पुरुषसूक्तम्

पुरुषसूक्तम् — तैत्तिरीयारण्यकम् ३.१२–१३
शान्तिपाठः
ओं तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वञ्जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚ । शञ्चतु॑ष्पदे ।
ॐ शान्ति॒श्शान्ति॒श्शान्तिः॑
स॒हस्र॑शीर्​षा॒ पुरु॑षः । स॒ह॒स्रा॒ख्‍षस्स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥१॥पुरु॑ष ए॒वेदꣳ सर्वम्᳚ । यद्भू॒तं यच्च॒ भव्यम्᳚ । उ॒तामृ॑त॒त्व स्येशा॑नः । यदन्ने॑नाति॒रोह॑ति ॥२॥ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः । पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृत॑न्दि॒वि ॥३॥त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ । ततो॒ विष्व॒ङ्​व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥४॥तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥५॥यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ । ग्री॒ष्म इ॒ध्मश्श॒रध्ध॒विः ॥६॥स॒प्तास्या॑सन्परि॒धयः॑ । त्रिस्स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञन्त॑न्वा॒नाः । अब॑ध्न॒न्पुरु॑षम्प॒शुम् ॥७॥तय्ँय॒ज्ञम्ब॒र्॒हिषि॒ प्रौख्‍षन्॑ । पुरु॑षञ्जा॒तम॑ग्र॒तः । तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ॥८॥तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑ । सम्भृ॑तम्पृषदा॒ज्यम् । प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ॥९॥तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑ । ऋच॒स्सामा॑नि जज्ञिरे । छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ॥१०॥तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ॥११॥यत्पुरु॑षं॒ व्य॑दधुः । क॒ति॒था व्य॑कल्पयन्न् । मुख॒ङ्किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ॥१२॥ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः । ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याꣳ शू॒द्रो अ॑जायत ॥१३॥च॒न्द्रमा॒ मन॑सो जा॒तः । चख्‍षो॒स्सूर्यो॑ अजायत । मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ॥१४॥नाभ्या॑ आसीद॒न्तरि॑ख्‍षम् । शी॒र्​ष्णो द्यौस्सम॑वर्तत । प॒द्भ्याम्भूमि॒र्दिश॒श्श्रोत्रा᳚त् । तथा॑ लो॒काꣳ अ॑कल्पयन्न् ॥१५॥वेदा॒हमे॒तम्पुरु॑षम्म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्ण॒न्तम॑स॒स्तु पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒, यदाऽऽस्ते᳚ ॥१६॥धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥१७॥य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् । ते ह॒ नाक॑म्महि॒मान॑स्सचन्ते । यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥१८॥अ॒द्भ्यस्सम्भू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मण॒स्सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ ॥१९॥वेदा॒हमे॒तम्पुरु॑षम्म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्ण॒न्तम॑सः॒ पर॑स्तात् । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेऽय॑नाय ॥२०॥प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते । तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिम्᳚ । मरी॑चीनाम्प॒दमि॑च्छन्ति वे॒धसः॑ ॥२१॥यो दे॒वेभ्य॒ आत॑पति । यो दे॒वाना᳚म्पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥२२॥रुच॑म्ब्रा॒ह्मञ्ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन्न् । यस्त्वै॒वम्ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् वशे᳚ ॥२३॥ह्रीश्च॑ ते ल॒ख्‍ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्​श्वे । नख्‍ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्तम्᳚ । इ॒ष्टम्म॑निषाण । अ॒मुम्म॑निषाण । सर्व॑म्मनिषाण ॥२४॥
Sections२४
Mantras२४
Version1.0