कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
पञ्चमकाण्डे तृतीयः प्रश्नः

कांड ५ प्रश्न ३
चितीनां निरूपणं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
उ॒थ्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः किव्ँवाऽहै॒तस्य॑ क्रि॒यते॒ किव्ँवा॒ न यद् व य॒ज्ञस्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तदा᳚श्वि॒नीरुप॑ दधात्य॒श्विनौ॒ वै दे॒वाना᳚म्भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रोति॒ पञ्चोप॑ दधाति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मै॑ भेष॒जङ्क॑रोत्यृत॒व्या॑ उप॑ दधात्यृतू॒नाङ्क्लृप्त्यै॒ [१] पञ्चोप॑ दधाति॒ पञ्च॒ वा ऋ॒तवो॒ याव॑न्त ए॒वर्तव॒स्तान् क॑ल्पयति समा॒नप्र॑भृतयो भवन्ति समा॒नोद॑र्का॒स्तस्मा᳚थ् समा॒ना ऋ॒तव॒ एके॑न प॒देन॒ व्याव॑र्तन्ते॒ तस्मा॑दृ॒तवो॒ व्याव॑र्तन्ते प्राण॒भृत॒ उप॑ दधात्यृ॒तुष्वे॒व प्रा॒णान् द॑धाति॒ तस्मा᳚थ् समा॒नाः सन्त॑ ऋ॒तवो॒ न जी᳚र्य॒न्त्यथो॒ प्र ज॑नयत्ये॒वैना॑ने॒ष वै वा॒युर् यत् प्रा॒णो यदृ॑त॒व्या॑ उप॒धाय॑ प्राण॒भृत॑ [२] उप॒दधा॑ति॒ तस्मा॒थ् सर्वा॑नृ॒तूननु॑ वा॒युरा व॑रीवर्ति वृष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुन्धे॒ यदे॑क॒धोप॑द॒द्ध्यादेक॑मृ॒तुव्ँव॑र्‌षेदनुपरि॒हार॑ꣳ सादयति॒ तस्मा॒थ् सर्वा॑नृ॒तून्‌व॑र्‌षति॒ यत् प्रा॑ण॒भृत॑ उप॒धाय॑ वृष्टि॒सनी॑रुप॒दधा॑ति॒ तस्मा᳚द्वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्ते प॒शवो॒ वै व॑य॒स्या॑ नाना॑मनसः॒ खलु॒ वै प॒शवो॒ नाना᳚व्रता॒स्ते॑ऽप ए॒वाभि सम॑नसो॒ [३] यङ्का॒मये॑ताप॒शुः स्या॒दिति॑ वय॒स्या᳚स्तस्यो॑प॒धाया॑प॒स्या॑ उप॑ दद्ध्या॒दसं᳚ज्ञानमे॒वास्मै॑ प॒शुभिः॑ करोत्यप॒शुरे॒व भ॑वति॒ यङ्का॒मये॑त पशु॒मान्थ्स्या॒दित्य॑प॒स्या᳚स्तस्यो॑प॒धाय॑ वय॒स्या॑ उप॑ दद्ध्याथ् सं॒ज्ञान॑मे॒वास्मै॑ प॒शुभिः॑ करोति पशु॒माने॒व भ॑वति॒ चत॑स्रः पु॒रस्ता॒दुप॑ दधाति॒ तस्मा᳚च्च॒त्वारि॒ चख्‍षु॑षो रू॒पाणि॒ द्वे शु॒क्ले द्वे कृ॒ष्णे [४] मू᳚र्द्ध॒न्वती᳚र् भवन्ति॒ तस्मा᳚त् पु॒रस्ता᳚न्मू॒र्द्धा पञ्च॒ दख्‍षि॑णाया॒ꣴ॒ श्रोण्या॒मुप॑ दधाति॒ पञ्चोत्त॑रस्या॒न्तस्मा᳚त् प॒श्चाद्वर्‌षी॑यान् पु॒रस्ता᳚त्प्रवणः प॒शुर् ब॒स्तो वय॒ इति॒ दख्‍षि॒णेऽꣳस॒ उप॑ दधाति वृ॒ष्णिर् वय॒ इत्युत्त॒रेऽꣳसा॑वे॒व प्रति॑ दधाति व्या॒घ्रो वय॒ इति॒ दख्‍षि॑णे प॒ख्‍ष उप॑ दधाति सि॒ꣳ॒हो वय॒ इत्युत्त॑रे प॒ख्‍षयो॑रे॒व वी॒र्य॑न्दधाति॒ पुरु॑षो॒ वय॒ इति॒ मद्ध्ये॒ तस्मा॒त् पुरु॑षः पशू॒नामधि॑पतिः⁠ [५] (क्लृप्त्या॑ उप॒धाय॑ प्राण॒भृतः॒ सम॑नसः कृ॒ष्णे पुरु॑षो॒ वय॒ इति॒ पञ्च॑ च) ॥१॥
