कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
प्रथमकाण्डे द्वितीयः प्रश्नः

कांड १ प्रश्न २
अग्निष्टोमे क्रयः

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑स॒ ओष॑धे॒ त्राय॑स्वैन॒ꣴ॒ स्वधि॑ते॒ मैन॑ꣳ हिꣳसीर् देव॒श्रूरे॒तानि॒ प्र व॑पे स्व॒स्त्युत्त॑राण्यशी॒यापो॑ अ॒स्मान् मा॒तरः॑ शुन्धन्तु घृ॒तेन॑ नो घृत॒पुवः॑ पुनन्तु॒ विश्व॑म॒स्मत् प्र व॑हन्तु रि॒प्रमुदा᳚भ्यः॒ शुचि॒रा पू॒त ए॑मि॒ सोम॑स्य त॒नूर॑सि त॒नुव॑म्मे पाहि मही॒नाम्पयो॑ऽसि वर्चो॒धा अ॑सि॒ वर्चो॒ [१] मयि॑ धेहि वृ॒त्रस्य॑ क॒नीनि॑काऽसि चख्‍षु॒ष्पा अ॑सि॒ चख्‍षु॑र्मे पाहि चि॒त्पति॑स्त्वा पुनातु वा॒क्पति॑स्त्वा पुनातु दे॒वस्त्वा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभि॒स्तस्य॑ ते पवित्रपते प॒वित्रे॑ण॒ यस्मै॒ कम्पु॒ने तच्छ॑केय॒मा वो॑ देवास ईमहे॒ सत्य॑धर्माणो अद्ध्व॒रे यद्वो॑ देवास आगु॒रे यज्ञि॑यासो॒ हवा॑मह॒ इन्द्रा᳚ग्नी॒ द्यावा॑पृथिवी॒ आप॑ ओषधी॒ स्त्वन्दी॒ख्‍षाणा॒मधि॑पतिरसी॒ह मा॒ सन्त॑म्पाहि⁠ [२] (वर्च॑ ओषधी र॒ष्टौ च॑) ॥१॥
आकू᳚त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒ख्‍षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॒ सर॑स्वत्यै पू॒ष्णे᳚ऽग्नये॒ स्वाहाऽऽपो॑ देवीर् बृहतीर् विश्वशंभुवो॒ द्यावा॑पृथि॒वी उ॒र्व॑न्तरि॑ख्‍षं॒ बृह॒स्पति॑र्नो ह॒विषा॑ वृधातु॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वृणीत स॒ख्यव्ँविश्वे॑ रा॒य इ॑षुद्ध्यसि द्यु॒म्नव्ँवृ॑णीत पु॒ष्यसे॒ स्वाह॑र्‌ख्सा॒मयोः॒ शिल्पे᳚ स्थ॒स्ते वा॒मा र॑भे॒ ते मा॑ [३] पात॒मास्य य॒ज्ञस्यो॒दृच॑ इ॒मान्धिय॒ꣳ॒ शिख्‍ष॑माणस्य देव॒ क्रतु॒न्दख्‍ष॑व्ँवरुण॒ सꣳ शि॑शाधि॒ ययाऽति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नाव॑ꣳ रुहे॒मोर्ग॑स्याङ्गिर॒स्यूर्ण॑म्रदा॒ ऊर्ज॑म्मे यच्छ पा॒हि मा॒ मा मा॑ हिꣳसी॒र् विष्णोः॒ शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे यच्छ॒ नख्‍ष॑त्राणाम्माऽतीका॒शात् पा॒हीन्द्र॑स्य॒ योनि॑रसि॒ [४] मा मा॑ हिꣳसीः कृ॒ष्यै त्वा॑ सुस॒स्यायै॑ सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः सूप॒स्था दे॒वो वन॒स्पति॑रू॒र्द्ध्वो मा॑ पा॒ह्योदृचः॒ स्वाहा॑ य॒ज्ञम्मन॑सा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ꣴ॒ स्वाहो॒रो र॒न्तरि॑ख्‍षा॒थ् स्वाहा॑ य॒ज्ञव्ँवाता॒दा र॑भे⁠ [५] (मा॒ योनि॑रसि त्रि॒ꣳ॒शच्च॑) ॥२॥
