कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे काठकम्
द्वितीयः प्रश्नः

काठकम् प्रश्न २
इष्टकोपधानमन्त्राः
लो॒को॑ऽसि स्व॒र्गो॑ऽसि⁠। अ॒न॒न्तो᳚ऽस्य पा॒रो॑ऽसि⁠। अख्‍षि॑तोऽस्य ख्‍ष॒य्यो॑ऽसि⁠। तप॑सः प्रति॒ष्ठा⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता⁠। तन्त्वोप॑दधे काम॒दुघ॒मख्‍षि॑तम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [१] (१०) तपो॑ऽसि लो॒के श्रि॒तम्⁠। तेज॑सः प्रति॒ष्ठा⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्तृ विश्व॑स्य जनयि॒तृ⁠। तत् त्वोप॑दधे काम॒दुघ॒मख्‍षि॑तम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [२] (८) तेजो॑ऽसि॒ तप॑सि श्रि॒तम्⁠। स॒मु॒द्रस्य॑ प्रति॒ष्ठा⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्तृविश्व॑स्य जनयि॒तृ⁠। तत् त्वोप॑दधे काम॒दुघ॒मख्‍षि॑तम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [३] (८) स॒मु॒द्रो॑ऽसि॒ तेज॑सि श्रि॒तः⁠। अ॒पां प्र॑ति॒ष्ठा⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता⁠। तं त्वोप॑दधे काम॒दुघ॒मख्‍षि॑तम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [४] (८) आपः॑ स्थ समु॒द्रे श्रि॒ताः⁠। पृ॒थि॒व्याः प्र॑ति॒ष्ठा यु॒ष्मासु॑⁠। इ॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्त्र्यो॑ विश्व॑स्य जनयि॒त्र्यः॑⁠। ता व॒ उप॑दधे काम॒दुघा॒ अख्‍षि॑ताः⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [५] (८) पृ॒थि॒व्य॑स्य॒फ्सु श्रि॒ता⁠। अ॒ग्नेः प्र॑ति॒ष्ठा⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री⁠। तां त्वोप॑दधे काम॒दुघा॒मख्‍षि॑ताम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [६] (८) अ॒ग्निर॑सि पृथि॒व्याꣴ श्रि॒तः⁠। अ॒न्तरि॑ख्‍षस्य प्रति॒ष्ठा⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता⁠। तं त्वोप॑दधे काम॒दुघ॒मख्‍षि॑तम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [७] (८) अ॒न्तरि॑ख्‍षमस्य॒ग्नौ श्रि॒तम्⁠। वा॒योः प्र॑ति॒ष्ठा⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्तृ विश्व॑स्य जनयि॒तृ⁠। तत् त्वोप॑दधे काम॒दुघ॒मख्‍षि॑तम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [८] (८) वा॒युर॑स्य॒न्तरि॑ख्‍षे श्रि॒तः⁠। दि॒वः प्र॑ति॒ष्ठा⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता⁠। तं त्वोप॑दधे काम॒दुघ॒मख्‍षि॑तम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [९] (८) द्यौर॑सि वा॒यौ श्रि॒ता⁠। आ॒दि॒त्यस्य॑ प्रति॒ष्ठा⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री⁠। तां त्वोप॑दधे काम॒दुघा॒मख्‍षि॑ताम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [१०] (८) आ॒दि॒त्यो॑ऽसि दि॒वि श्रि॒तः⁠। च॒न्द्रम॑सः प्रति॒ष्ठा⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता⁠। तं त्वोप॑दधे काम॒दुघ॒मख्‍षि॑तम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [११] (८) च॒न्द्रमा॑ अस्यादि॒त्ये श्रि॒तः⁠। नख्‍ष॑त्राणां प्रति॒ष्ठा⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता⁠। तं