नारायणसूक्तम्

नारायणसूक्तम् — तैत्तिरीयारण्यकम्
शान्तिपाठः
ओं स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚
ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑
[धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥१॥] ओम् ॥२॥स॒ह॒स्र॒शीर्॑​षन्दे॒वं॒ वि॒श्वाख्‍षं॑ वि॒श्वश॑म्भुवम् । विश्व॑न्ना॒राय॑णन्दे॒व॒म॒ख्‍षर॑म्पर॒मम्प॒दम् । वि॒श्वतः॒ पर॑मान्नि॒त्यं॒ वि॒श्वन्ना॑राय॒णꣳ ह॑रिम् । विश्व॑मे॒वेदम्पुरु॑ष॒स्तद्विश्वमुप॑जीवति । पतिं॒ विश्व॑स्या॒त्मेश्व॑र॒ꣳ॒ शाश्व॑तꣳ शि॒वम॑च्युतम् । ना॒राय॒णम्म॑हाज्ञे॒यं॒ वि॒श्वात्मा॑नम्प॒राय॑णम् । ना॒राय॒णप॑रो ज्यो॒ति॒रा॒त्मा ना॑राय॒णः प॑रः । ना॒राय॒णपर॑म्ब्र॒ह्म॒ तत्त्वन्ना॑राय॒णः प॑रः । ना॒राय॒णप॑रो ध्या॒ता॒ ध्या॒नन्ना॑राय॒णः प॑रः । यच्च॑ कि॒ञ्चिज्ज॑गत्स॒र्व॒न्दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा ॥३॥अन्त॑र्ब॒हिश्च॑ तत्स॒र्वं॒ व्या॒प्य ना॑राय॒णस्स्थि॑तः । अनन्त॒मव्यय॑ङ्क॒विꣳ स॑मु॒द्रेंऽतं॑ वि॒श्वश॑म्भुवम् । प॒द्म॒को॒शप्र॑तीका॒श॒ग्ं॒ हृ॒दय॑ञ्चाप्य॒धोमु॑खम् । अधो॑ नि॒ष्ट्या वि॑तस्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति । ज्वा॒ल॒मा॒लाकु॑लम्भा॒ती॒ वि॒श्वस्या॑यत॒नम्म॑हत् । सन्त॑तꣳ शि॒लाभि॑स्तु॒ लम्ब॑त्याकोश॒सन्नि॑भम् । तस्यान्ते॑ सुषि॒रꣳ सू॒ख्‍ष्मन्तस्मिन्᳚ स॒र्वम्प्रति॑ष्ठितम् । तस्य॒ मध्ये॑ म॒हान॑ग्निर्वि॒श्वार्चि॑र्वि॒श्वतो॑मुखः । सोऽग्र॑भु॒ग्विभ॑जन्ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः । ति॒र्य॒गू॒र्ध्वम॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता । स॒न्ता॒पय॑ति स्वन्दे॒हमापा॑दतल॒मस्त॑कः । तस्य॒ मध्ये॒ वह्नि॑शिखा अ॒णीयो᳚र्ध्वा व्य॒वस्थि॑तः । नी॒लतो॑यद॑मध्य॒स्था॒द्वि॒ध्युल्ले॑खेव॒ भास्व॑रा । नी॒वार॒शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा । तस्या᳚श्शिखा॒या म॑ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः । स ब्रह्म॒ स शिव॒स्स हरि॒स्सेन्द्र॒स्सोऽख्‍ष॑रः पर॒मस्स्व॒राट् ॥४॥ऋतꣳ स॒त्यम्प॑रम्ब्र॒ह्म॒ पु॒रुष॑ङ्कृष्ण॒पिङ्ग॑लम् । ऊ॒र्ध्वरे॑तं वि॑रूपा॒ख्‍षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥५॥

ओं ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि । तन्नो॑ विष्णुः प्रचो॒दया᳚त् ।

॥ ओं शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥

Sections५
Mantras५
Version1.0