कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यकम्

षष्ठः प्रपाठकः
पितृमेधमन्त्राः
ओं नमः परमात्मने
श्री महागणपतये नमः
श्री गुरुभ्यो नमः, हरिः ओं
ॐ
प॒रे॒यु॒वाꣳस॑म् प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था॑मनपस्पशा॒नम्⁠। वै॒व॒स्व॒तꣳ स॒ङ्गम॑न॒म् जना॑नाय्ँय॒मꣳ राजा॑नꣳ ह॒विषा॑ दुवस्यत⁠॥ इ॒दम् त्वा॒ वस्त्र॑म् प्रथ॒मं न्वाग॒न्नपै॒तदू॑ह॒ यदि॒हाबि॑भः पु॒रा⁠। इ॒ष्टा॒पू॒र्तमनु॒ संप॑श्य॒ दख्‍षि॑णा॒य्ँयथा॑ ते द॒त्तम् ब॑हु॒धा वि ब॑न्धुषु⁠॥ इ॒मौ यु॑नज्मि ते व॒ह्नी असु॑नीथाय वो॒ढवे᳚⁠। याभ्या᳚य्ँय॒मस्य॒ साद॑नꣳ सु॒कृता॒म् चापि॑ गच्छतात्⁠॥ पू॒षा त्वे॒तश्च्या॑वयतु॒ प्रवि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः⁠। स त्वै॒तेभ्यः॒ परि॑ददात् पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुवि॒दत्रे᳚भ्यः⁠॥ पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः॒ सो अ॒स्माꣳ अभ॑यतमेन नेषत्⁠। स्व॒स्ति॒दा अघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए॑तु॒ प्रवि॒द्वान्⁠ ॥ [१] (१०) आयु॑र्वि॒श्वायुः॒ परि॑पासति त्वा पू॒षा त्वा॑ पातु॒ प्रप॑थे पु॒रस्ता᳚त्⁠। यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु⁠॥ भुव॑नस्य पत इ॒दꣳ ह॒विः⁠॥ अ॒ग्नये॑ रयि॒मते॒ स्वाहा᳚⁠॥ पुरु॑षस्य सयाव॒र्यपेद॒घानि॑ मृज्महे⁠। यथा॑ नो॒ अत्र॒ नाप॑रः पु॒रा ज॒रस॒ आय॑ति⁠॥ पुरु॑षस्य सयावरि॒ वि ते᳚ प्रा॒णम॑सि स्रसम्⁠। शरी॑रेण म॒हीमिहि॑ स्व॒धयेहि॑ पि॒तॄनुप॑ प्र॒जया॒ऽस्मानि॒हाव॑ह⁠॥ मैव॑म् मा॒ꣴ॒स्ता प्रि॑ये॒ऽहम् दे॒वी स॒ती पि॑तृलो॒कय्ँयदैषि॑⁠। वि॒श्ववा॑रा॒ नभ॑सा॒ सव्ँव्य॑यन्त्यु॒भौ नो॑ लो॒कौ पय॑सा॒ऽभ्याव॑वृथ्स्व⁠ ॥ [२] (१०) इ॒यम् नारी॑ पतिलो॒कव्ँवृ॑णा॒ना निप॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत᳚म्⁠। विश्व॑म् पुरा॒णमनु॑ पा॒लय॑न्ती॒ तस्यै᳚ प्र॒जाम् द्रवि॑णम् चे॒ह धे॑हि⁠॥ उदी᳚र्ष्व नार्य॒भि जी॑वलो॒कमि॒तासु॑मे॒तमुप॑शेष॒ एहि॑⁠। ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्त्वमे॒तत् पत्यु॑र्जनि॒त्वम॒भि संब॑भूव⁠॥ सु॒वर्ण॒ꣳ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै ब्रह्म॑णे॒ तेज॑से॒ बला॑य⁠। अत्रै॒व त्वमि॒ह व॒यꣳ सु॒शेवा॒ विश्वाः॒ स्पृधो॑ अ॒भिमा॑तीर्जयेम⁠॥ धनु॒र्॒‌हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै ख्‍ष॒त्रायौज॑से॒ बला॑य⁠। अत्रै॒व त्वमि॒ह व॒यꣳ सु॒शेवा॒ विश्वाः॒ स्पृधो॑ अ॒भिमा॑तीर्जयेम⁠। मणि॒ꣳ॒ हस्ता॑दा॒ददा॑ना मृ॒तस्य॑ श्रि॒यै वि॒शे पुष्ट्यै॒ बला॑य⁠। अत्रै॒व त्वमि॒ह व॒यꣳ सु॒शेवा॒ विश्वाः॒ स्पृधो॑ अ॒भिमा॑तीर्जयेम⁠ ॥ [३] (१०) इ॒मम॑ग्ने चम॒सम् मा विजी᳚ह्वरः प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना᳚म्⁠। ए॒ष यश्च॑म॒सो दे॑व॒पान॒स्तस्मि॑न् दे॒वा अ॒मृता॑ मादयन्ताम्⁠॥ अ॒ग्नेर्वर्म॒ परि॒ गोभि॑र्व्ययस्व॒ संप्रोर्णु॑ष्व॒ मेद॑सा॒ पीव॑सा च⁠। नेत्त्वा॑ धृ॒ष्णुर्‌हर॑सा॒ जर्‌हृ॑षाणो॒ दध॑द्विध॒ख्‍ष्यन्पर्य॒ङ्खया॑तै⁠॥ मैन॑मग्ने॒ विद॑हो॒ माऽभिशो॑चो॒ माऽस्य॒ त्वच॑म् चिख्‍षिपो॒ मा शरी॑रम्⁠। य॒दा शृ॒तम् क॒रवो॑ जातवे॒दोऽथे॑मेन॒म् प्रहि॑णुतात् पि॒तृभ्यः॑⁠॥ शृ॒तय्ँय॒दा क॒रसि॑ जातवे॒दोऽथे॑मेन॒म् परि॑दत्तात् पि॒तृभ्यः॑⁠। य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा॑ दे॒वाना᳚व्ँवश॒नीर्भ॑वाति⁠॥ सूर्य॑म् ते॒ चख्‍षु॑र्गच्छतु॒ वात॑मा॒त्मा द्याम् च॒ गच्छ॑ पृथि॒वीम् च॒ धर्म॑णा⁠। अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः⁠॥ अ॒जो भा॒गस्तप॑सा॒ तम् त॑पस्व॒ तम् ते॑ शो॒चिस्त॑पतु॒ तम् ते॑ अ॒र्चिः⁠। यास्ते॑ शि॒वास्त॒नुवो॑ जातवेद॒स्ताभि॑र्वहे॒मꣳ सु॒कृता॒य्ँयत्र॑ लो॒काः⁠॥ अ॒यव्ँवै त्वम॒स्मादधि॒ त्वमे॒तद॒यव्ँवै तद॑स्य॒ योनि॑रसि⁠। वै॒श्वा॒न॒रः पु॒त्रः पि॒त्रे लो॑क॒कृज्जा॑तवेदो॒ वहे॑मꣳ सु॒कृता॒य्ँयत्र॑ लो॒काः⁠ ॥ [४] (१४) (वि॒द्वान॒भ्याव॑वृथ्स्वा॒ भिमा॑तीर्जयेम॒ शरी᳚रैश्च॒त्वारि॑ च) ॥१॥
य ए॒तस्य॑ प॒थो गो॒प्तार॒स्तेभ्यः॒ स्वाहा॒ य ए॒तस्य॑ प॒थो र॑ख्‍षि॒तार॒स्तेभ्यः॒ स्वाहा॒ य ए॒तस्य॑ प॒थो॑ऽभिर॑ख्‍षि॒तार॒स्तेभ्यः॒ स्वाहा᳚ऽऽख्या॒त्रे स्वाहा॑ऽपाख्या॒त्रे स्वाहा॑ऽभि॒लाल॑पते॒ स्वाहा॑ऽप॒लाल॑पते॒ स्वाहा॒ऽग्नये॑ कर्म॒कृते॒ स्वाहा॒ यमत्र॒ नाधी॒मस्तस्मै॒ स्वाहा᳚⁠॥ यस्त॑ इ॒द्ध्मम् ज॒भर॑थ् सिष्विदा॒नो मू॒द्‌र्धान॑व्ँवा त॒तप॑ते त्वा॒या⁠। दिवो॒ विश्व॑स्माथ् सीमघाय॒त उ॑रुष्यः⁠॥ अ॒स्मात्त्वमधि॑ जा॒तो॑ऽसि॒ त्वद॒यम् जा॑यता॒म् पुनः॑⁠। अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा᳚⁠ ॥ [५] (५) (य ए॒तस्य॒ त्वत् पञ्च॑) ॥२॥
प्र के॒तुना॑ बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा॑नि वृष॒भो रो॑रवीति⁠। दि॒वश्चि॒दन्ता॒दुप॒ मामु॒दान॑ड॒पामु॒पस्थे॑ महि॒षो व॑वद्‌र्ध⁠॥ इ॒दंत॒ एक॑म् प॒र ऊ॑त॒ एक॑म् तृ॒तीये॑न॒ ज्योति॑षा॒ सव्ँवि॑शस्व⁠। स॒व्ँवेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वाना᳚म् पर॒मे स॒धस्थे᳚⁠॥ नाके॑ सुप॒र्णमुप॒ यत् पत॑न्तꣳ हृ॒दा वेन॑न्तो अ॒भ्यच॑ख्‍षत त्वा⁠। हिर॑ण्यपख्‍ष॒व्ँवरु॑णस्य दू॒तय्ँय॒मस्य॒ योनौ॑ शकु॒नम् भु॑र॒ण्युम्⁠॥ अति॑द्रव सारमे॒यौ श्वानौ॑ चतुर॒ख्‍षौ श॒बलौ॑ सा॒धुना॑ प॒था⁠। अथा॑ पि॒तॄन्थ् सु॑वि॒दत्रा॒ꣳ॒ अपी॑हि य॒मेन॒ ये स॑ध॒माद॒म् मद॑न्ति⁠॥ यौ ते॒ श्वानौ॑ यम रख्‍षि॒तारौ॑ चतुर॒ख्‍षौ प॑थि॒रख्‍षी॑ नृ॒चख्‍ष॑सा⁠। ताभ्या॑ꣳ राज॒न् परि॑ देह्येनꣴ स्व॒स्ति चा᳚स्मा अनमी॒वम् च॑ धेहि⁠ ॥ [६] (१०) उ॒रु॒ण॒साव॑सु॒तृपा॑वुलुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ वशा॒ꣳ॒ अनु॑⁠। ताव॒स्मभ्य॑म् दृ॒शये॒ सूर्या॑य॒ पुन॑र्दत् ता॒वसु॑म॒द्येह भ॒द्रम्⁠॥ सोम॒ एके᳚भ्यः पवते घृ॒तमेक॒ उपा॑सते⁠। येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताꣴश्चि॑दे॒वापि॑गच्छतात्⁠॥ ये युद्ध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नु॒त्यजः॑⁠। ये वा॑ स॒हस्र॑दख्‍षिणा॒स्ताꣴ श्चि॑दे॒वापि॑गच्छतात्⁠॥ तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये सुव॑र्ग॒ताः⁠। तपो॒ ये च॑क्रि॒रे म॒हत् ताꣴश्चि॑दे॒वापि॑गच्छतात्⁠॥ अश्म॑न्वती रेवतीः॒ सꣳर॑भद्ध्व॒मुत्ति॑ष्ठत॒ प्रत॑रता सखायः⁠। अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाः शि॒वान्‌व॒यम॒भि वाजा॒नुत्त॑रेम⁠ ॥ [७] (१०) यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्र॑ꣳ स॒हस्र॑धार॒व्ँवित॑तम॒न्तरि॑ख्‍षे⁠। येनापु॑ना॒दिन्द्र॒मना᳚र्त॒मार्त्यै॒ तेना॒हम् माꣳ स॒र्वत॑नुम् पुनामि⁠॥ या रा॒ष्ट्रात् प॒न्नादप॒ यन्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः⁠। धा॒तुस्ताः सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒ऽस्मान्र॒य्या वर्च॑सा॒ सꣳसृ॑जाथ⁠॥ उद्व॒यम् तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम्⁠। दे॒वम् दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्⁠॥ धा॒ता पु॑नातु सवि॒ता पु॑नातु⁠। अ॒ग्नेस्तेज॑सा॒ सूर्य॑स्य॒ वर्च॑सा⁠ ॥ [८] (८) (धे॒ ह्युत्त॑रे मा॒ष्टौ च॑) ॥३॥
यम् ते॑ अ॒ग्निमम॑न्थाम वृष॒भाये॑व॒ पक्त॑वे⁠। इ॒मम् तꣳ श॑मयामसि ख्‍षी॒रेण॑ चोद॒केन॑ च⁠॥ यन्त्वम॑ग्ने स॒मद॑ह॒स्त्वमु॒ निर्वा॑पया॒ पुनः॑⁠। क्या॒म्बूरत्र॑ जायताम् पाकदू॒र्वा व्य॑ल्कशा⁠॥ शीति॑के॒ शीति॑कावति॒ ह्लादु॑के॒ ह्लादु॑कावति⁠। म॒ण्डू॒क्या॑ सुसङ्ग॒मये॒मꣴ स्व॑ग्निꣳ श॒मय॑⁠॥ शम् ते॑ धन्व॒न्या आपः॒ शमु॑ ते सन्त्वनू॒क्याः᳚⁠। शम् ते॑ समु॒द्रिया॒ आपः॒ शमु॑ ते सन्तु॒ वर्ष्याः᳚⁠॥ शम् ते॒ स्रव॑न्तीस्त॒नुवे॒ शमु॑ ते सन्तु॒ कूप्याः᳚⁠। शम् ते॑ नीहा॒रो व॑र्‌षतु॒ शमु॒ पृष्वाऽव॑शीयताम्⁠ ॥ [९] (१०) अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑⁠। आयु॒र्वसा॑न॒ उप॑ यातु॒ शेष॒ꣳ॒ सङ्ग॑च्छताम् त॒नुवा॑ जातवेदः⁠॥ सङ्ग॑च्छस्व पि॒तृभिः॒ सꣴ स्व॒धाभिः॒ समि॑ष्टापू॒र्तेन॑ पर॒मे व्यो॑मन्न्⁠। यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु⁠॥ यत्ते॑ कृ॒ष्णः श॑कु॒न आ॑तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः⁠। अ॒ग्निष्टद्विश्वा॑दनृ॒णम् कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा᳚ह्म॒णमा॑वि॒वेश॑⁠॥ उत्ति॒ष्ठात॑स्त॒नुव॒ꣳ॒ सम्भ॑रस्व॒ मेह गात्र॒मव॑हा॒ मा शरी॑रम्⁠। यत्र॒ भूम्यै॑ वृ॒णसे॒ तत्र॑ गच्छ॒ तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु⁠॥ इ॒दम् त॒ एक॑म् प॒र ऊ॑त॒ एक॑म् तृ॒तीये॑न॒ ज्योति॑षा॒ सव्ँवि॑शस्व⁠। स॒व्ँवेश॑नस्त॒नुवै॒ चारु॑रेधि प्रि॒यो दे॒वाना᳚म् पर॒मे स॒धस्थे᳚⁠॥ उत्ति॑ष्ठ॒ प्रेहि॒ प्रद्र॒वौकः॑ कृणुष्व पर॒मे व्यो॑मन्न्⁠। य॒मेन॒ त्वय्ँय॒म्या॑ सव्ँविदा॒नोत्त॒मम् नाक॒मधि॑ रोहे॒मम्⁠॥ अश्म॑न्वती रेवती॒र्§36 यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्र॒म्§37 या रा॒ष्ट्रात् प॒न्ना§38 दुद्व॒यम् तम॑स॒स्परि॑§39 धा॒ता पु॑नातु§40⁠॥ अ॒स्मात्त्वमधि॑ जा॒तो᳚ऽस्य॒यम् त्वदधि॑जायताम्⁠। अ॒ग्नये॑ वैश्वान॒राय॑ सुव॒र्गाय॑ लो॒काय॒ स्वाहा᳚⁠ ॥ [१०] (१५) (अव॑शीयताꣳ स॒धस्थे॒ पञ्च॑ च) ॥४॥