त्वोप॑दधे काम॒दुघ॒मख्‍षि॑तम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [१२] (८) नख्‍ष॑त्राणि स्थ च॒न्द्रम॑सि श्रि॒तानि॑⁠। स॒व्ँव॒थ्स॒रस्य॑ प्रति॒ष्ठा यु॒ष्मासु॑⁠। इ॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्तॄणि॒ विश्व॑स्य जनयि॒तॄणि॑⁠। तानि॑ व॒ उप॑दधे काम॒दुघा॒न्यख्‍षि॑तानि⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [१३] (८) स॒व्ँव॒थ्स॒रो॑ऽसि॒ नख्‍ष॑त्रेषु श्रि॒तः⁠। ऋ॒तू॒नां प्र॑ति॒ष्ठा⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता⁠। तं त्वोप॑दधे काम॒दुघ॒मख्‍षि॑तम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [१४] (८) ऋ॒तवः॑ स्थ सव्ँवथ्स॒रे श्रि॒ताः⁠। मासा॑नां प्रति॒ष्ठा यु॒ष्मासु॑⁠। इ॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑⁠। तान्‌व॒ उप॑दधे काम॒दुघा॒नख्‍षि॑तान्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [१५] (८) मासाः᳚ स्थ॒र्तुषु॑ श्रि॒ताः⁠। अ॒द्‌र्ध॒मा॒सानां᳚ प्रति॒ष्ठा यु॒ष्मासु॑⁠। इ॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑⁠। तान्‌व॒ उप॑दधे काम॒दुघा॒नख्‍षि॑तान्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [१६] (८) अ॒द्‌र्ध॒मा॒साः स्थ॑ मा॒सु श्रि॒ताः⁠। अ॒हो॒रा॒त्रयोः᳚ प्रति॒ष्ठा यु॒ष्मासु॑⁠। इ॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑⁠। तान्‌व॒ उप॑दधे काम॒दुघा॒नख्‍षि॑तान्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [१७] (८) अ॒हो॒रा॒त्रे स्थो᳚ऽद्‌र्धमा॒सेषु॑ श्रि॒ते⁠। भू॒तस्य॑ प्रति॒ष्ठे भव्य॑स्य प्रति॒ष्ठे⁠। यु॒वयो॑रि॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्त्र्यौ॑ विश्व॑स्य जनयि॒त्र्यौ᳚⁠। ते वा॒मुप॑दधे काम॒दुघे॒ अख्‍षि॑ते⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [१८] (८) पौ॒र्ण॒मा॒स्यष्ट॑काऽमावा॒स्या᳚⁠। अ॒न्ना॒दाः स्था᳚न्न॒दुघो॑ यु॒ष्मासु॑⁠। इ॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्त्र्यो॑ विश्व॑स्य जनयि॒त्र्यः॑⁠। ता व॒ उप॑दधे काम॒दुघा॒अख्‍षि॑ताः⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [१९] (८) राड॑सि बृह॒ती श्रीर॒सीन्द्र॑पत्नी॒ धर्म॑पत्नी⁠। विश्वं॑ भू॒तमनु॒ प्रभू॑ता⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री⁠। तां त्वोप॑दधे काम॒दुघा॒मख्‍षि॑ताम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [२०] (८) ओजो॑ऽसि॒ सहो॑ऽसि⁠। बल॑मसि॒ भ्राजो॑ऽसि⁠। दे॒वानां॒ धामा॒मृत᳚म्⁠। अम॑र्त्यस्तपो॒जाः⁠। त्वयी॒दम॒न्तः⁠। विश्व॑य्ँय॒ख्‍षव्ँविश्वं॑ भू॒तव्ँविश्व॑ꣳ सुभू॒तम्⁠। विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता⁠। तं त्वोप॑दधे काम॒दुघ॒मख्‍षि॑तम्⁠। प्र॒जाप॑तिस्त्वा सादयतु⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠ ॥ [२१] (१०) (लो॒को॑ऽसि भ॒र्ता तम्⁠। तप॒स्तेजो॑ऽसि भ॒र्तृ तत्⁠। स॒मु॒द्रो॑ऽसि भ॒र्ता तम्⁠। आपः॑ स्थ भ॒र्त्र्य॑स्ता वः॑⁠। पृ॒थि॒वी भ॒र्त्री ताम्⁠। अ॒ग्निर॑सि भ॒र्ता तम्⁠। अ॒न्तरि॑ख्‍षं भ॒र्तृ तत्⁠। वा॒युर॑सि भ॒र्ता तम्⁠। द्यौर॑सि भ॒र्त्री ताम्⁠। आ॒दि॒त्यश्च॒न्द्रमा॑ भ॒र्ता तम्⁠। नख्‍ष॑त्राणि स्थ भ॒र्तॄणि॒ तानि॑ वः⁠। स॒व्ँव॒थ्स॒रो॑ऽसि भ॒र्ता तम्⁠। ऋ॒तवो॒ मासा॑ अद्‌र्धमा॒सा भ॒र्तार॒स्तान्‌वः॑⁠। अ॒हो॒रा॒त्रे भ॒र्त्र्यौ॑ ते वा᳚म्⁠। पौ॒र्ण॒मा॒सी भ॒र्त्र्य॑स्ता वः॑⁠। राड॑सि भ॒र्त्री ताम्⁠। ओजो॑ऽसि भ॒र्ता तमेक॑विꣳशतिः⁠।) ॥१॥
