कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
पञ्चमकाण्डे द्वितीयः प्रश्नः

कांड ५ प्रश्न २
चित्युपक्रमाभिधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
विष्णु॑मुखा॒ वै दे॒वा श्छन्दो॑भिरि॒माल्ँलो॒कान॑नपज॒य्यम॒भ्य॑जय॒न्॒‌यद्वि॑ष्णुक्र॒मान् क्रम॑ते॒ विष्णु॑रे॒व भू॒त्वा यज॑मान॒ श्छन्दो॑भिरि॒मान् लो॒कान॑नपज॒य्यम॒भि ज॑यति॒ विष्णोः॒ क्रमो᳚स्यभिमाति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्तरि॑ख्‍ष॒ञ्जाग॑ती॒ द्यौरानु॑ष्टुभी॒र् दिश॒ श्छन्दो॑भिरे॒वेमाल्ँलो॒कान्‌य॑थापू॒र्वम॒भि ज॑यति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ् सृ॒ष्टः [१] परा॑ङै॒त् तमे॒तयाऽन्वै॒दक्र॑न्द॒दिति॒ तया॒ वै सो᳚ऽग्नेः प्रि॒यन्धामावा॑रुन्ध॒ यदे॒ताम॒न्वाहा॒ ग्नेरे॒वैतया᳚ प्रि॒यन्धामाऽव॑ रुन्ध ईश्व॒रो वा ए॒ष परा᳚ङ् प्र॒दघो॒ यो वि॑ष्णुक्र॒मान् क्रम॑ते चत॒सृभि॒रा व॑र्तते च॒त्वारि॒ छन्दा॑ꣳसि॒ छन्दा॑ꣳसि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒यामे॒वास्य॑ त॒नुव॑म॒भि [२] प॒र्याव॑र्तते दख्‍षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्दख्‍षि॒णोऽर्द्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तते॒ शुन॒श्शप॒माजी॑गर्ति॒व्ँवरु॑णोऽगृह्णा॒थ् स ए॒ताव्ँवा॑रु॒णीम॑पश्य॒त् तया॒ वै स आ॒त्मान॑व्ँवरुणपा॒शाद॑मुञ्च॒द्वरु॑णो॒ वा ए॒तङ्गृ॑ह्णाति॒ य उ॒खाम्प्र॑तिमु॒ञ्चत॒ उदु॑त्त॒मव्ँव॑रुण॒पाश॑म॒स्मदित्या॑हा॒ऽऽत्मान॑मे॒वैतया॑ [३] वरुणपा॒शान् मु॑ञ्च॒त्या त्वा॑ऽहार्‌ष॒मित्या॒हाऽऽह्ये॑न॒ꣳ॒ हर॑ति ध्रु॒वस्ति॒ष्ठाऽवि॑चाचलि॒रित्या॑ह॒ प्रति॑ष्ठित्यै॒ विश॑ स्त्वा॒ सर्वा॑ वाञ्छ॒न्त्वित्या॑ह वि॒शैवैन॒ꣳ॒ सम॑र्द्धयत्य॒स्मिन् रा॒ष्ट्रमधि॑ श्र॒येत्या॑ह रा॒ष्ट्रमे॒वास्मि॑न् ध्रु॒वम॑क॒र् यङ्का॒मये॑त रा॒ष्ट्रꣴ स्या॒दिति॒ तम्मन॑सा ध्यायेद्रा॒ष्ट्रमे॒व भ॑व॒त्य [४] ग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्द्ध्वो अ॑स्था॒दित्या॒हाऽग्र॑मे॒वैन॑ꣳ समा॒नाना᳚ङ्करोति निर्जग्मि॒वान् तम॑स॒ इत्या॑ह॒ तम॑ ए॒वास्मा॒दप॑ हन्ति॒ ज्योति॒षाऽऽ*गा॒दित्या॑ह॒ ज्योति॑रे॒वास्मि॑न् दधाति चत॒सृभिः॑ सादयति च॒त्वारि॒ छन्दा॑ꣳसि॒ छन्दो॑भिरे॒वाऽति॑च्छन्दसोत्त॒मया॒ वर्ष्म॒ वा ए॒षा छन्द॑सा॒य्ँयदति॑च्छन्दा॒ वर्ष्मै॒वैन॑ꣳ समा॒नाना᳚ङ्करोति॒ सद्व॑ती [५] भवति स॒त्त्वमे॒वैन॑ङ्गमयति वाथ्स॒प्रेणोप॑ तिष्ठत ए॒तेन॒ वै व॑थ्स॒प्रीर् भा॑लन्द॒नो᳚ऽग्नेः प्रि॒यन्धामावा॑रुन्धा॒ग्नेरे॒वैतेन॑ प्रि॒यन्धामाव॑ रुन्ध एकाद॒शम्भ॑वत्येक॒धैव यज॑माने वी॒र्य॑न्दधाति॒ स्तोमे॑न॒ वै दे॒वा अ॒स्मिल्ँलो॒क आ᳚र्द्ध्नुव॒न् छन्दो॑भिर॒मुष्मि॒न्थ् स्तोम॑स्येव॒ खलु॒ वा ए॒तद्रू॒पय्ँयद्वा᳚थ्स॒प्रय्ँयद्वा᳚थ्स॒प्रेणो॑प॒तिष्ठ॑त [६] इ॒ममे॒व तेन॑ लो॒कम॒भि ज॑यति॒ यद्वि॑ष्णुक्र॒मान् क्रम॑ते॒ऽमुमे॒व तैर् लो॒कम॒भि ज॑यति पूर्वे॒द्युः प्र क्रा॑मत्युत्तरे॒द्युरुप॑ तिष्ठते॒ तस्मा॒द्योगे॒ऽन्यासा᳚म्प्र॒जाना॒म्मनः॒ ख्‍षेमे॒ऽन्यासा॒न्तस्मा᳚द्यायाव॒रः ख्‍षे॒म्यस्ये॑शे॒ तस्मा᳚द्यायाव॒रः ख्‍षे॒म्यम॒द्ध्यव॑स्यति मु॒ष्टी क॑रोति॒ वाच॑य्ँयच्छति य॒ज्ञस्य॒ धृत्यै᳚⁠ [७] (सृ॒ष्टो᳚ (१॒)भ्ये॑ तया॑ भवति॒सद्व॑त्युप॒तिष्ठ॑ते॒ द्विच॑त्वारिꣳशच्च) ॥१॥
