य⁠। यु॒द्धेनै॒वैन॒ꣳ॒ स सम॑द्‌र्धयति⁠॥ अक्लृ॑प्ता॒ वा ए॒तस्य॒र्तव॒ इत्या॑हुः⁠। यो᳚ऽश्वमे॒धेन॒ यज॑त॒ इति॑⁠। ति॒स्रो᳚ऽन्यो गाय॑ति ति॒स्रो᳚ऽन्यः⁠। षट्थ्संप॑द्यन्ते⁠। षड्वा ऋ॒तवः॑⁠। ऋ॒तूने॒वास्मै॑ कल्पयतः⁠॥ ताभ्या॑ꣳ स॒ꣴ॒स्थाया᳚म्⁠। अ॒नो॒यु॒क्ते च॑ श॒ते च॑ ददाति⁠। श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः⁠। आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति⁠ ॥ [५५] (१४) (गाये॑ताम् क्रामेद् ब्राह्म॒णस्य॑ कल्पयतश्च॒त्वारि॑ च) ॥१४॥
अवभृथहोमविशेषाः
सर्वे॑षु॒ वा ए॒षु लो॒केषु॑ मृ॒त्यवो॒ऽन्वाय॑त्ताः⁠। तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒यात्⁠। लो॒के लो॑क एनं मृ॒त्युर्वि॑न्देत्⁠। मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहेत्य॑भि पू॒र्वमाहु॑तीर्जुहोति⁠। लो॒काल्लो॑कादे॒व मृ॒त्युमव॑यजते⁠। नैन॑ल्ँलो॒के ला॑के मृ॒त्युर्वि॑न्दति⁠॥ यद॒मुष्मै॒ स्वाहा॒ऽमुष्मै॒ स्वाहेति॒ जुह्व॑थ्सं॒ चख्‍षी॑त⁠। ब॒हुं मृ॒त्युम॒मित्रं॑ कुर्वीत⁠। मृ॒त्यवे॒ स्वाहेत्येक॑स्मा ए॒वैका᳚ञ्जुहुयात्⁠। एको॒ वा अ॒मुष्मि॑ल्ँला॒के मृ॒त्युः⁠ ॥ [५६] (१०) अ॒श॒न॒या॒ मृ॒त्युरे॒व⁠। तमे॒वामुष्मि॑ल्ँलो॒केऽव॑यजते⁠॥ भ्रू॒ण॒ह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहु॑तिं जुहोति⁠। भ्रू॒ण॒ह॒त्यामे॒ वा व॑यजते⁠॥ तदा॑हुः⁠। यद्भ्रू॑णह॒त्याऽपा॒त्र्याऽथ॑⁠। कस्मा᳚द्य॒ज्ञेऽपि॑ क्रियत॒ इति॑⁠॥ अमृ॑त्यु॒र्वा अ॒न्यो भ्रू॑णह॒त्याया॒ इत्या॑हुः⁠। भ्रू॒ण॒ह॒त्या वाव मृ॒त्युरिति॑⁠। यद्भ्रू॑णह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहुतिं॑ जु॒होति॑⁠ ॥ [५७] (१०) मृ॒त्युमे॒ वा हु॑त्या तर्पयि॒त्वा प॑रि॒पाणं॑ कृ॒त्वा⁠। भ्रू॒ण॒घ्ने भे॑ष॒जं क॑रोति⁠॥ ए॒ताꣳ ह॒ वै मु॑ण्डि॒भ औ॑दन्य॒वः⁠। भ्रू॒ण॒ह॒त्यायै॒ प्राय॑श्चित्तिव्ँवि॒दाञ्च॑कार⁠। यो हा॒स्यापि॑ प्र॒जायां᳚ ब्राह्म॒णꣳ हन्ति॑⁠। सर्व॑स्मै॒ तस्मै॑ भेष॒जं क॑रोति⁠॥ जु॒म्ब॒काय॒ स्वाहेत्य॑वभृ॒थ उ॑त्त॒मामाहु॑तिं जुहोति⁠। वरु॑णो॒ वै जु॑म्ब॒कः⁠। अ॒न्त॒त ए॒व वरु॑ण॒मव॑यजते⁠॥ ख॒ल॒तेर्वि॑क्लि॒धस्य॑ शु॒क्लस्य॑ पिङ्गा॒ख्‍षस्य॑ मू॒द्‌र्धञ्जु॑होति⁠। ए॒तद्वै वरु॑णस्य रू॒पम्⁠। रू॒पेणै॒व वरु॑ण॒मव॑यजते⁠ ॥ [५८] (१२) (लो॒के मृ॒त्युर् जु॒होति॑ मू॒द्‌र्धञ्जु॑होति॒ द्वे च॑) ॥१५॥