आया॑तु दे॒वः सु॒मना॑भिरू॒तिभि॑र्य॒मो ह॑वे॒ह प्रय॑ताभिर॒क्ता⁠। आसी॑दताꣳ सुप्र॒यते॑ह ब॒र्॒‌हिष्यूर्जा॑य जा॒त्यै मम॑ शत्रु॒हत्यै᳚⁠॥ य॒मे इ॑व॒ यत॑माने॒ यदैत॒म् प्रवा᳚म्‌भर॒न् मानु॑षा देव॒यन्तः॑⁠। आसी॑दत॒ꣴ॒ स्वमु॑ लो॒कव्ँविदा॑ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः⁠॥ य॒माय॒ सोम॑ꣳ सुनुत य॒माय॑ जुहुता ह॒विः⁠। य॒मꣳ ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अर॑ङ्कृतः⁠॥ य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत⁠। स नो॑ दे॒वेष्वाय॑मद्दी॒र्घमायुः॒ प्र जी॒वसे᳚⁠॥ य॒माय॒ मधु॑मत्तम॒ꣳ॒ राज्ञे॑ ह॒व्यम् जु॑होतन⁠। इ॒दम् नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे᳚भ्यः पथि॒कृद्भ्यः॑⁠ ॥ [११] (१०) योऽस्य॒ कौष्ठ्य॒ जग॑तः॒ पार्थि॑व॒स्यैक॑ इद्व॒शी⁠। य॒मम् भ॑ङ्ग्यश्र॒वो गा॑य॒ यो राजा॑ऽनप॒रोद्ध्यः॑⁠॥ य॒मम् गाय॑ भङ्ग्य॒श्रवो॒ यो राजा॑ऽनप॒रोद्ध्यः॑⁠। येना॒पो न॒द्यो॑ धन्वा॑नि॒ येन॒ द्यौः पृ॑थि॒वी दृ॒ढा⁠॥ हि॒र॒ण्य॒क॒ख्‍ष्यान्थ्सु॒धुरा॑न्‌हिरण्या॒ख्‍षान॑यश्श॒फान्⁠। अश्वा॑न॒नश्य॑तो दा॒न॒य्ँय॒मो रा॑जाऽभि॒तिष्ठ॑ति⁠॥ य॒मो दा॑धार पृथि॒वीय्ँय॒मो विश्व॑मि॒दम् जग॑त्⁠। य॒माय॒ सर्व॒मित्र॑स्थे॒ यत् प्रा॒णद्वा॒युर॑ख्‍षि॒तम्⁠॥ यथा॒ पञ्च॒ यथा॒ षड् य॒था पञ्च॑ द॒शर्‌ष॑यः⁠। य॒मय्ँयो वि॑द्या॒थ्स ब्रू॑याद्य॒थैक ऋषि॑र्विजान॒ते⁠ ॥ [१२] (१०) त्रिक॑द्रुकेभिः॒ पत॑ति॒ षडु॒र्वीरेक॒मिद्बृ॒हत्⁠। गा॒य॒त्री त्रि॒ष्टुप्छन्दा॑ꣳसि॒ सर्वा॒ ता य॒म आहि॑ता⁠॥ अह॑रह॒र्नय॑मानो॒ गामश्व॒म् पुरु॑ष॒म् जग॑त्⁠। वैव॑स्वतो॒ न तृ॑प्यति॒ पञ्च॑भि॒र्मान॑वैर्य॒मः⁠॥ वैव॑स्वते॒ विवि॑च्यन्ते॒ यमे॒ राज॑नि ते ज॒नाः⁠। ये चे॒ह स॒त्येनेच्छ॑न्ते॒ य उ॒ चानृ॑तवादि॒नः⁠॥ ते रा॑जन्नि॒ह विवि॑च्यन्ते॒ऽथा य॑न्ति त्वा॒मुप॑⁠। दे॒वाꣴश्च॒ ये न॑म॒स्यन्ति॒ ब्राह्म॑णाꣴश्चाप॒चित्य॑ति⁠॥ यस्मि॑न् वृ॒ख्‍षे सु॑पला॒शे दे॒वैः स॒पिंब॑ते य॒मः⁠। अत्रा॑ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णा अनु॑वेनति⁠ ॥ [१३] (१०) (प॒थि॒कृद्भ्यो॑ विजान॒ते ऽनु॑वेनति) ॥५॥
वै॒श्वा॒न॒रे ह॒विरि॒दम् जु॑होमि साह॒स्रमुथ्स॑ꣳ श॒तधा॑रमे॒तम्⁠। तस्मि॑न्ने॒ष पि॒तर॑म् पिताम॒हम् प्रपि॑तामहम् बिभर॒त् पिन्व॑माने⁠॥ द्र॒फ्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑⁠। तृ॒तीय॒य्ँयोनि॒मनु॑ स॒ञ्चर॑न्तम् द्र॒फ्सम् जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚⁠॥ इ॒मꣳ स॑मु॒द्रꣳ श॒तधा॑र॒मुथ्स॑व्ँव्य॒च्यमा॑न॒म् भुव॑नस्य॒ मद्ध्ये᳚⁠। घृ॒तम् दुहा॑ना॒मदि॑ति॒म् जना॒याग्ने॒ मा हि॑ꣳसीः पर॒मे व्यो॑मन्न्⁠॥ अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः⁠। अहो॑भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तय्ँय॒मो द॑दात्वव॒सान॑मस्मै⁠॥ स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे⁠। तेभि॑र्युज्यन्तामघ्नि॒याः⁠ ॥ [१४] (१०) शु॒नव्ँवा॒हाः शु॒नम् ना॒राः शु॒नम् कृ॑षतु॒ लाङ्ग॑लम्⁠। शु॒नव्ँव॑र॒त्रा ब॑द्ध्यन्ताꣳ शु॒नमष्ट्रा॒मुदि॑ङ्गय॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम्⁠॥ शुना॑सीरावि॒माव्ँवाच॒य्ँयद्दि॒वि च॑क्र॒थुः पयः॑⁠। तेने॒मामुप॑सिञ्चतम्⁠॥ सीते॒ वन्दा॑महे त्वा॒ऽर्वाची॑ सुभगे भव⁠। यथा॑ नः सु॒भगा स॑सि॒ यथा॑ नः सु॒फला स॑सि⁠॥ स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे⁠। तेभि॑रदिते॒ शम् भ॑व⁠॥ विमु॑च्यद्ध्वमघ्नि॒या दे॑व॒याना॒ अता॑रिष्म॒ तम॑सस्पा॒रम॒स्य⁠। ज्योति॑रापाम॒ सुव॑रगन्म⁠ ॥ [१५] (१०) प्र वाता॒ वान्ति॑ प॒तय॑न्ति वि॒द्युत॒ उदोष॑धीर्जिहते॒ पिन्व॑ते॒ सुवः॑⁠। इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत् प॒र्जन्यः॑ पृथि॒वीꣳ रेत॒साऽव॑ति⁠॥ यथा॑ य॒माय॑ हा॒र्म्यमव॑प॒न् पञ्च॑मान॒वाः⁠। ए॒वव्ँव॑पामि हा॒र्म्यय्ँयथाऽसा॑म जीवलो॒के भूर॑यः⁠॥ चितः॑ स्थ परि॒चित॑ ऊद्‌र्ध्व॒चितः॑ श्रयद्ध्वम् पि॒तरो॑ दे॒वता᳚⁠। प्र॒जाप॑तिर्वः सादयतु॒ तया॑ दे॒वत॑या⁠॥ आ प्या॑यस्व॒§41 सम् ते᳚§42⁠ ॥ [१६] (७) (अ॒घ्नि॒या अ॑गन्म +स॒प्त च॑) ॥६॥
उत्ते॑ तभ्नोमि पृथि॒वीम् त्वत्परी॒मल्ँलो॒कम् नि॒दध॒न्मो अ॒हꣳ रि॑षम्⁠। ए॒ताꣴ स्थूणा᳚म् पि॒तरो॑ धारयन्तु॒ तेऽत्रा॑ य॒मः साद॑नात्ते मिनोतु⁠॥ उप॑सर्प मा॒तर॒म् भूमि॑मे॒तामु॑रु॒व्यच॑सम् पृथि॒वीꣳ सु॒शेवा᳚म्⁠। ऊर्ण॑म्रदा युव॒तिर् दख्‍षि॑णावत्ये॒षा त्वा॑ पातु॒ निर्‌ऋ॑त्या उ॒पस्थे᳚⁠॥ उच्छ्म॑ञ्चस्व पृथिवि॒ मा विबा॑धिथाः सूपाय॒नाऽस्मै॑ भव सूपवञ्च॒ना⁠। मा॒ता पु॒त्रय्ँयथा॑ सि॒चाऽभ्ये॑नम् भूमि वृणु⁠॥ उ॒च्छ्मञ्च॑माना पृथि॒वी हि तिष्ठ॑सि स॒हस्र॒म्मित॒ उप॒ हि श्रय॑न्ताम्⁠। ते गृ॒हासो॑ मधु॒श्चुतो॒ विश्वाहा᳚स्मै शर॒णाः स॒न्त्वत्र॑⁠॥ एणी᳚द्‌र्धा॒ना हरि॑णी॒रर्जु॑नीः सन्तु धे॒नवः॑⁠। तिल॑वथ्सा॒ ऊर्ज॑मस्मै॒ दुहा॑ना॒ विश्वाहा॑ स॒न्त्वन॑पस्फुरन्तीः⁠ ॥ [१७] (१०) ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे⁠। अख्‍षि॑ति॒र्नाम॑ ते असौ⁠॥ इ॒दम् पि॒तृभ्यः॒ प्रभ॑रेम ब॒र्॒‌हिर् दे॒वेभ्यो॒ जीव॑न्त॒ उत्त॑रम् भरेम⁠। तत्त्व॑मारो॒हासो॒ मेघ्यो॒ भव॑य्ँय॒मेन॒ त्वय्ँय॒म्या॑ सव्ँविदा॒नः⁠॥ मा त्वा॑ वृ॒ख्‍षौ संबा॑धिष्टा॒म् मा मा॒ता पृ॑थिवि॒ त्वम्⁠। पि॒तॄन्‌हि यत्र॒ गच्छा॒स्येधा॑सय्ँयम॒राज्ये᳚⁠॥ मा त्वा॑ वृ॒ख्‍षौ संबा॑धेथा॒म् मा मा॒ता पृ॑थि॒वी म॒ही⁠। वै॒व॒स्व॒तꣳ हि गच्छा॑सि यम॒राज्ये॒ विरा॑जसि⁠॥ न॒ळम् प्ल॒वमारो॑है॒तम् न॒ळेन॑ प॒थोऽन्वि॑हि⁠। स त्व॑म् न॒ळप्ल॑वो भू॒त्वा॒ सन्त॑र॒ प्रत॒रोत्त॑र⁠ ॥ [१८] (१०) स॒वि॒तैतानि॒ शरी॑राणि पृथि॒व्यै मा॒तुरु॒पस्थ॒ आद॑धे⁠। तेभ्यः॑ पृथिवि॒ शम् भ॑व⁠॥ षड्ढो॑ता॒ सूर्य॑म् ते॒ चख्‍षु॑र् गच्छतु॒ वात॑मा॒त्मा द्याम् च॒ गच्छ॑ पृथि॒वीम् च॒ धर्म॑णा⁠। अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः⁠॥ पर॑म् मृत्यो॒ अनु॒ परे॑हि॒ पन्था॒य्ँयस्ते॒ स्व इत॑रो देव॒याना᳚त्⁠। चख्‍षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा नः॑ प्र॒जाꣳ री॑रिषो॒ मोत वी॒रान्⁠॥ शव्ँवातः॒ शꣳ हि ते॒ घृणिः॒ शमु॑ ते स॒न्त्वोष॑धीः⁠। कल्प॑न्ताम् मे॒ दिशः॑ श॒ग्माः⁠॥ पृ॒थि॒व्यास्त्वा॑ लो॒के सा॑दयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता᳚⁠। प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या⁠॥ अ॒न्तरि॑ख्‍षस्य त्वा दि॒वस्त्वा॑ दि॒शाम् त्वा॒ नाक॑स्य त्वा पृ॒ष्ठे ब्र॒द्ध्नस्य॑ त्वा वि॒ष्टपे॑ सादयाम्य॒मुष्य॒ शर्मा॑सि पि॒तरो॑ दे॒वता᳚⁠। प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या⁠ ॥ [१९] (१२) (अन॑पस्फुरन्ती॒ रुत्त॑र दे॒वत॑या॒ द्वे च॑) ॥७॥
अ॒पू॒पवा᳚न् घृ॒तवा॑ꣴश्च॒रुरेह सी॑दतूत्तभ्नु॒वन् पृ॑थि॒वीम् द्यामु॒तोपरि॑⁠। यो॒नि॒कृतः॑ पथि॒कृतः॑ सपर्यत॒ ये दे॒वाना᳚म् घृ॒तभा॑गा इ॒ह स्थ⁠। ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ⁠। दशा᳚ख्‍षरा॒ ताꣳ र॑ख्‍षस्व॒ ताम् गो॑पायस्व॒ ताम् ते॒ परि॑ ददामि॒ तस्या᳚म् त्वा॒ मा द॑भन् पि॒तरो॑ दे॒वता᳚⁠। प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या⁠॥ अ॒पू॒पवा᳚ञ्छृ॒तवा᳚न्ख्‍षी॒रवा॒न्दधि॑वा॒न्मधु॑माꣴश्च॒रुरेह सी॑दतूत्तभ्नु॒वन्पृ॑थि॒वीम् द्यामु॒तोपरि॑⁠। यो॒नि॒कृतः॑ पथि॒कृतः॑ सपर्यत॒ ये दे॒वाना॑ꣳ शृ॒तभा॑गाः ख्‍षी॒रभा॑गा॒ दधि॑भागा॒ मधु॑भागा इ॒ह स्थ⁠। ए॒षा ते॑ यम॒साद॑ने स्व॒धा निधी॑यते गृ॒हे॑ऽसौ⁠। श॒ताख्‍ष॑रा स॒हस्रा᳚ख्‍षरा॒ऽयुता᳚ख्‍ष॒राऽच्यु॑ताख्‍षरा॒ ताꣳ र॑ख्‍षस्व॒ ताम् गो॑पायस्व॒ ताम् ते॒ परि॑ददामि॒ तस्या᳚म् त्वा॒ मा द॑भन् पि॒तरो॑ दे॒वता᳚⁠। प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑या⁠ ॥ [२०] (१०) (अ॒पू॒पवा॑नसौ॒ दश॑) ॥८॥
ए॒तास्ते᳚ स्व॒धा अ॒मृताः᳚ करोमि॒ यास्ते॑ धा॒नाः प॑रि॒किरा॒म्यत्र॑⁠। तास्ते॑ य॒मः पि॒तृभिः॑ सव्ँविदा॒नोऽत्र॑ धे॒नूः का॑म॒दुघाः᳚ करोतु⁠॥ त्वामर्जु॒नौष॑धीना॒म् पयो᳚ ब्र॒ह्माण॒ इद्वि॑दुः⁠। तासा᳚म् त्वा॒ मद्ध्या॒दाद॑दे च॒रुभ्यो॒ अपि॑धातवे⁠॥ दू॒र्वाणा॑ꣴ स्त॒म्बमाह॑रै॒ताम् प्रि॒यत॑मा॒म् मम॑⁠। इ॒माम् दिश॑म् मनु॒ष्या॑णा॒म् भूयि॒ष्ठाऽनु॒ वि रो॑हतु⁠॥ काशा॑नाꣴ स्त॒म्बमाह॑र॒ रख्‍ष॑सा॒मप॑हत्यै⁠। य ए॒तस्यै॑ दि॒शः प॒राभ॑वन्नघा॒यवो॒ यथा॒ ते नाभ॑वा॒न् पुनः॑⁠॥ द॒र्भाणा॑ꣴ स्त॒म्बमाह॑र पितृ॒णामोष॑धीम् प्रि॒याम्⁠। अन्वस्यै॒ मूल॑म् जीवा॒दनु॒ काण्ड॒मथो॒ फल᳚म्⁠ ॥ [२१] (१०) लो॒कम् पृ॑ण॒§43 ता अ॑स्य॒ सूद॑दोहसः§44⁠॥ शव्ँवातः॒ शꣳहि ते॒ घृणिः॒ शमु॑ ते स॒न्त्वोष॑धीः⁠। कल्प॑न्ताम् ते॒ दिशः॒ सर्वाः᳚⁠॥ इ॒दमे॒व मेतोऽप॑रा॒मार्ति॑माराम॒ काञ्च॒न⁠। तथा॒ तद॒श्विभ्या᳚म् कृ॒तम् मि॒त्रेण॒ वरु॑णेन च⁠॥ व॒र॒णो वा॑रयादि॒दम् दे॒वो वन॒स्पतिः॑⁠। आर्त्यै॒ निर्‌ऋ॑त्यै॒ द्वेषा᳚च्च॒ वन॒स्पतिः॑⁠॥ विधृ॑तिरसि॒ विधा॑रया॒स्मद॒घा द्वेषा॑ꣳसि श॒मि श॒मया॒स्मद॒घा द्वेषा॑ꣳसि य॒व य॒वया॒स्मद॒घा द्वेषा॑ꣳसि⁠॥ पृ॒थि॒वीम् ग॑च्छा॒न्तरि॑ख्‍षम् गच्छ॒ दिव॑म् गच्छ॒ दिशो॑ गच्छ॒ सुव॑र्गच्छ॒ सुव॑र्गच्छ॒ दिशो॑ गच्छ॒ दिव॑म् गच्छा॒न्तरि॑ख्‍षम् गच्छ पृथि॒वीम् ग॑च्छा॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः⁠॥ अश्म॑न्वती रेवती॒र्§43 यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्र॒म्§44 या रा॒ष्ट्रात्प॒न्ना§45 दुद्व॒यम् तम॑स॒स्परि॑§46 धा॒ता पु॑नातु§47⁠ ॥ [२२] (१०) (अथो॒ फल॑म् धा॒ता पु॑नातु) ॥९॥