अन्न॑प॒तेऽन्न॑स्य नो दे॒हीत्या॑हा॒ग्निर्वा अन्न॑पतिः॒ स ए॒वास्मा॒ अन्न॒म्प्र य॑च्छत्यनमी॒वस्य॑ शु॒ष्मिण॒ इत्या॑हाय॒ख्‍ष्मस्येति॒ वावैतदा॑ह॒ प्र प्र॑दा॒तार॑न्तारिष॒ ऊर्ज॑न्नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्त॒ उदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः [८] प्रा॒णैरे॒वैन॒मुद् य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैन॑ञ्चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैन॒ꣳ॒ सम॑र्द्धयति चत॒सृभि॒रा सा॑दयति च॒त्वारि॒ छन्दा॑ꣳसि॒ छन्दो॑भिरे॒वाति॑च्छन्दसोत्त॒मया॒ वर्ष्म॒ वा ए॒षा छन्द॑सा॒य्ँयदति॑च्छन्दा॒ वर्ष्मै॒वैन॑ꣳ समा॒नाना᳚ङ्करोति॒ सद्व॑ती भवति स॒त्त्वमे॒वैन॑ङ्गमयति॒ प्रेद॑ग्ने॒ ज्योति॑ष्मान् [९] या॒हीत्या॑ह॒ ज्योति॑रे॒वास्मि॑न् दधाति त॒नुवा॒ वा ए॒ष हि॑नस्ति॒ यꣳ हि॒नस्ति॒ मा हि॑ꣳसीस्त॒नुवा᳚ प्र॒जा इत्या॑ह प्र॒जाभ्य॑ ए॒वैन॑ꣳ शमयति॒ रख्‍षा॑ꣳसि॒ वा ए॒तद्य॒ज्ञꣳ स॑चन्ते॒ यदन॑ उ॒थ्सर्ज॒त्यक्र॑न्द॒दित्यन्वा॑ह॒ रख्‍ष॑सा॒मप॑हत्या॒ अन॑सा वह॒न्त्यप॑चितिमे॒वास्मि॑न् दधाति॒ तस्मा॑दन॒स्वी च॑ र॒थी चाति॑थीना॒मप॑चिततमा॒ [१०] वप॑चितिमान् भवति॒ य ए॒वव्ँवेद॑ स॒मिधा॒ऽग्निन्दु॑वस्य॒तेति॑ घृतानुषि॒क्तामव॑सिते स॒मिध॒मा द॑धाति॒ यथाऽति॑थय॒ आग॑ताय स॒र्पिष्व॑दाति॒थ्यङ्क्रि॒यते॑ ता॒दृगे॒व तद्गा॑यत्रि॒या ब्रा᳚ह्म॒णस्य॑ गाय॒त्रो हि ब्रा᳚ह्म॒णस्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यो᳚ऽफ्सु भस्म॒ प्र वे॑शयत्य॒फ्सुयो॑नि॒र् वा अ॒ग्निः स्वामे॒वैन॒य्ँयोनि॑ङ्गमयति ति॒सृभिः॒ प्र वे॑शयति त्रि॒वृद् वा [११] अ॒ग्निर् यावा॑ने॒वाग्निस्तम्प्र॑ति॒ष्ठाङ्ग॑मयति॒ परा॒ वा ए॒षो᳚ऽग्निव्ँव॑पति॒ यो᳚ऽफ्सु भस्म॑ प्रवे॒शय॑ति॒ ज्योति॑ष्मतीभ्या॒मव॑ दधाति॒ ज्योति॑रे॒वास्मि॑न् दधाति॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै॒ परा॒ वा ए॒ष प्र॒जाम्प॒शून्‌व॑पति॒ यो᳚ऽफ्सु भस्म॑ प्रवे॒शय॑ति॒ पुन॑रू॒र्जा स॒ह र॒य्येति॒ पुन॑रु॒दैति॑ प्र॒जामे॒व प॒शूना॒त्मन् ध॑त्ते॒ पुन॑स्त्वाऽऽदि॒त्या [१२] रु॒द्रा वस॑वः॒ समि॑न्धता॒मित्या॑है॒ता वा ए॒तन्दे॒वता॒ अग्रे॒ समै᳚न्धत॒ ताभि॑रे॒वैन॒ꣳ॒ समि॑न्धे॒ बोधा॒ स बो॒धीत्युप॑ तिष्ठते बो॒धय॑त्ये॒वैन॒न्तस्मा᳚थ् सु॒प्त्वा प्र॒जाः प्र बु॑द्ध्यन्ते यथास्था॒नमुप॑ तिष्ठते॒ तस्मा᳚द्यथास्था॒नम्प॒शवः॒ पुन॒रेत्योप॑ तिष्ठन्ते⁠ [१३] (वै विश्वे॑ दे॒वा ज्योति॑ष्मा॒ नप॑चिततमौ त्रि॒वृद्वा आ॑दि॒त्या द्विच॑त्वारिꣳशच्च) ॥२॥
याव॑ती॒ वै पृ॑थि॒वी तस्यै॑ य॒म आधि॑पत्य॒म्परी॑याय॒ यो वै य॒मन्दे॑व॒यज॑नम॒स्या अनि॑र्याच्या॒ग्निञ्चि॑नु॒ते य॒मायै॑न॒ꣳ॒ स चि॑नु॒तेऽपे॒तेत्य॒द्ध्यव॑साययति य॒ममे॒व दे॑व॒यज॑नम॒स्यै नि॒र्याच्या॒ऽऽत्मने॒ऽग्निञ्चि॑नुत इष्व॒ग्रेण॒ वा अ॒स्या अना॑मृतमि॒च्छन्तो॒ नावि॑न्द॒न् ते दे॒वा ए॒तद् यजु॑रपश्य॒न्नपे॒तेति॒ यदे॒तेना᳚ध्यवसा॒यय॒त्य [१४] ना॑मृत ए॒वाग्निञ्चि॑नुत॒ उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒द्ध्यन्तदप॑ हन्त्य॒पोऽवो᳚ख्‍षति॒ शान्त्यै॒ सिक॑ता॒ नि व॑पत्ये॒तद् वा अ॒ग्नेर् वै᳚श्वान॒रस्य॑ रू॒पꣳ रू॒पेणै॒व वै᳚श्वान॒रमव॑ रुन्ध॒ ऊषा॒न् नि व॑पति॒ पुष्टि॒र् वा ए॒षा प्र॒जन॑न॒य्ँयदूषाः॒ पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निञ्चि॑नु॒तेऽथो॑ सं॒ज्ञान॑ ए॒व सं॒ज्ञान॒ꣴ॒ ह्ये॑तत् [१५] प॑शू॒नाय्ँयदूषा॒ द्यावा॑पृथि॒वी स॒हाऽऽस्ता॒न्ते वि॑य॒ती अ॑ब्रूता॒मस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒मिति॒ यद॒मुष्या॑ य॒ज्ञिय॒मासी॒त् तद॒स्याम॑दधा॒त् त ऊषा॑ अभव॒न्॒‌यद॒स्या य॒ज्ञिय॒मासी॒त् तद॒मुष्या॑मदधा॒त् तद॒द श्च॒न्द्रम॑सि कृ॒ष्णमूषा᳚न् नि॒वप॑न्न॒दो ध्या॑ये॒द् द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒ऽग्निञ्चि॑नुते॒ऽयꣳ सो अ॒ग्निरिति॑ वि॒श्वामि॑त्रस्य [१६] सू॒क्तम्भ॑वत्ये॒तेन॒ वै वि॒श्वामि॑त्रो॒ऽग्नेः प्रि॒यन्धामावा॑रुन्धा॒ग्नेरे॒वैतेन॑ प्रि॒यन्धामाव॑ रुन्धे॒ छन्दो॑भि॒र् वै दे॒वाः सु॑व॒र्गल्ँलो॒कमा॑य॒न् चत॑स्रः॒ प्राची॒रुप॑ दधाति च॒त्वारि॒ छन्दा॑ꣳसि॒ छन्दो॑भिरे॒व तद्यज॑मानः सुव॒र्गल्ँलो॒कमे॑ति॒ तेषा॑ꣳ सुव॒र्गल्ँलो॒कय्ँय॒तान्दिशः॒ सम॑व्लीयन्त॒ ते द्वे पु॒रस्ता᳚थ् स॒मीची॒ उपा॑दधत॒ द्वे [१७] प॒श्चाथ् स॒मीची॒ ताभि॒र् वै ते दिशो॑ऽदृꣳह॒न्॒‌यद् द्वे