कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
प्रथमकाण्डे प्रथमः प्रश्नः

कांड १ प्रश्न १
दर्शपूर्णमासौ

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
इ॒षे त्वो॒र्जे त्वा॑ वा॒यवः॑ स्थोपा॒यवः॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यद्ध्वमघ्निया देवभा॒गमूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑य॒ख्‍ष्मा मा वः॑ स्ते॒न ई॑शत॒ माऽघश॑ꣳसो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर् यज॑मानस्य प॒शून् पा॑हि⁠ [१] (इ॒षे त्रिच॑त्वारिꣳशत्) ॥१॥
य॒ज्ञस्य॑ घो॒षद॑सि॒ प्रत्यु॑ष्ट॒ꣳ॒ रख्‍षः॒ प्रत्यु॑ष्टा॒ अरा॑तयः॒ प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒‌हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा॒ त आ व॑हन्ति क॒वयः॑ पु॒रस्ता᳚द् दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒‌हिरा॒सदे॑ दे॒वाना᳚म्परिषू॒तम॑सि व॒र्॒‌षवृ॑द्धमसि॒ देव॑बर्‌हि॒र्मा त्वा॒ऽन्वङ् मा ति॒र्यक् पर्व॑ ते राद्ध्यासमाच्छे॒त्ता ते॒ मा रि॑ष॒न्देव॑बर्‌हिः श॒तव॑ल्‌श॒व्ँवि रो॑ह स॒हस्र॑वल्‌शा॒ [२] वि व॒यꣳ रु॑हेम पृथि॒व्याः सं॒पृचः॑ पाहि सुसं॒भृता᳚ त्वा॒ संभ॑रा॒म्यदि॑त्यै॒ रास्ना॑ऽसीन्द्रा॒ण्यै स॒न्नह॑नम्पू॒षा ते᳚ ग्र॒न्थिङ्ग्र॑थ्नातु॒ स ते॒ माऽऽस्था॒दिन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे॒ बृह॒स्पते᳚र् मू॒र्द्ध्ना ह॑राम्यु॒र्व॑न्तरि॑ख्‍ष॒मन्वि॑हि देवङ्ग॒मम॑सि⁠ [३] (स॒हस्र॑वल्‌शा अ॒ष्टात्रि॑ꣳशच्च) ॥२॥
शुन्ध॑द्ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ मात॒रिश्व॑नो घ॒र्मो॑ऽसि॒ द्यौर॑सि पृथि॒व्य॑सि वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना॒ दृꣳह॑स्व॒ मा ह्वा॒र् वसू॑नाम्प॒वित्र॑मसि श॒तधा॑र॒व्ँवसू॑नाम्प॒वित्र॑मसि स॒हस्र॑धारꣳ हु॒तः स्तो॒कोहु॒तो द्र॒फ्सो᳚ऽग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ꣳ॒ सा वि॒श्वायुः॒ सा वि॒श्वव्य॑चाः॒ सा वि॒श्वक॑र्मा॒ सम्पृ॑च्यद्ध्वमृतावरीरू॒र्मिणी॒र्मधु॑मत्तमा म॒न्द्रा धन॑स्य सा॒तये॒ सोमे॑न॒ त्वाऽऽत॑न॒च्मीन्द्रा॑य॒ दधि॒ विष्णो॑ ह॒व्यꣳ र॑ख्‍षस्व⁠ [४] (सोमे॑ ना॒ष्टौ च॑) ॥३॥
कर्म॑णे वान्दे॒वेभ्यः॑ शकेय॒व्ँवेषा॑य त्वा॒ प्रत्यु॑ष्ट॒ꣳ॒ रख्‍षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ धूर॑सि॒ धूर्व॒ धूर्व॑न्त॒न्धूर्व॒ तय्ँयो᳚ऽस्मान् धूर्व॑ति॒ तन्धू᳚र्व॒यव्ँव॒यन्धूर्वा॑म॒स्त्वन्दे॒वाना॑मसि॒ सस्नि॑तम॒म्पप्रि॑तम॒ञ्जुष्ट॑तम॒व्ँवह्नि॑तमन्देव॒हूत॑म॒मह्रु॑तमसि हवि॒र्धान॒न्दृꣳह॑स्व॒ मा ह्वा᳚र् मि॒त्रस्य॑ त्वा॒ चख्‍षु॑षा॒ प्रेख्‍षे॒ मा भेर्मा सव्ँवि॑क्था॒ मा त्वा॑ [५] हिꣳसिषमु॒रु वाता॑य दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र् बा॒हुभ्या᳚म्पू॒ष्णो