आरो॑ह॒तायु॑र्ज॒रस॑म् गृणा॒ना अ॑नुपू॒र्वय्ँयत॑माना॒ यति॒ष्ट⁠। इ॒ह त्वष्टा॑ सु॒जनि॑मा सु॒रत्नो॑ दी॒र्घमायुः॑ करतु जी॒वसे॑ वः⁠॥ यथाऽहा᳚न्यनुपू॒र्वम् भव॑न्ति॒ यथ॒र्तव॑ ऋ॒तुभि॒र्यन्ति॑ क्लृ॒प्ताः⁠। यथा॒ न पूर्व॒मप॑रो॒ जहा᳚त्ये॒वा धा॑त॒रायू॑ꣳषि कल्पयैषाम्⁠॥ न हि॑ ते अग्ने त॒नुवै᳚ क्रू॒रम् च॒कार॒ मर्त्यः॑⁠। क॒पिर्ब॑भस्ति॒ तेज॑न॒म् पुन॑र्ज॒रायु॒ गौरि॑व⁠। अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒द्ध्या र॒यिम्⁠। अप॑ नः॒ शोशु॑चद॒घम् मृ॒त्यवे॒ स्वाहा᳚⁠॥ अ॒न॒ड्वाह॑म॒न्वार॑भामहे स्व॒स्तये᳚⁠। स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्निः॑ स॒पांर॑णो भव⁠ ॥ [२३] (१०) इ॒मे जी॒वा वि॑मृ॒तैराव॑वर्ति॒न्नभू᳚द्भ॒द्रा दे॒वहू॑तिम् नो अ॒द्य⁠। प्राञ्जो॑ऽगामा नृ॒तये॒ हसा॑य॒ द्राघी॑य॒ आयुः॑ प्रत॒राम् दधा॑नाः⁠॥ मृ॒त्योः प॒दय्ँयो॒पय॑न्तो॒ यदैम॒ द्राघी॑य॒ आयुः॑ प्रत॒राम् दधा॑नाः⁠। आ॒प्याय॑मानाः प्र॒जया॒ धने॑न शु॒द्धाः पू॒ता भ॑वथ यज्ञियासः⁠॥ इ॒मम् जी॒वेभ्यः॑ परि॒धिम् द॑धामि॒ मा नो नु॑ गा॒दप॑रो॒ अद्‌र्ध॑मे॒तम्⁠। श॒तम् जी॑वन्तु श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युम् द॑द्महे॒ पर्व॑तेन⁠॥ इ॒मा नारी॑रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ संमृ॑शन्ताम्⁠। अ॒न॒श्रवो॑ अनमी॒वाः सु॒शेवा॒ आरो॑हन्तु॒ जन॑यो॒ योनि॒मग्रे᳚⁠॥ यदाञ्ज॑नम् त्रैककु॒दम् जा॒तꣳ हि॒मव॑त॒स्परि॑⁠। तेना॒मृत॑स्य॒ मूले॒नारा॑तीर्जम्भयामसि⁠॥ यथा॒ त्वमु॑द्भि॒नथ्स्यो॑षधे पृथि॒व्या अधि॑⁠। ए॒वमि॒म उद्भि॑न्दन्तु की॒र्त्या यश॑सा ब्रह्मवर्च॒सेन॑⁠॥ अ॒जो᳚ऽस्यजा॒स्मद॒घा द्वेषा॑ꣳसि य॒वो॑ऽसि य॒वया॒स्मद॒घा द्वेषा॑ꣳसि⁠ ॥ [२४] (१३) (भ॒व॒ ज॒म्भ॒या॒म॒सि॒ त्रीणि॑ च) ॥१०॥
अप॑ नः॒ शोशु॑चद॒घमग्ने॑ शुशु॒द्ध्या र॒यिम्⁠। अप॑ नः॒ शोशु॑चद॒घम्⁠॥ सु॒ख्‍षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे⁠। अप॑ नः॒ शोशु॑चद॒घम्⁠॥ प्र यद्भन्दि॑ष्ठ एषा॒म् प्रास्माका॑सश्च सू॒रयः॑⁠। अप॑ नः॒ शोशु॑चद॒घम्⁠॥ प्रयद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ सू॒रयः॑⁠। अप॑ नः॒ शोशु॑चद॒घम्⁠॥ प्रयत्ते॑ अग्ने सू॒रयो॒ जाये॑महि॒ प्र ते॑ व॒यम्⁠। अप॑ नः॒ शोशु॑चद॒घम्⁠ ॥ [२५] (१०) त्वꣳ हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑⁠। अप॑ नः॒ शोशु॑चद॒घम्⁠॥ द्विषो॑ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय⁠। अप॑ नः॒ शोशु॑चद॒घम्⁠॥ स नः॒ सिन्धु॑मिव ना॒वयाऽति॑ पर्‌षा स्व॒स्तये᳚⁠। अप॑ नः॒ शोशु॑चद॒घम्⁠॥ आपः॑ प्रव॒णादि॑व य॒तीरपा॒स्मथ्स्य॑न्दताम॒घम्⁠। अप॑ नः॒ शोशु॑चद॒घम्⁠॥ उ॒द्व॒नादु॑द॒कानी॒वापा॒स्मथ्स्य॑न्दताम॒घम्⁠। अप॑ नः॒ शोशु॑चद॒घम्⁠॥ आ॒न॒न्दाय॑ प्रमो॒दाय॒ पुन॒रागा॒ꣴ॒ स्वान्गृ॒हान्⁠। अप॑ नः॒ शोशु॑चद॒घम्⁠॥ न वै तत्र॒ प्रमी॑यते॒ गौरश्वः॒ पुरु॑षः प॒शुः⁠। यत्रे॒दम् ब्रह्म॑ क्रि॒यते॑ परि॒धिर्जीव॑नाय॒ कमप॑ नः॒ शोशु॑चद॒घम्⁠ ॥ [२६] (१४) (अ॒घ म॒घम् च॒त्वारि॑ च) ॥११॥
