आयुष्यसूक्तम्

आयुष्यसूक्तम्
यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र प्रा॒णैश्शि॒रः कृत्तिवासाः᳚ पिना॒की । ईशानो देवस्स न आयु॑र्दधा॒तु॒ तस्मै जुहोमि हविषा॑ घृते॒न ॥१॥विभ्राजमानस्सरिर॑स्य म॒ध्या॒द्रो॒च॒मा॒नो घर्मरुचि॑र्य आ॒गात् । स मृत्युपाशानपनु॑द्य घो॒रा॒नि॒हा॒यु॒षे॒णो घृतम॑त्तु दे॒वः ॥२॥ब्रह्मज्योतिर्ब्रह्मपत्नी॑षु ग॒र्भं॒ य॒मा॒द॒धात्पुरुरूप॑ञ्जय॒न्तम् । सुवर्णरम्भग्रहम॑र्कम॒र्च्य॒न्त॒मा॒यु॒षे वर्धयामो॑ घृते॒न ॥३॥श्रियं लख्‍ष्मीमौबलामम्बिका॒ङ्गां॒ ष॒ष्ठीञ्च या॒मिन्द्रसेने᳚त्युदा॒हुः । तां विद्याम्ब्रह्मयोनिग्ं॑ सरू॒पा॒मि॒हा॒यु॒षे तर्पयामो॑ घृते॒न ॥४॥दाख्‍षायण्यस्सर्वयोन्य॑स्स यो॒न्य॒स्स॒ह॒स्र॒शो विश्वरूपा॑ विरू॒पाः । ससूनवस्सपतय॑स्सयू॒थ्या॒ आ॒यु॒षे॒णो घृतमिद॑ञ्जुष॒न्ताम् ॥५॥दिव्या गणा बहुरूपाः᳚ पुरा॒णा॒ आयुश्छिदो नः प्रमथ्न॑न्तु वी॒रान् । तेभ्यो जुहोमि बहुधा॑ घृते॒न॒ मा॒ नः॒ प्र॒जाꣳ रीरिषो मो॑त वी॒रान् ॥६॥ए॒कः॒ पु॒र॒स्तात् य इद॑म्बभू॒व॒ यतो बभूव भुवन॑स्य गो॒पाः । यमप्येति भुवनꣳ सा᳚म्परा॒ये॒ स नो हविर्घृतमिहायुषे᳚त्तु दे॒वः ॥७॥व॒सू॒न्रुद्रा॑नादि॒त्यान्मरुतो॑ऽथ सा॒ध्या॒न् ऋ॑भून् य॒ख्‍षा॒न्गन्धर्वाग्‍श्च पितॄग्‍श्च वि॒श्वान् । भृगून् सर्पाग्‍श्चाङ्गिरसो॑ऽथ स॒र्वा॒न्घृ॒त॒ꣳ हु॒त्वा स्वायुष्या महया॑म श॒श्वत् ॥८॥विष्णो॒ त्वन्नो॒ अन्त॑म॒श्शर्म॑यच्छ सहन्त्य । प्रते॒धारा॑ मधु॒श्चुत॒ उथ्स॑न्दुह्रते॒ अख्‍षि॑तम् ॥९॥

॥ ओं शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥

Sections९
Mantras९
Version1.0