चतुर्भिरनुवाकैः चतस्र आहुतीर्जुहोति
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः⁠। त्वꣳ शर्द्धो॒ मारु॑तं पृ॒ख्‍ष ई॑शिषे⁠। त्वव्ँवातै॑ररु॒णैर्या॑सि शंग॒यः⁠। त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚⁠। देवा॑ दे॒वेषु॑ श्रयद्ध्वम्⁠। प्रथ॑मा द्वि॒तीये॑षु श्रयद्ध्वम्⁠। द्विती॑यास्तृ॒तीये॑षु श्रयद्ध्वम्⁠। तृती॑याश्चतु॒र्थेषु॑ श्रयद्ध्वम्⁠। च॒तु॒र्थाः प॑ञ्च॒मेषु॑ श्रयद्ध्वम्⁠। प॒ञ्च॒माः ष॒ष्ठेषु॑ श्रयद्ध्वम्⁠ ॥ [२२] (१०) ष॒ष्ठाः स॑प्त॒मेषु॑ श्रयद्ध्वम्⁠। स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयद्ध्वम्⁠। अ॒ष्ट॒मा न॑व॒मेषु॑ श्रयद्ध्वम्⁠। न॒व॒मा द॑श॒मेषु॑ श्रयद्ध्वम्⁠। द॒श॒मा ए॑काद॒शेषु॑ श्रयद्ध्वम्⁠। ए॒क॒द॒शा द्वा॑द॒शेषु॑ श्रयद्ध्वम्⁠। द्वा॒द॒शास्त्र॑योद॒शेषु॑ श्रयद्ध्वम्⁠। त्र॒यो॒द॒शाश्च॑तुर्द॒शेषु॑ श्रयद्ध्वम्⁠। च॒तु॒र्द॒शाः प॑ञ्चद॒शेषु॑ श्रयद्ध्वम्⁠। प॒ञ्च॒द॒शाः षो॑ड॒शेषु॑ श्रयद्ध्वम्⁠ ॥ [२३] (१०) षो॒ड॒शाः स॑प्तद॒शेषु॑ श्रयद्ध्वम्⁠। स॒प्त॒द॒शा अ॑ष्टाद॒शेषु॑ श्रयद्ध्वम्⁠। अ॒ष्टा॒द॒शा ए॑कान्नवि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। ए॒का॒न्न॒वि॒ꣳ॒शा वि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। वि॒ꣳ॒शा ए॑कवि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। ए॒क॒वि॒ꣳ॒शा द्वा॑वि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। द्वा॒वि॒ꣳ॒शा स्त्र॑योवि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। त्र॒यो॒वि॒ꣳ॒शा श्च॑तुर्वि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। च॒तु॒र्वि॒ꣳ॒शाः प॑ञ्चवि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। प॒ञ्च॒वि॒ꣳ॒शाः ष॑ड्वि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠ ॥ [२४] (१०) ष॒ड्वि॒ꣳ॒शाः स॑प्तवि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। स॒प्त॒वि॒ꣳ॒शा अ॑ष्टावि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। अ॒ष्टा॒वि॒ꣳ॒शा ए॑कान्नत्रि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। ए॒का॒न्न॒त्रि॒ꣳ॒शा स्त्रि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। त्रि॒ꣳ॒शा ए॑कत्रि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। ए॒क॒त्रि॒ꣳ॒शा द्वा᳚त्रि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। द्वा॒त्रि॒ꣳ॒शा स्त्र॑यस्त्रि॒ꣳ॒शेषु॑ श्रयद्ध्वम्⁠। देवा᳚स्त्रिरेकादशा॒ स्त्रिस्त्र॑यस्त्रिꣳशाः⁠। उत्त॑रे भवत⁠। उत्त॑र वर्त्मान॒ उत्त॑र सत्वानः⁠। यत्का॑म इ॒दं जु॒होमि॑⁠। तन्मे॒ समृ॑द्ध्यताम्⁠। व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्⁠। भूर्भुव॒स्वः॑ स्वाहा᳚⁠ ॥ [२५] (१४) (ष॒ष्ठेषु॑ श्रयद्धवꣳ षोड॒शेषु॑ श्रयद्धवꣳ षड्वि॒ꣳ॒शेषु॑ श्रयद्ध्व॒ मुत्त॑रसत्वानश्च॒त्वारि॑ च) ॥२॥