पु॒रस्ता᳚थ् स॒मीची॑ उप॒दधा॑ति॒ द्वे प॒श्चाथ् स॒मीची॑ दि॒शाव्ँविधृ॑त्या॒ अथो॑ प॒शवो॒ वै छन्दा॑ꣳसि प॒शूने॒वास्मै॑ स॒मीचो॑ दधात्य॒ष्टावुप॑ दधात्य॒ष्टाख्‍ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर् यावा॑ने॒वाग्नि स्तञ्चि॑नुते॒ऽष्टावुप॑ दधात्य॒ष्टाख्‍ष॑रा गाय॒त्री गा॑य॒त्री सु॑व॒र्गल्ँलो॒कमञ्ज॑सा वेद सुव॒र्गस्य॑ लो॒कस्य॒ [१८] प्रज्ञा᳚त्यै॒ त्रयो॑दश लोकंपृ॒णा उप॑ दधा॒त्येक॑विꣳशतिः॒ सम्प॑द्यन्ते प्रति॒ष्ठा वा ए॑कवि॒ꣳ॒शः प्र॑ति॒ष्ठा गार्‌ह॑पत्य एकवि॒ꣳ॒शस्यै॒व प्र॑ति॒ष्ठाङ्गार्‌ह॑पत्य॒मनु॒ प्रति॑ तिष्ठति॒ प्रत्य॒ग्निं चि॑क्या॒न स्ति॑ष्ठति॒ य ए॒वव्ँवेद॒ पञ्च॑चितीकञ्चिन्वीत प्रथ॒मञ्चि॑न्वा॒नः पाङ्क्तो॑ य॒ज्ञः पाङ्क्ताः᳚ प॒शवो॑ य॒ज्ञमे॒व प॒शूनव॑ रुन्धे॒ त्रिचि॑तीकञ्चिन्वीत द्वि॒तीय॑ञ्चिन्वा॒न स्त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॒ [१९] प्रति॑ तिष्ठ॒त्येक॑चितीकञ्चिन्वीत तृ॒तीय॑ञ्चिन्वा॒न ए॑क॒धा वै सु॑व॒र्गो लो॒क ए॑क॒वृतै॒व सु॑व॒र्गल्ँलो॒कमे॑ति॒ पुरी॑षेणा॒भ्यू॑हति॒ तस्मा᳚न्मा॒ꣳ॒सेनास्थि॑ छ॒न्नन्न दु॒श्चर्मा॑ भवति॒ य ए॒वव्ँवेद॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सम्प॑द्यन्ते॒ दशा᳚ख्‍षरा वि॒राडन्न॑व्ँवि॒राड् वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति⁠ [२०] (अ॒द्ध्य॒व॒सा॒यय॑ति॒ ह्ये॑तद् वि॒श्वामि॑त्रस्या दधत॒ द्वेलो॒कस्य॑लो॒केषु॑स॒प्तच॑त्वारिꣳशच्च) ॥३॥
वि वा ए॒तौ द्वि॑षाते॒ यश्च॑ पु॒राऽग्निर् यश्चो॒खाया॒ꣳ॒ समि॑त॒मिति॑ चत॒सृभिः॒ सन्नि व॑पति च॒त्वारि॒ छन्दा॑ꣳसि॒ छन्दा॑ꣳसि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः प्रि॒ययै॒वैनौ॑ त॒नुवा॒ सꣳ शा᳚स्ति॒ समि॑त॒मित्या॑ह॒ तस्मा॒द् ब्रह्म॑णा ख्‍ष॒त्रꣳ समे॑ति॒ यथ् सं॒न्युप्य॑ वि॒हर॑ति॒ तस्मा॒द् ब्रह्म॑णा ख्‍ष॒त्रव्ँव्ये᳚त्यृ॒तुभि॒र् [२१] वा ए॒तन्दी᳚ख्‍षयन्ति॒ स ऋ॒तुभि॑रे॒व वि॒मुच्यो॑ मा॒तेव॑ पु॒त्रम्पृ॑थि॒वी पु॑री॒ष्य॑मित्या॑ह॒र्तुभि॑रे॒वैन॑न्दीख्‍षयि॒त्वर्तुभि॒र् वि मु॑ञ्चति वैश्वान॒र्या शि॒क्य॑मा द॑त्ते स्व॒दय॑त्ये॒वैन॑न्नैर्‌ऋ॒तीः कृ॒ष्णास्ति॒स्रस्तुष॑पक्वा भवन्ति॒ निर्‌ऋ॑त्यै॒ वा ए॒तद्भा॑ग॒धेय॒य्ँयत् तुषा॒ निर्‌ऋ॑त्यै रू॒पङ्कृ॒ष्णꣳ रू॒पेणै॒व निर्‌ऋ॑तिन्नि॒रव॑दयत इ॒मान्दिश॑य्ँयन्त्ये॒षा [२२] वै निर्‌ऋ॑त्यै॒ दिख स्वाया॑मे॒व दि॒शि निर्‌ऋ॑तिन्नि॒रव॑दयते॒ स्वकृ॑त॒ इरि॑ण॒ उप॑ दधाति प्रद॒रे वै॒तद् वै निर्‌ऋ॑त्या आ॒यत॑न॒ꣴ॒ स्व ए॒वाऽऽयत॑ने॒ निर्‌ऋ॑तिन्नि॒रव॑दयते शि॒क्य॑म॒भ्युप॑ दधाति नैर्‌ऋ॒तो वै पाशः॑ सा॒ख्‍षादे॒वैन॑न्निर्‌ऋतिपा॒शान् मु॑ञ्चति ति॒स्र उप॑ दधाति त्रेधाविहि॒तो वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मा॒न्निर्‌ऋ॑ति॒मव॑ यजते॒ परा॑ची॒रुप॑ [२३] दधाति॒ परा॑चीमे॒वास्मा॒न् निर्‌ऋ॑ति॒म्प्र णु॑द॒तेऽप्र॑तीख्‍ष॒माय॑न्ति॒ निर्‌ऋ॑त्या अ॒न्तर्‌हि॑त्यै मार्जयि॒त्वोप॑ तिष्ठन्ते मेद्ध्य॒त्वाय॒ गार्‌ह॑पत्य॒मुप॑ तिष्ठन्ते निर्‌ऋतिलो॒क ए॒व च॑रि॒त्वा पू॒ता दे॑वलो॒क मु॒पाव॑र्तन्त॒ एक॒योप॑ तिष्ठन्त एक॒धैव यज॑माने वी॒र्य॑न्दधति नि॒वेश॑नः स॒ङ्गम॑नो॒ वसू॑ना॒मित्या॑ह प्र॒जा वै प॒शवो॒ वसु॑ प्र॒जयै॒वैन॑म्प॒शुभिः॒ सम॑र्द्धयन्ति⁠ [२४] (ऋ॒तुभि॑ रे॒षा परा॑ची॒रुपा॒ ष्टाच॑त्वारिꣳशच्च) ॥४॥