उपाकरणमन्त्रव्याख्यानादिः
वा॒रु॒णो वा अश्वः॑⁠। तं दे॒वत॑या॒ व्य॑द्‌र्धयति⁠। यत्प्रा॑जाप॒त्यं क॒रोति॑⁠। नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येत्या॑ह⁠। वा॒रु॒णो वा अश्वः॑⁠। स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑द्‌र्धयति⁠॥ नमोऽश्वा॑य॒ नमः॑ प्र॒जाप॑तय॒ इत्या॑ह⁠। प्रा॒जा॒प॒त्यो वा अश्वः॑⁠। स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑द्‌र्धयति⁠॥ नमोऽधि॑पतय॒ इत्या॑ह⁠ ॥ [५९] (१०) धर्मो॒ वा अधि॑पतिः⁠। धर्म॑मे॒वाव॑रुन्धे⁠॥ अधि॑पतिर॒स्यधि॑पतिं मा कु॒र्वधि॑पतिर॒हं प्र॒जानां᳚ भूयास॒मित्या॑ह⁠। अधि॑पतिम॒वैन॑ꣳ समा॒नानां᳚ करोति⁠॥ मां ध॑हि॒ मयि॑ ध॒हीत्या॑ह⁠। आ॒शिष॑मे॒वैतामाशा᳚स्ते⁠॥ उ॒पाकृ॑ताय॒ स्वाहेत्यु॒पाकृ॑ते जुहोति⁠। आल॑ब्धाय॒ स्वाहेति॒ नियु॑क्ते जुहोति⁠। हु॒ताय॒ स्वाहेति॑ हु॒ते जु॑होति⁠। ए॒षाल्ँलो॒काना॑म॒भिजि॑त्यै⁠ ॥ [६०] (१०) प्र वा ए॒ष ए॒भ्यो लो॒केभ्य॑श्च्यवते⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। आ॒ग्ने॒यमै᳚न्द्रा॒ग्नमा᳚श्वि॒नम्⁠। तान् प॒शूनाल॑भते॒ प्रति॑ष्ठित्यै⁠॥ यदा᳚ऽग्ने॒यो भव॑ति⁠। अ॒ग्निः सर्वा॑ दे॒वताः᳚⁠। दे॒वता॑ ए॒वाव॑रुन्धे⁠॥ ब्रह्म॒ वा अ॒ग्निः⁠। ख्‍ष॒त्रमिन्द्रः॑⁠। यदै᳚न्द्रा॒ग्नो भव॑ति⁠ ॥ [६१] (१०) ब्र॒ह्म॒ख्‍ष॒त्रे ए॒वाव॑रुन्धे⁠॥ यदा᳚ऽश्वि॒नो भव॑ति⁠। आ॒शिषा॒मव॑रुद्ध्यै⁠॥ त्रयो॑ भवन्ति⁠। त्रय॑ इ॒मे लो॒काः⁠। ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति⁠॥ अ॒ग्नये॑ऽꣳहो॒मुचे॒ऽष्टाक॑पाल॒ इति॒ दश॑हविष॒मिष्टिं॒ निर्व॑पति⁠। दशा᳚ख्‍षरा वि॒राट्⁠। अन्न॑व्ँवि॒राट्⁠। वि॒राजै॒वान्नाद्य॒मव॑रुन्धे⁠॥ अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तस॒ इति॑ याज्यानुवा॒क्या॑ भवन्ति सर्व॒त्वाय॑⁠ ॥ [६२] (११) (अधि॑पतय॒ इत्या॑ हा॒भिजि॑त्या ऐन्द्रा॒ग्नो भव॑ति रुन्ध॒ एकं॑ च) ॥१६॥