हस्ता᳚भ्याम॒ग्नये॒ जुष्ट॒न्निर्व॑पाम्य॒ग्नीषोमा᳚भ्यामि॒दन्दे॒वाना॑मि॒दमु॑ नः स॒ह स्फा॒त्यै त्वा॒ नारा᳚त्यै॒ सुव॑र॒भि वि ख्ये॑षव्ँवैश्वान॒रञ्ज्योति॒र् दृꣳह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्यो रु॒र्व॑न्तरि॑ख्‍ष॒ मन्वि॒ह्यदि॑त्या स्त्वो॒पस्थे॑ सादया॒म्यग्ने॑ ह॒व्यꣳ र॑ख्‍षस्व⁠ [६] (मा त्वा॒ षट्च॑त्वारिꣳशच्च) ॥४॥
दे॒वो वः॑ सवि॒तोत् पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभि॒रापो॑ देवीरग्रेपुवो अग्रेगु॒वोऽग्र॑ इ॒मय्ँय॒ज्ञन्न॑य॒ताग्रे॑ य॒ज्ञप॑तिन्धत्त यु॒ष्मानिन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीद्ध्वव्ँवृत्र॒तूर्ये॒ प्रोख्‍षि॑ताः स्था॒ग्नये॑ वो॒ जुष्ट॒म्प्रोख्‍षा᳚म्य॒ग्नीषोमा᳚भ्या॒ꣳ॒ शुन्ध॑द्ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ अव॑धूत॒ꣳ॒ रख्‍षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा [७] पृथि॒वी वे᳚त्त्वधि॒षव॑णमसि वानस्प॒त्यम्प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे᳚त्त्व॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नन्दे॒ववी॑तये त्वा गृह्णा॒म्यद्रि॑रसि वानस्प॒त्यः स इ॒दन्दे॒वेभ्यो॑ ह॒व्यꣳ सु॒शमि॑ शमि॒ष्वेष॒मा व॒दोर्ज॒मा व॑द द्यु॒मद्व॑दत व॒यꣳ स॑ङ्घा॒तञ्जे᳚ष्म व॒र्॒षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒षवृ॑द्धव्ँवेत्तु॒ परा॑पूत॒ꣳ॒ रख्‍षः॒ परा॑पूता॒ अरा॑तयो॒ रख्‍ष॑साम्भा॒गो॑ ऽसि वा॒युर्वो॒ वि वि॑नक्तु दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णातु⁠ [८] (त्वा॒ भा॒ग एका॑दश च) ॥५॥
अव॑धूत॒ꣳ॒ रख्‍षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा पृथि॒वीवे᳚त्तु दि॒वः स्कं॑भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे᳚त्तु धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वः स्कं॑भ॒निर्वे᳚त्तु धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे᳚त्तु दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र् बा॒हुभ्या᳚म्पू॒ष्णोहस्ता᳚भ्या॒मधि॑ वपामिधा॒न्य॑मसि धिनु॒हि दे॒वान् प्रा॒णाय॑ त्वा ऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षेधान्दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णातु⁠ [९] (प्रा॒णाय॑ त्वा॒ पञ्च॑दश च) ॥६॥
धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छापा᳚ग्ने॒ऽग्निमा॒माद॑ञ्जहि॒ निष्क्र॒व्याद॑ꣳ से॒धाऽऽदे॑व॒यज॑व्ँवह॒ निर्द॑ग्ध॒ꣳ॒ रख्‍षो॒ निर्द॑ग्धा॒ अरा॑तयो ध्रु॒वम॑सि पृथि॒वीन्दृ॒ꣳ॒हाऽऽ*यु॑र् दृꣳह प्र॒जान्दृ॑ꣳह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒र्त्रम॑स्य॒न्तरि॑ख्‍षन्दृꣳह प्रा॒णन्दृ॑ꣳहापा॒नन्दृ॑ꣳह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒रुण॑मसि॒ दिव॑न्दृꣳह॒ चख्‍षु॑र् [१०] दृꣳह॒ श्रोत्र॑न्दृꣳह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ धर्मा॑सि॒ दिशो॑ दृꣳह॒ योनि॑न्दृꣳह प्र॒जान्दृ॑ꣳह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ चितः॑ स्थ प्र॒जाम॒स्मै र॒यिम॒स्मै स॑जा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ भृगू॑णा॒मङ्गि॑रसा॒न्तप॑सा तप्यद्ध्व॒य्ँयानि॑ घ॒र्मे क॒पाला᳚न्युपचि॒न्वन्ति॑ वे॒धसः॑⁠। पू॒ष्णस्तान्यपि॑ व्र॒त इ॑न्द्रवा॒यू वि मु॑ञ्चताम्⁠ [११] (चख्‍षु॑ र॒ष्टाच॑त्वारिꣳशच्च) ॥७॥
सव्ँव॑पामि॒ समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॑न॒ सꣳ रे॒वती॒र् जग॑तीभि॒र् मधु॑मती॒र् मधु॑मतीभिः सृज्यद्ध्वम॒द्भ्यः परि॒ प्रजा॑ताः स्थ॒ सम॒द्भिः पृ॑च्यद्ध्व॒ञ्जन॑यत्यै त्वा॒ सय्ँयौ᳚म्य॒ग्नये᳚ त्वा॒ऽग्नीषोमा᳚भ्याम्म॒खस्य॒ शिरो॑ऽसि घ॒र्मो॑ऽसि वि॒श्वायु॑रु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒न्त्वच॑ङ्गृह्णीष्वा॒न्तरि॑त॒ꣳ॒ रख्‍षो॒ऽन्तरि॑ता॒ अरा॑तयोदे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्‌षि॑ष्ठे॒ अधि॒ नाके॒ऽग्निस्ते॑ त॒नुव॒म्माऽति॑ धा॒गग्ने॑ ह॒व्यꣳ र॑ख्‍षस्व॒ सम्ब्रह्म॑णा पृच्यस्वैक॒ताय॒ स्वाहा᳚ द्वि॒ताय॒ स्वाहा᳚ त्रि॒ताय॒ स्वाहा᳚⁠ [१२] (स॒वि॒ता द्वावि॑ꣳशतिश्च) ॥८॥
आ द॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दख्‍षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जाः॒ पृथि॑वि देवयज॒ न्योष॑द्ध्यास्ते॒ मूल॒म्मा हि॑ꣳसिष॒मप॑हतो॒ऽररुः॑ पृथि॒व्यै व्र॒जङ्ग॑च्छ गो॒स्थान॒व्ँवर्‌ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्या᳚म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो᳚ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒ऽररुः॑ पृथि॒व्यै दे॑व॒यज॑न्यै व्र॒जं [१३] ग॑च्छ गो॒स्थान॒व्ँवर्‌ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्या᳚म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो᳚ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒ऽररुः॑ पृथि॒व्या अदे॑वयजनो व्र॒जङ्ग॑च्छ गो॒स्थान॒व्ँवर्‌ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्या᳚म्परा॒वति॑ श॒तेन॒ पाशै॒र्यो᳚ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मस्तमतो॒ मा [१४] मौ॑ग॒ररु॑स्ते॒ दिव॒म्मा स्का॒न्॒‌वस॑वस्त्वा॒ परि॑ गृह्णन्तु गाय॒त्रेण॒ छन्द॑सारु॒द्रास्त्वा॒ परि॑ गृह्णन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽऽदि॒त्यास्त्वा॒ परि॑ गृह्णन्तु॒ जाग॑तेन॒ छन्द॑सा दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वन्ति वे॒धस॑ ऋ॒तम॑स्यृत॒सद॑नमस्यृत॒श्रीर॑सि॒ धा अ॑सि स्व॒धा अ॑स्यु॒र्वी चासि॒ वस्वी॑ चासि पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शिन् नुदा॒दाय॑ पृथि॒वीञ्जी॒रदा॑नु॒र्यामैर॑यन् च॒न्द्रम॑सि स्व॒धाभि॒स्तान्धीरा॑सो अनु॒दृश्य॑ यजन्ते⁠ [१५] (दे॒व॒यज॑न्यै व्र॒जं तमतो॒ मा वि॑रफ्शि॒न् नेका॑दश च) ॥९॥
