आशीर्वचनमन्त्राः १

आशीर्वचनमन्त्राः १
आयु॑ष्मन्त॒व्ँवर्च॑स्वन्तम्। अथो॒ अधि॑पतिव्ँवि॒शाम्। अ॒स्याः पृ॑थि॒व्या अद्ध्य॑क्षम्। इ॒ममि॑न्द्र वृष॒भङ्कृ॑णु। पू॒ष्णः पोषे॑ण॒ मह्य᳚म्। दी॒र्घा॒यु॒त्वाय॑ श॒तशा॑रदाय। श॒तं श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से। जी॒वात्वै पुण्या॑य। ए॒तेन॒ वै दे॒वा जैत्वा॑नि जि॒त्वा। यङ्काम॒मका॑मयन्त॒ तमा᳚प्नुवन्न्। यङ्काम॑ङ्का॒मय॑ते। तमे॒तेना᳚प्नोति॥ ॥१॥पृ॒थ्वी सु॒वर्चा॑ युव॒तिस्स॒जोषाः᳚। पौ॒र्ण॒मा॒स्युद॑गा॒च्छोभ॑माना। आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा᳚। उ॒रुं दुहा॒य्ँयज॑मानाय य॒ज्ञं। ऋ॒द्ध्यास्म॑ ह॒व्यैर्नम॑सोप॒सद्य॑। मि॒त्रन्दे॒वम्मि॑त्र॒धेय॑न्नो अस्तु। अ॒नू॒रा॒धान्‌ह॒विषा॑ व॒र्द्धय॑न्तः। श॒तञ्जी॑वेम श॒रद॒स्सवी॑राः। क्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः। नक्ष॑त्राणाꣳश॒तभि॑ष॒ग्वसि॑ष्ठः। तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायुः॑॥ ॥२॥नवो॑ नवो भवति॒ जाय॑मा॒नोह्ना᳚ङ्के॒तुरु॒षसा॑ मे॒त्यग्रे᳚। भा॒गन्दे॒वेभ्यो॒ विद॑धात्या॒यन् प्र च॒न्द्रमा᳚स्तिरिति दी॒र्घमायुः॑। पर्या᳚प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्थोमोतिरा॒त्र उ॑त्त॒म मह॑र्भवति सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेना᳚प्नोति॒ सर्व॑ञ्जयति॥ ॥३॥श॒तमा॑नम्भवति श॒तायुः॒ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति॥ ॥४॥सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒माꣳस॑मेत॒ पश्य॑त। सौभा᳚ग्यम॒स्यै द॒त्वायाथास्त॒म्विपरे॑तन॥ इ॒मान्त्वमि॑न्द्र मीढ्वस्सुपु॒त्राꣳसु॒भगा᳚ङ्कुरु। दशा᳚स्यां पु॒त्रानाधे॑हि॒ पति॑मेकाद॒शङ्कृ॑धि॥ ॥५॥श्रीर्वर्च॑स्व॒मायु॑ष्य॒मारो᳚ग्य॒मावी॑धा॒त्शोभ॑मानम्मही॒यते᳚ । धा॒न्यन्ध॒नम्प॒शुम्ब॒हुपु॑त्रला॒भं श॒तस᳚म्वत्स॒रन्दी॒र्घमायुः॑॥ ॥६॥
Sections६
Mantras६
Version1.0