कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
प्रथमकाण्डे सप्तमः प्रश्नः

कांड १ प्रश्न ७
याजमान ब्राह्मणं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
पा॒क॒य॒ज्ञव्ँवा अन्वाहि॑ताग्नेः प॒शव॒ उप॑ तिष्ठन्त॒ इडा॒ खलु॒ वै पा॑कय॒ज्ञः सैषाऽन्त॒रा प्र॑याजानूया॒जान्‌यज॑मानस्य लो॒केऽव॑हिता॒ तामा᳚ह्रि॒यमा॑णाम॒भि म॑न्त्रयेत॒ सुरू॑पवर्‌षवर्ण॒ एहीति॑ प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते य॒ज्ञव्ँवै दे॒वा अदु॑ह्रन्‌य॒ज्ञोऽसु॑राꣳ अदुह॒त् तेऽसु॑रा॒ ज्ञदु॑ग्धाः॒ परा॑ऽभव॒न्॒‌यो वै य॒ज्ञस्य॒ दोह॑व्ँवि॒द्वान् [१] यज॒तेऽप्य॒न्यय्ँयज॑मानन्दुहे॒ सा मे॑ स॒त्याऽऽशीर॒स्य य॒ज्ञस्य॑ भूया॒दित्या॑है॒ष वै य॒ज्ञस्य॒ दोह॒स्तेनै॒वैन॑न्दुहे॒ प्रत्ता॒ वै गौर्दु॑हे॒ प्रत्तेडा॒ यज॑मानाय दुह ए॒ते वा इडा॑यै॒ स्तना॒ इडोप॑हू॒तेति॑ वा॒युर्व॒थ्सो यर्‌हि॒ होतेडा॑मुप॒ह्वये॑त॒ तर्‌हि॒ यज॑मानो॒ होता॑र॒मीख्‍ष॑माणो वा॒युम्मन॑सा ध्यायेन् [२] मा॒त्रे व॒थ्समु॒पाव॑सृजति॒ सर्वे॑ण॒ वै य॒ज्ञेन॑ दे॒वाः सु॑व॒र्गल्ँलो॒कमा॑यन् पाकय॒ज्ञेन॒ मनु॑रश्राम्य॒थ्सेडा॒ मनु॑मु॒पाव॑र्तत॒ तान्दे॑वासु॒रा व्य॑ह्वयन्त प्र॒तीची᳚न्दे॒वाः परा॑ची॒मसु॑राः॒ सा दे॒वानु॒पाव॑र्तत प॒शवो॒ वै तद् दे॒वान॑वृणत प॒शवोऽसु॑रानजहु॒र्यङ्का॒मये॑ताप॒शुः स्या॒दिति॒ परा॑ची॒न्तस्येडा॒मुप॑ ह्वयेताप॒शुरे॒व भ॑वति॒ यं [३] का॒मये॑त पशु॒मान्थ् स्या॒दिति॑ प्र॒तीची॒न्तस्येडा॒मुप॑ ह्वयेत पशु॒माने॒व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वा इडा॒मुप॑ ह्वयेत॒ य इडा॑ मुप॒हूया॒त्मान॒मिडा॑यामुप॒ह्वये॒तेति॒ सा नः॑ प्रि॒या सु॒प्रतू᳚र्तिर् म॒घोनीत्या॒हेडा॑मे॒वोप॒हूया॒ऽऽत्मान॒ मिडा॑या॒मुप॑ ह्वयते॒ व्य॑स्तमिव॒ वा ए॒तद्य॒ज्ञस्य॒ यदिडा॑ सा॒मि प्रा॒श्ञन्ति॑ [४] सा॒मि मा᳚र्जयन्त ए॒तत् प्रति॒ वा असु॑राणाय्ँय॒ज्ञो व्य॑च्छिद्यत॒ ब्रह्म॑णा दे॒वाः सम॑दधु॒र् बृह॒स्पति॑ स्तनुतामि॒मन्न॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र् ब्रह्म॑णै॒व य॒ज्ञꣳ सन्द॑धाति॒ विच्छि॑न्नय्ँय॒ज्ञꣳ समि॒मन्द॑धा॒त्वित्या॑ह॒ सन्त॑त्यै॒ विश्वे॑ दे॒वा इ॒ह मा॑दयन्ता॒मित्या॑ह स॒न्तत्यै॒व य॒ज्ञं दे॒वेभ्योऽनु॑ दिशति॒ याव्ँवै [५] य॒ज्ञे दख्‍षि॑णा॒न्ददा॑ति॒ ताम॑स्य प॒शवोऽनु॒ सङ्क्रा॑मन्ति॒ स ए॒ष ई॑जा॒नो॑ऽप॒शुर् भावु॑को॒ यज॑मानेन॒ खलु॒ वै तत्का॒र्य॑मित्या॑हु॒र् यथा॑ देव॒त्रा द॒त्तङ्कु॑र्वी॒तात्मन् प॒शून् र॒मये॒तेति॒ ब्रद्ध्न॒ पिन्व॒स्वेत्या॑ह य॒ज्ञो वै ब्र॒द्ध्नो य॒ज्ञमे॒व तन्म॑हय॒त्यथो॑ देव॒त्रैव द॒त्तङ्कु॑रुत आ॒त्मन् प॒शून् र॑मयते॒ दद॑तो मे॒ मा ख्‍षा॒यीत्या॒हाख्‍षि॑तिमे॒वोपै॑ति कुर्व॒तो मे॒ मोप॑ दस॒दित्या॑ह भू॒मान॑मे॒वोपै॑ति⁠ [६] (वि॒द्वान्ध्या॑येद्भवति॒ यंप्रा॒श्ञन्ति॒याव्ँवैम॒एका॒न्नवि॑ꣳश॒तिश्च॑) ॥१॥
