श्रीसूक्तम्

श्रीसूक्तम्
हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् । च॒न्द्रां हि॒रण्म॑यीं ल॒ख्‍ष्मीञ्जात॑वेदो म॒माव॑ह ॥१॥ताम्म॒ आव॑ह॒ जात॑वेदो ल॒ख्‍ष्मीमन॑पगा॒मिनी᳚म् । यस्यां॒ हिर॑ण्यं वि॒न्देय॒ङ्गामश्व॒म्पुरु॑षान॒हम् ॥२॥अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् । श्रिय॑न्दे॒वीमुप॑ह्वये॒ श्रीर्मा॑ दे॒वीर्जु॑षताम् ॥३॥कां॒सो᳚स्मि॒ तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्राञ्ज्वल॑न्तीन्तृ॒प्तान्त॒र्पय॑न्तीम् । प॒द्मे॒ स्थि॒ताम्प॒द्मव॑र्णा॒न्तामि॒होप॑ह्वये॒ श्रियम् ॥४॥च॒न्द्राम्प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् । ताम्प॒द्मिनी॑मीं॒ शर॑णम॒हम्प्रप॑द्येऽल॒ख्‍ष्मीर्मे॑ नश्यता॒न्त्वां वृ॑णे ॥५॥आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒ख्‍षोऽथ॑ बि॒ल्वः । तस्य॒ फला॑नि॒ तप॒सानु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒ख्‍ष्मीः ॥६॥उपै॑तु॒ मान्दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह । प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्ति॒मृ॑द्धिन्द॒दातु॑ मे ॥७॥ख्‍षु॒त्पि॒पा॒साम॑लाञ्ज्ये॒ष्ठाम॒ल॒ख्‍षीर्ना॑शया॒म्यहम् । अभू॑ति॒मस॑मृद्धि॒ञ्च स॒र्वा॒न्निर्णु॑द मे॒ गृहात् ॥८॥ग॒न्ध॒द्वा॒रान्दु॑राध॒र्​षा॒न्नि॒त्यपु॑ष्टाङ्करी॒षिणी᳚म् । ई॒श्वरीग्ं॑ सर्व॑भूता॒ना॒न्तामि॒होप॑ह्वये॒ श्रियम् ॥९॥[श्री᳚र्मे भ॒जतु । अल॒ख्‍षी᳚र्मे न॒श्यतु ।] मन॑सः॒ काम॒माकू॑तिं वा॒चस्स॒त्यम॑शीमहि । प॒शू॒नाꣳ रू॒पमन्य॑स्य॒ मयि॒ श्रीश्श्र॑यतां॒ यशः॑ ॥१०॥क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम । श्रियं॑ वा॒सय॑ मे कु॒ले॒ मा॒तर॑म्पद्म॒मालि॑नीम् ॥११॥आप॑स्सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे । नि च॑ दे॒वीम्मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥१२॥आ॒र्द्राम्पु॒ष्करि॑णीम्पु॒ष्टिं॒ पि॒ङ्ग॒ळाम्प॑द्ममा॒लिनीम् । च॒न्द्रां हि॒रण्म॑यीं ल॒ख्‍ष्मीञ्जात॑वेदो म॒माव॑ह ॥१३॥आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् । सू॒र्यां हि॒रण्म॑यीं ल॒ख्‍ष्मी॒ञ्जात॑वेदो म॒माव॑ह ॥१४॥ताम्म॒ आव॑ह॒ जात॑वेदो ल॒ख्‍षीमन॑पगा॒मिनी᳚म् । यस्यां॒ हिर॑ण्य॒म्प्रभू॑त॒ङ्गावो॑ दा॒स्योऽश्वा᳚न्, वि॒न्देय॒म्पुरु॑षान॒हम् ॥१५॥ यश्शुचिः॑ प्रयतो भू॒त्वा॒ जु॒हुया॑दाज्य॒मन्व॑हम् । श्रियः॑ प॒ञ्चद॑शर्चञ्च श्री॒काम॑स्सत॒त॒ञ्ज॑पेत् ॥१६॥