कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
चतुर्थकाण्डे सप्तमः प्रश्नः

कांड ४ प्रश्न ७
वसोर्धारादिशिष्टसंस्काराभिधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्द्धन्तु वा॒ङ्गिरः॑⁠। द्यु॒म्नैर् वाजे॑भि॒रा ग॑तम्⁠॥ वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे॒ क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मेऽपा॒न [१] श्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तञ्च॑ म॒ आधी॑तञ्च मे॒ वाक् च॑ मे॒ मन॑श्च मे॒ चख्‍षु॑श्च मे॒ श्रोत्र॑ञ्च मे॒ दख्‍ष॑श्च मे॒ बल॑ञ्च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च मे॒ ऽस्थानि॑ च मे॒ परू॑ꣳषि च मे॒ शरी॑राणि च मे⁠ [२] (अ॒पा॒न स्त॒नूश्च॑ मे॒ ऽष्टाद॑श च) ॥१॥
ज्यैष्ठ्य॑ञ्च म॒ आधि॑पत्यञ्च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मे ऽम॑श्च॒ मेऽंभ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धञ्च॑ मे॒ वृद्धि॑श्च मे स॒त्यञ्च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च [३] मे॒ धन॑ञ्च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तञ्च॑ मे जनि॒ष्यमा॑णञ्च मे सू॒क्तञ्च॑ मे सुकृ॒तञ्च॑ मे वि॒त्तञ्च॑ मे॒ वेद्य॑ञ्च मे भू॒तञ्च॑ मे भवि॒ष्यच्च॑ मे सु॒गञ्च॑ मे सु॒पथ॑ञ्च म ऋ॒द्धञ्च॑ म॒ ऋद्धि॑ श्च मे क्लृ॒प्तञ्च॑ मे॒ क्लृप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे⁠ [४] (जग॒च्च र्द्धि॒ श्चतु॑र्दश च) ॥२॥
शञ्च॑ मे॒ मय॑श्च मे प्रि॒यञ्च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रञ्च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णञ्च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ ख्‍षेम॑श्च मे॒ धृति॑श्च मे॒ विश्व॑ञ्च [५] मे॒ मह॑श्च मे स॒व्ँविच्च॑ मे॒ ज्ञात्र॑ञ्च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीर॑ञ्च मे ल॒यश्च॑ म ऋ॒तञ्च॑ मे॒ ऽमृत॑ञ्च मेऽय॒ख्‍ष्मञ्च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वञ्च॑ मेऽनमि॒त्रञ्च॒ मेऽभ॑यञ्च मे सु॒गञ्च॑ मे॒ शय॑नञ्च मे सू॒षा च॑ मे सु॒दिन॑ञ्च मे⁠ [६] (विश्व॑ञ्च॒शय॑नम॒ष्टौ च॑) ॥३॥
ऊर्क् च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तञ्च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्र॑ञ्च म॒ औद्भि॑द्यञ्च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टञ्च॑ मे॒ पुष्टि॑श्च मे वि॒भु च॑ [७] मे प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णञ्च॑ मे पू॒र्णत॑रञ्च॒ मे ऽख्‍षि॑तिश्च मे॒ कूय॑वाश्च॒ मेऽन्न॑ञ्च॒ मे ऽख्‍षु॑च्च मे व्री॒हय॑श्च मे॒ यवा᳚श्च मे॒ माषा᳚श्च मे॒ तिला᳚श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा᳚श्च मे गो॒धूमा᳚श्च मे म॒सुरा᳚ श्च मे प्रि॒यंग॑वश्च॒ मेऽण॑वश्च मे श्या॒माका᳚श्च मे नी॒वारा᳚श्च मे⁠ [८] (वि॒भु च॑ म॒सुरा॒ श्चतु॑र्दश च) ॥४॥