दैवी॒न्धिय॑म्मनामहे सुमृडी॒काम॒भिष्ट॑ये वर्चो॒धाय्ँय॒ज्ञवा॑हसꣳ सुपा॒रा नो॑ अस॒द् वशे᳚⁠। ये दे॒वा मनो॑जाता मनो॒युजः॑ सु॒दख्‍षा॒ दख्‍ष॑पितार॒स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्यः॒ स्वाहाऽग्ने॒ त्वꣳ सु जा॑गृहि व॒यꣳ सु म॑न्दिषीमहि गोपा॒य नः॑ स्व॒स्तये᳚ प्र॒बुधे॑ नः॒ पुन॑र्ददः⁠। त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा⁠। त्व [६] य्ँय॒ज्ञेष्वीड्यः॑⁠॥ विश्वे॑ दे॒वा अ॒भि मामाऽव॑वृत्रन् पू॒षा स॒न्या सोमो॒ राध॑सा दे॒वः स॑वि॒ता वसो᳚र्वसु॒दावा॒ रास्वेय॑थ् सो॒माऽऽ*भूयो॑ भर॒ मा पृ॒णन् पू॒र्त्या वि रा॑धि॒ माऽहमायु॑षा च॒न्द्रम॑सि॒ मम॒ भोगा॑य भव॒ वस्त्र॑मसि॒ मम॒ भोगा॑य भवो॒स्राऽसि॒ मम॒ भोगा॑य भव॒ हयो॑ऽसि॒ मम॒ भोगा॑य भव॒ [७] छागो॑ऽसि॒ मम॒ भोगा॑य भव मे॒षो॑ऽसि॒ मम॒ भोगा॑य भव वा॒यवे᳚ त्वा॒ वरु॑णाय त्वा॒ निर्‌ऋ॑त्यै त्वा रु॒द्राय॑ त्वा॒ देवी॑रापो अपान्नपा॒द्य ऊ॒र्मिर्‌ह॑वि॒ष्य॑ इन्द्रि॒यावा᳚न् म॒दिन्त॑म॒स्तव्ँवो॒ माऽव॑ क्रमिष॒मच्छि॑न्न॒न्तन्तु॑म्पृथि॒व्या अनु॑ गेषम्भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ बृह॒स्पतिः॑ पुरे॒ता ते॑ अ॒स्त्वथे॒मव॑ स्य॒ वर॒ आ पृ॑थि॒व्या आ॒रे शत्रू᳚न् कृणुहि॒ सर्व॑वीर॒ एदम॑गन्म देव॒यज॑नम्पृथि॒व्या विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॑ ऋख्सा॒माभ्या॒य्ँयजु॑षा स॒न्तर॑न्तो रा॒यस्पोषे॑ण॒ समि॒षा म॑देम⁠ [८] (आ त्वꣳहयो॑ऽसि॒ मम॒ भोगा॑य भवस्य॒पञ्च॑विꣳशतिश्च) ॥३॥
इ॒यन्ते॑ शुक्र त॒नूरि॒दव्ँवर्च॒स्तया॒ सम्भ॑व॒ भ्राज॑ङ्गच्छ॒ जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे॒ तस्या᳚स्ते स॒त्यस॑वसः प्रस॒वे वा॒चो य॒न्त्रम॑शीय॒ स्वाहा॑ शु॒क्रम॑स्य॒मृत॑मसि वैश्वदे॒वꣳ ह॒विः सूर्य॑स्य॒ चख्‍षु॒रा ऽरु॑हम॒ग्ने र॒ख्‍ष्णः क॒नीनि॑का॒य्ँयदेत॑शेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॒ चिद॑सि म॒नाऽसि॒ धीर॑सि॒ दख्‍षि॑णा [९] ऽसि य॒ज्ञिया॑ऽसि ख्‍ष॒त्रिया॒ऽस्यदि॑तिरस्युभ॒यत॑श्शीर्ष्णी॒ सा नः॒ सुप्रा॑ची॒ सुप्र॑तीची॒ सं भ॑व मि॒त्रस्त्वा॑ प॒दि ब॑द्ध्नातु पू॒षाऽद्ध्व॑नः पा॒त्विन्द्रा॒याद्ध्य॑ख्‍षा॒यानु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू᳚थ्यः॒ सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑ꣳ रु॒द्रस्त्वाऽऽ*व॑र्तयतु मि॒त्रस्य॑ प॒था स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ स॒ह र॒य्या⁠ [१०] (दख्‍षि॑णा॒सोम॑सखा॒पञ्च॑ च) ॥४॥