पु॒रु॒ष॒मा॒त्रेण॒ वि मि॑मीते य॒ज्ञेन॒ वै पुरु॑षः॒ संमि॑तो यज्ञप॒रुषै॒वैन॒व्ँवि मि॑मीते॒ यावा॒न् पुरु॑ष ऊ॒र्द्ध्वबा॑हु॒स्तावा᳚न् भवत्ये॒ताव॒द् वै पुरु॑षे वी॒र्य॑व्ँवी॒र्ये॑णै॒वैन॒व्ँवि मि॑मीते प॒ख्‍षी भ॑वति॒ न ह्य॑प॒ख्‍षः पति॑तु॒मर्‌ह॑त्यर॒त्निना॑ प॒ख्‍षौ द्राघी॑याꣳसौ भवत॒स्तस्मा᳚त् प॒ख्‍षप्र॑वयाꣳसि॒ वया॑ꣳसि व्याममा॒त्रौ प॒ख्‍षौ च॒ पुच्छ॑ञ्च भवत्ये॒ताव॒द् वै पुरु॑षे वी॒र्य॑ [२५] व्ँवी॒र्य॑संमितो॒ वेणु॑ना॒ वि मि॑मीत आग्ने॒यो वै वेणुः॑ सयोनि॒त्वाय॒ यजु॑षा युनक्ति॒ यजु॑षा कृषति॒ व्यावृ॑त्त्यै षड्ग॒वेन॑ कृषति॒ षड् वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑ङ्कृषति॒ यद् द्वा॑दशग॒वेन॑ सव्ँवथ्स॒रेणै॒वेयव्ँवा अ॒ग्नेर॑तिदा॒हाद॑बिभे॒थ् सैतद् द्वि॑गु॒णम॑पश्यत् कृ॒ष्टञ्चाकृ॑ष्टञ्च॒ ततो॒ वा इ॒मान्नात्य॑दह॒द्यत् कृ॒ष्टञ्चाकृ॑ष्टञ्च॒ [२६] भव॑त्य॒स्या अन॑तिदाहाय द्विगु॒णन्त्वा अ॒ग्निमुद्य॑न्तु मर्‌ह॒तीत्या॑हु॒र् यत् कृ॒ष्टञ्चाकृ॑ष्टञ्च॒ भव॑त्य॒ग्नेरुद्य॑त्या ए॒ताव॑न्तो॒ वै प॒शवो᳚ द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च॒ तान्‌यत् प्राच॑ उथ्सृ॒जेद्रु॒द्रायापि॑ दद्ध्या॒द्यद्द॑ख्‍षि॒णा पि॒तृभ्यो॒ नि धु॑वे॒द्यत् प्र॒तीचो॒ रख्‍षा॑ꣳसि हन्यु॒रुदी॑च॒ उथ् सृ॑जत्ये॒षा वै दे॑वमनु॒ष्याणा॑ꣳ शा॒न्ता दिक् [२७] तामे॒वैना॒ननूथ् सृ॑ज॒त्यथो॒ खल्वि॒मान्दिश॒मुथ् सृ॑जत्य॒सौ वा आ॑दि॒त्यः प्रा॒णः प्रा॒णमे॒वैना॒नूथ् सृ॑जति दख्‍षि॒णा प॒र्याव॑र्तन्ते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तन्ते॒ तस्मा॒द्दख्‍षि॒णोऽर्द्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽवृत॒मनु॑ प॒र्याव॑र्तन्ते॒ तस्मा॒त् परा᳚ञ्चः प॒शवो॒ वि ति॑ष्ठन्ते प्र॒त्यञ्च॒ आ व॑र्तन्ते ति॒स्रस्ति॑स्रः॒ सीताः᳚ [२८] कृषति त्रि॒वृत॑मे॒व य॑ज्ञमु॒खे वि या॑तय॒त्योष॑धीर् वपति॒ ब्रह्म॒णाऽन्न॒मव॑ रुन्धे॒ ऽर्के᳚ऽर्कश्ची॑यते चतुर्द॒शभि॑र् वपति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्ताऽऽर॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य वप॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै कृ॒ष्टे व॑पति कृ॒ष्टे ह्योष॑धयः प्रति॒तिष्ठ॑न्त्यनुसी॒तव्ँव॑पति॒ प्रजा᳚त्यै द्वाद॒शसु॒ सीता॑सु वपति॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रेणै॒वास्मा॒ अन्न॑म्पचति॒ यद॑ग्नि॒चि [२९] दन॑वरुद्धस्याश्ञी॒यादव॑रुद्धेन॒ व्यृ॑द्ध्येत॒ ये वन॒स्पती॑नाम्फल॒ग्रह॑य॒स्तानि॒द्ध्मेऽपि॒ प्रोख्‍षे॒ दन॑वरुद्ध॒स्याव॑रुद्ध्यै दि॒ग्भ्यो लो॒ष्टान्थ् सम॑स्यति दि॒शामे॒व वी॒र्य॑मव॒रुद्ध्य॑ दि॒शाव्ँवी॒र्ये᳚ऽग्निञ्चि॑नुते॒ यन्द्वि॒ष्याद्यत्र॒ स स्यात् तस्यै॑ दि॒शो लो॒ष्टमा ह॑रे॒दिष॒मूर्ज॑म॒हमि॒त आ द॑द॒ इतीष॑मे॒वोर्ज॒न्तस्यै॑ दि॒शोऽव॑ रुन्धे॒ ख्‍षोधु॑को भवति॒ यस्तस्या᳚न्दि॒शि भव॑त्युत्तरवे॒दिमुप॑ वपत्युत्तरवे॒द्याꣴ ह्य॑ग्नि श्ची॒यतेऽथो॑ प॒शवो॒ वा उ॑त्तरवे॒दिः प॒शूने॒वाव॑ रु॒न्धेऽथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै⁠ [३०] (च॒ भ॒व॒त्ये॒ताव॒द्वै पुरु॑षे वी॒र्यं॑ यत्कृ॒ष्टञ्चाकृ॑ष्टञ्च॒ दिख् सीता॑ अग्नि॒चि दव॒ पञ्च॑विꣳशतिश्च) ॥५॥
अग्ने॒ तव॒ श्रवो॒ वय॒ इति॒ सिक॑ता॒ नि व॑पत्ये॒तद् वा अ॒ग्नेर् वै᳚श्वान॒रस्य॑ सू॒क्तꣳ सू॒क्तेनै॒व वै᳚श्वान॒रमव॑ रुन्धे ष॒ड्भिर् नि व॑पति॒ षड् वा ऋ॒तवः॑ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रो᳚ऽग्निर् वै᳚श्वान॒रः सा॒ख्‍षादे॒व वै᳚श्वान॒रमव॑ रुन्धे समु॒द्रव्ँवै नामै॒तच्छन्दः॑ समु॒द्रमनु॑ प्र॒जाः प्र जा॑यन्ते॒ यदे॒तेन॒ सिक॑ता नि॒वप॑ति प्र॒जाना᳚म्प्र॒जन॑ना॒येन्द्रो॑ [३१] वृ॒त्राय॒ वज्र॒म्प्राह॑र॒थ् स त्रे॒धा व्य॑भव॒थ् स्फ्य स्तृती॑य॒ꣳ॒ रथ॒ स्तृती॑य॒य्ँयूप॒ स्तृती॑य॒य्ँये᳚ऽन्तश्श॒रा अशी᳚र्यन्त॒ ताः शर्क॑रा अभव॒न् तच्छर्क॑राणाꣳ शर्कर॒त्वव्ँवज्रो॒ वै शर्क॑राः प॒शुर॒ग्निर्यच्छर्क॑राभिर॒ग्निम्प॑रिमि॒नोति॒ वज्रे॑णै॒वास्मै॑ प॒शून् परि॑ गृह्णाति॒ तस्मा॒द्वज्रे॑ण प॒शवः॒ परि॑गृहीता॒स्तस्मा॒थ् स्थेया॒नस्थे॑यसो॒ नोप॑ हरते त्रिस॒प्ताभिः॑ प॒शुका॑मस्य॒ [३२] परि॑ मिनुयाथ् स॒प्त वै शी॑र्‌ष॒ण्याः᳚ प्रा॒णाः प्रा॒णाः प॒शवः॑ प्रा॒णैरे॒वास्मै॑ प॒शूनव॑ रुन्धे