इन्द्रा᳚ग्नी॒ अव्य॑थमाना॒मिति॑ स्वयमातृ॒ण्णामुप॑ दधातीन्द्रा॒ग्निभ्या॒व्ँवा इ॒मौ लो॒कौ विधृ॑ताव॒नयो᳚र् लो॒कयो॒र् विधृ॑त्या॒ अधृ॑तेव॒ वा ए॒षा यन्म॑द्ध्य॒मा चिति॑र॒न्तरि॑ख्‍षमिव॒ वा ए॒षेन्द्रा᳚ग्नी॒ इत्या॑हेन्द्रा॒ग्नी वै दे॒वाना॑मोजो॒भृता॒वोज॑सै॒वैना॑म॒न्तरि॑ख्‍षे चिनुते॒ धृत्यै᳚ स्वयमातृ॒ण्णामुप॑ दधात्य॒न्तरि॑ख्‍ष॒व्ँवै स्व॑यमातृ॒ण्णाऽन्तरि॑ख्‍षमे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ [६] घ्रापयति प्रा॒णमे॒वास्या᳚न्दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निञ्चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै दे॒वाना॒व्ँवै सु॑व॒र्गल्ँलो॒कय्ँय॒तान्दिशः॒ सम॑व्लीयन्त॒ त ए॒ता दिश्या॑ अपश्य॒न् ता उपा॑दधत॒ ताभि॒र् वै ते दिशो॑ऽदृꣳह॒न्॒‌यद् दिश्या॑ उप॒दधा॑ति दि॒शाव्ँविधृ॑त्यै॒ दश॑ प्राण॒भृतः॑ पु॒रस्ता॒दुप॑ [७] दधाति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र् दश॒मी प्रा॒णाने॒व पु॒रस्ता᳚द्धत्ते॒ तस्मा᳚त् पु॒रस्ता᳚त् प्रा॒णा ज्योति॑ष्मतीमुत्त॒मामुप॑ दधाति॒ तस्मा᳚त् प्रा॒णाना॒व्ँवाग् ज्योति॑रुत्त॒मा दशोप॑ दधाति॒ दशा᳚ख्‍षरा वि॒राड् वि॒राट् छन्द॑सा॒ञ्ज्योति॒र् ज्योति॑रे॒व पु॒रस्ता᳚द्धत्ते॒ तस्मा᳚त् पु॒रस्ता॒ज्ज्योति॒रुपा᳚ऽऽस्महे॒ छन्दा॑ꣳसि प॒शुष्वा॒जिम॑यु॒स्तान् बृ॑ह॒त्युद॑जय॒त् तस्मा॒द्बार्‌ह॑ताः [८] प॒शव॑ उच्यन्ते॒ मा छन्द॒ इति॑ दख्‍षिण॒त उप॑ दधाति॒ तस्मा᳚द्दख्‍षि॒णावृ॑तो॒ मासाः᳚ पृथि॒वी छन्द॒ इति॑ प॒श्चात् प्रति॑ष्ठित्या अ॒ग्निर् दे॒वतेत्यु॑त्तर॒त ओजो॒ वा अ॒ग्निरोज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति॒ षट्त्रि॑ꣳश॒थ् सम्प॑द्यन्ते॒ षट्त्रि॑ꣳशदख्‍षरा बृह॒ती बार्‌ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शूनव॑ रुन्धे बृह॒ती छन्द॑सा॒ꣴ॒ स्वारा᳚ज्य॒म्परी॑याय॒ यस्यै॒ता [९] उ॑पधी॒यन्ते॒ गच्छ॑ति॒ स्वारा᳚ज्यꣳ स॒प्त वाल॑खिल्याः पु॒रस्ता॒दुप॑ दधाति स॒प्त प॒श्चाथ् स॒प्त वै शी॑र्‌ष॒ण्याः᳚ प्रा॒णा द्वाववा᳚ञ्चौ प्रा॒णाना॑ꣳ सवीर्य॒त्वाय॑ मू॒र्द्धाऽसि॒ राडिति॑ पु॒रस्ता॒दुप॑ दधाति॒ यन्त्री॒ राडिति॑ प॒श्चात् प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति⁠ [१०] (अश्व॒मुप॑ पु॒रस्ता॒दुप॒बार्‌ह॑ताए॒ताश्चतु॑स्त्रिꣳशच्च) ॥२॥