वस्व्य॑सि रु॒द्राऽस्यदि॑तिरस्यादि॒त्याऽसि॑ शु॒क्राऽसि॑ च॒न्द्राऽसि॒ बृह॒स्पति॑स्त्वा सु॒म्ने र॑ण्वतु रु॒द्रो वसु॑भि॒रा चि॑केतु पृथि॒व्यास्त्वा॑ मू॒र्द्धन्ना जि॑घर्मि देव॒यज॑न॒ इडा॑याः प॒दे घृ॒तव॑ति॒ स्वाहा॒ परि॑लिखित॒ꣳ॒ रख्‍षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम॒हꣳ रख्‍ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इ॒दम॑स्य ग्री॒वा [११] अपि॑ कृन्ताम्य॒स्मे राय॒स्त्वे राय॒स्तोते॒ रायः॒ सन्दे॑वि दे॒व्योर्वश्या॑ पश्यस्व॒ त्वष्टी॑मती ते सपेय सु॒रेता॒ रेतो॒ दधा॑ना वी॒रव्ँवि॑देय॒ तव॑ स॒न्दृशि॒ माऽहꣳरा॒यस्पोषे॑ण॒ वि यो॑षम्⁠ [१२] (अ॒स्य॒ ग्री॒वाएका॒न्न त्रि॒ꣳ॒शच्च॑) ॥५॥
अ॒ꣳ॒शुना॑ ते अ॒ꣳ॒शुः पृ॑च्यता॒म्परु॑षा॒ परु॑र् ग॒न्धस्ते॒ काम॑मवतु॒ मदा॑य॒ रसो॒ अच्यु॑तो॒ऽमात्यो॑ऽसि शु॒क्रस्ते॒ ग्रहो॒ऽभि त्यन्दे॒वꣳ स॑वि॒तार॑मू॒ण्योः᳚ क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वसꣳ रत्न॒धाम॒भि प्रि॒यं म॒तिमू॒र्द्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒थ्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतुः॑ कृ॒पा सुवः॑⁠। प्र॒जाभ्य॑स्त्वा प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा प्र॒जास्त्वमनु॒ प्राणि॑हि प्र॒जास्त्वामनु॒ प्राण॑न्तु⁠ [१३] (अनु॑स॒प्त च॑) ॥६॥
सोम॑न्ते क्रीणा॒म्यूर्ज॑स्वन्त॒म्पय॑स्वन्तव्ँवी॒र्या॑वन्तमभिमाति॒षाह॑ꣳ शु॒क्रन्ते॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रञ्च॒न्द्रेणा॒मृत॑म॒मृते॑न स॒म्यत्ते॒ गोर॒स्मे च॒न्द्राणि॒ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र् वर्ण॒स्तस्या᳚स्ते सहस्रपो॒षम्पुष्य॑न्त्याश्चर॒मेण॑ प॒शुना᳚ क्रीणाम्य॒स्मे ते॒ बन्धु॒र्मयि॑ ते॒ रायः॑ श्रयन्ताम॒स्मे ज्योतिः॑ सोमविक्र॒यिणि॒ तमो॑ मि॒त्रो न॒ एहि॒ सुमि॑त्रधा॒ इन्द्र॑स्यो॒रु मा वि॑श॒ दख्‍षि॑ण मु॒शन्नु॒शन्त॑ꣴ स्यो॒नः स्यो॒नꣴ स्वान॒ भ्राजाङ्घा॑रे॒ बंभा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते वः॑ सोम॒ क्रय॑णा॒स्तान् र॑ख्‍षद्ध्व॒म्मा वो॑ दभन्⁠ [१४] (उ॒रुंद्वावि॑ꣳशतिश्च) ॥७॥