प्रत्यु॑ष्ट॒ꣳ॒ रख्‍षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ऽग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पामि गो॒ष्ठम्मा निर्मृ॑ख्‍षव्ँवा॒जिन॑न्त्वा सपत्नसा॒हꣳ सम्मा᳚र्ज्मि॒ वाच॑म्प्रा॒णञ्चख्‍षुः॒ श्रोत्र॑म्प्र॒जाय्ँयोनि॒म्मा निर्मृ॑ख्‍षव्ँवा॒जिनी᳚न्त्वा सपत्नसा॒हीꣳ सम्मा᳚र्ज्म्या॒शासा॑ना सौमन॒सम्प्र॒जाꣳ सौभा᳚ग्यन्त॒नूम्⁠। अ॒ग्नेरनु॑व्रता भू॒त्वा सन्न॑ह्ये सुकृ॒ताय॒ कम्⁠॥ सु॒प्र॒जस॑स्त्वा व॒यꣳ सु॒पत्नी॒रुप॑ [१६] सेदिम⁠। अग्ने॑ सपत्न॒दंभ॑न॒मद॑ब्धासो॒ अदा᳚भ्यम्⁠॥ इ॒मव्ँविष्या॑मि॒ वरु॑णस्य॒ पाश॒य्ँयमब॑द्ध्नीत सवि॒ता सु॒केतः॑⁠। धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम्मे॑ स॒ह पत्या॑ करोमि⁠॥ समायु॑षा॒ संप्र॒जया॒ सम॑ग्ने॒ वर्च॑सा॒ पुनः॑⁠। सम्पत्नी॒ पत्या॒ऽहङ्ग॑च्छे॒ समा॒त्मा त॒नुवा॒ मम॑⁠॥ म॒ही॒नाम्पयो॒ऽस्योष॑धीना॒ꣳ॒ रस॒स्तस्य॒ तेऽख्‍षी॑यमाणस्य॒ निर् [१७] व॑पामि मही॒नाम्पयो॒ऽस्योष॑धीना॒ꣳ॒ रसोऽद॑ब्धेन त्वा॒ चख्‍षु॒षाऽवे᳚ख्‍षे सुप्रजा॒स्त्वाय॒ तेजो॑ऽसि॒ तेजोऽनु॒ प्रेह्य॒ग्निस्ते॒ तेजो॒ मा वि नै॑द॒ग्नेर् जि॒ह्वाऽसि॑ सु॒भूर्दे॒वाना॒न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भव शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि दे॒वो वः॑ सवि॒तोत् पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रन्त्वा॑ शु॒क्राया॒न्धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषि॒ धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि⁠ [१८] (उप॒ नी र॒श्मिभिः॑ शु॒क्रꣳ षोड॑श च) ॥१०॥
कृष्णो᳚ऽस्याखरे॒ष्ठो᳚ऽग्नये᳚ त्वा॒ स्वाहा॒ वेदि॑रसि ब॒र्॒‌हिषे᳚ त्वा॒ स्वाहा॑ ब॒र्॒‌हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहा॑ दि॒वे त्वा॒ऽन्तरि॑ख्‍षाय त्वा पृथि॒व्यै त्वा᳚ स्व॒धा पि॒तृभ्य॒ ऊर्ग्भ॑व बर्‌हि॒षद्भ्य॑ ऊ॒र्जा पृ॑थि॒वीङ्ग॑च्छत॒ विष्णोः॒ स्तूपो॒ऽस्यूर्णा᳚म्रदसन्त्वा स्तृणामि स्वास॒स्थन्दे॒वेभ्यो॑ गन्ध॒र्वो॑ऽसि वि॒श्वाव॑सु॒र् विश्व॑स्मा॒दीष॑तो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒त इन्द्र॑स्य बा॒हुर॑सि॒ [१९] दख्‍षि॑णो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तो मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑ धत्तान्ध्रु॒वेण॒ धर्म॑णा॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒तः सूर्य॑स्त्वा पु॒रस्ता᳚त् पातु॒ कस्या᳚श्चिद॒भिश॑स्त्या वी॒तिहो᳚त्रन्त्वा कवे द्यु॒मन्त॒ꣳ॒ समि॑धीम॒ह्यग्ने॑ बृ॒हन्त॑मद्ध्व॒रे वि॒शो य॒न्त्रे स्थो॒ वसू॑नाꣳ रु॒द्राणा॑मादि॒त्याना॒ꣳ॒ सद॑सि सीद जु॒हूरु॑प॒भृद् ध्रु॒वाऽसि॑ घृ॒ताची॒ नाम्ना᳚ प्रि॒येण॒ नाम्ना᳚ प्रि॒ये सद॑सि सीदै॒ता अ॑सदन्थ् सुकृ॒तस्य॑ लो॒के ता वि॑ष्णो पाहि पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिम्पा॒हि माय्ँय॑ज्ञ॒निय᳚म्⁠ [२०] (बा॒हुर॑सि प्रि॒ये सद॑सि॒ पञ्च॑दश च) ॥११॥
भुव॑नमसि॒ वि प्र॑थ॒स्वाग्ने॒ यष्ट॑रि॒दन्नमः॑⁠। जुह्वेह्य॒ग्निस्त्वा᳚ ह्वयति देवय॒ज्याया॒ उप॑भृ॒देहि॑ दे॒वस्त्वा॑ सवि॒ता ह्व॑यति देवय॒ज्याया॒ अग्ना॑विष्णू॒ मा वा॒मव॑ क्रमिष॒व्ँवि जि॑हाथा॒म्मा मा॒ सन्ता᳚प्तल्ँलो॒कम्मे॑ लोककृतौ कृणुत॒व्ँविष्णोः॒ स्थान॑मसी॒त इन्द्रो॑ अकृणोद् वी॒र्या॑णि समा॒रभ्यो॒र्द्ध्वो अ॑द्ध्व॒रो दि॑वि॒स्पृश॒मह्रु॑तो य॒ज्ञो य॒ज्ञप॑ते॒रिन्द्रा॑वा॒न्थ् स्वाहा॑ बृ॒हद्भाः पा॒हि मा᳚ऽग्ने॒ दुश्च॑रिता॒दा मा॒ सुच॑रिते भज म॒खस्य॒ शिरो॑ऽसि॒ संज्योति॑षा॒ ज्योति॑रङ्क्ताम्⁠ [२१] (अह्रु॑त॒ एक॑विꣳशतिश्च) ॥१२॥
वाज॑स्य मा प्रस॒वेनो᳚द्ग्रा॒भेणोद॑ग्रभीत्⁠। अथा॑ स॒पत्ना॒ꣳ॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राꣳ अकः⁠॥ उ॒द्ग्रा॒भञ्च॑ निग्रा॒भञ्च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन्न्⁠। अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य॑स्यताम्⁠॥ वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॑स्त्वा॒ऽक्तꣳ रिहा॑णा वि॒यन्तु॒ वयः॑⁠॥ प्र॒जाय्ँयोनि॒म्मा निर्मृ॑ख्‍ष॒मा प्या॑यन्ता॒माप॒ ओष॑धयो म॒रुता॒म्पृष॑तयः स्थ॒ दिवं॑ [२२] गच्छ॒ ततो॑ नो॒ वृष्टि॒मेर॑य⁠। आ॒यु॒ष्पा अ॑ग्ने॒ऽस्यायु॑र्मे पाहि चख्‍षु॒ष्पा अ॑ग्नेऽसि॒ चख्‍षु॑र्मे पाहि ध्रु॒वाऽसि॒ यम्प॑रि॒धिम्प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र् वी॒यमा॑णः⁠। तन्त॑ ए॒तमनु॒ जोष॑म्भरामि॒ नेदे॒ष त्वद॑पचे॒तया॑तै य॒ज्ञस्य॒ पाथ॒ उप॒ समि॑तꣳ सꣴस्रा॒वभा॑गाः स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठा ब॑र्हि॒षद॑श्च [२३] दे॒वा इ॒माव्ँवाच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन् ब॒र्॒‌हिषि॑ मादयद्ध्वम॒ग्नेर् वा॒मप॑न्नगृहस्य॒ सद॑सि सादयामि सुं॒नाय॑ सुंनिनी सुं॒ने मा॑ धत्तन्धु॒रि ध॒र्यौ॑ पात॒मग्ने॑ऽदब्धायोऽशीततनो पा॒हि मा॒ऽद्य दि॒वः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दवि॑षन्नः पि॒तुङ्कृ॑णु सु॒षदा॒ योनि॒ꣴ॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुव्ँवि॒त्त्वा गा॒तु मि॑त॒ मन॑सस्पत इ॒मन्नो॑ देव दे॒वेषु॑ य॒ज्ञꣴ स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः⁠ [२४] (दिवं॑ च वि॒त्त्वा गा॒तुं त्रयो॑दश च) ॥१३॥