सꣴश्र॑वा ह सौवर्चन॒सः तुमि॑ञ्ज॒मौपो॑दितिमुवाच॒ यथ्स॒त्रिणा॒ꣳ॒ होताऽभूः॒ कामिडा॒मुपा᳚ह्वथा॒ इति॒ तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्रा॒णेन॑ दे॒वान् दा॒धार॑ व्या॒नेन॑ मनु॒ष्या॑नपा॒नेन॑ पि॒तृनिति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती(३) इति॑ छि॒नत्तीति॑ होवाच॒ शरी॑र॒व्ँवा अ॑स्यै॒ तदुपा᳚ह्वथा॒ इति॑ होवाच॒ गौर्वा [७] अ॑स्यै॒ शरी॑र॒ङ्गाव्ँवाव तौ तत् पर्य॑वदता॒य्ँया य॒ज्ञे दी॒यते॒ सा प्रा॒णेन॑ दे॒वान् दा॑धार॒ यया॑ मनु॒ष्या॑ जीव॑न्ति॒ सा व्या॒नेन॑ मनु॒ष्या॑न् याम्पि॒तृभ्यो॒ घ्नन्ति॒ साऽपा॒नेन॑ पि॒तॄन्‌य ए॒वव्ँवेद॑ पशु॒मान् भ॑व॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या॒भव॒तीत्यन्न॒व्ँवा अ॑स्यै॒ तदु [८] पा᳚ह्वथा॒ इति॑ होवा॒चौष॑धयो॒ वा अ॑स्या॒ अन्न॒मोष॑धयो॒ वै प्र॒जाः प्र॒भव॑न्तीः॒ प्रत्या भ॑वन्ति॒ य ए॒वव्ँवेदा᳚न्ना॒दो भ॑व॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ या प्र॒जाः प॑रा॒भव॑न्तीरनुगृ॒ह्णाति॒ प्रत्या॒भव॑न्तीर् गृ॒ह्णातीति॑ प्रति॒ष्ठाव्ँवा अ॑स्यै॒ तदुपा᳚ह्वथा॒ इति॑ होवाचे॒यव्ँवा अ॑स्यै प्रति॒ष्ठे [९] यव्ँवै प्र॒जाः प॑रा॒भव॑न्ती॒रनु॑ गृह्णाति॒ प्रत्या॒भव॑न्तीर् गृह्णाति॒ य ए॒वव्ँवेद॒ प्रत्ये॒व ति॑ष्ठ॒त्यथ॒ वै तामुपा᳚ह्व॒ इति॑ होवाच॒ यस्यै॑ नि॒क्रम॑णे घृ॒तम्प्र॒जाः स॒ञ्जीव॑न्तीः॒ पिब॒न्तीति॑ छि॒नत्ति॒ सा न छि॑न॒त्ती (३) इति॒ न छि॑न॒त्तीति॑ होवाच॒ प्र तु ज॑नय॒तीत्ये॒ष वा इडा॒मुपा᳚ह्वथा॒ इति॑ होवाच॒ वृष्टि॒र्॒‌वा इडा॒ वृष्ट्यै॒ वै नि॒क्रम॑णे घृ॒तम्प्र॒जाः स॒ञ्जीव॑न्तीः पिबन्ति॒ य ए॒वव्ँवेद॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति⁠ [१०] (गौर्वाअ॑स्यै॒ तत्प्र॑ति॒ष्ठाऽह्व॑था॒ इति॑विꣳश॒तिश्च॑) ॥२॥
प॒रोख्‍ष॒व्ँवा अ॒न्ये दे॒वा इ॒ज्यन्ते᳚ प्र॒त्यख्‍ष॑म॒न्ये यद्यज॑ते॒ य ए॒व दे॒वाः प॒रोख्‍ष॑मि॒ज्यन्ते॒ ताने॒व तद्य॑जति॒ यद॑न्वाहा॒र्य॑मा॒हर॑त्ये॒ते वै दे॒वाः प्र॒त्यख्‍ष॒य्ँयद् ब्रा᳚ह्म॒णास्ताने॒व तेन॑ प्रीणा॒त्यथो॒ दख्‍षि॑णै॒वास्यै॒षाऽथो॑ य॒ज्ञस्यै॒व छि॒द्रमपि॑ दधाति॒ यद्वै य॒ज्ञस्य॑ क्रू॒रय्ँयद्विलि॑ष्ट॒न्तद॑न्वाहा॒र्ये॑णा॒ [११] ऽन्वाह॑रति॒ तद॑न्वाहा॒र्य॑स्यान्वाहार्य॒त्वन्दे॑वदू॒ता वा ए॒ते यदृ॒त्विजो॒ यद॑न्वाहा॒र्य॑मा॒हर॑ति देवदू॒ताने॒व प्री॑णाति प्र॒जाप॑तिर् दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑श॒थ् स रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒तम॑न्वाहा॒र्य॑ मभ॑क्तमपश्य॒त् तमा॒त्मन्न॑धत्त॒स वा ए॒ष प्रा॑जाप॒त्यो यद॑न्वाहा॒र्यो॑ यस्यै॒वव्ँवि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॑ सा॒ख्‍षादे॒व प्र॒जाप॑तिमृद्ध्नो॒त्यप॑रिमितोनि॒रुप्योऽप॑रिमितः प्र॒जाप॑तिः प्र॒जाप॑ते॒ [१२] राप्त्यै॑ दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तम्प्रा॑जाप॒त्यम॑न्वाहा॒र्य॑ मपश्य॒न् तम॒न्वाह॑रन्त॒ ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यस्यै॒वव्ँवि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति य॒ज्ञेन॒ वा इ॒ष्टी प॒क्वेन॑ पू॒र्ती यस्यै॒वव्ँवि॒दुषो᳚ऽन्वाहा॒र्य॑ आह्रि॒यते॒ स त्वे॑वेष्टा॑पू॒र्ती प्र॒जाप॑तेर्भा॒गो॑ऽसी [१३] त्या॑ह प्र॒जाप॑तिमे॒व भा॑ग॒धेये॑न॒ सम॑र्द्धय॒त्यूर्ज॑स्वा॒न् पय॑स्वा॒नित्या॒होर्ज॑मे॒वास्मि॒न् पयो॑ दधाति प्राणापा॒नौ मे॑ पाहि समानव्या॒नौ मे॑ पा॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॒स्तेऽख्‍षि॑तो॒ऽस्यख्‍षि॑त्यै त्वा॒ मा मे᳚ ख्‍षेष्ठा अ॒मुत्रा॒मुष्मि॑ल्ँलो॒क इत्या॑ह॒ ख्‍षीय॑ते॒ वा अ॒मुष्मि॑ल्ँलो॒केऽन्न॑ मि॒तःप्र॑दान॒ꣴ॒ ह्य॑मुष्मिल्ँलो॒के प्र॒जा उ॑प॒जीव॑न्ति॒ यदे॒वम॑भिमृ॒शत्यख्‍षि॑तिमे॒वैन॑द् गमयति॒ नास्या॒मुष्मि॑ल्ँलो॒केऽन्न॑ङ्ख्‍षीयते⁠ [१४] (अ॒न्वा॒हा॒र्ये॑णप्र॒जाप॑तेरसि॒ह्य॑मुष्मि॑ल्ँलो॒केपञ्च॑दश च) ॥३॥