आनन्दः कर्द॑मश्चै॒व चिक्ली॒त इ॑ति वि॒श्रुताः । ऋष॑य॒स्ते त्र॑यः पुत्रास्स्व॒यं॒ श्रीरे॑व दे॒वता ॥१७॥पद्मानने प॑द्म ऊ॒रू॒ प॒द्माख्‍षी प॑द्मस॒म्भवे । त्वम्मा᳚म्भ॒जस्व॑ पद्मा॒ख्‍षी ये॒न सौख्यं॑ लभा॒म्यहम् ॥१८॥अ॒श्वदा॑यी च गोदा॒यी॒ ध॒नदा॑यी म॒हाध॑ने । धन॑म्मे॒ जुष॑तान्दे॒वी स॒र्वका॑मार्थ॒ सिद्ध॑ये ॥१९॥पुत्रपौत्र धनन्धान्यं हस्त्यश्वाजाविगो रथम् । प्रजानाम्भवसि माता आयुष्मन्तङ्करोतु माम् ॥२०॥चन्द्राभां लख्‍ष्मीमीशानां सूर्याभा᳚ं श्रियमीश्वरीम् । चन्द्र सूर्याग्नि सर्वाभां श्री महालख्‍ष्मीमुपास्महे ॥२१॥धनमग्निर्धनं वायुर्धनं सूर्यो॑ धनं वसुः । धनमिन्द्रो बृहस्पतिर्वरु॑णन्धनम॑श्नुते ॥२२॥वैनतेय सोमम्पिब सोम॑म्पिबतु वृत्रहा । सोम॒न्धनस्य सोमिनो॒ मह्य॑न्ददातु सोमिनी॑ ॥२३॥न क्रोधो न च मात्स॒र्यन्न लोभो॑ नाशुभा मतिः । भवन्ति कृत पुण्यानाम्भ॒क्तानां श्री सू᳚क्तञ्जपेत्सदा ॥२४॥वर्​ष᳚म्तु॒ ते वि॑भाव॒रि॒ दि॒वो अभ्रस्य विद्यु॑तः । रोह᳚म्तु सर्व॑बीजान्यव ब्रह्म द्वि॒षो᳚ ज॑हि ॥२५॥पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदळायताख्‍षी । विश्वप्रिये विष्णु मनोनुकूले त्वत्पादपद्मम्मयि सन्निधत्स्व ॥२६॥या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताख्‍षी । गम्भीरा वर्तनाभिस्स्तनभरनमिता शुभ्र वस्तोत्तरीया ॥२७॥लख्‍ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः । नित्यं सा पद्महस्ता मम वसतु गृहे सर्व माङ्गळ्ययुक्ता ॥२८॥लख्‍ष्मीङ्ख्‍षीर समुद्र राजतनयां श्रीरङ्ग धामेश्वरीम् । दासीभूत समस्त देव वनितां लोकैक दीपाङ्कुराम् । श्रीमन्मन्द कटाख्‍ष लब्ध विभव ब्रह्मेन्द्र गङ्गाधराम् । त्वान्त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥२९॥सिद्धलख्‍ष्मीर्मोख्‍षलख्‍ष्मीर्जयलख्‍ष्मीस्सरस्वती । श्रीलख्‍ष्मीर्वरलख्‍ष्मीश्च प्रसन्ना मम सर्वदा ॥३०॥वराङ्कुशौ पाशमभीति मुद्राम् । करैर्वहन्तीङ्कमलासनस्थाम् । बालार्ककोटि प्रतिभान्त्रिनेत्राम् । भजेऽहमम्बाञ्जगदीश्वरीन्ताम् ॥३१॥सर्वमङ्गळ माङ्गळ्ये शिवे सर्वार्थ साधिके । शरण्ये त्य्रम्बके देवी नारायणि नमोस्तुते ॥३२॥श्रीर्वर्च॑स्व॒मायु॑ष्य॒मारो᳚ग्य॒मावी॑धा॒त्शोभ॑मानम्मही॒यते᳚ । धा॒न्यन्ध॒नम्प॒शुम्ब॒हुपु॑त्रला॒भं श॒तस᳚म्वत्स॒रन्दी॒र्घमायुः॑ ॥३४॥

ओं म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि ।

तन्नो॑ लख्‍ष्मीः प्रचो॒दया᳚त्

॥ ओं शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥

Sections३३
Mantras३३
Version1.0