चतुर्भिरनुवाकैः चतस्र आहुतीर्जुहोति
अग्ना॑विष्णू स॒जोष॑सा⁠। इ॒मा व॑र्द्धन्तु वा॒ङ्गिरः॑⁠। द्यु॒म्नै र्वाजे॑भि॒राग॑तम्⁠। राज्ञी॑ वि॒राज्ञी᳚⁠। स॒म्राज्ञी᳚ स्व॒राज्ञी᳚⁠। अ॒र्चिः शो॒चिः⁠। तपो॒ हरो॒ भाः⁠। अ॒ग्निः सोमो॒ बृह॒स्पतिः॑⁠। विश्वे॑ दे॒वा भुव॑नस्य गो॒पाः⁠। ते सर्वे॑ स॒ङ्गत्य॑⁠। इ॒दं मे॒ प्राव॑ता॒ वचः॑⁠। व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्⁠। भूर्भुव॒स्स्व॑स् स्वाहा᳚⁠ ॥ [२६] (१३) (स॒ङ्गत्य॒ त्रीणि॑ च) ॥३॥
चतुर्भिरनुवाकैः चतस्र आहुतीर्जुहोति
अन्न॑प॒तेऽन्न॑स्य नो देहि⁠। अ॒न॒मी॒वस्य॑ शु॒ष्मिणः॑⁠। प्रप्र॑दा॒तार॑न्तारिषः⁠। ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे⁠। अग्ने॑ पृथिवीपते⁠। सोम॑ वीरुधां पते⁠। त्वष्टः॑ समिधां पते⁠। विष्ण॑वाशानां पते⁠। मित्र॑ सत्यानां पते⁠। वरु॑ण धर्मणां पते⁠ ॥ [२७] (१०) म॒रुतो॑ गणानां पतयः⁠। रुद्र॑ पशूनां पते⁠। इन्द्रौ॑जसां पते⁠। बृह॑स्पते ब्रह्मणस्पते⁠। आ रु॒चा रो॑चे॒ऽहꣴ स्व॒यम्⁠। रु॒चा रु॑रुचे॒रोच॑मानः⁠। अ॒तीत्या॒दः स्व॑राभ॑रे॒ह⁠। तस्मि॒न्॒‌योनौ᳚ प्रज॒नौ प्रजा॑येय⁠। व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्⁠। भूर्‌भुवः॒ स्वः॑ स्वाहा᳚⁠ ॥ [२८] (१०) ॥४॥
चतुर्भिरनुवाकैः चतस्र आहुतीर्जुहोति
स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः⁠। स॒प्तर्‌ष॑यः स॒प्तधाम॑ प्रि॒याणि॑⁠। स॒प्त होत्रा॑ अनु वि॒द्वान्⁠। स॒प्त योनी॒रापृ॑णस्वा घृ॒तेन॑⁠। प्राची॒ दिक्⁠। अ॒ग्नि र्दे॒वता᳚⁠। अ॒ग्निꣳ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु⁠। यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति⁠। द॒ख्‍षि॒णा दिक्⁠। इन्द्रो॑ दे॒वता᳚⁠ ॥ [२९] (१०) इन्द्र॒ꣳ॒ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु⁠। यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति⁠। प्र॒तीची॒ दिक्⁠। सोमो॑ दे॒वता᳚⁠। सोम॒ꣳ॒ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु⁠। यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति⁠। उदी॑ची॒ दिक्⁠। मि॒त्रावरु॑णौ दे॒वता᳚⁠। मि॒त्रावरु॑णौ॒ स दि॒शां दे॒वौ दे॒वता॑नामृच्छतु⁠। यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति⁠ ॥ [३०] (१०) ऊ॒द्‌र्ध्वा दिक्⁠। बृह॒स्पति॑ र्दे॒वता᳚⁠। बृह॒स्पति॒ꣳ॒ स दि॒शां दे॒वं दे॒वता॑नामृच्छतु⁠। यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति⁠। इ॒यन्दिक्⁠। अदि॑ति र्दे॒वता᳚⁠। अदि॑ति॒ꣳ ॒ स दि॒शां दे॒वीं दे॒वताना॑मृच्छतु⁠। यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दास॑ति⁠। पुरु॑षो॒ दिक्⁠। पुरु॑षो मे॒ कामा॒न् थ्सम॑र्द्धयतु⁠ ॥ [३१] (१०) अ॒न्धो जागृ॑विः प्राण⁠। असा॒वेहि॑⁠। ब॒धि॒र आ᳚क्रन्दयितरपान⁠। असा॒वेहि॑⁠। उ॒षस॑मुषसमशीय⁠। अ॒हमसो॒ ज्योति॑रशीय⁠। अ॒हमसो॒ऽपो॑शीय⁠। व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्⁠। भूर्भुवः॒ स्वः॑ स्वाहा᳚⁠ ॥ [३२] (९) (द॒ख्‍षि॒णा दिगिन्द्रो॑ दे॒वता॑ मि॒त्रावरु॑णौ॒ स दि॒शां दे॒वौ दे॒वता॑नामृच्छतु॒ यो मै॒तस्यै॑ दि॒शो॑ऽभि॒दा स॑त्यद्‌र्धयतु॒ +नव॑ च) ॥५॥