ब॒र्॒‌हिषो॒ऽहन्दे॑वय॒ज्यया᳚ प्र॒जावा᳚न् भूयास॒मित्या॑ह ब॒र्॒‌हिषा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ तेनै॒व प्र॒जाः सृ॑जते॒ नरा॒शꣳस॑स्या॒हन्दे॑वय॒ज्यया॑ पशु॒मान् भू॑यास॒मित्या॑ह॒ नरा॒शꣳसे॑न॒ वै प्र॒जाप॑तिः प॒शून॑सृजत॒ तेनै॒व प॒शून्थ् सृ॑जते॒ऽग्नेः स्वि॑ष्ट॒कृतो॒ऽहन्दे॑वय॒ज्ययाऽऽयु॑ष्मान्‌य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेय॒मित्या॒हाऽऽयु॑रे॒वात्मन् ध॑त्ते॒ प्रति॑ य॒ज्ञेन॑ तिष्ठति दर्‌शपूर्णमा॒सयो॒र् [१५] वै दे॒वा उज्जि॑ति॒मनूद॑जयन् दर्‌शपूर्णमा॒साभ्या॒ मसु॑रा॒नपा॑नुदन्ता॒ग्नेर॒हमुज्जि॑ति॒मनूज्जे॑ष॒ मित्या॑ह दर्‌शपूर्णमा॒सयो॑रे॒व दे॒वता॑ना॒य्ँयज॑मान॒ उज्जि॑ति॒मनूज्ज॑यति दर्‌शपूर्णमा॒साभ्या॒म्भ्रातृ॑व्या॒नप॑ नुदते॒ वाज॑वतीभ्या॒व्ँव्यू॑ह॒त्यन्न॒व्ँवै वाजोऽन्न॑मे॒वाव॑ रुन्धे॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै॒ यो वै य॒ज्ञस्य॒ द्वौ दोहौ॑ वि॒द्वान् यज॑त उभ॒यत॑ [१६] ए॒व य॒ज्ञन्दु॑हे पु॒रस्ता᳚च्चो॒परि॑ष्टाच्चै॒ष वा अ॒न्यो य॒ज्ञस्य॒ दोह॒ इडा॑याम॒न्यो यर्‌हि॒ होता॒ यज॑मानस्य॒ नाम॑ गृह्णी॒यात् तर्‌हि॑ ब्रूया॒देमा अ॑ग्मन्ना॒शिषो॒ दोह॑कामा॒ इति॒ सꣴस्तु॑ता ए॒व दे॒वता॑ दु॒हेऽथो॑ उभ॒यत॑ ए॒व य॒ज्ञन्दु॑हे पु॒रस्ता᳚च्चो॒परि॑ष्टाच्च॒ रोहि॑तेन त्वा॒ऽग्निर्दे॒वतां᳚ गमय॒त्वित्या॑है॒ते वै दे॑वा॒श्वा [१७] यज॑मानः प्रस्त॒रो यदे॒तैः प्र॑स्त॒रम्प्र॒हर॑ति देवा॒श्वैरे॒व यज॑मानꣳ सुव॒र्गल्ँलो॒कङ्ग॑मयति॒ वि ते॑ मुञ्चामि रश॒ना वि र॒श्मीनित्या॑है॒ष वा अ॒ग्नेर्वि॑मो॒कस्तेनै॒वैन॒व्ँविमु॑ञ्चति॒ विष्णोः᳚ श॒य्ँयोर॒हन्दे॑वय॒ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठाङ्ग॑मेय॒मित्या॑ह य॒ज्ञो वै विष्णु॑र् य॒ज्ञ ए॒वान्त॒तः प्रति॑ तिष्ठति॒ सोम॑स्या॒हन्दे॑वय॒ज्यया॑ सु॒रेता॒ [१८] रेतो॑ धिषी॒येत्या॑ह॒ सोमो॒ वै रे॑तो॒धास्तेनै॒व रेत॑ आ॒त्मन् ध॑त्ते॒ त्वष्टु॑र॒हन्दे॑वय॒ज्यया॑ पशू॒नाꣳ रू॒पम्पु॑षेय॒मित्या॑ह॒ त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नाना॑ꣳ रूप॒कृत्तेनै॒व प॑शू॒नाꣳ रू॒पमा॒त्मन् ध॑त्ते दे॒वाना॒म्पत्नी॑र॒ग्निर् गृ॒हप॑तिर् य॒ज्ञस्य॑ मिथु॒नन्तयो॑र॒हं दे॑वय॒ज्यया॑ मिथु॒नेन॒ प्रभू॑यास॒मित्या॑है॒तस्मा॒द् वै मि॑थु॒नात् प्र॒जाप॑तिर् मिथु॒नेन॒ [१९] प्राजा॑यत॒ तस्मा॑दे॒व यज॑मानो मिथु॒नेन॒ प्रजा॑यते वे॒दो॑ऽसि॒ वित्ति॑रसि वि॒देयेत्या॑ह वे॒देन॒ वै दे॒वा असु॑राणाव्ँवि॒त्तव्ँवेद्य॑मविन्दन्त॒ तद्वे॒दस्य॑ वेद॒त्वय्ँयद्य॒द् भ्रातृ॑व्यस्याभि॒द्ध्याये॒त् तस्य॒ नाम॑ गृह्णीया॒त् तदे॒वास्य॒ सर्व॑व्ँवृङ्क्ते घृ॒तव॑न्तङ्कुला॒यिन॑ꣳ रा॒यस्पोष॑ꣳ सह॒स्रिण॑व्ँवे॒दो द॑दातु वा॒जिन॒मित्या॑ह॒ प्रस॒हस्र॑म्प॒शूना᳚प्नो॒त्या स्य॑ प्र॒जाया᳚व्ँवा॒जी जा॑यते॒ य ए॒वव्ँवेद॑⁠ [२०] (द॒र्॒‌श॒पू॒र्ण॒मासयो॑रुभ॒यतो॑देवा॒श्वाःसु॒रेताः᳚प्र॒जाप॑तिर् मिथु॒नेना᳚प्नोत्य॒ष्टौ च॑) ॥४॥