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यञ्च॒ मे ऽय॑श्च मे॒ सीस॑ञ्च मे॒ त्रपु॑श्च मे श्या॒मञ्च॑ मे लो॒हञ्च॑ मे॒ऽग्निश्च॑ म॒ आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्यञ्च॑ [९] मेऽकृष्टप॒च्यञ्च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्ताव्ँवि॒त्तञ्च॑ मे॒ वित्ति॑श्च मे भू॒तञ्च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मे ऽर्थ॑श्च म॒ एम॑श्च म॒ इति॑श्च मे॒ गति॑श्च मे⁠ [१०] (कृ॒ष्ट॒प॒च्यञ्चा॒ ष्टाच॑त्वारिꣳशच्च) ॥५॥
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती च म॒ इन्द्र॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒ वरु॑णश्च म॒ इन्द्र॑श्च मे॒ त्वष्टा॑ च [११] म॒ इन्द्र॑श्च मे धा॒ता च॑ म॒ इन्द्र॑श्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑ च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च मे॒ऽन्तरि॑ख्‍षञ्च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च मे॒ दिश॑श्च म॒ इन्द्र॑श्च मे मू॒र्द्धा च॑ म॒ इन्द्र॑श्च मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे⁠ [१२] (त्वष्टा॑ च॒द्यौश्च॑ म॒एक॑विꣳशतिश्च) ॥६॥
अ॒ꣳ॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा᳚भ्यश्च॒ मेऽधि॑पतिश्च म उपा॒ꣳ॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ [ ] १३ [१३] मेऽतिग्रा॒ह्या᳚श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीया᳚श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे⁠ [१४] (ऋ॒तु॒ग्र॒हाश्च॒ चतु॑स्त्रिꣳशच्च) ॥७॥
इ॒ध्मश्च॑ मे ब॒र्॒‌हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म उपर॒वाश्च॑ मेऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नी᳚ध्रञ्च मे हवि॒र्द्धान॑ञ्च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे पुरो॒डाशा᳚श्च मे पच॒ताश्च॑ मेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ मे⁠ [१५] (गृ॒हाश्च॒ षोड॑श च) ॥८॥
अ॒ग्निश्च॑ मे घ॒र्मश्च॑ मे॒ऽर्कश्च॑ मे॒ सूर्य॑श्च मे प्रा॒णश्च॑ मेऽश्वमे॒धश्च॑ मे पृथि॒वी च॒ मेऽदि॑तिश्च मे॒ दिति॑श्च मे॒ द्यौश्च॑ मे॒ शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे य॒ज्ञेन॑ कल्पन्ता॒मृक् च॑ मे॒ साम॑ च मे॒ स्तोम॑श्च मे॒ यजु॑श्च मे दी॒ख्‍षा च॑ मे॒ तप॑श्च म ऋ॒तुश्च॑ मे व्र॒तञ्च॑ मेऽहोरा॒त्रयो᳚र् वृ॒ष्ट्या बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम्⁠ [१६] (दी॒ख्‍षा ऽष्टाद॑श च) ॥९॥