उपस्थानम्
यत्तेऽचि॑त॒य्ँयदु॑ चि॒तन्ते॑ अग्ने⁠। यत्त॑ ऊ॒नय्ँयदु॒ तेऽति॑रिक्तम्⁠। आ॒दि॒त्यास्तदङ्गि॑रसश्चिन्वन्तु⁠। विश्वे॑ ते दे॒वाश्चिति॒मापू॑रयन्तु⁠। चि॒तश्चासि॒ सञ्चि॑तश्चास्यग्ने⁠। ए॒तावा॒ꣴ॒श्चासि॒ भूया॑ꣴश्चास्यग्ने⁠॥ लो॒कं पृ॑ण च्छि॒द्रं पृ॑ण⁠। अथो॑ सीद शि॒वा त्वम्⁠। इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पतिः॑⁠। अ॒स्मिन्‌योना॑वसीषदन्न्⁠ ॥ [३३] (१०) तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠॥ ता अ॑स्य॒ सूद॑दोहसः⁠। सोम॑ꣴ श्रीणन्ति॒ पृश्न॑यः⁠। जन्मं॑ दे॒वाना॒व्ँविशः॑⁠। त्रि॒ष्वा रो॑च॒ने दि॒वः⁠। तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠॥ अग्ने॑ दे॒वाꣳ इ॒हाव॑ह⁠। ज॒ज्ञा॒नो वृ॒क्त ब॑र्‌हिषे⁠। असि॒ होता॑ न॒ ईड्यः॑⁠॥ अग॑न्म म॒हा मन॑सा॒ यवि॑ष्ठम्⁠ ॥ [३४] (१०) यो दी॒दाय॒ समि॑द्धः॒ स्वे दु॑रो॒णे⁠। चि॒त्रभा॑नू॒ रोद॑सी अ॒न्तरु॒र्वी⁠। स्वा॑हुतव्ँवि॒श्वतः॑ प्र॒त्यञ्च᳚म्⁠॥ मे॒धा॒का॒रव्ँवि॒दथ॑स्य प्र॒साध॑नम्⁠। अ॒ग्निꣳ होता॑रं परि॒भूत॑मं म॒तिम्⁠। त्वामर्भ॑स्य ह॒विषः॑ समा॒नमित्⁠। त्वां म॒हो वृ॑णते॒ नरो॒ नान्यंत्वत्⁠॥ म॒नु॒ष्वत्त्वा॒ निधी॑महि⁠। म॒नु॒ष्वथ् समि॑धीमहि⁠। अग्ने॑ मनु॒ष्वद॑ङ्गिरः⁠ ॥ [३५] (१०) दे॒वान् दे॑वाय॒ते य॑ज⁠॥ अ॒ग्निर्‌हि वा॒जिन॑व्ँवि॒शे⁠। ददा॑ति वि॒श्वच॑र्‌षणिः⁠। अ॒ग्नी रा॒ये स्वा॒भुव᳚म्⁠। स प्री॒तो या॑ति॒ वार्य᳚म्⁠। इष॑ꣴ स्तो॒तृभ्य॒ आभ॑र⁠॥ पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्याम्⁠। पृ॒ष्टो विश्वा॒ ओष॑धी॒रावि॑वेश⁠। वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः⁠। स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्तं᳚⁠ ॥ [३६] (१०) ॥६॥
नाचिकेतब्राह्मणं तत्र आग्निदेवतोपासनम्
अ॒यव्ँवाव यः पव॑ते⁠। सो᳚ऽग्नि ना॑र्चिके॒तः⁠। स यत् प्राङ् पव॑ते⁠। तद॑स्य॒ शिरः॑⁠। अथ॒ यद् द॑ख्‍षि॒णा⁠। स दख्‍षि॑णः प॒ख्‍षः⁠। अथ॒ यत् प्र॒त्यक्⁠। तत् पुच्छ᳚म्⁠। य दुद॑ङ्ङ्⁠। स उत्त॑रः प॒ख्‍षः⁠ ॥ [३७] (१०) अथ॒ यथ् स॒व्ँवाति॑⁠। तद॑स्य स॒मञ्च॑नं च प्र॒सार॑णं च⁠। अथो॑ स॒पंदे॒वास्य॒ सा⁠॥ सꣳ ह॒ वा अ॑स्मै॒ स कामः॑ पद्यते⁠। यत् का॑मो॒ यज॑ते⁠। यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ यो ह॒ वा अ॒ग्ने र्ना॑चिके॒तस्या॒यत॑नं प्रति॒ष्ठाव्ँवेद॑⁠। आ॒यत॑नवान् भवति⁠। गच्छ॑ति प्रति॒ष्ठाम्⁠ ॥ [३८] (१०) हिर॑ण्य॒व्ँवा अ॒ग्ने र्ना॑चिके॒तस्या॒यत॑नं प्रति॒ष्ठा⁠। य ए॒वव्ँवेद॑⁠। आ॒यत॑नवान् भवति⁠। गच्छ॑ति प्रति॒ष्ठाम्⁠॥ यो ह॒ वा अ॒ग्ने र्ना॑चिके॒तस्य॒ शरी॑र॒व्ँवेद॑⁠। स श॑रीर ए॒व स्व॒र्गल्ँलो॒कमे॑ति⁠। हिर॑ण्य॒व्ँवा अ॒ग्ने र्ना॑चिके॒तस्य॒ शरी॑रम्⁠। य ए॒वव्ँवेद॑⁠। स श॑रीर ए॒व स्व॒र्गल्ँलो॒कमे॑ति⁠॥ अथो॒ यथा॑ रु॒क्म उत्त॑प्तो भा॒य्यात्⁠ ॥ [३९] (१०) ए॒वमे॒व स तेज॑सा॒ यश॑सा⁠। अ॒स्मिꣴश्च॑ लो॒के॑ऽमुष्मि॑ꣴश्च भाति⁠॥ उ॒रवो॑ ह॒ वै नामै॒ते लो॒काः⁠। येऽव॑रेणादि॒त्यम्⁠। अथ॑ है॒ते वरी॑याꣳसो लो॒काः⁠। ये परे॑णादि॒त्यम्⁠। अन्त॑वन्तꣳ ह॒ वा ए॒ष ख्‍ष॒य्यल्ँलो॒कं ज॑यति⁠। योऽव॑रेणादि॒त्यम्⁠। अथ॑ है॒षो॑ऽन॒न्तम॑पा॒रम॑ख्‍ष॒य्यल्ँलो॒कं ज॑यति⁠। यः परे॑णादि॒त्यं⁠ ॥ [४०] (१०) अ॒न॒न्तꣳ ह॒ वा अ॑पा॒रम॑ख्‍ष॒य्यल्ँलो॒कं ज॑यति⁠। यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ अथो॒ यथा॒ रथे॒ तिष्ठ॒न् पख्‍ष॑सी पर्या॒वर्त्त॑माने प्र॒त्यपे᳚ख्‍षते⁠। ए॒वम॑होरा॒त्रे प्र॒त्यपे᳚ख्‍षते⁠। नास्या॑होरा॒त्रे लो॒कमा᳚प्नुतः⁠। यो᳚ऽग्निं ना॑चि॒केतं चि॑नु॒ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠ ॥ [४१] (८) (उत्त॑रः प॒ख्‍षो गच्छ॑ति प्रति॒ष्ठां भा॒य्याद् यः परे॑णादि॒त्य +म॒ष्टौ च॑) ॥७॥
नाचिकेतोपाख्यानम्
उ॒शन्‌ह॒ वै वा॑जश्रव॒सः स॑र्ववेद॒सं द॑दौ⁠। तस्य॑ ह॒ नचि॑केता॒ नाम॑ पु॒त्र आ॑स⁠। तꣳ ह॑ कुमा॒रꣳ सन्त᳚म्⁠। दख्‍षि॑णासु नी॒यमा॑नासु श्र॒द्धाऽऽवि॑वेश⁠। स हो॑वाच⁠। तत॒ कस्मै॒ मां दा᳚स्य॒सीति॑⁠। द्वि॒तीयं॑ तृ॒तीय᳚म्⁠॥ तꣳ ह॒ परी॑त उवाच⁠। मृ॒त्यवे᳚ त्वा ददा॒मीति॑⁠॥ तꣳ ह॒ स्मोत्थि॑त॒व्ँवाग॒भिव॑दति⁠ ॥ [४२] (१०) गौत॑म कुमा॒रमिति॑⁠। स हो॑वाच⁠। परे॑हि मृ॒त्यो र्गृ॒हान्⁠। मृ॒त्यवे॒ वै त्वा॑ऽदा॒मिति॑⁠॥ तव्ँवै प्र॒वस॑न्तं ग॒न्तासीति॑ होवाच⁠। तस्य॑ स्म ति॒स्रो रात्री॒रना᳚श्वान् गृ॒हे व॑सतात्⁠। स यदि॑ त्वा पृ॒च्छेत्⁠। कुमा॑र॒ कति॒ रात्री॑रवाथ्सी॒रिति॑⁠। ति॒स्र इति॒ प्रति॑ ब्रूतात्⁠। किं प्र॑थ॒माꣳ रात्रि॑माश्ना॒ इति॑⁠ ॥ [४३] (१०) प्र॒जां त॒ इति॑⁠। किं द्वि॒तीया॒मिति॑⁠। प॒शूꣴस्त॒ इति॑⁠। किं तृ॒तीया॒मिति॑⁠। सा॒धु॒कृ॒त्यां त॒ इति॑⁠॥ तव्ँवै प्र॒वस॑न्तं जगाम⁠। तस्य॑ ह ति॒स्रो रात्री॒रना᳚श्वान् गृ॒ह उ॑वास⁠। तमा॒गत्य॑ पप्रच्छ⁠। कुमा॑र॒ कति॒ रात्री॑रवाथ्सी॒रिति॑⁠। ति॒स्र इति॒ प्रत्यु॑वाच⁠ ॥ [४४] (१०) किं प्र॑थ॒माꣳ रात्रि॑माश्ना॒ इति॑⁠। प्र॒जां त॒ इति॑⁠। किं द्वि॒तीया॒मिति॑⁠। प॒शूꣴस्त॒ इति॑⁠। किं तृ॒तीया॒मिति॑⁠। सा॒धु॒कृ॒त्यां त॒ इति॑⁠॥ नम॑स्ते अस्तु भगव॒ इति॑ होवाच⁠। वर॑व्ँवृणी॒ष्वेति॑⁠॥ पि॒तर॑मे॒व जीव॑न्नया॒नीति॑⁠॥ द्वि॒तीय॑व्ँवृणी॒ष्वेति॑⁠ ॥ [४५] (१०) इ॒ष्टा॒पू॒र्तयो॒ र्मेऽख्‍षि॑तिं ब्रू॒हीति॑ होवाच⁠। तस्मै॑ है॒तम॒ग्निं ना॑चिके॒तमु॑वाच⁠। ततो॒ वै तस्ये᳚ष्टापू॒र्ते ना ख्‍षी॑येते⁠॥ नास्ये᳚ष्टापू॒र्ते ख्‍षी॑येते⁠। यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ तृ॒तीय॑व्ँवृणी॒ष्वेति॑⁠। पु॒न॒ मृ॒र्त्यो र्मेऽप॑जितिं ब्रू॒हीति॑ होवाच⁠। तस्मै॑ है॒तम॒ग्निं ना॑चिके॒तमु॑वाच⁠। ततो॒ वै सोऽप॑ पुन र्मृ॒त्युम॑जयत्⁠ ॥ [४६] (१०) अप॑ पुन र्मृ॒त्युं ज॑यति⁠। यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते⁠॥ य उ॑ चैनमे॒वव्ँवेद॑⁠॥ प्र॒जाप॑ति॒ र्वै प्र॒जाका॑म॒स्तपो॑ऽतप्यत⁠। स हिर॑ण्य॒मुदा᳚स्यत्⁠। तद॒ग्नौ प्रास्य॑त्⁠। तद॑स्मै॒ नाच्छ॑दयत्⁠। तद् द्वि॒तीयं॒ प्रास्य॑त्⁠। तद॑स्मै॒ नै वाच्छ॑दयत्⁠। तत् तृ॒तीयं॒ प्रास्य॑त्⁠ ॥ [४७] (१०) तद॑स्मै॒ नै वाच्छ॑दयत्⁠। तदा॒त्मन्ने॒व हृ॑द॒य्ये᳚ऽग्नौ वै᳚श्वान॒रे प्रास्य॑त्⁠। तद॑स्मा अच्छदयत्⁠। तस्मा॒द्धिर॑ण्यं॒ कनि॑ष्ठं॒ धना॑नाम्⁠। भु॒ञ्जत् प्रि॒यत॑मम्⁠। हृ॒द॒य॒जꣳ हि⁠। स वै तमे॒व नावि॑न्दत्⁠। यस्मै॒ तां दख्‍षि॑णा॒मने᳚ष्यत्⁠। ताꣴ स्वायै॒व हस्ता॑य॒ दख्‍षि॑णायानयत्⁠। तां प्रत्य॑गृह्णात्⁠ ॥ [४८] (१०) दख्‍षा॑य त्वा॒ दख्‍षि॑णां॒ प्रति॑गृह्णा॒मीति॑⁠। सो॑ऽदख्‍षत॒ दख्‍षि॑णां प्रति॒गृह्य॑⁠। दख्‍ष॑ते ह॒ वै दख्‍षि॑णां प्रति॒गृह्य॑⁠। य ए॒वव्ँवेद॑⁠॥ ए॒तद्ध॑ स्म॒ वै तद् वि॒द्वाꣳसो॑ वाजश्रव॒सा गोत॑माः⁠। अप्य॑नूदे॒श्यां᳚ दख्‍षि॑णां॒ प्रति॑गृह्णन्ति⁠। उ॒भये॑न व॒यं द॑ख्‍षिष्यामह ए॒व दख्‍षि॑णां प्रति॒गृह्येति॑⁠। ते॑ऽदख्‍षन्त॒ दख्‍षि॑णां प्रति॒गृह्य॑⁠। दख्‍ष॑ते ह॒ वै दख्‍षि॑णां प्रति॒गृह्य॑⁠। य ए॒वव्ँवेद॑⁠। प्र हा॒न्यव्ँव्ली॑नाति⁠ ॥ [४९] (११) (व॒द॒ त्या॒श्ना॒ इत् यु॑वाच द्वि॒तीय॑व्ँवृणी॒ष्वे त्य॑जयत् तृ॒तीयं॒ प्रास्य॑ दगृह्णा॒द् य ए॒वव्ँवेदैकं॑ च) ॥८॥
चयनप्रयोगः
तꣳ है॒तमेके॑ पशुब॒न्ध ए॒वोत्त॑रवे॒द्यां चि॑न्वते⁠। उ॒त्त॒र॒वे॒दिस॑म्मित ए॒षो᳚ऽग्निरिति॒ वद॑न्तः⁠। तन्न तथा॑ कु॒र्यात्⁠। ए॒तम॒ग्निं कामे॑न॒ व्य॑र्द्धयेत्⁠। स ए॑नं॒ कामे॑न॒ व्यृ॑द्धः⁠। कामे॑न॒ व्य॑र्द्धयेत्⁠। सौ॒म्ये वावै न॑मध्व॒रे चि॑न्वी॒त⁠। यत्र॑ वा॒ भूयि॑ष्ठा॒ आहु॑तयो हू॒येर॑न्न्⁠। ए॒तम॒ग्निं कामे॑न॒ सम॑र्द्धयति⁠। स ए॑नं॒ कामे॑न॒ समृ॑द्धः⁠ ॥ [५०] (१०) कामे॑न॒ सम॑र्द्धयति⁠॥ अथ॑ हैनं पु॒रर्‌ष॑यः⁠। उ॒त्त॒र॒वे॒द्यामे॒व स॒त्रिय॑मचिन्वत⁠। ततो॒ वै तेऽवि॑न्दन्त प्र॒जाम्⁠। अ॒भि स्व॒र्गल्ँलो॒कम॑जयन्न्⁠। वि॒न्दत॑ ए॒व प॒जाम्⁠। अ॒भि स्व॒र्गल्ँलो॒कं ज॑यति⁠। यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ अथ॑ हैनव्ँवा॒युर्‌ऋद्धि॑कामः⁠ ॥ [५१] (१०) य॒था॒न्यु॒प्तमे॒वोप॑दधे⁠। ततो॒ वै स ए॒तामृद्धि॑माद्‌र्ध्नोत्⁠। यामि॒दव्ँवा॒युर्‌ऋ॒द्धः⁠। ए॒तामृद्धि॑मृद्ध्नोति⁠। यामि॒दव्ँवा॒युर्‌ऋ॒द्धः⁠। यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ अथ॑ हैनं गोब॒लो वार्ष्णः॑ प॒शुका॑मः⁠। पांक्त॑मे॒व चि॑क्ये⁠। पञ्च॑ पु॒रस्ता᳚त्⁠ ॥ [५२] (१०) पञ्च॑ दख्‍षिण॒तः⁠। पञ्च॑ प॒श्चात्⁠। पञ्चो᳚त्तर॒तः⁠। एकां॒ मद्ध्ये᳚⁠। ततो॒ वै स स॒हस्रं॑ प॒शून् प्राप्नो᳚त्⁠। प्र स॒हस्रं॑ प॒शूना᳚प्नोति⁠। यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ अथ॑ हैनं प्र॒जाप॑ति॒ र्ज्यैष्ठ्य॑कामो॒ यश॑स्कामः प्र॒जन॑नकामः⁠। त्रि॒वृत॑मे॒व चि॑क्ये⁠ ॥ [५३] (१०) स॒प्त पु॒रस्ता᳚त्⁠। ति॒स्रो द॑ख्‍षिण॒तः⁠। स॒प्त प॒श्चात्⁠। ति॒स्र उत्त॑र॒तः⁠। एकां॒ मद्ध्ये᳚⁠। ततो॒ वै स प्र यशो॒ ज्यैष्ठ्य॑माप्नोत्⁠। ए॒तां प्रजा॑तिं॒ प्राजा॑यत⁠। यामि॒दं प्र॒जाः प्र॒जाय॑न्ते⁠। त्रि॒वृद् वै ज्यैष्ठ्य᳚म्⁠। मा॒ता पि॒ता पु॒त्रः⁠ ॥ [५४] (१०) त्रि॒वृत् प्र॒जन॑नम्⁠। उ॒पस्थो॒ योनि॑ र्मद्ध्य॒मा⁠। प्रयशो॒ ज्यैष्ठ्य॑माप्नोति⁠। ए॒तां प्र॑जातिं॒ प्रजा॑यते⁠। यामि॒दं प्र॒जाः प्र॒जाय॑न्ते⁠। यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ अथ॑ हैन॒मिन्द्रो॒ ज्यैष्ठ्य॑कामः⁠। ऊ॒द्‌र्ध्वा ए॒वोप॑दधे⁠। ततो॒ वै स ज्यैष्ठ्य॑मगच्छत्⁠ ॥ [५५] (१०) ज्यैष्ठ्यं॑ गच्छति⁠। यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ अथ॑ हैनम॒सावा॑दि॒त्यः स्व॒र्गका॑मः⁠। प्राची॑रे॒वोप॑दधे⁠। ततो॒ वै सो॑ऽभि स्व॒र्गल्ँलो॒कम॑जयत्⁠। अ॒भि स्व॒र्गल्ँलो॒कं ज॑यति⁠। यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ स यदी॒च्छेत्⁠ ॥ [५६] (१०) ते॒ज॒स्वी॒ य॑श॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑⁠। प्राङा होतु॒र्द्धिष्ण्या॒दुथ्स॑र्पेत्⁠। येयं प्रागा॒द् यश॑स्वती⁠। सा मा॒ प्रोर्णो॑तु⁠। तेज॑सा॒ यश॑सा ब्रह्मवर्च॒सेनेति॑⁠। ते॒ज॒स्व्ये॑व य॑श॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति⁠॥ अथ॒ यदी॒च्छेत्⁠। भूयि॑ष्ठं मे॒ श्रद्द॑धीरन्न्⁠। भूयि॑ष्ठा॒ दख्‍षि॑णा नयेयु॒रिति॑⁠। दख्‍षि॑णासु नी॒यमा॑नासु॒ प्राच्येहि॒ प्राच्ये॒हीति॒ प्राची॑ जुषा॒णा वेत्वाज्य॑स्य॒ स्वाहेति॑ स्रु॒वेणो॑प॒हत्या॑ हव॒नीये॑ जुहुयात्⁠ ॥ [५७] (१०) भूयि॑ष्ठमे॒वास्मै॒ श्रद्द॑धते⁠। भूयि॑ष्ठा॒ दख्‍षि॑णा नयन्ति⁠॥ पुरी॑षमुप॒धाय॑⁠। चि॒ति॒क्लृ॒प्तिभि॑रभि॒मृश्य॑⁠। अ॒ग्निं प्र॒णीयो॑पसमा॒धाय॑⁠। चत॑स्र ए॒ता आहु॑ती र्जुहोति⁠। त्वम॑ग्ने रु॒द्र इति॑ शतरु॒द्रीय॑स्य रू॒पम्⁠। अग्ना॑विष्णू॒ इति॑ वसो॒द्‌र्धारा॑याः⁠। अन्न॑पत॒ इत्य॑न्न हो॒मः⁠। स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इति॑ विश्व॒प्रीः⁠ ॥ [५८] (१०) (पुरर्‌ष॑यो वा॒युर् गो॑ब॒लः स॒हस्रं॑ प्र॒जाप॑ति स्त्रि॒वृदिन्द्रो॒ऽसावा॑दि॒त्यः स यदी॒च्छेत्) ॥९॥
तत्प्रशंसा
यां प्र॑थ॒मामिष्ट॑कामुप॒दधा॑ति⁠। इ॒मं तया॑ लो॒कम॒भि ज॑यति⁠। अथो॒ या अ॒स्मिल्ँलो॒के दे॒वताः᳚⁠। तासा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति⁠। यां द्वि॒तीया॑मुप॒दधा॑ति⁠। अ॒न्त॒रि॒ख्‍ष॒लो॒कं तया॒ऽभि जय॑ति⁠। अथो॒ या अ॑न्तरिख्‍ष लो॒के दे॒वताः᳚⁠। तासा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति⁠। यां तृ॒तीया॑मुप॒दधा॑ति⁠। अ॒मुं तया॑ लो॒कम॒भिज॑यति⁠ ॥ [५९] (१०) अथो॒ या अ॒मुष्मि॑ल्ँलो॒के दे॒वताः᳚⁠। तासा॒ꣳ॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोति⁠। अथो॒ या अ॒मूरित॑रा अ॒ष्टाद॑श⁠। य ए॒वामी उ॒रव॑श्च॒ वरी॑याꣳसश्च लो॒काः⁠। ताने॒व ताभि॑र॒भिज॑यति⁠॥ का॒म॒चारो॑ ह॒ वा अ॑स्यो॒रुषु॑ च॒ वरी॑यस्सु च लो॒केषु॑ भवति⁠। यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ स॒व्ँव॒थ्स॒रो वा अ॒ग्नि ना॑र्चिके॒तः⁠। तस्य॑ वस॒न्तः शिरः॑⁠ ॥ [६०] (१०) ग्री॒ष्मो दख्‍षि॑णः प॒ख्‍षः⁠। व॒र्॒‌षा उत्त॑रः⁠। श॒रत् पुच्छ᳚म्⁠। मासाः᳚ कर्मका॒राः⁠। अ॒हो॒रा॒त्रे श॑तरु॒द्रीय᳚म्⁠। प॒र्जन्यो॒ वसो॒द्‌र्धारा᳚⁠। यथा॒ वै प॒र्जन्यः॒ सुवृ॑ष्टव्ँवृ॒ष्ट्वा⁠। प्र॒जाभ्यः॒ सर्वा॒न् कामा᳚न्थ् संपू॒रय॑ति⁠। ए॒वमे॒व स तस्य॒ सर्वा॒न् कामा॒न्थ् संपू॑रयति⁠। यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते⁠ ॥ [६१] (१०) य उ॑ चैनमे॒वव्ँवेद॑⁠॥ स॒व्ँव॒थ्स॒रो वा अ॒ग्नि र्ना॑चिके॒तः⁠। तस्य॑ वस॒न्तः शिरः॑⁠। ग्री॒ष्मो दख्‍षि॑णः प॒ख्‍षः⁠। व॒र्॒‌षाः पुच्छ᳚म्⁠। श॒रदुत्त॑रः प॒ख्‍षः⁠। हे॒म॒न्तो मद्ध्य᳚म्⁠। पू॒र्व॒प॒ख्‍षाश्चित॑यः⁠। अ॒प॒र॒प॒ख्‍षाः पुरी॑षम्⁠। अ॒हो॒रा॒त्राणीष्ट॑काः⁠। ए॒ष वाव सो᳚ऽग्निर॑ग्नि॒मयः॑ पुनर्ण॒वः⁠। अ॒ग्नि॒मयो॑ ह॒ वै पु॑नर्ण॒वो भू॒त्वा⁠। स्व॒र्गल्ँलो॒कमेति॑⁠। आ॒दि॒त्यस्य॒ सायु॑ज्यम्⁠। यो᳚ऽग्निं ना॑चिके॒तं चि॑नु॒ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠ ॥ [६२] (१६) ॥१०॥
अनुवाकाः पञ्चशती
१० ६२