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ता अ॑ख्‍ष्णयास्तो॒मीया॑ अपश्य॒न् ता अ॒न्यथा॒ऽनूच्या॒न्यथोपा॑दधत॒ तदसु॑रा॒ नान्ववा॑य॒न् ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यद॑ख्‍ष्णयास्तो॒मीया॑ मीया॑ अ॒न्यथा॒ऽनूच्या॒न्यथो॑प॒दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्या॒शु स्त्रि॒वृदिति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खव्ँवै त्रि॒वृ [११] द्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द् वि या॑तयति॒ व्यो॑म सप्तद॒श इति॑ दख्‍षिण॒तोऽन्न॒व्ँवै व्यो॑मान्न॑ꣳ सप्तद॒शोऽन्न॑मे॒व द॑ख्‍षिण॒तो ध॑त्ते॒ तस्मा॒द्दख्‍षि॑णे॒नान्न॑मद्यते ध॒रुण॑ एकवि॒ꣳ॒श इति॑ प॒श्चात् प्र॑ति॒ष्ठा वा ए॑कवि॒ꣳ॒शः प्रति॑ष्ठित्यै भा॒न्तः प॑ञ्चद॒श इत्यु॑त्तर॒त ओजो॒ वै भा॒न्त ओजः॑ पञ्चद॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति॒ प्रतू᳚र्तिरष्टाद॒श इति॑ पु॒रस्ता॒ [१२] दुप॑ दधाति॒ द्वौ त्रि॒वृता॑वभिपू॒र्वय्ँय॑ज्ञमु॒खे वि या॑तयत्यभिव॒र्तः स॑वि॒ꣳ॒श इति॑ दख्‍षिण॒तोऽन्न॒व्ँवा अ॑भिव॒र्तोऽन्न॑ꣳ सवि॒ꣳ॒शोऽन्न॑मे॒व द॑ख्‍षिण॒तो ध॑त्ते॒ तस्मा॒द्दख्‍षि॑णे॒नान्न॑मद्यते॒ वर्चो᳚ द्वावि॒ꣳ॒श इति॑ प॒श्चाद्यद्वि॑ꣳश॒तिर् द्वे तेन॑ वि॒राजौ॒ यद् द्वे प्र॑ति॒ष्ठा तेन॑ वि॒राजो॑रे॒वाभि॑पू॒र्वम॒न्नाद्ये॒ प्रति॑ तिष्ठति॒ तपो॑ नवद॒श इत्यु॑त्तर॒त स्तस्मा᳚थ् स॒व्यो [१३] हस्त॑योस्तप॒स्वित॑रो॒ योनि॑श्चतुर्वि॒ꣳ॒श इति॑ पु॒रस्ता॒दुप॑ दधाति॒ चतु॑र्विꣳशत्यख्‍षरा गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खय्ँय॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ गर्भाः᳚ पञ्चवि॒ꣳ॒श इति॑ दख्‍षिण॒तोऽन्न॒व्ँवै गर्भा॒ अन्न॑म्पञ्चवि॒ꣳ॒शोऽन्न॑मे॒व द॑ख्‍षिण॒तो ध॑त्ते॒ तस्मा॒द् दख्‍षि॑णे॒नान्न॑मद्यत॒ ओज॑स्त्रिण॒व इति॑ प॒श्चादि॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति सं॒भर॑णस्त्रयोवि॒ꣳ॒श इत्यु॑ [१४] त्तर॒तस्तस्मा᳚थ् स॒व्यो हस्त॑योः संभा॒र्य॑तरः॒ क्रतु॑रेकत्रि॒ꣳ॒श इति॑ पु॒रस्ता॒दुप॑ दधाति॒ वाग्वै क्रतु॑र् यज्ञमु॒खव्ँवाग्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति ब्र॒द्ध्नस्य॑ वि॒ष्टप॑ञ्चतुस्त्रि॒ꣳ॒श इति॑ दख्‍षिण॒तो॑ऽसौ वा आ॑दि॒त्यो ब्र॒द्ध्नस्य॑ वि॒ष्टप॑म्ब्रह्मवर्च॒समे॒व द॑ख्‍षिण॒तो ध॑त्ते॒ तस्मा॒द् दख्‍षि॒णोऽर्द्धो᳚ ब्रह्मवर्च॒सित॑रः प्रति॒ष्ठा त्र॑यस्त्रि॒ꣳ॒श इति॑ प॒श्चात् प्रति॑ष्ठित्यै॒ नाकः॑ षट्त्रि॒ꣳ॒श इत्यु॑त्तर॒तः सु॑व॒र्गो वै लो॒को नाकः॑ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠ [१५] (वै त्रि॒वृ दिति॑ पु॒रस्ता᳚थ् स॒व्य स्त्र॑योवि॒ꣳ॒श इति॑ सुव॒र्गो वै पञ्च॑ च) ॥३॥
अनुवाक ३ विशेष: (आ॒शुर् व्यो॑म ध॒रुणो॑ भा॒न्तः प्रतू᳚र्तिर भिव॒र्तो वर्च॒ स्तपो॒ योनि॒र् गर्भा॒ ओजः॑ सं॒भर॑णः॒ क्रतु॑र् ब्र॒द्ध्रस्य॑ प्रति॒ष्ठा नाकः॒ षोड॑श)
अ॒ग्नेर् भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खव्ँवा अ॒ग्निर् य॑ज्ञमु॒खन्दी॒ख्‍षा य॑ज्ञमु॒खम्ब्रह्म॑ यज्ञमु॒खन्त्रि॒वृद्य॑ज्ञमु॒खमे॒व पु॒रस्ताद्वि या॑तयति नृ॒चख्‍ष॑साम्भा॒गो॑ऽसीति॑ दख्‍षिण॒तः शु॑श्रु॒वाꣳसो॒ वै नृ॒चख्‍ष॒सोऽन्न॑न्धा॒ता जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ तस्मा᳚ज्जा॒तो ऽन्न॑मत्ति ज॒नित्र॑ꣴ स्पृ॒तꣳ स॑प्तद॒शः स्तोम॒ इत्या॒हाऽन्न॒व्ँवै ज॒नित्र॒ [१६] मन्न॑ꣳ सप्तद॒शोऽन्न॑मे॒व द॑ख्‍षिण॒तो ध॑त्ते॒ तस्मा॒द् दख्‍षि॑णे॒नान्न॑मद्यते मि॒त्रस्य॑ भा॒गो॑ऽसीति॑ प॒श्चात् प्रा॒णो वै मि॒त्रो॑ऽपा॒नो वरु॑णः प्राणापा॒नावे॒वास्मि॑न् दधाति दि॒वो वृ॒ष्टिर् वाताः᳚ स्पृ॒ता ए॑कवि॒ꣳ॒शः स्तोम॒ इत्या॑ह प्रति॒ष्ठा वा ए॑कवि॒ꣳ॒शः प्रति॑ष्ठित्या॒ इन्द्र॑स्य भा॒गो॑ऽसीत्यु॑त्तर॒त ओजो॒ वा इन्द्र॒ ओजो॒ विष्णु॒रोजः॑ ख्‍ष॒त्रमोजः॑ पञ्चद॒श [१७] ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तरतोऽभिप्रया॒यी ज॑यति॒ वसू॑नाम्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खव्ँवै वस॑वो यज्ञमु॒खꣳ रु॒द्रा य॑ज्ञमु॒खञ्च॑तुर्वि॒ꣳ॒शो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तय त्यादि॒त्याना᳚म्भा॒गो॑ऽसीति॑ दख्‍षिण॒तोऽन्न॒व्ँवा आ॑दि॒त्या अन्न॑म्म॒रुतोऽन्न॒ङ्गर्भा॒ अन्न॑म्पञ्चवि॒ꣳ॒शोऽन्न॑मे॒व द॑ख्‍षिण॒तो ध॑त्ते॒ तस्मा॒द् दख्‍षि॑णे॒नान्न॑मद्य॒तेऽदि॑त्यै भा॒गो॑ [१८] ऽसीति॑ प॒श्चात् प्र॑ति॒ष्ठा वा अदि॑तिः प्रति॒ष्ठा पू॒षा प्र॑ति॒ष्ठा त्रि॑ण॒वः प्रति॑ष्ठित्यै दे॒वस्य॑ सवि॒तुर् भा॒गो॑ऽसीत्यु॑त्तर॒तो ब्रह्म॒ वै दे॒वः स॑वि॒ता ब्रह्म॒ बृह॒स्पति॒र् ब्रह्म॑ चतुष्टो॒मो ब्र॑ह्मवर्च॒समे॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॒दुत्त॒रोऽर्द्धो᳚ ब्रह्मवर्च॒सित॑रः सावि॒त्रव॑ती भवति॒ प्रसू᳚त्यै॒ तस्मा᳚द् ब्राह्म॒णाना॒मुदी॑ची स॒निः प्रसू॑ता ध॒र्त्रश्च॑तुष्टो॒म इति॑ पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खव्ँवै ध॒र्त्रो [१९] य॑ज्ञमु॒खञ्च॑तुष्टो॒मो य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति॒ यावा॑नाम्भा॒गो॑ऽसीति॑ दख्‍षिण॒तो मासा॒ वै यावा॑ अर्द्धमा॒सा अया॑वा॒स्तस्मा᳚द्दख्‍षि॒णावृ॑तो॒ मासा॒ अन्न॒व्ँवै यावा॒ अन्न॑म्प्र॒जा अन्न॑मे॒व द॑ख्‍षिण॒तो ध॑त्ते॒ तस्मा॒द् दख्‍षि॑णे॒नान्न॑मद्यत ऋभू॒णाम्भा॒गो॑ऽसीति॑ प॒श्चात् प्रति॑ष्ठित्यै विव॒र्तो᳚ऽष्टाचत्वारि॒ꣳ॒श इत्यु॑त्तर॒तो॑ऽनयो᳚र् लो॒कयोः᳚ सवीर्य॒त्वाय॒ तस्मा॑दि॒मौ लो॒कौ स॒माव॑द्वीर्यौ॒ [२०] यस्य॒ मुख्य॑वतीः पु॒रस्ता॑दुपधी॒यन्ते॒ मुख्य॑ ए॒व भ॑व॒त्याऽस्य॒ मुख्यो॑ जायते॒ यस्यान्न॑वतीर् दख्‍षिण॒तोऽत्त्यन्न॒माऽस्या᳚न्ना॒दो जा॑यते॒ यस्य॑ प्रति॒ष्ठाव॑तीः प॒श्चात् प्रत्ये॒व ति॑ष्ठति॒ यस्यौज॑स्वतीरुत्तर॒त ओ॑ज॒स्व्ये॑व भ॑व॒त्याऽस्यौ॑ज॒स्वी जा॑यते॒ऽर्को वा ए॒ष यद॒ग्निस्तस्यै॒तदे॒व स्तो॒त्रमे॒तच्छ॒स्त्रय्ँयदे॒षा वि॒धा [२१] वि॑धी॒यते॒ऽर्क ए॒व तद॒र्क्य॑मनु॒ वि धी॑य॒तेऽत्त्यन्न॒माऽस्या᳚न्ना॒दो जा॑यते॒ यस्यै॒षा वि॒धा वि॑धी॒यते॒ य उ॑ चैनामे॒वव्ँवेद॒ सृष्टी॒रुप॑ दधाति यथासृ॒ष्टमे॒वाव॑ रुन्धे॒ न वा इ॒दन्दिवा॒ न नक्त॑मासी॒दव्या॑वृत्त॒न्ते दे॒वा ए॒ता व्यु॑ष्टीरपश्य॒न् ता उपा॑दधत॒ ततो॒ वा इ॒दव्ँव्यौ᳚च्छ॒द्यस्यै॒ता उ॑पधी॒यन्ते॒ व्ये॑वास्मा॑ उच्छ॒त्यथो॒ तम॑ ए॒वाप॑ हते⁠ [२२] (वै ज॒नित्रं॑ पञ्चद॒शो ऽदि॑त्यै भा॒गो वै ध॒र्त्रः स॒माव॑द्वीर्यौ वि॒धा ततो॒ वा इ॒दं चतु॑र्दश च) ॥४॥
अनुवाक ४ विशेष: (अ॒ग्नेर् नृ॒चख्‍ष॑साञ्ज॒नित्रं॑ मि॒त्र स्येन्द्र॑स्य॒ वसू॑ना मादि॒त्याना॒ मदि॑त्यै दे॒वस्य॑ सवि॒तुः सा॑वि॒त्रव॑ती ध॒र्त्रो यावा॑नामृभू॒णाव्ँवि॑व॒र्त श्चतु॑र्दश)