उदायु॑षा स्वा॒युषोदोष॑धीना॒ꣳ॒ रसे॒नोत् प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृता॒ꣳ॒ अनु॑⁠। उ॒र्व॑न्तरि॑ख्‍ष॒मन्वि॒ह्यदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ सी॒दास्त॑भ्ना॒द्द्यामृ॑ष॒भो अ॒न्तरि॑ख्‍ष॒ममि॑मीत वरि॒माण॑म्पृथि॒व्या आऽसी॑द॒द् विश्वा॒ भुव॑नानि स॒म्राड् विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॒ वने॑षु॒ व्य॑न्तरि॑ख्‍षन्ततान॒ वाज॒मर्व॑थ्सु॒ पयो॑ अघ्नि॒यासु॑ हृ॒थ्सु [१५] क्रतु॒व्ँवरु॑णो वि॒ख्‍ष्व॑ग्निन्दि॒वि सूर्य॑मदधा॒थ् सोम॒मद्रा॒वुदु॒त्यञ्जा॒तवे॑दसन्दे॒वव्ँव॑हन्ति के॒तवः॑⁠। दृ॒शे विश्वा॑य॒ सूर्य᳚म्⁠॥ उस्रा॒वेत॑न्धूर्‌षाहावन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ॒ वरु॑णस्य॒ स्कंभ॑नमसि॒ वरु॑णस्य स्कंभ॒सर्ज॑नमसि॒ प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑⁠ [१६] (हृ॒थ्सुपञ्च॑त्रिꣳशच्च) ॥८॥
प्र च्य॑वस्व भुवस्पते॒ विश्वा᳚न्य॒भि धामा॑नि॒ मा त्वा॑ परिप॒री वि॑द॒न्मा त्वा॑ परिप॒न्थिनो॑ विद॒न्मा त्वा॒ वृका॑ अघा॒यवो॒ मा ग॑न्ध॒र्वो वि॒श्वाव॑सु॒रा द॑घच्छ्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य नो गृ॒हे दे॒वैः स॑ꣴस्कृ॒तय्ँयज॑मानस्य स्व॒स्त्यय॑न्य॒स्यपि॒ पन्था॑मगस्महि स्वस्ति॒गाम॑ने॒हस॒य्ँयेन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॒ नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चख्‍ष॑से म॒हो दे॒वाय॒ तदृ॒तꣳ स॑पर्यत दूरे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शꣳसत॒ वरु॑णस्य॒ स्कंभ॑नमसि॒ वरु॑णस्य स्कंभ॒सर्ज॑नम॒स्युन्मु॑क्तो॒ वरु॑णस्य॒ पाशः॑⁠ [१७] (मि॒त्रस्य॒त्रयो॑विꣳशतिश्च) ॥९॥
अ॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्याऽऽ*ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वाऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा॒ऽग्नये᳚ त्वा रायस्पोष॒दाव्‌न्ने॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञङ्ग॑य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्रच॑रा सोम॒ दुर्या॒नदि॑त्याः॒ सदो॒ऽस्यदि॑त्याः॒ सद॒ आ [१८] सी॑द॒ वरु॑णोऽसि धृ॒तव्र॑तो वारु॒णम॑सि श॒य्ँयोर् दे॒वाना॑ꣳ स॒ख्यान्मा दे॒वाना॑म॒पस॑श्छिथ्स्म॒ह्याप॑तये त्वा गृह्णामि॒ परि॑पतये त्वा गृह्णामि॒ तनू॒नप्त्रे᳚ त्वा गृह्णामि शाक्व॒राय॑ त्वा गृह्णामि॒ शक्म॒न्नोजि॑ष्ठाय त्वा गृह्णा॒म्यना॑धृष्टमस्यनाधृ॒ष्यं दे॒वाना॒मोजो॑ऽभिषस्ति॒पा अ॑नभिशस्ते॒ऽन्यमनु॑ मे दी॒ख्‍षान्दी॒ख्‍षाप॑तिर् मन्यता॒मनु॒ तप॒स्तप॑स्पति॒रञ्ज॑सा स॒त्यमुप॑ गेषꣳ सुवि॒ते मा॑ धाः⁠ [१९] (आमैक॑ञ्च) ॥१०॥
