दुर्गासूक्तम्

दुर्गासूक्तम् — तैत्तिरीयारण्यकम्
जा॒तवे॑दसे सुनवाम॒ सोम॑ मरातीय॒तो निद॑हाति॒ वेदः॑ । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धु॑न्दुरि॒ताऽत्य॒ग्निः ॥१॥ताम॒ग्निव॑र्णा॒न्तप॑सा ज्वल॒न्तीं वै॑रोच॒नीङ्क॑र्मफ॒लेषु॒ जुष्टा᳚म् । दु॒र्गान्दे॒वीꣳ शर॑णम॒हम्प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑ ॥२॥अग्ने॒ त्वम्पा॑रया॒ नव्यो॑ अ॒स्मान्​थ्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः ॥३॥विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒स्सिन्धु॒न्न ना॒वा दु॑रि॒ताऽति॑पर्षि । अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो᳚ऽस्माक॑म्बोध्यवि॒ता त॒नूना᳚म् ॥४॥पृ॒त॒ना॒ जित॒ꣳ॒ सह॑मानमु॒ग्रम॒ग्निꣳ हु॑वेम पर॒माथ्स॒धस्था᳚त् । स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ ख्‍षाम॑द्दे॒वो अति॑ दुरि॒ताऽत्य॒ग्निः ॥५॥प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ । स्वाञ्चा᳚ऽग्ने त॒नुव॑म्पि॒प्रय॑स्वा॒स्मभ्य॑ञ्च॒ सौभ॑ग॒माय॑जस्व ॥६॥गोभि॒र्जुष्ट॑मयुजो॒ निषि॑क्त॒न्तवे᳚म्द्र विष्णो॒रनु॒सञ्च॑रेम । नाक॑स्य पृ॒ष्ठम॒भि सं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम् ॥७॥

ओङ्का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि । तन्नो॑ दुर्गिः प्रचो॒दया᳚त् ।

॥ ओं शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥

Sections७
Mantras७
Version1.0