उ॒भा वा॑मिन्द्राग्नी आहु॒वद्ध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यद्ध्यै᳚⁠। उ॒भा दा॒तारा॑वि॒षाꣳ र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम्⁠॥ अश्र॑व॒ꣳ॒ हि भू॑रि॒दाव॑त्तरा वा॒व्ँविजा॑मातुरु॒त वा॑ घा स्या॒लात्⁠। अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा᳚ग्नी॒ स्तोम॑ञ्जनयामि॒ नव्य᳚म्⁠॥ इन्द्रा᳚ग्नी नव॒तिम्पुरो॑ दा॒सप॑त्नीरधूनुतम्⁠। सा॒कमेके॑न॒ कर्म॑णा⁠॥ शुचि॒न्नु स्तोम॒न्नव॑जातम॒द्येन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म्⁠ [२५] उ॒भा हि वा॑ꣳ सु॒हवा॒ जोह॑वीमि॒ ता वाज॑ꣳ स॒द्य उ॑श॒ते धेष्ठा᳚⁠॥ व॒यमु॑ त्वा पथस्पते॒ रथ॒न्न वाज॑सातये⁠। धि॒ये पू॑षन्नयुज्महि⁠॥ प॒थस्प॑थः॒ परि॑पतिव्ँवच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नड॒र्कम्⁠। सनो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑धियꣳ सीषधाति॒ प्र पू॒षा⁠॥ ख्‍षेत्र॑स्य॒ पति॑ना व॒यꣳ हि॒तेने॑व जयामसि⁠। गामश्व॑म्पोषयि॒त्न्वा स नो॑ [२६] मृडाती॒दृशे᳚⁠॥ ख्‍षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिन्धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुख्‍ष्व⁠। म॒धु॒श्चुत॑ङ्घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ नः॒ पत॑यो मृडयन्तु⁠॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्‌विश्वा॑नि देव व॒युना॑नि वि॒द्वान्⁠। यु॒यो॒द्ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठान्ते॒ नम॑उक्तिव्ँविधेम⁠॥ आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ढुम्⁠। अ॒ग्निर् वि॒द्वान्थ् स य॑जा॒थ् [२७] सेदु॒ होता॒ सो अ॑द्ध्व॒रान्थ् स ऋ॒तून् क॑ल्पयाति⁠॥ यद्वाहि॑ष्ठ॒न्तद॒ग्नये॑ बृ॒हद॑र्च विभावसो⁠। महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते⁠॥ अग्ने॒ त्वम्पा॑रया॒ नव्यो॑ अ॒स्मान्थ् स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚⁠। पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शय्ँयोः⁠॥ त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा⁠। त्वय्ँय॒ज्ञेष्वीड्यः॑⁠॥ यद्वो॑ व॒यम्प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषा᳚न्देवा॒ अवि॑दुष्टरासः⁠। अ॒ग्निष्टद् विश्व॒मा पृ॑णाति वि॒द्वान्‌येभि॑र् दे॒वाꣳ ऋ॒तुभिः॑ क॒ल्पया॑ति⁠ [२८] (जु॒षेथा॒मा स नो॑ यजा॒ दा त्रयो॑विꣳशतिश्च) ॥१४॥
(इ॒षे त्वा॑ य॒ज्ञस्य॒ शुन्ध॑ध्वं॒ कर्म॑णे वां दे॒वोऽव॑धूतं॒ धृष्टिः॒ सव्ँव॑पा॒ म्या द॑दे॒ प्रत्यु॑ष्टं॒ कृष्णो॑ऽसि॒ भुव॑नमसि॒ वाज॑स्यो॒भा वां॒ चतु॑र्दश)
(इ॒षे दृ॑ꣳह॒ भुव॑न म॒ष्टावि॑ꣳशतिः)
(इ॒षे त्वा॑ क॒ल्पया॑ति)
अनुवाकाः पञ्चशती
१४ २८