ध्रु॒वाव्ँवै रिच्य॑मानाय्ँय॒ज्ञोऽनु॑ रिच्यते य॒ज्ञय्ँयज॑मानो॒ यज॑मानम्प्र॒जा ध्रु॒वामा॒प्याय॑मानाय्ँय॒ज्ञोऽन्वा प्या॑यते य॒ज्ञय्ँयज॑मानो॒ यज॑मानम्प्र॒जा आ प्या॑यतान्ध्रु॒वा घृ॒तेनेत्या॑ह ध्रु॒वामे॒वाऽऽप्या॑ययति॒ तामा॒प्याय॑मानाय्ँय॒ज्ञोऽन्वा प्या॑यते य॒ज्ञय्ँयज॑मानो॒ यज॑मानम्प्र॒जाः प्र॒जाप॑तेर् वि॒भान्नाम॑ लो॒कस्तस्मि॑ꣴस्त्वा दधामि स॒ह यज॑माने॒नेत्या॑ [२१] हा॒यव्ँवै प्र॒जाप॑तेर् वि॒भान्नाम॑ लो॒कस्तस्मि॑न्ने॒वैन॑न्दधाति स॒ह यज॑मानेन॒ रिच्य॑त इव॒ वा ए॒तद्यद्यज॑ते॒ यद्य॑जमानभा॒गम्प्रा॒श्ञात्या॒त्मान॑मे॒व प्री॑णात्ये॒तावा॒न्॒‌वै य॒ज्ञो यावा॑न्‌यजमानभा॒गो य॒ज्ञो यज॑मानो॒ यद्य॑जमानभा॒गम्प्रा॒श्ञाति॑ य॒ज्ञ ए॒व य॒ज्ञं प्रति॑ ष्ठापयत्ये॒तद्वै सू॒यव॑स॒ꣳ॒ सोद॑क॒य्ँयद्ब॒र्॒‌हिश्चाऽऽप॑श्चै॒तद् [२२] यज॑मानस्या॒ऽऽयत॑न॒य्ँयद्वेदि॒र्यत् पू᳚र्णपा॒त्रम॑न्तर्वे॒दि नि॒नय॑ति॒ स्व ए॒वाऽऽय॑तने सू॒यव॑स॒ꣳ॒ सोद॑कङ्कुरुते॒ सद॑सि॒ सन्मे॑ भूया॒ इत्या॒हाऽऽपो॒ वै य॒ज्ञ आपो॒ऽमृत॑य्ँय॒ज्ञमे॒वामृत॑मा॒त्मन् ध॑त्ते॒ सर्वा॑णि॒ वै भू॒तानि॑ व्र॒तमु॑प॒यन्त॒ मनूप॑ यन्ति॒ प्राच्या᳚न्दि॒शि दे॒वा ऋ॒त्विजो॑ मार्जयन्ता॒मित्या॑है॒ष वै द॑र्‌शपूर्णमा॒सयो॑रवभृ॒थो [२३] यान्ये॒वैन॑म्भू॒तानि॑ व्र॒तमु॑प॒यन्त॑मनूप॒यन्ति॒ तैरे॒व स॒हाव॑भृ॒थमवै॑ति॒ विष्णु॑मुखा॒ वै दे॒वा श्छन्दो॑भिरि॒माल्ँलो॒कान॑नपज॒य्यम॒भ्य॑जय॒न्॒‌यद्वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒माल्ँलो॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमो᳚ऽस्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑ख्‍ष॒ञ्जाग॑ती॒ द्यौरानु॑ष्टुभी॒र् दिश॒ श्छन्दो॑भिरे॒वेमाल्ँलो॒कान्‌य॑थापू॒र्वम॒भि ज॑यति⁠ [२४] (यज॑माने॒नेति॑चै॒ तद॑वभृ॒थोदिशः॑स॒प्त च॑) ॥५॥
अग॑न्म॒ सुवः॒ सुव॑रग॒न्मेत्या॑ह सुव॒र्गमे॒व लो॒कमे॑ति स॒न्दृश॑स्ते॒ मा छि॑थ्सि॒ यत्ते॒ तप॒स्तस्मै॑ ते॒ माऽऽवृ॒ख्‍षीत्या॑ह यथाय॒जुरे॒वैतथ् सु॒भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नामा॑यु॒र्द्धा अ॒स्यायु॑र्मे धे॒हीत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ प्र वा ए॒षो᳚ऽस्माल्ँलो॒काच्च्य॑वते॒ यो [२५] वि॑ष्णुक्र॒मान् क्रम॑ते सुव॒र्गाय॒ हि लो॒काय॑ विष्णुक्र॒माः क्र॒म्यन्ते᳚ ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै वि॑ष्णुक्र॒मान् क्र॑मेत॒ य इ॒माल्ँलो॒कान् भ्रातृ॑व्यस्य स॒व्ँविद्य॒ पुन॑रि॒मल्ँलो॒कम्प्र॑त्यव॒रोहे॒दित्ये॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरो॒हो यदाहे॒दम॒हम॒मुं भ्रातृ॑व्यमा॒भ्यो दि॒ग्भ्यो᳚ऽस्यै दि॒व इती॒माने॒व लो॒कान् भ्रातृ॑व्यस्य स॒व्ँविद्य॒ पुन॑रि॒मल्ँलो॒कं प्र॒त्यव॑रोहति॒ सं [२६] ज्योति॑षाऽभूव॒मित्या॑हा॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठत्यै॒न्द्रीमा॒वृत॑म॒न्वाव॑र्त॒ इत्या॑हा॒सौ वा आ॑दि॒त्य इन्द्र॒स्तस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते दख्‍षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द् दख्‍षि॒णोऽर्द्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते॒ सम॒हम्प्र॒जया॒ सम्मया᳚ प्र॒जेत्या॑हा॒ऽऽशिष॑ [२७] मे॒वैतामा शा᳚स्ते॒ समि॑द्धो अग्ने मे दीदिहि समे॒द्धा ते॑ अग्ने दीद्यास॒मित्या॑ह यथाय॒जुरे॒वैतद्वसु॑मान्‌य॒ज्ञो वसी॑यान् भूयास॒मित्या॑हा॒ऽऽशिष॑मे॒वेतामा शा᳚स्ते ब॒हु वै गार्‌ह॑पत्य॒स्यान्ते॑ मि॒श्रमि॑व चर्यत आग्निपावमा॒नीभ्या॒ङ्गार्‌ह॑पत्य॒मुप॑ तिष्ठते पु॒नात्ये॒वाग्निम्पु॑नी॒त आ॒त्मान॒न्द्वाभ्यां॒ प्रति॑ष्ठित्या॒ अग्ने॑ गृहपत॒ इत्या॑ह [२८] यथाय॒जुरे॒वैतच्छ॒तꣳ हिमा॒ इत्या॑ह श॒तन्त्वा॑ हेम॒न्तानि॑न्धिषी॒येति॒ वावैतदा॑ह पु॒त्रस्य॒ नाम॑ गृह्णात्यन्ना॒दमे॒वैन॑ङ्करोति॒ तामा॒शिष॒मा शा॑से॒ तन्त॑वे॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्रोऽजा॑तः॒ स्यात् ते॑ज॒स्व्ये॑वास्य॑ ब्रह्मवर्च॒सी पु॒त्रो जा॑यते॒ तामा॒शिष॒मा शा॑से॒ऽमुष्मै॒ ज्योति॑ष्मती॒मिति॑ ब्रूया॒द्यस्य॑ पु॒त्रो [२९] जा॒तः स्यात्तेज॑ ए॒वास्मि॑न् ब्रह्मवर्च॒सन्द॑धाति॒ यो वै य॒ज्ञम्प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वति॒ कस्त्वा॑ युनक्ति॒ स त्वा॒ वि मु॑ञ्च॒त्वित्या॑ह प्र॒जाप॑ति॒र् वै कः प्र॒जाप॑तिनै॒वैन॑य्ँयु॒नक्ति॑ प्र॒जाप॑तिना॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्या ईश्व॒रव्ँवै व्र॒तमवि॑सृष्टम्प्र॒दहोऽग्ने᳚ व्रतपते व्र॒तम॑चारिष॒मित्या॑ह व्र॒तमे॒व [३०] वि सृ॑जते॒ शान्त्या॒ अप्र॑दाहाय॒ परा॒ङ्॒‌वाव य॒ज्ञ ए॑ति॒ न नि व॑र्तते॒ पुन॒र्यो वै य॒ज्ञस्य॑ पुनरालं॒भव्ँवि॒द्वान्‌यज॑ते॒ तम॒भि नि व॑र्तते य॒ज्ञो ब॑भूव॒ स आ ब॑भू॒वेत्या॑है॒ष वै य॒ज्ञस्य॑ पुनरालं॒भस्तेनै॒वैन॒म्पुन॒रा ल॑भ॒तेऽन॑वरुद्धा॒ वा ए॒तस्य॑ वि॒राड् य आहि॑ताग्निः॒ सन्न॑स॒भः प॒शवः॒ खलु॒ वै ब्रा᳚ह्म॒णस्य॑ स॒भेष्ट्वा प्राङु॒त्क्रम्य॑ ब्रूया॒द् गोमा॑ꣳ अ॒ग्नेऽवि॑माꣳ अ॒श्वी य॒ज्ञ इत्यव॑ स॒भाꣳ रु॒न्धे प्र स॒हस्र॑म्प॒शूना᳚प्नो॒त्याऽस्य॑ प्र॒जाया᳚व्ँवा॒जी जा॑यते⁠ [३१] (चतु॑र्विꣳशतिश्च) ॥६॥
देव॑ सवितः॒ प्र सु॑व य॒ज्ञम्प्र सु॑व य॒ज्ञप॑ति॒म्भगा॑य दि॒व्यो ग॑न्ध॒र्वः⁠। के॒त॒पूः केत॑न्नः पुनातु वा॒चस्पति॒र् वाच॑म॒द्य स्व॑दाति नः⁠॥ इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयव्ँवृ॒त्रव्ँव॑द्ध्यात्⁠॥ वाज॑स्य॒ नु प्र॑स॒वे मा॒तर॑म्म॒हीमदि॑ति॒न्नाम॒ वच॑सा करामहे⁠। यस्या॑मि॒दव्ँविश्व॒म्भुव॑नमावि॒वेश॒ तस्या᳚न्नो दे॒वः स॑वि॒ता धर्म॑ साविषत्⁠॥ अ॒फ्स्व॑ [३२] न्तर॒मृत॑म॒फ्सु भे॑ष॒जम॒पामु॒त प्रश॑स्ति॒ष्वश्वा॑ भवथ वाजिनः⁠॥ वा॒युर् वा᳚ त्वा॒ मनु॑र् वा त्वा गन्ध॒र्वाः स॒प्तवि॑ꣳशतिः⁠। ते अग्रे॒ अश्व॑मायुञ्ज॒न्ते अ॑स्मिञ्ज॒वमाऽद॑धुः⁠॥ अपा᳚न्नपादाशुहेम॒न्॒‌य ऊ॒र्मिः क॒कुद्मा॒न् प्रतू᳚र्तिर् वाज॒सात॑म॒स्तेना॒यव्ँवाज॑ꣳ सेत्⁠॥ विष्णोः॒ क्रमो॑ऽसि॒ विष्णोः᳚ क्रा॒न्तम॑सि॒ विष्णो॒र् विक्रा᳚न्तमस्य॒ङ्कौ न्य॒ङ्का व॒भितो॒ रथ॒य्ँयौ ध्वा॒न्तव्ँवा॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ दू॒रेहे॑तिरिन्द्रि॒यावा᳚न् पत॒त्री ते नो॒ऽग्नयः॒ पप्र॑यः पारयन्तु⁠ [३३] (अ॒फ्सुन्य॒ङ्कौपञ्च॑दश च) ॥७॥
दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वाज॑ञ्जेषन्दे॒वस्या॒हꣳ स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना वाज॒जिता॒ वर्‌षि॑ष्ठ॒न्नाक॑ꣳ रुहेय॒मिन्द्रा॑य॒ वाच॑व्ँवद॒तेन्द्रं॒ वाज॑ञ्जापय॒तेन्द्रो॒ वाज॑मजयित्⁠॥ अश्वा॑जनि वाजिनि॒ वाजे॑षु वाजिनीव॒त्यश्वा᳚न्थ् स॒मथ्सु॑ वाजय⁠॥ अर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वाजि॑नो॒ वाज॑न्धावत म॒रुता᳚म्प्रस॒वे ज॑यत॒ वि योज॑ना मिमीद्ध्व॒मद्ध्व॑नः स्कभ्नीत॒ [३४] काष्ठा᳚ङ्गच्छत॒ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः⁠॥ अ॒स्य मद्ध्वः॑ पिबत मा॒दय॑द्ध्वन्तृ॒प्ता या॑त प॒थिभि॑र् देव॒यानैः᳚⁠॥ ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हव॒व्ँविश्वे॑ शृण्वन्तु वा॒जिनः॑⁠॥ मि॒तद्र॑वः सहस्र॒सा मे॒धसा॑ता सनि॒ष्यवः॑⁠। म॒हो ये रत्न॑ꣳ समि॒थेषु॑ जभ्रि॒रे शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु⁠॥ दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः⁠। जं॒भय॒न्तोऽहि॒व्ँवृक॒ꣳ॒ रख्‍षा॑ꣳसि॒ सने᳚म्य॒स्मद्यु॑यव॒ [३५] न्नमी॑वाः⁠॥ ए॒ष स्य वा॒जी ख्‍षि॑प॒णिन्तु॑रण्यति ग्री॒वाया᳚म्ब॒द्धो अ॑पिक॒ख्‍ष आ॒सनि॑⁠। क्रतु॑न्दधि॒क्रा अनु॑ स॒न्तवी᳚त्वत् प॒थामङ्का॒ꣴ॒स्यन्वा॒पनी॑फणत्⁠॥ उ॒त स्मा᳚स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णन्न वेरनु॑ वाति प्रग॒र्द्धिनः॑⁠। श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सम्परि॑ दधि॒क्राव्‌ण्णः॑ स॒होर्जा तरि॑त्रतः⁠॥ आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒दा द्यावा॑पृथि॒वी वि॒श्वशं॑भू⁠। आ मा॑ गन्ताम्पि॒तरा॑ [३६] मा॒तरा॒ चाऽऽमा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात्⁠॥ वाजि॑नो वाजजितो॒ वाज॑ꣳ सरि॒ष्यन्तो॒ वाज॑ञ्जे॒ष्यन्तो॒ बृह॒स्पते᳚र् भा॒गमव॑ जिघ्रत॒ वाजि॑नो वाजजितो॒ वाज॑ꣳ ससृ॒वाꣳसो॒ वाज॑ञ्जिगि॒वाꣳसो॒ बृह॒स्पते᳚र् भा॒गे नि मृ॑ढ्वमि॒यव्ँवः॒ सा स॒त्या स॒न्धाभू॒द् यामिन्द्रे॑ण स॒मध॑द्ध्व॒मजी॑जिपत वनस्पतय॒ इन्द्र॒व्ँवाज॒व्ँवि मु॑च्यद्ध्वम्⁠ [३७] (स्क॒भ्नी॒त॒यु॒य॒व॒न्पि॒तरा॒द्विच॑त्वारिꣳशच्च) ॥८॥
ख्‍ष॒त्रस्योल॑ꣴमसि ख्‍ष॒त्रस्य॒ योनि॑रसि॒ जाय॒ एहि॒ सुवो॒ रोहा॑व॒ रोहा॑व॒ हि सुव॑र॒हन्ना॑वु॒भयोः॒ सुवो॑ रोख्‍ष्यामि॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्द्धा च॒ व्यश्ञि॑यश्चाऽऽन्त्याय॒न श्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च⁠। आयु॑र् य॒ज्ञेन॑ कल्पताम्प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नो [३८] य॒ज्ञेन॑ कल्पताव्ँव्या॒नो य॒ज्ञेन॑ कल्पता॒ञ्चख्‍षु॑र् य॒ज्ञेन॑ कल्पता॒ꣴ॒ श्रोत्र॑य्ँय॒ज्ञेन॑ कल्पता॒म्मनो॑ य॒ज्ञेन॑ कल्पता॒व्ँवाग् य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पताय्ँय॒ज्ञो य॒ज्ञेन॑ कल्पता॒ꣳ॒ सुव॑र् दे॒वाꣳ अ॑गन्मा॒मृता॑ अभूम प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ सम॒हं प्र॒जया॒ सम्मया᳚ प्र॒जा सम॒हꣳ रा॒यस्पोषे॑ण॒ सम्मया॑ रा॒यस्पोषोऽन्ना॑य त्वा॒ऽन्नाद्या॑य त्वा॒ वाजा॑य त्वा वाजजि॒त्यायै᳚ त्वा॒ऽमृत॑मसि॒ पुष्टि॑रसि प्र॒जन॑नमसि⁠ [३९] (अ॒पा॒नोवाजा॑य॒नव॑ च) ॥९॥