अश्वस्य रोगादिनिमित्तं प्रायश्चित्तम्
यद्यश्व॑मुप॒तप॑द्वि॒न्देत्⁠। आ॒ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेत्⁠। सौ॒म्यं च॒रुम्⁠। सा॒वि॒त्रम॒ष्टाक॑पालम्⁠॥ यदा᳚ग्ने॒यो भव॑ति⁠। अ॒ग्निः सर्वा॑ दे॒वताः᳚⁠। दे॒वता॑भिरे॒वैनं॑ भिषज्यति⁠॥ यथ्सौ॒म्यो भव॑ति⁠। सोमो॒ वा ओष॑धीना॒ꣳ॒ राजा᳚⁠। याभ्य॑ ए॒वैन॑व्ँवि॒न्दति॑⁠ ॥ [६३] (१०) ताभि॑रे॒वैनं॑ भिषज्यति⁠॥ यथ्सा॑वि॒त्रो भव॑ति⁠। स॒वि॒तृप्र॑सूत ए॒वैनं॑ भिषज्यति⁠॥ ए॒ताभि॑रे॒वैनं॑ दे॒वता॑भिर्भिषज्यति⁠। अ॒ग॒दो है॒व भ॑वति⁠॥ पौ॒ष्णं च॒रुं निर्व॑पेत्⁠। यदि॑ श्लो॒णः स्यात्⁠। पू॒षा वै श्लौण्य॑स्य भि॒षक्⁠। स ए॒वैनं॑ भिषज्यति⁠। अश्लो॑णो है॒व भ॑वति⁠ ॥ [६४] (१०) रौ॒द्रं च॒रुं निर्व॑पेत्⁠। यदि॑ मह॒ती दे॒वता॑ऽभि॒मन्ये॑त⁠। ए॒त॒द्दे॒व॒त्यो॑ वा अश्वः॑⁠। स्वयै॒वैनं॑ दे॒वत॑या भिषज्यति⁠। अ॒ग॒दो है॒व भ॑वति⁠॥ वै॒श्वा॒न॒रं द्वाद॑शकपालं॒ निर्व॑पेन्मृगाख॒रे यदि॒ नागच्छे᳚त्⁠। इ॒यव्ँवा अ॒ग्निर्वै᳚श्वान॒रः⁠। इ॒यमे॒वैन॑म॒र्चिभ्यां᳚ परि॒रोध॒मान॑यति⁠। आ है॒व सुत्य॒मह॑र्गच्छति⁠॥ यद्य॑धी॒यात्⁠ ॥ [६५] (१०) अ॒ग्नये॑ऽꣳहो॒मुचे॒ऽष्टाक॑पालः⁠। सौ॒र्यं पयः॑⁠। वा॒य॒व्य॑ आज्य॑भागः⁠॥ यज॑मानो॒ वा अश्वः॑⁠। अꣳह॑सा॒ वा ए॒ष गृ॑ही॒तः⁠। यस्याश्वो॒ मेधा॑य॒ प्रोख्‍षि॑तो॒ऽद्ध्येति॑⁠। यद॑ꣳहो॒मुचे॑ नि॒र्वप॑ति⁠। अꣳह॑स ए॒व तेन॑ मुच्यते⁠॥ यज॑मानो॒ वा अश्वः॑⁠। रेत॑सा॒ वा ए॒ष व्यृ॑द्ध्यते⁠ ॥ [६६] (१०) यस्याश्वो॒ मेधा॑य॒ प्रोख्‍षि॑तो॒ऽद्ध्येति॑⁠। सौ॒र्यꣳ रेतः॑⁠। यथ्सौ॒र्यं पयो॒ भव॑ति⁠। रेत॑सै॒वैन॒ꣳ॒ स सम॑द्‌र्धयति⁠॥ यज॑मानो॒ वा अश्वः॑⁠। गर्भै॒र्वा ए॒ष व्यृ॑द्ध्यते⁠। यस्याश्वो॒ मेधा॑य॒ प्रोख्‍षि॑तो॒ऽद्ध्येति॑⁠। वा॒य॒व्या॑ गर्भाः᳚⁠। यद्वा॑य॒व्य॑ आज्य॑भागो॒ भव॑ति⁠। गर्भै॑रे॒वैन॒ꣳ॒ स सम॑द्‌र्धयति⁠॥ अथो॒ यस्यै॒षाऽश्व॑मे॒धे प्राय॑श्चित्तः क्रि॒यते᳚⁠। इ॒ष्ट्वा वसी॑यान् भवति⁠ ॥ [६७] (१२) (वि॒न्द त्यश्लो॑णो है॒व भ॑व त्यधी॒या दृ॑द्ध्यते॒ गर्भै॑रे॒वैन॒ꣳ॒ स सम॑द्‌र्धयति॒ द्वे च॑) ॥१७॥
ब्रह्मौदना उच्यन्ते