अग्ने॑ जा॒तान् प्र णु॑दा नः स॒पत्ना॒निति॑ पु॒रस्ता॒दुप॑ दधाति जा॒ताने॒व भ्रातृ॑व्या॒न् प्र णु॑दते॒ सह॑सा जा॒तानिति॑ प॒श्चाज्ज॑नि॒ष्यमा॑णाने॒व प्रति॑ नुदते चतुश्चत्वारि॒ꣳ॒शः स्तोम॒ इति॑ दख्‍षिण॒तो ब्र॑ह्मवर्च॒सव्ँवै च॑तुश्चत्वारि॒ꣳ॒शो ब्र॑ह्मवर्च॒समे॒व द॑ख्‍षिण॒तो ध॑त्ते॒ तस्मा॒द् दख्‍षि॒णोऽर्द्धो᳚ ब्रह्मवर्च॒सित॑रः षोड॒शः स्तोम॒ इत्यु॑त्तर॒त ओजो॒ वै षो॑ड॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॑ [२३] दुत्तरतोऽभिप्रया॒यी ज॑यति॒ वज्रो॒ वै च॑तुश्चत्वारि॒ꣳ॒शो वज्रः॑ षोड॒शो यदे॒ते इष्ट॑के उप॒दधा॑ति जा॒ताꣴश्चै॒व ज॑नि॒ष्यमा॑णाꣴश्च॒ भ्रातृ॑व्यान् प्र॒णुद्य॒ वज्र॒मनु॒ प्र ह॑रति॒ स्तृत्यै॒ पुरी॑षवती॒म्मद्ध्य॒ उप॑ दधाति॒ पुरी॑ष॒व्ँवै मद्ध्य॑मा॒त्मनः॒ सात्मा॑नमे॒वाग्निञ्चि॑नुते॒ सात्मा॒ऽमुष्मि॑ल्ँलो॒के भ॑वति॒ य ए॒वव्ँवेदै॒ता वा अ॑सप॒त्ना नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्ते॒ [२४] नास्य॑ स॒पत्नो॑ भवति प॒शुर् वा ए॒ष यद॒ग्निर् वि॒राज॑ उत्त॒माया॒ञ्चित्या॒मुप॑ दधाति वि॒राज॑मे॒वोत्त॒मां प॒शुषु॑ दधाति॒ तस्मा᳚त् पशु॒मानु॑त्त॒माव्ँवाच॑व्ँवदति॒ दश॑द॒शोप॑ दधाति सवीर्य॒त्वाया᳚ऽख्‍ष्ण॒योप॑ दधाति॒ तस्मा॑दख्‍ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यानि॒ वै छन्दा॑ꣳसि सुव॒र्ग्या᳚ण्यास॒न् तैर् दे॒वाः सु॑व॒र्गल्ँलो॒कमा॑य॒न् तेनर्ष॑यो [२५] ऽश्राम्य॒न् ते तपो॑ऽतप्यन्त॒ तानि॒ तप॑साऽपश्य॒न् तेभ्य॑ ए॒ता इष्ट॑का॒ निर॑मिम॒तेव॒ श्छन्दो॒ वरि॑व॒श्छन्द॒ इति॒ ता उपा॑दधत॒ ताभि॒र् वै ते सु॑व॒र्गल्ँलो॒कमा॑य॒न्॒‌यदे॒ता इष्ट॑का उप॒दधा॑ति॒ यान्ये॒व छन्दा॑ꣳसि सुव॒र्ग्या॑णि॒ तैरे॒व यज॑मानः सुव॒र्गल्ँलो॒कमे॑ति य॒ज्ञेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः स्तोम॑भागैरे॒वासृ॑जत॒ यथ् [२६] स्तोम॑भागा उप॒दधा॑ति प्र॒जा ए॒व तद्यज॑मानः सृजते॒ बृह॒स्पति॒र् वा ए॒तद्य॒ज्ञस्य॒ तेजः॒ सम॑भर॒द्यथ् स्तोम॑भागा॒ यथ् स्तोम॑भागा उप॒दधा॑ति॒ सते॑जसमे॒वाग्निञ्चि॑नुते॒ बृह॒स्पति॒र् वा ए॒ताय्ँय॒ज्ञस्य॑ प्रति॒ष्ठाम॑पश्य॒द्यथ् स्तोम॑भागा॒ यथ् स्तोम॑भागा उप॒दधा॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै स॒प्तस॒प्तोप॑ दधाति सवीर्य॒त्वाय॑ ति॒स्रो मद्ध्ये॒ प्रति॑ष्ठित्यै⁠ [२७] (उ॒त्त॒र॒तो ध॑त्ते॒ तस्मा॑ दुपधी॒यन्त॒ ऋष॑यो ऽसृजत॒ यत् त्रिच॑त्वारिꣳशच्च) ॥५॥