वाज॑स्ये॒मम्प्र॑स॒वः सु॑षुवे॒ अग्रे॒ सोम॒ꣳ॒ राजा॑न॒मोष॑धीष्व॒फ्सु⁠। ता अ॒स्मभ्य॒म्मधु॑मतीर् भवन्तु व॒यꣳ रा॒ष्ट्रे जा᳚ग्रियाम पु॒रोहि॑ताः⁠। वाज॑स्ये॒दम्प्र॑स॒व आ ब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑⁠। स वि॒राज॒म्पर्ये॑ति प्रजा॒नन् प्र॒जाम्पुष्टि॑व्ँव॒र्द्धय॑मानो अ॒स्मे⁠। वाज॑स्ये॒माम्प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट्⁠। अदि॑थ्सन्तन्दापयतु प्रजा॒नन् र॒यिं [४०] च॑ नः॒ सर्व॑वीरा॒न्नि य॑च्छतु⁠॥ अग्ने॒ अच्छा॑ वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव⁠। प्र णो॑ यच्छ भुवस्पते धन॒दा अ॑सि न॒स्त्वम्⁠॥ प्र णो॑ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑⁠। प्र दे॒वाः प्रोत सू॒नृता॒ प्र वाग् दे॒वी द॑दातु नः⁠॥ अ॒र्य॒मण॒म्बृह॒स्पति॒मिन्द्र॒न्दाना॑य चोदय⁠। वाच॒व्ँविष्णु॒ꣳ॒ सर॑स्वतीꣳ सवि॒तारं॑ [४१] च वा॒जिन᳚म्⁠॥ सोम॒ꣳ॒ राजा॑न॒व्ँवरु॑णम॒ग्निम॒न्वार॑भामहे⁠। आ॒दि॒त्यान् विष्णु॒ꣳ॒ सूर्य॑म्ब्र॒ह्माण॑ञ्च॒ बृह॒स्पति᳚म्⁠॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र् बा॒हुभ्या᳚म्पू॒ष्णो हस्ता᳚भ्या॒ꣳ॒ सर॑स्वत्यै वा॒चो य॒न्तुर् य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि⁠ [४२] (र॒यिꣳस॑वि॒तार॒ꣳ॒षट्त्रि॑ꣳशच्च) ॥१०॥
अ॒ग्निरेका᳚ख्‍षरेण॒ वाच॒मुद॑जयद॒श्विनौ॒ द्व्य॑ख्‍षरेण प्राणापा॒नावुद॑जयता॒व्ँविष्णु॒स्त्य्र॑ख्‍षरेण॒ त्रील्ँलो॒कानुद॑जय॒थ् सोम॒श्चतु॑रख्‍षरेण॒ चतु॑ष्पदः प॒शूनुद॑जयत् पू॒षा पञ्चा᳚ख्‍षरेण प॒ङ्क्तिमुद॑जयद् धा॒ता षड॑ख्‍षरेण॒ षडृ॒तूनुद॑जयन् म॒रुतः॑ स॒प्ताख्‍ष॑रेण स॒प्तप॑दा॒ꣳ॒ शक्व॑री॒मुद॑जय॒न् बृह॒स्पति॑र॒ष्टाख्‍ष॑रेण गाय॒त्रीमुद॑जयन् मि॒त्रो नवा᳚ख्‍षरेण त्रि॒वृत॒ꣴ॒ स्तोम॒मुद॑जय॒द् [४३] वरु॑णो॒ दशा᳚ख्‍षरेण वि॒राज॒मुद॑जय॒दिन्द्र॒ एका॑दशाख्‍षरेण त्रि॒ष्टुभ॒मुद॑जय॒द् विश्वे॑ दे॒वा द्वाद॑शाख्‍षरेण॒ जग॑ती॒मुद॑जय॒न् वस॑व॒स्त्रयो॑ दशाख्‍षरेण त्रयोद॒शꣴ स्तोम॒मुद॑जयन् रु॒द्राश्चतु॑र्दशाख्‍षरेण चतुर्द॒शꣴ स्तोम॒मुद॑जयन्नादि॒त्याः पञ्च॑दशाख्‍षरेण पञ्चद॒शꣴ स्तोम॒मुद॑जय॒न्नदि॑तिः॒ षोड॑शाख्‍षरेण षोड॒शꣴ स्तोम॒मुद॑जयत् प्र॒जाप॑तिः स॒प्तद॑शाख्‍षरेण सप्तद॒शꣴ स्तोम॒मुद॑जयत्⁠ [४४] (त्रि॒वृत॒ꣴ॒ स्तोम॒मुद॑जय॒थ्षट्च॑त्वारिꣳशच्च) ॥११॥
उ॒प॒या॒मगृ॑हीतोऽसि नृ॒षद॑न्त्वा द्रु॒षद॑म्भुवन॒सद॒मिन्द्रा॑य॒ जुष्ट॑ङ्गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतोऽस्यफ्सु॒षद॑न्त्वा घृत॒सद॑व्ँव्योम॒सद॒मिन्द्रा॑य॒ जुष्ट॑ङ्गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वोपया॒मगृ॑हीतोऽसि पृथिवि॒षद॑न्त्वाऽन्तरिख्‍ष॒सद॑न्नाक॒सद॒मिन्द्रा॑य॒ जुष्ट॑ङ्गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा⁠॥ ये ग्रहाः᳚ पञ्चज॒नीना॒ येषा᳚न्ति॒स्रः प॑रम॒जाः⁠। दैव्यः॒ कोशः॒ [४५] समु॑ब्जितः⁠। तेषा॒व्ँविशि॑प्रियाणा॒मिष॒मूर्ज॒ꣳ॒ सम॑ग्रभीमे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा⁠॥ अ॒पाꣳ रस॒मुद्व॑यस॒ꣳ॒ सूर्य॑रश्मिꣳ स॒माभृ॑तम्⁠। अ॒पाꣳ रस॑स्य॒ यो रस॒स्तव्ँवो॑ गृह्णाम्युत्त॒ममे॒ष ते॒ योनि॒रिन्द्रा॑य त्वा⁠॥ अ॒या वि॒ष्ठा ज॒नय॒न् कर्व॑राणि॒ स हि घृणि॑रु॒रुर् वरा॑य गा॒तुः⁠। स प्रत्युदै᳚द् ध॒रुणो मद्ध्वो॒ अग्र॒ꣴ॒ स्वाया॒य्ँयत् त॒नुवा᳚न्त॒नूमैर॑यत⁠। उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ्गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा⁠ [४६] (कोश॑स्त॒नुवां॒त्रयो॑दश च) ॥१२॥
अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः⁠। अन्विन्द्र॒ꣳ॒ रोद॑सी वावशा॒ने अन्वापो॑ अजिहत॒ जाय॑मानम्⁠॥ अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚⁠। अनु॑ ख्‍ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚⁠॥ इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्नी॑म॒हम॑श्रवम्⁠। न ह्य॑स्या अप॒रञ्च॒न ज॒रसा॒ [४७] मर॑ते॒ पतिः॑⁠॥ नाहमि॑न्द्राणि रारण॒ सख्यु॑र् वृ॒षाक॑पेर्‌ऋ॒ते⁠। यस्ये॒दमप्य॑ꣳ ह॒विः प्रि॒यन्दे॒वेषु॒ गच्छ॑ति⁠॥ यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान् दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू॑षत्⁠। यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतान्नृं॒णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑⁠॥ आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ यथ् स॒मर॑न्त॒ सेनाः᳚⁠। पता॑ति दि॒द्युन्नर्य॑स्य बाहु॒वोर् मा ते॒ [४८] मनो॑ विष्व॒द्रिय॒ग् वि चा॑रीत्⁠॥ मा नो॑ मर्द्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत् ते᳚⁠। नव्ये॑ दे॒ष्णे श॒स्ते अ॒स्मिन् त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि॑न्द्र स्तु॒वन्तः॑⁠॥ आ तू भ॑र॒ माकि॑रे॒तत् परि॑ ष्ठाद् वि॒द्मा हि त्वा॒ वसु॑पति॒व्ँवसू॑नाम्⁠। इन्द्र॒ यत् ते॒ माहि॑न॒न्दत्र॒मस्त्य॒स्मभ्य॒न्तद्ध॑र्यश्व॒ [४९] प्र य॑न्धि⁠॥ प्र॒दा॒तार॑ꣳ हवामह॒ इन्द्र॒मा ह॒विषा॑ व॒यम्⁠। उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वाऽऽप्र य॑च्छ॒ दख्‍षि॑णा॒दोत स॒व्यात्⁠॥ प्र॒दा॒ता व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा᳚⁠। अ॒स्मिन्‌य॒ज्ञे ब॒र्॒‌हिष्या नि॒षद्याथा॑ भव॒ यज॑मानाय॒ शय्ँयोः⁠॥ इन्द्रः॑ सु॒त्रामा॒ स्ववा॒ꣳ॒ अवो॑भिः सुमृडी॒को भ॑वतु वि॒श्ववे॑दाः⁠। बाध॑ता॒न्द्वेषो॒ अभ॑यङ्कृणोतु सु॒वीर्य॑स्य॒ [५०] पत॑यः स्याम⁠॥ तस्य॑ व॒यꣳ सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म⁠। स सु॒त्रामा॒ स्ववा॒ꣳ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर् यु॑योतु⁠॥ रे॒वती᳚र् नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः⁠। ख्‍षु॒मन्तो॒ याभि॒र् मदे॑म⁠॥ प्रोष्व॑स्मै पुरोर॒थमिन्द्रा॑य शू॒षम॑र्चत⁠। अ॒भीके॑ चिदु लोक॒कृथ् स॒ङ्गे स॒मथ्सु॑ वृत्र॒हा⁠। अ॒स्माक॑म्बोधि चोदि॒ता नभ॑न्तामन्य॒केषा᳚म्⁠। ज्या॒का अधि॒ धन्व॑सु⁠ [५१] (ज॒रसा॒मा ते॑हर्यश्वसु॒वीर्य॒स्याद्ध्येक॑ञ्च) ॥१३॥
(पा॒क॒य॒ज्ञꣳसꣴश्र॑वाःप॒रोख्‍षं॑ब॒र्॒‌हिषो॒ऽहं ध्रु॒वामग॒न्मेत्या॑ह॒ देव॑ सवितर्दे॒वस्या॒हंख्‍ष॒त्रस्योलं॒ꣴवाज॑स्ये॒मम॒ग्निरेका᳚ख्‍षरेणो पया॒मगृ॑हीतो॒ऽस्यन्वह॒ मासा॒स्त्रयो॑दश)
(पा॒क॒य॒ज्ञंप॒रोख्‍षं॑ध्रु॒वांवि सृ॑जतेच नः॒ सर्व॑वीरां॒ पत॑यः स्यो॒मैक॑पञ्चा॒शत्)
(पा॒क॒य॒ज्ञंधन्व॑सु)
अनुवाकाः पञ्चशती
१३ ५१