गर्भा᳚श्च मे व॒थ्साश्च॑ मे॒ त्य्रवि॑श्च मे त्य्र॒वी च॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒थ्सश्च॑ मे त्रिव॒थ्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाच् च॑ मे पष्ठौ॒ही च॑ म उ॒ख्‍षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ [१७] मे वे॒हच्च॑ मेऽन॒ड्वान् च॑ मे धे॒नुश्च॑ म॒ आयु॑र् य॒ज्ञेन॑ कल्पताम्प्रा॒णो य॒ज्ञेन॑ कल्पता मपा॒नो य॒ज्ञेन॑ कल्पताव्ँव्या॒नो य॒ज्ञेन॑ कल्पतां॒ चख्‍षु॑र् य॒ज्ञेन॑ कल्पता॒ꣴ॒ श्रोत्र॑य्ँय॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पता॒व्ँवाग् य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पताय्ँय॒ज्ञो य॒ज्ञेन॑ कल्पताम्⁠ [१८] (ऋ॒ष॒भश्च॑ चत्वारि॒ꣳ॒शच्च॑) ॥१०॥
एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विꣳशतिश्च मे॒ त्रयो॑विꣳशतिश्च मे॒ पञ्च॑विꣳशतिश्च मे स॒प्तवि॑ꣳशतिश्च मे॒ नव॑विꣳशतिश्च म॒ एक॑त्रिꣳशच्च मे॒ त्रय॑स्त्रिꣳशच्च [१९] मे॒ चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विꣳश॒तिश्च॑ मे॒ चतु॑र्विꣳशतिश्च मे॒ ऽष्टावि॑ꣳशतिश्च मे॒ द्वात्रि॑ꣳशच्च मे॒ षट्त्रि॑ꣳशच्च मे चत्वारि॒ꣳ॒शच्च॑ मे॒ चतु॑श्चत्वारिꣳशच्च मे॒ ऽष्टाच॑त्वारिꣳशच्च मे॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्द्धा च॒ व्यश्ञि॑यश्चा न्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च⁠ [२०] (त्रय॑स्त्रिꣳशच्च॒ व्यश्ञि॑य॒ एका॑दश च) ॥११॥
वाजो॑ नः स॒प्त प्र॒दिश॒श्चत॑स्रो वा परा॒वतः॑⁠। वाजो॑ नो॒ विश्वै᳚र् दे॒वैर् धन॑सातावि॒हाव॑तु⁠॥ विश्वे॑ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः॒ समि॑द्धाः⁠। विश्वे॑ नो दे॒वा अव॒साऽऽग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑ण॒व्ँवाजो॑ अ॒स्मे⁠॥ वाज॑स्य प्रस॒वन्दे॑वा॒ रथै᳚र् याता हिर॒ण्ययैः᳚⁠। अ॒ग्निरिन्द्रो॒ बृह॒स्पति॑र् म॒रुतः॒ सोम॑पीतये⁠॥ वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु [२१] विप्रा अमृता ऋतज्ञाः⁠। अ॒स्य मद्ध्वः॑ पिबत मा॒दय॑द्ध्वन्तृ॒प्ता या॑त प॒थिभि॑र् देव॒यानैः᳚⁠॥ वाजः॑ पु॒रस्ता॑दु॒त म॑द्ध्य॒तो नो॒ वाजो॑ दे॒वाꣳ ऋ॒तुभिः॑ कल्पयाति⁠। वाज॑स्य॒ हि प्र॑स॒वो नन्न॑मीति॒ विश्वा॒ आशा॒ वाज॑पतिर् भवेयम्⁠॥ पयः॑ पृथि॒व्याम्पय॒ ओष॑धीषु॒ पयो॑ दि॒व्य॑न्तरि॑ख्‍षे॒ पयो॑ धाम्⁠। पय॑स्वतीः प्र॒दिशः॑ सन्तु॒ मह्य᳚म्⁠॥ सम्मा॑ सृजामि॒ पय॑सा घृ॒तेन॒ सम्मा॑ सृजाम्य॒प [२२] ओष॑धीभिः⁠। सो॑ऽहव्ँवाज॑ꣳ सनेयमग्ने⁠॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ꣳ समी॒ची⁠। द्यावा॒ ख्‍षामा॑ रु॒क्मो अ॒न्तर् वि भा॑ति दे॒वा अ॒ग्निन्धा॑रयन् द्रविणो॒दाः⁠॥ स॒मु॒द्रो॑ऽसि॒ नभ॑स्वाना॒र्द्रदा॑नुः शं॒भूर् म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ मारु॒तो॑ऽसि म॒रुता᳚ङ्ग॒णः शं॒भूर् म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ऽव॒स्युर॑सि॒ दुव॑स्वाञ्छं॒भूर् म॑यो॒भूरभि मा॑ वाहि॒ स्वाहा᳚⁠ [२३] (धने᳚ ष्व॒पो दुव॑स्वाञ्छं॒भूर्म॑यो॒भूर॒भि मा॒ द्वे च॑) ॥१२॥