तदा॑हुः⁠। द्वाद॑श ब्रह्मौद॒नान् थ्सꣴस्थि॑त॒ निर्व॑पेत्⁠। द्वा॒द॒शभि॒र्वेष्टि॑भि॒र्यजे॒तेति॑⁠॥ यदिष्टि॑भि॒र्यजे॑त⁠। उ॒प॒नामु॑क एनय्ँय॒ज्ञः स्या᳚त्⁠। पापी॑या॒ꣴ॒स्तु स्या᳚त्⁠। आ॒प्तानि॒ वा ए॒तस्य॒ छन्दा॑ꣳसि⁠। य ई॑जा॒नः⁠। तानि॒ क ए॒ताव॑दाशु॒ पुनः॒ प्रयु॑ञ्जी॒तेति॑⁠। सर्वा॒ वै सꣴस्थि॑ते य॒ज्ञे वागा᳚प्यते⁠ ॥ [६८] (१०) साऽऽप्ता भ॑वति या॒तया᳚म्नी⁠। क्रू॒रीकृ॑तेव॒ हि भव॒त्यरु॑ष्कृता⁠। सा न पुनः॑ प्र॒युज्येत्या॑हुः⁠॥ द्वाद॑शै॒व ब्र॑ह्मौद॒नान् थ्सꣴस्थि॑ते॒ निर्व॑पेत्⁠। प्र॒जाप॑ति॒र्वा ओ॑द॒नः⁠। य॒ज्ञः प्र॒जाप॑तिः⁠। उ॒प॒नामु॑क एनय्ँय॒ज्ञो भ॑वति⁠। न पापी॑यान् भवति⁠॥ द्वाद॑श भवन्ति⁠। द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः⁠। स॒व्ँव॒थ्स॒र ए॒व प्रति॑तिष्ठति⁠ ॥ [६९] (११) (आ॒प्य॒ते॒ स॒व्ँव॒थ्स॒र एकं॑ च) ॥१८॥
विभुत्वादिभिः द्वादशभिर्गुणौरश्वमेधप्रशंसा
ए॒ष वै वि॒भूर्नाम॑ य॒ज्ञः⁠। सर्व॑ꣳ ह॒ वै तत्र॑ वि॒भु भ॑वति⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ ए॒ष वै प्र॒भूर्नाम॑ य॒ज्ञः⁠। सर्व॑ꣳ ह॒ वै तत्र॑ प्र॒भु भ॑वति⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ ए॒ष वा ऊर्ज॑स्वा॒न्नाम॑ य॒ज्ञः⁠। सर्व॑ꣳ ह॒ वै तत्रोर्ज॑स्वद्भवति⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ ए॒ष वै पय॑स्वा॒न्नाम॑ य॒ज्ञः⁠ ॥ [७०] (१०) सर्व॑ꣳ ह॒ वै तत्र॒ पय॑स्वद्भवति⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ ए॒ष वै विधृ॑तो॒ नाम॑ य॒ज्ञः⁠। सर्व॑ꣳ ह॒ वै तत्र॒ विधृ॑तं भवति⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ ए॒ष वै व्यावृ॑त्तो॒ नाम॑ य॒ज्ञः⁠। सर्व॑ꣳ ह॒ वै तत्र॒ व्यावृ॑त्तं भवति⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ ए॒ष वै प्रति॑ष्ठितो॒ नाम॑ य॒ज्ञः⁠। सर्व॑ꣳ ह॒ वै तत्र॒ प्रति॑ष्ठितं भवति⁠ ॥ [७१] (१०) यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ ए॒ष वै ते॑ज॒स्वी नाम॑ य॒ज्ञः⁠। सर्व॑ꣳ ह॒ वै तत्र॑ तेज॒स्वि भ॑वति⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ ए॒ष वै ब्र॑ह्मवर्च॒सी नाम॑ य॒ज्ञः⁠। आ ह॒ वै तत्र॑ ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यते⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ ए॒ष वा अ॑तिव्या॒धी नाम॑ य॒ज्ञः⁠। आ ह॒ वै तत्र॑ राज॒न्यो॑ऽतिव्या॒धी जा॑यते⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ ए॒ष वै दी॒र्घो नाम॑ य॒ज्ञः⁠। दी॒र्घायु॑षो ह॒ वै तत्र॑ मनु॒ष्या॑ भवन्ति⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠॥ ए॒ष वै क्लृ॒प्तो नाम॑ य॒ज्ञः⁠। कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगख्‍षे॒मः⁠। यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते⁠ ॥ [७२] (१६) (ए॒ष वै वि॒भूः प्र॒भूरूर्ज॑स्वा॒न् पय॑स्वा॒न्॒‌विधृ॑तो॒ व्यावृ॑त्तः॒ प्रति॑ष्ठितस्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑तिव्या॒धी दी॒र्घः क्लु॒प्तो द्वाद॑श) ॥१९॥
अश्वसंज्ञपनप्रकारः
ता॒र्प्येणाश्व॒ꣳ॒ संज्ञ॑पयन्ति⁠। य॒ज्ञो वै ता॒र्प्यम्⁠। य॒ज्ञेनै॒वैन॒ꣳ॒ सम॑द्‌र्धयन्ति⁠॥ या॒मेन॒ साम्ना᳚ प्रस्तो॒ताऽनूप॑तिष्ठते⁠। य॒म॒लो॒कमे॒वैनं॑ गमयति⁠॥ ता॒र्प्ये च॑ कृत्त्यधीवा॒से चाश्व॒ꣳ॒ संज्ञ॑पयन्ति⁠। ए॒तद्वै प॑शू॒नाꣳ रू॒पम्⁠। रू॒पेणै॒व प॒शूनव॑रुन्धे⁠॥ हि॒र॒ण्य॒क॒शि॒पु भ॑वति⁠। तेज॒सोऽव॑रुद्ध्यै⁠ ॥ [७३] (१०) रु॒क्मो भ॑वति⁠। सु॒व॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै⁠॥ अश्वो॑ भवति⁠। प्र॒जाप॑ते॒राप्त्यै᳚⁠॥ अ॒स्य वै लो॒कस्य॑ रू॒पं ता॒र्प्यम्⁠। अ॒न्तरि॑ख्‍षस्य कृत्त्यधीवा॒सः⁠। दि॒वो हि॑रण्यकशि॒पु⁠। आ॒दि॒त्यस्य॑ रु॒क्मः⁠। प्र॒जाप॑ते॒रश्वः॑⁠। इ॒ममे॒व लो॒कं ता॒र्प्येणा᳚प्नोति⁠ ॥ [७४] (१०) अ॒न्तरि॑ख्‍षं कृत्यधीवा॒सेन॑⁠। दिव॑ꣳ हिरण्यकशि॒पुना᳚⁠। आ॒दि॒त्यꣳ रु॒क्मेण॑⁠। अश्वे॑नै॒व मेद्ध्ये॑न प्र॒जाप॑तेः॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति⁠॥ ए॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यम्⁠। सा॒र्ष्टिता॑ꣳ समान लो॒कता॑माप्नोति⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠ ॥ [७५] (८) (अव॑रुद्ध्या आप्नोत्य॒ +ष्टौ च॑) ॥२०॥
उत्तरवेद्युपवापः
आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के᳚ऽस्पद्‌र्धन्त⁠। तेऽङ्गि॑रस आदि॒त्येभ्यः॑⁠। अ॒मुमा॑दि॒त्यमश्व॑ꣴ श्वे॒तं भू॒तं दख्‍षि॑णामनयन्न्⁠। ते᳚ऽब्रुवन्न्⁠। यं नोऽन᳚ष्ट⁠। स वर्यो॑ऽभू॒दिति॑⁠। तस्मा॒दश्व॒ꣳ॒ सव॒र्येत्याह्व॑यन्ति⁠। तस्मा᳚द्य॒ज्ञे वरो॑ दीयते⁠॥ यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत्⁠। तस्मा॒दश्वो॒ नाम॑⁠ ॥ [७६] (१०) यच्छ्वय॒दरु॒रासी᳚त्⁠। तस्मा॒दर्वा॒ नाम॑⁠॥ यथ्स॒द्यो वाजा᳚न् थ्स॒मज॑यत्⁠। तस्मा᳚द्वा॒जी नाम॑⁠॥ यदसु॑राणाल्ँलो॒कानाद॑त्त⁠। तस्मा॑दादि॒त्यो नाम॑⁠॥ अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम्⁠। सूर्यो॒ऽग्नेर्योनि॑रा॒यत॑नम्⁠। यद॑श्वमे॒धे᳚ऽग्नौ चित्य॑ उत्तरवे॒दिमु॑प॒वप॑ति⁠। योनि॑मन्तमे॒वैन॑मा॒यत॑नवन्तं करोति⁠ ॥ [७७] (१०) योनि॑माना॒यत॑नवान् भवति⁠। स ए॒वव्ँवेद॑⁠॥ प्रा॒णा॒पा॒नौ वा ए॒तौ दे॒वाना᳚म्⁠। यद॑र्काश्वमे॒धौ⁠। प्रा॒णा॒पा॒नावे॒वाव॑रुन्धे⁠॥ ओजो॒ बल॒व्ँवा ए॒तौ दे॒वाना᳚म्⁠। यद॑र्काश्वमे॒धौ⁠। ओजो॒ बल॑मे॒वाव॑रुन्धे⁠॥ अ॒ग्निर्वा अ॑श्वमे॒धस्य॒ योनि॑रा॒यत॑नम्⁠। सूर्यो॒ऽग्नेर्योनि॑रा॒यत॑नम्⁠। यद॑श्वमे॒धे᳚ऽग्नौ चित्य॑ उत्तरवे॒दिं चि॒नोति॑⁠। ताव॑र्काश्वमे॒धौ⁠। अ॒र्का॒श्व॒मे॒धावे॒वा व॑रुन्धे⁠। अथो॑ अर्काश्वमे॒धयो॑रे॒व प्रति॑तिष्ठति⁠ ॥ [७८] (१४) (नाम॑ करोति॒ सूर्यो॒ऽग्नेर्योनि॑रा॒यत॑नम् च॒त्वारि॑ च) ॥२१॥
ऋषभालम्भः
प्र॒जाप॑ति॒व्ँवै दे॒वाः पि॒तर᳚म्⁠। प॒शुं भू॒तं मेधा॒याल॑भन्त⁠। तमा॒लभ्योपा॑वसन्न्⁠। प्रा॒तर्यष्टा᳚स्मह॒ इति॑⁠। एक॒व्ँवा ए॒तद्दे॒वाना॒महः॑⁠। यथ्स॑व्ँवथ्स॒रः⁠। तस्मा॒दश्वः॑ पु॒रस्ता᳚थ्सव्ँवथ्स॒र आल॑भ्यते⁠॥ यत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत्⁠। तस्मा॒दश्वः॑⁠। यथ्स॒द्यो मेधोऽभ॑वत्⁠ ॥ [७९] (१०) तस्मा॑दश्वमे॒धः⁠॥ वेदु॒कोऽश्व॑मा॒शुं भ॑वति⁠। य ए॒वं वेद॑⁠॥ यद्वै तत्प्र॒जाप॑ति॒राल॒ब्धोऽश्वोऽभ॑वत्⁠। तस्मा॒दश्वः॑ प्र॒जाप॑तेः पशू॒नामनु॑रूपतमः⁠॥ आऽस्य॑ पु॒त्रः प्रति॑रूपो जायते⁠। य ए॒वव्ँवेद॑⁠॥ सर्वा॑णि भू॒तानि॑ स॒भृंत्याल॑भते⁠। समे॑नं दे॒वास्तेज॑से ब्रह्मवर्च॒साय॑ भरन्ति⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠ ॥ [८०] (१०) य उ॑ चैनमे॒वव्ँवेद॑⁠॥ ए॒तद्वै तद्दे॒वा ए॒तां दे॒वता᳚म्⁠। प॒शुं भू॒तं मेधा॒याल॑भन्त⁠। य॒ज्ञम॒व⁠। य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः⁠। का॒म॒प्रं य॒ज्ञम॑ कुर्वत⁠। ते॑ऽमृत॒त्वम॑कामयन्त⁠। त॑ऽमृत॒त्वम॑गच्छन्न्⁠॥ यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। दे॒वाना॑मे॒वाय॑नेनैति⁠ ॥ [८१] (१०) प्रा॒जा॒प॒त्येनै॒व य॒ज्ञेन॑ यजते काम॒प्रेण॑⁠। अपु॑नर्मारमे॒व ग॑च्छति⁠॥ ए॒तस्य॒ वै रू॒पेण॑ पु॒रस्ता᳚त्प्राजाप॒त्यमृ॑ष॒भं तू॑प॒रं ब॑हुरू॒पमाल॑भते⁠। सर्वे᳚भ्यः॒ कामे᳚भ्यः⁠। सर्व॒स्याप्त्यै᳚⁠। सर्व॑स्य॒ जित्यै᳚⁠॥ सर्व॑मे॒व तेना᳚प्नोति⁠। सर्वं॑ जयति⁠। यो᳚ऽश्वमे॒धेन॒ यज॑ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠ ॥ [८२] (१०) (मेधोऽभ॑व॒द् यज॑त एति॒ वेद॑) ॥२२॥
अश्वावयवेषूपासनम्
यो वा अश्व॑स्य॒ मेद्ध्य॑स्य॒ लोम॑नी॒ वेद॑⁠। अश्व॑स्यै॒व मेद्ध्य॑स्य॒ लोम॑ल्ँलोमञ्जुहोति⁠। अ॒हो॒रा॒त्रे वा अश्व॑स्य॒ मेद्ध्य॑स्य॒ लोम॑नी⁠। यथ्सा॒यं प्रा॑तर्जु॒होति॑⁠। अश्व॑स्यै॒व मेद्ध्य॑स्य॒ लोम॑ल्ँलोमञ्जुहोति⁠। ए॒तद॑नुकृति हस्म॒ वै पु॒रा⁠। अश्व॑स्य॒ मेद्ध्य॑स्य॒ लोम॑ल्ँलोमञ्जुह्वति⁠॥ यो वा अश्व॑स्य॒ मेद्ध्य॑स्य प॒दे वेद॑⁠। अश्व॑स्यै॒व मेद्ध्य॑स्य प॒दे प॑दे जुहोति⁠। द॒र्॒‌श॒पू॒र्ण॒मा॒सौ वा अश्व॑स्य॒ मेद्ध्य॑स्य प॒दे⁠ ॥ [८३] (१०) यद्द॑र्‌शपूर्णमा॒सौ यज॑ते⁠। अश्व॑स्यै॒व मेद्ध्य॑स्य प॒दे प॑दे जुहोति⁠। ए॒तद॑नुकृति ह स्म॒ वै पु॒रा⁠। अश्व॑स्य॒ मेद्ध्य॑स्य प॒दे प॑दे जुह्वति⁠॥ यो वा अश्व॑स्य॒ मेद्ध्य॑स्य वि॒वर्त॑न॒व्ँवेद॑⁠। अश्व॑स्यै॒व मेद्ध्य॑स्य वि॒वर्त॑ने विवर्तने जुहोति⁠। अ॒सौ वा आ॑दि॒त्योऽश्वः॑⁠। स आ॑हव॒नीय॒माग॑च्छति⁠। तद्विव॑र्तते⁠। यद॑ग्निहो॒त्रं जु॒होति॑⁠। अश्व॑स्यै॒व मेद्ध्य॑स्य वि॒वर्त॑ने विवर्तने जुहोति⁠। ए॒तद॑नुकृति ह स्म॒ वै पु॒रा⁠। अश्व॑स्य॒ मेद्ध्य॑स्य वि॒वर्त॑ने विवर्तने जुह्वति⁠ ॥ [८४] (१३) (प॒दे अ॑ग्निहो॒त्रं जु॒होति॒ त्रीणि॑ च) ॥२३॥
अनुवाकाः पञ्चशती
२३ ८४