अ॒ꣳ॒शुर॑ꣳशुस्ते देव सो॒माऽऽ*प्या॑यता॒मिन्द्रा॑यैकधन॒विद॒ आ तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वाऽऽ*प्या॑यय॒ सखी᳚न्थ् स॒न्या मे॒धया᳚ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शी॒येष्टा॒ रायः॒ प्रेषे भगा॑य॒र्तमृ॑तवा॒दिभ्यो॒ नमो॑ दि॒वे नमः॑ पृथि॒व्या अग्ने᳚ व्रतपते॒ त्वव्ँव्र॒ताना᳚व्ँव्र॒तप॑तिरसि॒ या मम॑ त॒नूरे॒षा सा त्वयि॒ [२०] या तव॑ त॒नूरि॒यꣳ सा मयि॑ स॒ह नौ᳚ व्रतपते व्र॒तिनो᳚र् व्र॒तानि॒ या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्या᳚स्ते॒ स्वाहा॒ या ते॑ अग्नेऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर्वर्‌षि॑ष्ठा गह्वरे॒ष्ठोऽग्रव्ँवचो॒ अपा॑वधीन्त्वे॒षव्ँवचो॒ अपा॑वधी॒ꣴ॒ स्वाहा᳚⁠ [२१] (त्वयि॑चत्वारि॒ꣳ॒शच्च॑) ॥११॥
वि॒त्ताय॑नी मेऽसि ति॒क्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तमव॑तान्मा व्यथि॒तव्ँवि॒देर॒ग्निर्नभो॒ नामाग्ने॑ अङ्गिरो॒ यो᳚ऽस्याम्पृ॑थि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्ट॒न्नाम॑ य॒ज्ञिय॒न्तेन॒ त्वाऽऽ*द॒धेऽग्ने॑ अङ्गिरो॒ यो द्वि॒तीय॑स्यान्तृ॒तीय॑स्याम्पृथि॒व्यामस्यायु॑षा॒ नाम्नेहि॒ यत्तेऽना॑धृष्ट॒न्नाम॑ [२२] य॒ज्ञिय॒न्तेन॒ त्वाऽऽ*द॑धे सि॒ꣳ॒हीर॑सि महि॒षीर॑स्यु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथतान्ध्रु॒वाऽसि॑ दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुंभस्वेन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता᳚त् पातु॒ मनो॑जवास्त्वा पि॒तृभि॑र् दख्‍षिण॒तः पा॑तु॒ प्रचे॑तास्त्वा रु॒द्रैः प॒श्चात् पा॑तु वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैरु॑त्तर॒तः पा॑तु सि॒ꣳ॒हीर॑सि सपत्नसा॒ही स्वाहा॑ सि॒ꣳ॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहा॑ सि॒ꣳ॒ही [२३] र॑सि रायस्पोष॒वनिः॒ स्वाहा॑ सि॒ꣳ॒हीर॑स्यादित्य॒वनिः॒ स्वाहा॑ सि॒ꣳ॒हीर॒स्या व॑ह दे॒वान्दे॑वय॒ते यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा वि॒श्वायु॑रसि पृथि॒वीन्दृ॑ꣳह ध्रुव॒ख्‍षिद॑स्य॒न्तरि॑ख्‍षन्दृꣳहाच्युत॒ख्‍षिद॑सि॒ दिव॑न्दृꣳहा॒ग्नेर् भस्मा᳚स्य॒ग्नेः पुरी॑षमसि⁠ [२४] (नाम॑सुप्रजा॒वनिः॒ स्वाहा॑ सि॒ꣳ॒हीःपञ्च॑त्रिꣳशच्च) ॥१२॥