त्रिण॒वाभि॒र् भ्रातृ॑व्यवतस्त्रि॒वृत॑मे॒व वज्र॑ꣳ सं॒भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अप॑रिमिताभिः॒ परि॑ मिनुया॒दप॑रिमित॒स्याव॑रुद्ध्यै॒ यङ्का॒मये॑ताप॒शुः स्या॒दित्यप॑रिमित्य॒ तस्य॒ शर्क॑राः॒ सिक॑ता॒ व्यू॑हे॒दप॑रिगृहीत ए॒वास्य॑ विषू॒चीन॒ꣳ॒ रेतः॒ परा॑ सिञ्चत्यप॒शुरे॒व भ॑वति॒ [३३] यङ्का॒मये॑त पशु॒मान्थ् स्या॒दिति॑ परि॒मित्य॒ तस्य॒ शर्क॑राः॒ सिक॑ता॒ व्यू॑हे॒त् परि॑गृहीत ए॒वास्मै॑ समी॒चीन॒ꣳ॒ रेतः॑ सिञ्चति पशु॒माने॒व भ॑वति सौ॒म्या व्यू॑हति॒ सोमो॒ वै रे॑तो॒धा रेत॑ ए॒व तद्द॑धाति गायत्रि॒या ब्रा᳚ह्म॒णस्य॑ गाय॒त्रो हि ब्रा᳚ह्म॒ण स्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यः॑ श॒य्ँयुम्बा॑र्‌हस्प॒त्यम्मेधो॒ नोपा॑नम॒थ् सो᳚ऽग्निम्प्राऽवि॑श॒थ् [३४] सो᳚ऽग्नेः कृष्णो॑ रू॒पङ्कृ॒त्वोदा॑यत॒ सोऽश्व॒म्प्राऽवि॑श॒थ् सोऽश्व॑स्यावान्तरश॒फो॑ऽभव॒द् यदश्व॑माक्र॒मय॑ति॒ य ए॒व मेधोऽश्व॒म्प्राऽवि॑श॒त् तमे॒वाव॑ रुन्धे प्र॒जाप॑तिना॒ऽग्निश्चे॑त॒व्य॑ इत्या॑हुः प्राजाप॒त्योऽश्वो॒ यदश्व॑माक्र॒मय॑ति प्र॒जाप॑तिनै॒वाऽग्निञ्चि॑नुते पुष्करप॒र्णमुप॑ दधाति॒ योनि॒र् वा अ॒ग्नेः पु॑ष्करप॒र्णꣳ सयो॑नि मे॒वाग्निञ्चि॑नुते॒ऽपाम्पृ॒ष्ठम॒सीत्युप॑ दधात्य॒पाव्ँवा ए॒तत् पृ॒ष्ठय्ँयत् पु॑ष्करप॒र्णꣳ रू॒पेणै॒वैन॒दुप॑ दधाति⁠ [३५] (इन्द्रः॑ प॒शुका॑मस्य भवत्य विश॒थ् सयो॑निं विꣳश॒तिश्च॑) ॥६॥
ब्रह्म॑ जज्ञा॒नमिति॑ रु॒क्ममुप॑ दधाति॒ ब्रह्म॑मुखा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ब्रह्म॑मुखा ए॒व तत् प्र॒जा यज॑मानः सृजते॒ ब्रह्म॑ जज्ञा॒नमित्या॑ह॒ तस्मा᳚द् ब्राह्म॒णो मुख्यो॒ मुख्यो॑ भवति॒ य ए॒वव्ँवेद॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ न पृ॑थि॒व्यान्नान्तरि॑ख्‍षे॒ न दि॒व्य॑ग्निश्चे॑त॒व्य॑ इति॒ यत् पृ॑थि॒व्याञ्चि॑न्वी॒त पृ॑थि॒वीꣳ शु॒चाऽर्प॑ये॒न्नौष॑धयो॒ न वन॒स्पत॑यः॒ [३६] प्र जा॑येर॒न्॒‌यद॒न्तरि॑ख्‍षे चिन्वी॒तान्तरि॑ख्‍षꣳ शु॒चाऽर्प॑ये॒न्न वया॑ꣳसि॒ प्र जा॑येर॒न्॒‌यद्दि॒वि चि॑न्वी॒त दिव॑ꣳ शु॒चाऽर्प॑ये॒न्न प॒र्जन्यो॑ वर्‌षेद्रु॒क्ममुप॑ दधात्य॒मृत॒व्ँवै हिर॑ण्यम॒मृत॑ ए॒वाग्निञ्चि॑नुते॒ प्रजा᳚त्यै हिर॒ण्मय॒म्पुरु॑ष॒मुप॑ दधाति यजमानलो॒कस्य॒ विधृ॑त्यै॒ यदिष्ट॑काया॒ आतृ॑ण्णमनूपद॒द्ध्यात् प॑शू॒नाञ्च॒ यज॑मानस्य च प्रा॒णमपि॑ दद्ध्याद् दख्‍षिण॒तः [३७] प्राञ्च॒मुप॑ दधाति दा॒धार॑ यजमानलो॒कन्न प॑शू॒नाञ्च॒ यज॑मानस्य च प्रा॒णमपि॑ दधा॒त्यथो॒ खल्विष्ट॑काया॒ आतृ॑ण्ण॒मनूप॑ दधाति प्रा॒णाना॒मुथ्सृ॑ष्ट्यै द्र॒फ्स श्च॑स्क॒न्देत्य॒भि मृ॑शति॒ होत्रा᳚स्वे॒वैनं॒ प्रति॑ ष्ठापयति॒ स्रुचा॒वुप॑ दधा॒त्याज्य॑स्य पू॒र्णाङ्का᳚र्ष्मर्य॒मयी᳚न्द॒द्ध्नः पू॒र्णामौदुं॑बरीमि॒यव्ँवै का᳚र्ष्मर्य॒मय्य॒सावौदुं॑बरी॒मे ए॒वोप॑ धत्ते [३८] तू॒ष्णीमुप॑ दधाति॒ न हीमे यजु॒षाऽऽप्तु॒मर्‌ह॑ति॒ दख्‍षि॑णाङ्कार्ष्मर्य॒मयी॒मुत्त॑रा॒मौदुं॑बरीं॒ तस्मा॑द॒स्या अ॒सावुत्त॒राऽऽज्य॑स्य पू॒र्णाङ्का᳚र्ष्मर्य॒मयी॒व्ँवज्रो॒ वा आज्य॒व्ँवज्रः॑ कार्ष्म॒र्यो॑ वज्रे॑णै॒व य॒ज्ञस्य॑ दख्‍षिण॒तो रख्‍षा॒ꣴ॒स्यप॑ हन्ति द॒द्ध्नः पू॒र्णामौदुं॑बरीम्प॒शवो॒ वै दद्ध्यूर्गु॑दुं॒बरः॑ प॒शुष्वे॒वोर्ज॑न्दधाति पू॒र्णे उप॑ दधाति पू॒र्णे ए॒वैन॑ [३९] म॒मुष्मि॑ल्ँलो॒क उप॑ तिष्ठेते वि॒राज्य॒ग्निश्चे॑त॒व्य॑ इत्या॑हुः॒ स्रुग् वै वि॒राड् यथ् स्रुचा॑वुप॒दधा॑ति वि॒राज्ये॒वाग्निञ्चि॑नुते यज्ञमु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञꣳ रख्‍षा॑ꣳसि जिघाꣳसन्ति यज्ञमु॒खꣳ रु॒क्मो यद्रु॒क्मव्ँव्या॑घा॒रय॑ति यज्ञमु॒खादे॒व रख्‍षा॒ꣴ॒स्यप॑ हन्ति प॒ञ्चभि॒र् व्याघा॑रयति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मा॒द्रख्‍षा॒ꣴ॒स्यप॑ हन्त्यख्‍ष्ण॒या व्याघा॑रयति॒ तस्मा॑दख्‍ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै⁠ [४०] (वन॒स्पत॑यो दख्‍षिण॒तो ध॑त्त एनं॒ तस्मा॑दख्‍ष्ण॒या पञ्च॑ च) ॥७॥