अ॒ग्निय्ँयु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यꣳ सु॑प॒र्णव्ँवय॑सा बृ॒हन्त᳚म्⁠। तेन॑ व॒यम्प॑तेम ब्र॒ध्नस्य॑ वि॒ष्टप॒ꣳ॒ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे⁠॥ इ॒मौ ते॑ प॒ख्‍षाव॒जरौ॑ पत॒त्रिणो॒ याभ्या॒ꣳ॒ रख्‍षा॑ꣴस्यप॒हꣴस्य॑ग्ने⁠। ताभ्या᳚म्पतेम सु॒कृता॑मु लो॒कय्ँयत्रर्‌ष॑यः प्रथम॒जा ये पु॑रा॒णाः⁠॥ चिद॑सि समु॒द्रयो॑नि॒रिन्दु॒र् दख्‍षः॑ श्ये॒न ऋ॒तावा᳚⁠। हिर॑ण्यपख्‍षः शकु॒नो भु॑र॒ण्युर् म॒हान्थ् स॒धस्थे᳚ ध्रु॒व [२४] आ निष॑त्तः⁠॥ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसी॒र् विश्व॑स्य मू॒र्द्धन्नधि॑ तिष्ठसि श्रि॒तः⁠। स॒मु॒द्रे ते॒ हृद॑यम॒न्तरायु॒र् द्यावा॑पृथि॒वी भुव॑ने॒ष्वर्पि॑ते⁠॥ उ॒द्नो द॑त्तोद॒धिम्भि॑न्त दि॒वः प॒र्जन्या॑द॒न्तरि॑ख्‍षात् पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑वत⁠। दि॒वो मू॒र्द्धाऽसि॑ पृथि॒व्या नाभि॒रूर्ग॒पामोष॑धीनाम्⁠। वि॒श्वायुः॒ शर्म॑ स॒प्रथा॒ नम॑स्प॒थे⁠॥ येनर्‌ष॑य॒स्तप॑सा स॒त्र [२५] मास॒तेन्धा॑ना अ॒ग्निꣳ सुव॑रा॒भर॑न्तः⁠। तस्मि॑न्न॒हन्नि द॑धे॒ नाके॑ अ॒ग्निमे॒तय्ँयमा॒हुर् मन॑वः स्ती॒र्णब॑र्‌हिषम्⁠॥ तम्पत्नी॑भि॒रनु॑ गच्छेम देवाः पु॒त्रैर् भ्रातृ॑भिरु॒त वा॒ हिर॑ण्यैः⁠। नाक॑ङ्गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः⁠॥ आ वा॒चो मद्ध्य॑मरुहद्भुर॒ण्युर॒यम॒ग्निः सत्प॑ति॒श्चेकि॑तानः⁠। पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतदधस्प॒दङ्कृ॑णुते॒ [२६] ये पृ॑त॒न्यवः॑⁠॥ अ॒यम॒ग्निर् वी॒रत॑मो वयो॒धाः स॑ह॒स्रियो॑ दीप्यता॒मप्र॑युच्छन्न्⁠। वि॒भ्राज॑मानः सरि॒रस्य॒ मद्ध्य॒ उप॒ प्र या॑त दि॒व्यानि॒ धाम॑⁠॥ सम्प्र च्य॑वद्ध्व॒मनु॒ सम्प्र या॒ताग्ने॑ प॒थो दे॑व॒याना᳚न् कृणुद्ध्वम्⁠। अ॒स्मिन्थ् स॒धस्थे॒ अद्ध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत⁠॥ येना॑ स॒हस्र॒व्ँवह॑सि॒ येना᳚ग्ने सर्ववेद॒सम्⁠। तेने॒मय्ँय॒ज्ञन्नो॑ वह देव॒यानो॒ य [२७] उ॑त्त॒मः⁠॥ उद्बु॑द्ध्यस्वाग्ने॒ प्रति॑ जागृह्येनमिष्टापू॒र्ते सꣳ सृ॑जेथाम॒यञ्च॑⁠। पुनः॑ कृ॒ण्वꣴस्त्वा॑ पि॒तर॒य्ँयुवा॑नम॒न्वाता॑ꣳसी॒त् त्वयि॒ तन्तु॑मे॒तम्⁠॥ अ॒यन्ते॒ योनि॑र्‌ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः⁠। तञ्जा॒नन्न॑ग्न॒ आ रो॒हाथा॑ नो वर्द्धया र॒यिम्⁠ [२८] (ध्रु॒वः स॒त्रं कृ॑णुते॒ यः स॒प्तत्रि॑ꣳशच्च) ॥१३॥
ममा᳚ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यन्त्वेन्धा॑ना स्त॒नुव॑म्पुषेम⁠। मह्य॑न्नमन्ताम्प्र॒दिश॒श्चत॑स्र॒ स्त्वयाऽद्ध्य॑ख्‍षेण॒ पृत॑ना जयेम⁠॥ मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः⁠। ममा॒न्तरि॑ख्‍षमु॒रु गो॒पम॑स्तु॒ मह्य॒व्ँवातः॑ पवता॒ङ्कामे॑ अ॒स्मिन्न्⁠॥ मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्ता॒म्मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः⁠। दैव्या॒ होता॑रा वनिषन्त॒ [२९] पूर्वेऽरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः᳚⁠॥ मह्य॑य्ँयजन्तु॒ मम॒ यानि॑ ह॒व्याऽऽकू॑तिः स॒त्या मन॑सो मे अस्तु⁠। एनो॒ मा नि गा᳚ङ्कत॒मच्च॒नाहव्ँविश्वे॑ देवासो॒ अधि॑ वोचता मे⁠॥ देवीः᳚ षडुर्वीरु॒रु णः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयद्ध्वम्⁠। मा हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र् मा र॑धाम द्विष॒ते सो॑म राजन्न्⁠॥ अ॒ग्निर् म॒न्युम्प्र॑तिनु॒दन् पु॒रस्ता॒ [३०] दद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम्⁠। प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॑ऽमैषा᳚ञ्चि॒त्तम्प्र॒बुधा॒ वि ने॑शत्⁠॥ धा॒ता धा॑तृ॒णाम्भुव॑नस्य॒ यस्पति॑र् दे॒वꣳ स॑वि॒तार॑मभिमाति॒षाह᳚म्⁠। इ॒मय्ँय॒ज्ञ म॒श्विनो॒भा बृह॒स्पति॑र् दे॒वाः पा᳚न्तु॒ यज॑मानन्न्य॒र्त्थात्⁠॥ उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यꣳसद॒स्मिन्‌हवे॑ पुरुहू॒तः पु॑रु॒ख्‍षु⁠। स नः॑ प्र॒जायै॑ हर्यश्व मृड॒येन्द्र॒ मा [३१] नो॑ रीरिषो॒ मा परा॑ दाः⁠॥ ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान्⁠। वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृश॑म्मो॒ग्रञ्चेत्ता॑रमधि रा॒जम॑क्रन्न्⁠॥ अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद् यः⁠। इ॒मन्नो॑ य॒ज्ञव्ँवि॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒दिन॑न्त्वा⁠ [३२] (व॒नि॒ष॒न्त॒ पु॒रस्ता॒न् मा त्रिच॑त्वारिꣳशच्च) ॥१४॥
अ॒ग्नेर् म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यम्पाञ्च॑जन्यम्ब॒हवः॑ समि॒न्धते᳚⁠। विश्व॑स्याव्ँवि॒शि प्र॑विविशि॒वाꣳस॑मीमहे॒ स नो॑ मुञ्च॒त्वꣳह॑सः⁠॥ यस्ये॒दम्प्रा॒णन्नि॑मि॒षद् यदेज॑ति॒ यस्य॑ जा॒तञ्जन॑मानञ्च॒ केव॑लम्⁠। स्तौम्य॒ग्निन्ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳह॑सः⁠॥ इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नः स्तोमा॒ उप॒मामु॒पागुः॑⁠। यो दा॒शुषः॑ सु॒कृतो॒ हव॒मुप॒ गन्ता॒ [३३] स नो॑ मुञ्च॒त्वꣳह॑सः⁠॥ यः सं॑ग्रा॒मन्नय॑ति॒ सव्ँव॒शी यु॒धे यः पु॒ष्टानि॑ सꣳसृ॒जति॑ त्र॒याणि॑⁠। स्तौमीन्द्र॑न्नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳह॑सः⁠॥ म॒न्वे वा᳚म्मित्रावरुणा॒ तस्य॑ वित्त॒ꣳ॒ सत्यौ॑जसा दृꣳहणा॒ यन्नु॒देथे᳚⁠। या राजा॑नꣳ स॒रथ॑य्ँया॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः⁠॥ यो वा॒ꣳ॒ रथ॑ ऋ॒जुर॑श्मिः स॒त्यध॑र्मा॒ मिथु॒श्चर॑न्तमुप॒याति॑ दू॒षय॑न्⁠। स्तौमि॑ [३४] मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः⁠॥ वा॒योः स॑वि॒तुर् वि॒दथा॑नि मन्महे॒ यावा᳚त्म॒न्वद्बि॑भृ॒तो यौ च॒ रख्‍ष॑तः⁠। यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स्तौ नो॑ मुञ्चत॒माग॑सः⁠॥ उप॒ श्रेष्ठा॑ न आ॒शिषो॑ दे॒वयो॒र् धर्मे॑ अस्थिरन्न्⁠। स्तौमि॑ वा॒युꣳ स॑वि॒तार॑न्नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः⁠॥ र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚⁠। ययो᳚र् [३५] वान्देवौ दे॒वेष्वनि॑शित॒मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः⁠॥ यदया॑तव्ँवह॒तुꣳ सू॒र्याया᳚स्त्रिच॒क्रेण॑ स॒ꣳ॒सद॑मि॒च्छमा॑नौ⁠। स्तौमि॑ दे॒वा व॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः⁠॥ म॒रुता᳚म्मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमाव्ँवाच॒व्ँविश्वा॑मवन्तु॒ विश्वे᳚⁠। आ॒शून्‌हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः⁠॥ ति॒ग्ममायु॑धव्ँवीडि॒तꣳ सह॑स्वद् दि॒व्यꣳ शर्द्धः॒ [३६] पृत॑नासु जि॒ष्णु⁠। स्तौमि॑ दे॒वान् म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः⁠॥ दे॒वाना᳚म्मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमाव्ँवाचं॒ विश्वा॑मवन्तु॒ विश्वे᳚⁠। आ॒शून्‌हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः⁠॥ यदि॒दम्मा॑ऽभि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न⁠। स्तौमि॒ विश्वा᳚न् दे॒वान् ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः⁠॥ अनु॑ नो॒ऽद्यानु॑मति॒ >१, रन्वि [३७] द॑नुमते॒ त्वं >२, वै᳚श्वान॒रो न॑ ऊ॒त्या>३, पृ॒ष्टो दि॒वि> ४⁠॥ ये अप्र॑थेता॒ममि॑तेभि॒रोजो॑भि॒र् ये प्र॑ति॒ष्ठे अभ॑वता॒व्ँवसू॑नाम्⁠। स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः⁠॥ उर्वी॑ रोदसी॒ वरि॑वः कृणोत॒ङ्ख्‍षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम्⁠। स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः⁠॥ यत् ते॑ व॒यम्पु॑रुष॒त्रा य॑वि॒ष्ठावि॑द्वाꣳसश्चकृ॒मा कच्च॒ना [३८] ऽऽगः॑⁠। कृ॒धी स्व॑स्माꣳ अदि॑ते॒रना॑गा॒ व्येना॑ꣳसि शिश्रथो॒ विष्व॑गग्ने⁠॥ यथा॑ ह॒ तद् व॑सवो गौ॒र्य॑ञ्चित् प॒दि षि॒ताममु॑ञ्चता यजत्राः⁠। ए॒वा त्वम॒स्मत् प्र मु॑ञ्चा॒ व्यꣳहः॒ प्राता᳚र्यग्ने प्रत॒रान्न॒ आयुः॑⁠ [३९] (गन्ता॑ दू॒षय॒न्थ् स्तौमि॒ ययोः॒ शर्द्धो ऽनु॑मति॒रनु॑ च॒न चतु॑स्त्रिꣳशच्च) ॥१५॥
(अ॒ग्नेर्म॑न्वे॒यस्ये॒दमिन्द्र॑स्य॒ यः स॑ङ्ग्रा॒ममिन्द्र॒ꣳ॒ स नो॑ मुञ्च॒त्वꣳ ह॑सः⁠)
(म॒न्वे वा॒न्ता नो॑ मुञ्चत॒माग॑सः⁠)
(यो वां᳚ वा॒यो रुप॑ र॒थीत॑मौ॒ यदया॑त म॒श्विनौ॒ तौ नो॑ मुञ्चत॒माग॑सः⁠)
(म॒रुता᳚न् ति॒ग्मं म॒रुतो॑ दे॒वानां॒ यदि॒दव्ँविश्वा॒न् ते नो॑ मुञ्च॒न्त्वेन॑सः⁠)
(अनु॑ न॒ उर्वी॒ द्यावा॑पृथि॒वी ते नो॑ मुञ्चत॒मꣳह॑सो॒ यत्तै᳚⁠)
(च॒तुरꣳह॑सः॒ षडाग॑सश्च॒तुरेन॑सो॒ द्विरꣳह॑सः⁠)
(अग्ना॑विष्णू॒ ज्यैष्ठय॒ꣳ॒ शञ्चो र्क्चाऽश्मा॑ चा॒ ऽग्निश्चा॒ऽꣳ॒शु श्चे॒ द्ध्म श्चा॒ग्निश्च॑ घ॒र्मा गर्भा॒ श्चैका॑ च॒ वाजो॑ नो अ॒ग्निय्ँयु॑नज्मि॒ ममा᳚ऽग्ने अ॒ग्नेर्म॑न्वे॒ पञ्च॑दश⁠।)
(अग्ना॑विष्णू अ॒ग्निश्च॒ वाजो॑ नो॒ अद॑ब्धो गो॒पा नव॑त्रिꣳशत्)
(अग्ना॑विष्णू प्रत॒रान्न॒ आयुः॑)
(युञ्जा॒नो विष्णो॑ र॒पाꣳ र॒श्मिर् नमो ऽश्म॒ नग्ना॑विष्णू स॒प्त)
अनुवाकाः पञ्चशती
१५ ३९