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑⁠। वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः⁠॥ सु॒वाग्दे॑व॒ दुर्या॒ꣳ॒ आ व॑द देव॒श्रुतौ॑ दे॒वेष्वा घो॑षेथा॒मा नो॑ वी॒रो जा॑यताङ्कर्म॒ण्यो॑ यꣳ सर्वे॑ऽनु॒ जीवा॑म॒ यो ब॑हू॒नामस॑द्व॒शी⁠॥ इ॒दव्ँविष्णु॒र् विच॑क्रमे त्रे॒धा नि द॑धे प॒दम्⁠॥ समू॑ढमस्य [२५] पाꣳसु॒र इरा॑वती धेनु॒मती॒ हि भू॒तꣳ सू॑यव॒सिनी॒ मन॑वे यश॒स्ये᳚⁠। व्य॑स्कभ्ना॒द्रोद॑सी॒ विष्णु॑रे॒ते दा॒धार॑ पृथि॒वीम॒भितो॑ म॒यूखैः᳚⁠॥ प्राची॒ प्रेत॑मद्ध्व॒रङ्क॒ल्पय॑न्ती ऊ॒र्द्ध्वय्ँय॒ज्ञन्न॑यत॒म्मा जी᳚ह्वरत॒मत्र॑ रमेथा॒व्ँवर्ष्म॑न् पृथि॒व्या दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्णवु॒त वा॒ऽन्तरि॑ख्‍षा॒द्धस्तौ॑ पृणस्व ब॒हुभि॑र् वस॒व्यै॑रा प्र य॑च्छ॒ [२६] दख्‍षि॑णा॒दोत स॒व्यात्⁠। विष्णो॒र्नुक॑व्ँवी॒र्या॑णि॒ प्र वो॑च॒य्ँयः पार्थि॑वानि विम॒मे रजा॑ꣳसि॒ यो अस्क॑भाय॒दुत्त॑रꣳ स॒धस्थ॑व्ँविचक्रमा॒ण स्त्रे॒धोरु॑गा॒यो विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णोः॒ श्ञप्त्रे᳚ स्थो॒ विष्णोः॒ स्यूर॑सि॒ विष्णो᳚र् ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा⁠ [२७] (अ॒स्य॒य॒च्छैका॒न्न च॑त्वारि॒ꣳ॒शच्च॑) ॥१३॥
कृ॒णु॒ष्व पाजः॒ प्रसि॑ति॒न्न पृ॒थ्वीय्ँया॒हि राजे॒वाम॑वा॒ꣳ॒ इभे॑न⁠। तृ॒ष्वीमनु॒ प्रसि॑तिंद्रूणा॒नोऽस्ता॑ऽसि॒ विद्ध्य॑ र॒ख्‍षस॒ स्तपि॑ष्ठैः⁠॥ तव॑ भ्र॒मास॑ आशु॒या प॑न्त॒त्यनु॑ स्पृशधृष॒ता शोशु॑चानः⁠। तपू॑ꣴष्यग्ने जु॒ह्वा॑ पत॒ङ्गानस॑न्दितो॒ विसृ॑ज॒ विष्व॑गु॒ल्काः⁠॥ प्रति॒स्पशो॒ विसृ॑ज॒तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः⁠। यो नो॑ दू॒रे अ॒घश॑ꣳसो॒ [२८] यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्‌षीत्⁠॥ उद॑ग्ने तिष्ठ॒ प्रत्या *ऽऽत॑नुष्व॒ न्य॑मित्रा॑ꣳ ओषतात् तिग्महेते⁠। यो नो॒ अरा॑तिꣳ समिधान च॒क्रे नी॒चा तन्ध॑ख्‍ष्यत॒सन्न शुष्क᳚म्⁠॥ ऊ॒र्द्ध्वो भ॑व॒ प्रति॑वि॒द्ध्याऽद्ध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने⁠। अव॑स्थि॒रा त॑नुहि यातु॒जूना᳚ञ्जा॒मिमजा॑मिं॒ प्रमृ॑णीहि॒ शत्रू॑न्⁠॥ स ते॑ [२९] जानाति सुम॒तिय्ँय॑विष्ठ॒य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त्⁠। विश्वा᳚न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो विदुरो॑ अ॒भि द्यौ᳚त्⁠॥ सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒य उ॒क्थैः⁠। पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ साऽस॑दि॒ष्टिः⁠॥ अर्चा॑मि ते सुम॒तिङ्घोष्य॒र्वाख्सन्ते॑ वा॒ वा ता॑ जरता [३०] मि॒यंगीः⁠। स्वश्वा᳚स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे ख्‍ष॒त्राणि॑ धारये॒रनु॒ द्यून्⁠॥ इ॒ह त्वा॒ भूर्या च॑रे॒ दुप॒त्मन् दोषा॑वस्तर् दीदि॒वाꣳस॒मनु॒ द्यून्⁠। क्रीड॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नाम्⁠॥ यस्त्वा॒स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न⁠। तस्य॑ त्रा॒ताभ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग् जुजो॑षत्⁠॥ म॒हो रु॑जामि [३१] ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय⁠। त्वन्नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः⁠॥ अस्व॑प्नज स्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः⁠। ते पा॒यवः॑ स॒द्ध्रिय॑ञ्चो नि॒षद्याऽग्ने॒ तव॑नः पान्त्वमूर⁠॥ ये पा॒यवो॑ मामते॒यन्ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धन्दु॑रि॒तादर॑ख्‍षन्न्⁠। र॒रख्‍ष॒तान्थ् सु॒कृतो॑ वि॒श्ववे॑दा॒ दिफ्स॑न्त॒ इद्रि॒पवो॒ ना ह॑ [३२] देभुः⁠॥ त्वया॑ व॒यꣳ स॑ध॒न्य॑स्त्वोता॒स्तव॒ प्रणी᳚त्यश्याम॒ वाजा॑न्⁠। उ॒भा शꣳसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण⁠॥ अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒स्तोम॑ꣳ श॒स्यमा॑नङ्गृभाय⁠। दहा॒शसो॑ र॒ख्‍षसः॑ पा॒ह्य॑स्मान् द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात्⁠॥ र॒ख्‍षो॒हण॑व्ँवा॒जिन॒माजि॑घर्मि मि॒त्रम्प्रथि॑ष्ठ॒मुप॑यामि॒ शर्म॑⁠। शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒सनो॒ दिवा॒ [३३] सरि॒षः पा॑तु॒नक्त᳚म्⁠॥ विज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर् विश्वा॑नि कृणुते महि॒त्वा⁠। प्रादे॑वीर् मा॒याः स॑हतेदु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रख्‍ष॑से वि॒निख्‍षे᳚⁠॥ उ॒त स्वा॒नासो॑ दि॒विष॑न्त्व॒ग्ने स्ति॒ग्मायु॑धा॒ रख्‍ष॑से॒ हन्त॒वा उ॑⁠। मदे॑ चिदस्य॒ प्ररु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः⁠ [३४] (अ॒घश॑ꣳसः॒स ते॑जरताꣳरुजामिह॒ दिवै क॑चत्वारिꣳशच्च) ॥१४॥
(आप॑ उन्द॒न्त्वाकू᳚त्यै॒दैवी॑मि॒यन्ते॒वस्व्य॑स्य॒ꣳ॒शुना॑ते॒सोम॑न्त॒उदायु॑षा॒ प्र च्य॑वस्वा॒ ग्नेरा॑ति॒थ्य म॒ꣳ॒शुर॑ꣳ शुर्वि॒त्ताय॑नी मेऽसि यु॒ञ्जते॑कृणु॒ष्व पाज॒श्चतु॑र्दश⁠।)
(आपो॒वस्व्य॑सि॒ या तवे॒यङ्गीश्चतु॑स्त्रिꣳशत्)
(आप॑ उन्द॒न्त्वदे॑वीः)
अनुवाकाः पञ्चशती
१४ ३४