स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाती॒यव्ँवै स्व॑यमातृ॒ण्णेमामे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां᳚ दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निञ्चि॑नुते प्रथ॒मेष्ट॑कोपधी॒यमा॑ना पशू॒नाञ्च॒ यज॑मानस्य च प्रा॒णमपि॑ दधाति स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नाव॒ग्निश्चे॑त॒व्य॑ इत्या॑हुरे॒ष वा [४१] अ॒ग्निर् वै᳚श्वान॒रो यद्ब्रा᳚ह्म॒णस्तस्मै᳚ प्रथ॒मामिष्ट॑का॒य्ँयजु॑ष्कृता॒म्प्र य॑च्छे॒त् ताम्ब्रा᳚ह्म॒ण श्चोप॑ दद्ध्याताम॒ग्नावे॒व तद॒ग्निञ्चि॑नुत ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒र् योऽवि॑द्वा॒निष्ट॑कामुप॒दधा॑ति॒ त्रीन्‌वरा᳚न् दद्या॒त् त्रयो॒ वै प्रा॒णाः प्रा॒णाना॒ꣴ॒ स्पृत्यै॒ द्वावे॒व देयौ॒ द्वौ हि प्रा॒णावेक॑ ए॒व देय॒ एको॒ हि प्रा॒णः प॒शुर् [४२] वा ए॒ष यद॒ग्निर् न खलु॒ वै प॒शव॒ आय॑वसे रमन्ते दूर्वेष्ट॒कामुप॑ दधाति पशू॒नान्धृत्यै॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ काण्डा᳚त्काण्डात् प्र॒रोह॒न्तीत्या॑ह॒ काण्डे॑नकाण्डेन॒ ह्ये॑षा प्र॑ति॒तिष्ठ॑त्ये॒वा नो॑ दूर्वे॒ प्र त॑नु स॒हस्रे॑ण श॒तेन॒ चेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ देवल॒ख्‍ष्मव्ँवै त्य्रा॑लिखि॒ता तामुत्त॑रलख्‍ष्माणन्दे॒वा उपा॑दध॒ताध॑रलख्‍ष्माण॒मसु॑रा॒ यं [४३] का॒मये॑त॒ वसी॑यान्थ् स्या॒दित्युत्त॑रलख्‍ष्माण॒न्तस्योप॑ दद्ध्या॒द्वसी॑याने॒व भ॑वति॒ यङ्का॒मये॑त॒ पापी॑यान्थ् स्या॒दित्यध॑रलख्‍ष्माण॒न्तस्योप॑ दद्ध्यादसुरयो॒निमे॒वैन॒मनु॒ परा॑ भावयति॒ पापी॑यान् भवति त्य्रालिखि॒ता भ॑वती॒मे वै लो॒कास्त्य्रा॑लिखि॒तैभ्य ए॒व लो॒केभ्यो॒ भ्रातृ॑व्य म॒न्तरे॒त्यङ्गि॑रसः सुव॒र्गल्ँलो॒कय्ँय॒तः पु॑रो॒डाशः॑ कू॒र्मो भू॒त्वाऽनु॒ प्रास॑र्प॒ [४४] द्यत् कू॒र्ममु॑प॒दधा॑ति॒ यथा᳚ ख्‍षेत्र॒विदञ्ज॑सा॒ नय॑त्ये॒वमे॒वैन॑ङ्कू॒र्मः सु॑व॒र्गल्ँलो॒कमञ्ज॑सा नयति॒ मेधो॒ वा ए॒ष प॑शू॒नाय्ँयत् कू॒र्मो यत् कू॒र्ममु॑प॒दधा॑ति॒ स्वमे॒व मेध॒म्पश्य॑न्तः प॒शव॒ उप॑ तिष्ठन्ते श्मशा॒नव्ँवा ए॒तत् क्रि॑यते॒ यन्मृ॒ताना᳚म्पशू॒नाꣳ शी॒र्॒‌षाण्यु॑पधी॒यन्ते॒ यज्जीव॑न्तङ्कू॒र्ममु॑प॒दधा॑ति॒ तेनाश्म॑शानचिद्वास्त॒व्यो॑ वा ए॒ष यत् [४५] कू॒र्मो मधु॒ वाता॑ ऋताय॒त इति॑ द॒द्ध्ना म॑धुमि॒श्रेणा॒भ्य॑नक्ति स्व॒दय॑त्ये॒वैन॑ङ्ग्रा॒म्यव्ँवा ए॒तदन्न॒य्ँयद्दद्ध्या॑र॒ण्यम्मधु॒ यद्द॒द्ध्ना म॑धुमि॒श्रेणा᳚भ्य॒नक्त्यु॒भय॒स्याव॑रुद्ध्यै म॒ही द्यौः पृ॑थि॒वी च॑ न॒ इत्या॑हा॒ऽऽभ्यामे॒वैन॑मुभ॒यतः॒ परि॑ गृह्णाति॒ प्राञ्च॒मुप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै पु॒रस्ता᳚त् प्र॒त्यञ्च॒मुप॑ दधाति॒ तस्मा᳚त् [४६] पु॒रस्ता᳚त् प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑ तिष्ठन्ते॒ यो वा अप॑नाभिम॒ग्निञ्चि॑नु॒ते यज॑मानस्य॒ नाभि॒मनु॒ प्र वि॑शति॒ स ए॑नमीश्व॒रो हिꣳसि॑तोरु॒लूख॑ल॒मुप॑ दधात्ये॒षा वा अ॒ग्नेर् नाभिः॒ सना॑भिमे॒वाग्निञ्चि॑नु॒ते ऽहि॑ꣳसाया॒ औदुं॑बरम्भव॒त्यूर्ग् वा उ॑दुं॒बर॒ ऊर्ज॑मे॒वाव॑ रुन्धे मद्ध्य॒त उप॑ दधाति मद्ध्य॒त ए॒वास्मा॒ ऊर्ज॑न्दधाति॒ तस्मा᳚न् मद्ध्य॒त ऊ॒र्जा भु॑ञ्जत॒ इय॑द्भवति प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑त॒मव॑ ह॒न्त्यन्न॑मे॒वाक॑र् वैष्ण॒व्यर्चोप॑ दधाति॒ विष्णु॒र् वै य॒ज्ञो वै᳚ष्ण॒वा वन॒स्पत॑यो य॒ज्ञ ए॒व य॒ज्ञम्प्रति॑ ष्ठापयति⁠ [४७] (ए॒ष वैप॒शुर् य म॑सर्प दे॒ष यत्तस्मा॒त् तस्मा᳚थ् स॒प्तवि॑ꣳशतिश्च) ॥८॥