अप॑श्याम युव॒तिमा॒चर॑न्तीम् मृ॒ताय॑ जी॒वाम् प॑रिणी॒यमा॑नाम्⁠। अ॒न्धेन॒ या तम॑सा॒ प्रावृ॑ताऽसि॒ प्राची॒मवा॑ची॒मव॒यन्नरि॑ष्ट्यै⁠॥ मयै॒ताम् मा॒ꣴ॒स्ताम् भ्रि॒यमा॑णा दे॒वी स॒ती पि॑तृलो॒कय्ँयदैषि॑⁠। वि॒श्ववा॑रा॒ नभ॑सा॒ सव्ँव्य॑यन्त्यु॒भौ नो॑ लो॒कौ पय॒साऽऽवृ॑णीहि⁠॥ रयि॑ष्ठाम॒ग्निम् मधु॑मन्तमू॒र्मिण॒मूर्जः॑ सन्तम् त्वा॒ पय॒सोप॒ सꣳस॑देम⁠। सꣳ र॒य्या समु॒ वर्च॑सा॒ सच॑स्वा नः स्व॒स्तये᳚⁠॥ ये जी॒वा ये च॑ मृ॒ता ये जा॒ता ये च॒ जन्त्याः᳚⁠। तेभ्यो॑ घृ॒तस्य॑ धारयितु॒म् मधु॑धारा व्युन्द॒ती⁠॥ मा॒ता रु॒द्राणा᳚म् दुहि॒ता वसू॑ना॒ꣴ॒ स्वसा॑ऽऽदि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑⁠। प्रणु॒वोच॑म् चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिव्ँवधिष्ट⁠॥ पिब॑तूद॒कम् तृणा᳚न्यत्तु⁠। ओमुथ् सृ॒जत⁠ ॥ [२७] (१२) (व॒धि॒ष्ट॒ द्वे च॑) ॥१२॥

Appendix (of Expansions)

{36} T.A.6.4.2
प॒वित्र॒म् " "या रा॒ष्ट्रात् प॒न्ना " "दुद्व॒यम् तम॑स॒स्परि॑ " "धा॒ता पु॑नातु " अश्म॑न्वती रेवतीः॒ सꣳ र॑भद्ध्व॒ मुत्ति॑ष्ठत॒ प्रत॑रता सखायः⁠। अत्रा॑ जहाम॒ ये अस॒न्नशे॑वाः शि॒वान् व॒यम॒भि वाजा॒नुत्त॑रेम⁠॥ ([तै.आ.6.3.2]) यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्र॑ꣳ स॒हस्र॑धार॒व्ँवित॑तम॒न्तरि॑ख्‍षे⁠। येनापु॑ना॒दिन्द्र॒मना॑र्त॒मार्त्यै॒ तेना॒हम् माꣳ स॒र्वत॑नुम् पुनामि⁠॥ ([तै.आ.6.3.3]) या रा॒ष्ट्रात् प॒न्नादप॒ यन्ति॒ शाखा॑ अ॒भिमृ॑ता नृ॒पति॑मि॒च्छमा॑नाः⁠। धा॒तुस्ताः सर्वाः॒ पव॑नेन पू॒ताः प्र॒जया॒ऽस्मान्र॒य्या वर्च॑सा॒ सꣳसृ॑जाथ⁠॥ ([तै.आ.6.3.3]) उद्व॒यम् तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम्⁠। दे॒वम् दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्⁠॥ ([तै.आ.6.3.3]) धा॒ता पु॑नातु सवि॒ता पु॑नातु⁠। अ॒ग्नेस्तेज॑सा॒ सूर्य॑स्य॒ वर्च॑सा⁠॥
{42} T.A.6.6.3
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम्⁠। भवा॒ वाज॑स्य सङ्ग॒थे⁠॥ सं ते॒ पया॑ꣳसि॒ समु॑ यन्तु॒ वाजाः॒ सव्ँवृष्णि॑यान्यभिमाति॒षाहः॑⁠। आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवा॑ꣴस्युत्त॒मानि॑ धिष्व⁠॥
{44} T.A.6.9.2
लो॒कं पृ॑ण छि॒द्रं पृ॒णाथो॑ सीद शि॒वा त्वम्⁠। इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीष॒दन्न्⁠॥ ता अ॑स्य॒ सूद॑दोहसः॒ सोम॑ꣴ श्रीणन्ति॒ पृश्न॑यः⁠। जन्म॑न् दे॒वाना॒व्ँविश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः⁠॥
{45} T.A.6.9.2
"यद्वै दे॒वस्य॑ सवि॒तुः प॒वित्र॒म् " "या रा॒ष्ट्रात्प॒न्ना " "दुद्व॒यम् तम॑स॒स्परि॑ " धा॒ता पु॑नातु "
{45} is same as (36} above, {46} is same as (37} above {47} is same as (38} above. {48} is same as (39} above {49} is same as (40} above
अनुवाकाः पञ्चशती
१२ २७