ए॒षाव्ँवा ए॒तल्लो॒काना॒ञ्ज्योतिः॒ संभृ॑त॒य्ँयदु॒खा यदु॒खामु॑प॒दधा᳚त्ये॒भ्य ए॒व लो॒केभ्यो॒ ज्योति॒रव॑ रुन्धे मद्ध्य॒त उप॑ दधाति मद्ध्य॒त ए॒वास्मै॒ ज्योति॑र् दधाति॒ तस्मा᳚न्मद्ध्य॒तो ज्योति॒रुपा᳚ऽऽस्महे॒ सिक॑ताभिः पूरयत्ये॒तद् वा अ॒ग्नेर् वै᳚श्वान॒रस्य॑ रू॒पꣳ रू॒पेणै॒व वै᳚श्वान॒रमव॑ रुन्धे॒ यङ्का॒मये॑त॒ ख्‍षोधु॑कः स्या॒दित्यू॒नान्तस्योप॑ [४८] दद्ध्या॒त् ख्‍षोधु॑क ए॒व भ॑वति॒ यङ्का॒मये॒तानु॑पदस्य॒ दन्न॑मद्या॒दिति॑ पू॒र्णान्तस्योप॑ दद्ध्या॒दनु॑पदस्य॒ दे॒वान्न॑मत्ति स॒हस्र॒व्ँवै प्रति॒ पुरु॑षः पशू॒नाय्ँय॑च्छति स॒हस्र॑म॒न्ये प॒शवो॒ मद्ध्ये॑ पुरुषशी॒र्॒‌षमुप॑ दधाति सवीर्य॒त्वायो॒खाया॒मपि॑ दधाति प्रति॒ष्ठामे॒वैन॑द्गमयति॒ व्यृ॑द्ध॒व्ँवा ए॒तत् प्रा॒णैर॑मे॒द्ध्यय्ँयत् पु॑रुषशी॒र्॒‌षम॒मृत॒ङ्खलु॒ वै प्रा॒णा [४९] अ॒मृत॒ꣳ॒ हिर॑ण्यम्प्रा॒णेषु॑ हिरण्यश॒ल्कान् प्रत्य॑स्यति प्रति॒ष्ठामे॒वैन॑द्गमयि॒त्वा प्रा॒णैः सम॑र्द्धयति द॒द्ध्ना म॑धुमि॒श्रेण॑ पूरयति मध॒व्यो॑ऽसा॒नीति॑ शृतात॒ङ्क्ये॑न मेद्ध्य॒त्वाय॑ ग्रा॒म्यव्ँवा ए॒तदन्न॒य्ँयद्दद्ध्या॑र॒ण्यं यद् द॒द्ध्ना म॑धुमि॒श्रेण॑ पू॒रय॑त्यु॒भय॒स्याव॑रुद्ध्यै पशुशी॒र्॒‌षाण्युप॑ दधाति प॒शवो॒ वै प॑शुशी॒र्॒‌षाणि॑ प॒शूने॒वाव॑ रुन्धे॒ यङ्का॒मये॑ताप॒शुः स्या॒दिति॑ [५०] विषू॒चीना॑नि॒ तस्योप॑ दद्ध्या॒द्विषू॑च ए॒वास्मा᳚त् प॒शून् द॑धात्यप॒शुरे॒व भ॑वति॒ यङ्का॒मये॑त पशु॒मान्थ् स्या॒दिति॑ समी॒चीना॑नि॒ तस्योप॑ दद्ध्याथ् स॒मीच॑ ए॒वास्मै॑ प॒शून् द॑धाति पशु॒माने॒व भ॑वति पु॒रस्ता᳚त् प्रती॒चीन॒मश्व॒स्योप॑ दधाति प॒श्चात् प्रा॒चीन॑मृष॒भस्याप॑शवो॒ वा अ॒न्ये गो॑अ॒श्वेभ्यः॑ प॒शवो॑ गोअ॒श्वाने॒वास्मै॑ स॒मीचो॑ दधात्ये॒ताव॑न्तो॒ वै प॒शवो᳚ [५१] द्वि॒पाद॑श्च॒ चतु॑ष्पादश्च॒ तान्‌वा ए॒तद॒ग्नौ प्र द॑धाति॒ यत् प॑शुशी॒र्॒‌षाण्यु॑प॒दधा᳚त्य॒मुमा॑र॒ण्यमनु॑ ते दिशा॒मीत्या॑ह ग्रा॒म्येभ्य॑ ए॒व प॒शुभ्य॑ आर॒ण्यान् प॒शूञ्छुच॒मनूथ् सृ॑जति॒ तस्मा᳚थ् स॒माव॑त् पशू॒नां प्र॒जाय॑मानानामार॒ण्याः प॒शवः॒ कनी॑याꣳसः शु॒चा ह्यृ॑ताः स॑र्पशी॒र्॒‌षमुप॑ दधाति॒ यैव स॒र्पे त्विषि॒स्तामे॒वाव॑ रुन्धे॒ [५२] यथ् स॑मी॒चीन॑म्पशुशी॒र्॒षैरु॑पद॒द्ध्याद् ग्रा॒म्यान् प॒शून् दꣳशु॑काः स्यु॒र् यद्वि॑षू॒चीन॑मार॒ण्यान्‌यजु॑रे॒व व॑दे॒दव॒ तान्त्विषि॑ꣳ रुन्धे॒ या स॒र्पे न ग्रा॒म्यान् प॒शून्‌हि॒नस्ति॒ नाऽऽर॒ण्यानथो॒ खलू॑प॒धेय॑मे॒व यदु॑प॒दधा॑ति॒ तेन॒ तान्त्विषि॒मव॑ रुन्धे॒ या स॒र्पे यद्यजु॒र् वद॑ति॒ तेन॑ शा॒न्तम् [५३] (ऊ॒नान्तस्योप॑ प्रा॒णाः स्या॒दिति॒ वै प॒शवो॑ रुन्धे॒ चतु॑श्चत्वारिꣳशच्च) ॥९॥
प॒शुर् वा ए॒ष यद॒ग्निर्योनिः॒ खलु॒ वा ए॒षा प॒शोर् वि क्रि॑यते॒ यत् प्रा॒चीन॑मैष्ट॒काद्यजुः॑ क्रि॒यते॒ रेतो॑ऽप॒स्या॑ अप॒स्या॑ उप॑ दधाति॒ योना॑वे॒व रेतो॑ दधाति॒ पञ्चोप॑ दधाति॒ पाङ्क्ताः᳚ प॒शवः॑ प॒शूने॒वास्मै॒ प्र ज॑नयति॒ पञ्च॑ दख्‍षिण॒तो वज्रो॒ वा अ॑प॒स्या॑ वज्रे॑णै॒व य॒ज्ञस्य॑ दख्‍षिण॒तो रख्‍षा॒ꣴ॒स्यप॑ हन्ति॒ पञ्च॑ प॒श्चात् [५४] प्राची॒रुप॑ दधाति प॒श्चाद् वै प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते प॒श्चादे॒वास्मै᳚ प्रा॒चीन॒ꣳ॒ रेतो॑ दधाति॒ पञ्च॑ पु॒रस्ता᳚त् प्र॒तीची॒रुप॑ दधाति॒ पञ्च॑ प॒श्चात् प्राची॒स्तस्मा᳚त् प्रा॒चीन॒ꣳ॒ रेतो॑ धीयते प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते॒ पञ्चो᳚त्तर॒त श्छ॑न्द॒स्याः᳚ प॒शवो॒ वै छ॑न्द॒स्याः᳚ प॒शूने॒व प्रजा॑ता॒न्थ् स्वमा॒यत॑नम॒भि पर्यू॑हत इ॒यव्ँवा अ॒ग्नेर॑तिदा॒हाद॑बिभे॒थ् सैता [५५] अ॑प॒स्या॑ अपश्य॒त् ता उपा॑धत्त॒ ततो॒ वा इ॒मान्नात्य॑दह॒द्यद॑प॒स्या॑ उप॒दधा᳚त्य॒स्या अन॑तिदाहायो॒वाच॑ हे॒यमद॒दिथ् स ब्रह्म॒णाऽन्न॒य्ँयस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वव्ँवेद॒दिति॑ प्राण॒भृत॒ उप॑ दधाति॒ रेत॑स्ये॒व प्रा॒णान् द॑धाति॒ तस्मा॒द्वद॑न् प्रा॒णन् पश्य॑ञ्छृ॒ण्वन् प॒शुर् जा॑यते॒ऽयम्पु॒रो [५६] भुव॒ इति॑ पु॒रस्ता॒दुप॑ दधाति प्रा॒णमे॒वैताभि॑र्दाधारा॒यन्द॑ख्‍षि॒णा वि॒श्वक॒र्मेति॑ दख्‍षिण॒तो मन॑ ए॒वैताभि॑र् दाधारा॒यम्प॒श्चाद्वि॒श्वव्य॑चा॒ इति॑ प॒श्चाच्चख्‍षु॑रे॒वैताभि॑र्दाधारे॒दमु॑त्त॒राथ् सुव॒रित्यु॑त्तर॒तः श्रोत्र॑मे॒वैताभि॑र् दाधारे॒यमु॒परि॑ म॒तिरित्यु॒परि॑ष्टा॒द्वाच॑मे॒वैताभि॑र्दाधार॒ दश॑द॒शोप॑ दधाति सवीर्य॒त्वाया᳚ख्‍ष्ण॒यो [५७] प॑ दधाति॒ तस्मा॑दख्‍ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ याः प्राची॒स्ताभि॒र् वसि॑ष्ठ आर्द्ध्नो॒द् या द॑ख्‍षि॒णा ताभि॑र् भ॒रद्वा॑जो॒ याः प्र॒तीची॒स्ताभि॑र् वि॒श्वामि॑त्रो॒ या उदी॑ची॒स्ताभि॑र् ज॒मद॑ग्नि॒र् या ऊ॒र्द्ध्वास्ताभि॑र् वि॒श्वक॑र्मा॒ य ए॒वमे॒तासा॒मृद्धि॒व्ँवेद॒र्द्ध्नोत्ये॒व य आ॑सामे॒वम्ब॒न्धुता॒व्ँवेद॒ बन्धु॑मान् भवति॒ य आ॑सामे॒वङ्क्लृप्ति॒व्ँवेद॒ कल्प॑ते [५८] ऽस्मै॒ य आ॑सामे॒वमा॒यत॑न॒व्ँवेदा॒ऽऽयत॑नवान् भवति॒ य आ॑सामे॒वम्प्र॑ति॒ष्ठाव्ँवेद॒ प्रत्ये॒व ति॑ष्ठति प्राण॒भृत॑ उप॒धाय॑ स॒य्ँयत॒ उप॑ दधाति प्रा॒णाने॒वास्मि॑न् धि॒त्वा स॒य्ँयद्भिः॒ सय्ँय॑च्छति॒ तथ् स॒य्ँयता॑ꣳ सय्ँय॒त्त्वमथो᳚ प्रा॒ण ए॒वापा॒नन्द॑धाति॒ तस्मा᳚त् प्राणापा॒नौ सञ्च॑रतो॒ विषू॑ची॒रुप॑ दधाति॒ तस्मा॒द् विष्व॑ञ्चौ प्राणापा॒नौ यद् वा अ॒ग्नेरस॑य्ँयत॒ [५९] मसु॑वर्ग्यमस्य॒ तथ् सु॑व॒र्ग्यो᳚ऽग्निर् यथ् स॒य्ँयत॑ उप॒ दधा॑ति॒ समे॒वैन॑य्ँयच्छति सुव॒र्ग्य॑मे॒वाक॒ स्त्य्रवि॒र् वयः॑ कृ॒तमया॑ना॒मित्या॑ह॒ वयो॑भिरे॒वाया॒नव॑ रु॒न्धेऽयै॒र् वया॑ꣳसि स॒र्वतो॑ वायु॒मती᳚र् भवन्ति॒ तस्मा॑द॒यꣳ स॒र्वतः॑ पवते⁠ [६०] (प॒श्चा दे॒ताः पु॒रो᳚ ऽख्‍ष्ण॒या कल्प॒ते॒ ऽस॑य्ँयतं॒ पञ्च॑त्रिꣳशच्च) ॥१०॥
गा॒य॒त्री त्रि॒ष्टुब् जग॑त्यनु॒ष्टुक् प॒ङ्क्त्या॑ स॒ह⁠। बृ॒ह॒त्यु॑ष्णिहा॑ क॒कुथ् सू॒चीभिः॑ शिम्यन्तु त्वा⁠॥ द्वि॒पदा॒ या चतु॑ष्पदा त्रि॒पदा॒ याच॒ षट्प॑दा⁠। सछ॑न्दा॒ या च॒ विच्छ॑न्दाः सू॒चीभिः॑ शिम्यन्तु त्वा⁠॥ म॒हाना᳚म्नी रे॒वत॑यो॒ विश्वा॒ आशाः᳚ प्र॒सूव॑रीः⁠। मेघ्या॑ वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑ शिम्यन्तु त्वा⁠॥ र॒ज॒ता हरि॑णीः॒ सीसा॒ युजो॑ युज्यन्ते॒ कर्म॑भिः⁠। अश्व॑स्य वा॒जिन॑स्त्व॒चि सू॒चीभिः॑ शिम्यन्तु त्वा⁠॥ नारी᳚ [६१] स्ते॒ पत्न॑यो॒ लोम॒ वि चि॑न्वन्तु मनी॒षया᳚⁠। दे॒वाना॒म्पत्नी॒र् दिशः॑ सू॒चीभिः॑ शिम्यन्तु त्वा⁠॥ कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑ञ्चि॒द्यथा॒ दान्त्य॑नुपू॒र्वव्ँवि॒यूय॑⁠। इ॒हेहै॑षाङ्कृणुत॒ भोज॑नानि॒ ये ब॒र्॒‌हिषो॒ नमो॑वृक्ति॒न्न ज॒ग्मुः⁠ [६२] (नारी᳚ स्त्रि॒ꣳ॒शच्च॑) ॥११॥
क स्त्वा᳚ च्छ्यति॒ क स्त्वा॒ वि शा᳚स्ति॒ क स्ते॒ गात्रा॑णि शिम्यति⁠। क उ॑ ते शमि॒ता क॒विः⁠॥ ऋ॒तव॑ स्त ऋतु॒धा परुः॑ शमि॒तारो॒ वि शा॑सतु⁠। स॒व्ँव॒थ्स॒रस्य॒ धाय॑सा॒ शिमी॑भिः शिम्यन्तु त्वा⁠॥ दैव्या॑ अद्ध्व॒र्यव॑स्त्वा॒ च्छ्यन्तु॒ वि च॑ शासतु⁠। गात्रा॑णि पर्व॒शस्ते॒ शिमाः᳚ कृण्वन्तु॒ शिम्य॑न्तः⁠॥ अ॒र्द्ध॒मा॒साः परू॑ꣳषि ते॒ मासा᳚ श्छन्तु॒ शिम्य॑न्तः⁠। अ॒हो॒रा॒त्राणि॑ म॒रुतो॒ विलि॑ष्टꣳ [६३] सूदयन्तु ते⁠॥ पृ॒थि॒वी ते॒ऽन्तरि॑ख्‍षेण वा॒यु श्छि॒द्रम्भि॑षज्यतु⁠। द्यौ स्ते॒ नख्‍ष॑त्रैः स॒ह रू॒पङ्कृ॑णोतु साधु॒या⁠॥ शन्ते॒ परे᳚भ्यो॒ गात्रे᳚भ्यः॒ शम॒स्त्वव॑रेभ्यः⁠। शम॒स्थभ्यो॑ म॒ज्जभ्यः॒ शमु॑ ते त॒नुवे॑ भुवत्⁠ [६४] (विलि॑ष्टं त्रि॒ꣳ॒शच्च॑) ॥१२॥
(विष्णु॑मुखा॒ अन्न॑पते॒ याव॑ती॒ वि वै पु॑रुषमा॒त्रेणा ग्ने॒ तव॒ श्रवो॒ वयो॒ ब्रह्म॑ जज्ञा॒नꣴ स्व॑यमातृ॒ण्णा मे॒षाव्ँवै प॒शुर् गा॑य॒त्री कस्त्वा॒ द्वाद॑श)
(विष्णु॑मुखा॒ अप॑चितिमा॒न्॒ वि वा ए॒ता वग्ने॒ तव॑ स्वयमातृ॒ण्णां वि॑षू॒चीना॑नि गाय॒त्री चतु॑ष्षष्टिः)
(विष्णु॑मुखा स्त॒नुवे॑ भुवत्)
अनुवाकाः पञ्चशती
१२ ६४