र॒श्मिरित्ये॒वाऽऽदि॒त्यम॑सृजत॒ प्रेति॒रिति॒ धर्म॒मन्वि॑ति॒रिति॒ दिव॑ꣳ स॒न्धिरित्य॒न्तरि॑ख्‍षम्प्रति॒धिरिति॑ पृथि॒वीव्ँवि॑ष्टं॒भ इति॒ वृष्टि॑म्प्र॒वेत्यह॑रनु॒वेति॒ रात्रि॑मु॒शिगिति॒ वसू᳚न् प्रके॒त इति॑ रु॒द्रान्थ् सु॑दी॒तिरित्या॑दि॒त्यानोज॒ इति॑ पि॒तृꣴस्तन्तु॒रिति॑ प्र॒जाः पृ॑तना॒षाडिति॑ प॒शून् रे॒वदित्योष॑धीरभि॒जिद॑सि यु॒क्तग्रा॒वे [२८] न्द्रा॑य॒ त्वेन्द्र॑ञ्जि॒न्वेत्ये॒व द॑ख्‍षिण॒तो वज्र॒म्पर्यौ॑हद॒भिजि॑त्यै॒ ताः प्र॒जा अप॑प्राणा असृजत॒ तास्वधि॑पतिर॒सीत्ये॒व प्रा॒णम॑दधाद्य॒न्तेत्य॑पा॒नꣳ स॒ꣳ॒सर्प॒ इति॒ चख्‍षु॑र् वयो॒धा इति॒ श्रोत्र॒न्ताः प्र॒जाः प्रा॑ण॒तीर॑पान॒तीः पश्य॑न्तीः शृण्व॒तीर् न मि॑थु॒नी अ॑भव॒न् तासु॑ त्रि॒वृद॒सीत्ये॒व मि॑थु॒नम॑दधा॒त् ताः प्र॒जा मि॑थु॒नी [२९] भव॑न्ती॒र् न प्राजा॑यन्त॒ ताः स॑ꣳरो॒हो॑ऽसि नीरो॒हो॑ऽसीत्ये॒व प्राज॑नय॒त् ताः प्र॒जाः प्रजा॑ता॒ न प्रत्य॑तिष्ठ॒न् ता व॑सु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्ये॒वैषु लो॒केषु॒ प्रत्य॑स्थापय॒द् यदाह॑ वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीति॑ प्र॒जा ए॒व प्रजा॑ता ए॒षु लो॒केषु॒ प्रति॑ ष्ठापयति॒ सात्मा॒ऽन्तरि॑ख्‍षꣳ रोहति॒ सप्रा॑णो॒ऽमुष्मि॑ल्ँलो॒के प्रति॑ तिष्ठ॒त्यव्य॑र्द्धुकः प्राणापा॒नाभ्या᳚म्भवति॒ य ए॒वव्ँवेद॑⁠ [३०] (यु॒क्तग्रा॑वाप्र॒जा मि॑थु॒न्य॑न्तरि॑ख्‍षं॒द्वाद॑श च) ॥६॥
ना॒क॒सद्भि॒र् वै दे॒वाः सु॑व॒र्गल्ँलो॒कमा॑य॒न् तन्ना॑क॒सदा᳚न्नाकस॒त्त्वय्ँयन्ना॑क॒सद॑ उप॒दधा॑ति नाक॒सद्भि॑रे॒व तद्यज॑मानः सुव॒र्गल्ँलो॒कमे॑ति सुव॒र्गो वै लो॒को नाको॒ यस्यै॒ता उ॑पधी॒यन्ते॒ नास्मा॒ अक॑म्भवति यजमानायत॒नव्ँवै ना॑क॒सदो॒ यन्ना॑क॒सद॑ उप॒दधा᳚त्या॒यत॑नमे॒व तद्यज॑मानः कुरुते पृ॒ष्ठाना॒व्ँवा ए॒तत् तेजः॒ संभृ॑त॒य्ँयन्ना॑क॒सदो॒ यन्ना॑क॒सद॑ [३१] उप॒दधा॑ति पृ॒ष्ठाना॑मे॒व तेजोऽव॑ रुन्धे पञ्च॒चोडा॒ उप॑ दधात्यफ्स॒रस॑ ए॒वैन॑मे॒ता भू॒ता अ॒मुष्मि॑ल्ँलो॒क उप॑ शे॒रेऽथो॑ तनू॒पानी॑रे॒वैता यज॑मानस्य॒ यन्द्वि॒ष्यात् तमु॑प॒दध॑द्ध्यायेदे॒ताभ्य॑ ए॒वैन॑न्दे॒वता᳚भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्युत्त॑रा नाक॒सद्भ्य॒ उप॑ दधाति॒ यथा॑ जा॒यामा॒नीय॑ गृ॒हेषु॑ निषा॒दय॑ति ता॒दृगे॒व तत् [३२] प॒श्चात् प्राची॑मुत्त॒मामुप॑ दधाति॒ तस्मा᳚त् प॒श्चात् प्राची॒ पत्न्यन्वा᳚स्ते स्वयमातृ॒ण्णाञ्च॑ विक॒र्णीञ्चो᳚त्त॒मे उप॑ दधाति प्रा॒णो वै स्व॑यमातृ॒ण्णाऽऽयु॑र् विक॒र्णी प्रा॒णञ्चै॒वाऽऽयु॑श्च प्रा॒णाना॑मुत्त॒मौ ध॑त्ते॒ तस्मा᳚त् प्रा॒णश्चाऽऽयु॑श्च प्रा॒णाना॑मुत्त॒मौ नान्यामुत्त॑रा॒मिष्ट॑का॒मुप॑ दद्ध्या॒द्यद॒न्यामुत्त॑रा॒मिष्ट॑कामुपद॒द्ध्यात् प॑शू॒नां [३३] च॒ यज॑मानस्य च प्रा॒णञ्चाऽऽयु॒श्चापि॑ दद्ध्या॒त् तस्मा॒न्ना न्योत्त॒रेष्ट॑कोप॒धेया᳚ स्वयमातृ॒ण्णामुप॑ दधात्य॒सौ वै स्व॑यमातृ॒ण्णाऽमूमे॒वोप॑ ध॒त्तेऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्या᳚न्दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निञ्चि॑नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या ए॒षा वै दे॒वाना॒व्ँविक्रा᳚न्ति॒र् यद्वि॑क॒र्णी यद्वि॑क॒र्णीमु॑प॒दधा॑ति दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ वि क्र॑मत उत्तर॒त उप॑ दधाति॒ तस्मा॑दुत्तर॒तौ॑पचारो॒ऽग्निर् वा॑यु॒मती॑ भवति॒ समि॑द्ध्यै⁠ [३४] (संभृ॑त॒य्ँयन्ना॑क॒सदो॒ यन्ना॑क॒सद॒ स्तत् प॑शू॒ना मे॒षा वै द्वावि॑ꣳशतिश्च) ॥७॥
छन्दा॒ꣴ॒स्युप॑ दधाति प॒शवो॒ वै छन्दा॑ꣳसि प॒शूने॒वाव॑ रुन्धे॒ छन्दा॑ꣳसि॒ वै दे॒वाना᳚व्ँवा॒मम्प॒शवो॑ वा॒ममे॒व प॒शूनव॑ रुन्ध ए॒ताꣳ ह॒ वै य॒ज्ञसे॑नश्चैत्रियाय॒णश्चिति॑व्ँवि॒दाञ्च॑कार॒ तया॒ वै स प॒शूनवा॑रुन्ध॒ यदे॒तामु॑प॒दधा॑ति प॒शूने॒वाव॑ रुन्धे गाय॒त्रीः पु॒रस्ता॒दुप॑ दधाति॒ तेजो॒ वै गा॑य॒त्री तेज॑ ए॒व [३५] मु॑ख॒तो ध॑त्ते मूर्द्ध॒न्वती᳚र् भवन्ति मू॒र्द्धान॑मे॒वैन॑ꣳ समा॒नाना᳚ङ्करोति त्रि॒ष्टुभ॒ उप॑ दधातीन्द्रि॒यव्ँवै त्रि॒ष्टुगि॑न्द्रि॒यमे॒व म॑द्ध्य॒तो ध॑त्ते॒ जग॑ती॒रुप॑ दधाति॒ जाग॑ता॒ वै प॒शवः॑ प॒शूने॒वाव॑ रुन्धेऽनु॒ष्टुभ॒ उप॑ दधाति प्रा॒णा वा अ॑नु॒ष्टुप् प्रा॒णाना॒मुथ्सृ॑ष्ट्यै बृह॒तीरु॒ष्णिहाः᳚ प॒ङ्क्तीर॒ख्‍षर॑पङ्क्ती॒रिति॒ विषु॑रूपाणि॒ छन्दा॒ꣴ॒स्युप॑ दधाति॒ विषु॑रूपा॒ वै प॒शवः॑ प॒शवः॒ [३६] छन्दा॑ꣳसि॒ विषु॑रूपाने॒व प॒शूनव॑ रुन्धे॒ विषु॑रूपमस्य गृ॒हे दृ॑श्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँवेदाति॑च्छन्दस॒मुप॑ दधा॒त्यति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दा॑ꣳसि॒ सर्वे॑भिरे॒वैनं॒ छन्दो॑भिश्चिनुते॒ वर्ष्म॒ वा ए॒षा छन्द॑सा॒य्ँयदति॑च्छन्दा॒ यदति॑च्छन्दसमुप॒दधा॑ति॒ वर्ष्मै॒वैन॑ꣳ समा॒नाना᳚ङ्करोति द्वि॒पदा॒ उप॑ दधाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै⁠ [३७] (तेज॑ ए॒वप॒शवः॑ प॒शवो॒ यज॑मान॒ एक॑ञ्च) ॥८॥
सर्वा᳚भ्यो॒ वै दे॒वता᳚भ्यो॒ऽग्निश्ची॑यते॒ यथ् स॒युजो॒ नोप॑द॒द्ध्याद् दे॒वता॑ अस्या॒ग्निव्ँवृ॑ञ्जीर॒न्॒‌यथ् स॒युज॑ उप॒दधा᳚त्या॒त्मनै॒वैन॑ꣳ स॒युज॑ञ्चिनुते॒ नाग्निना॒ व्यृ॑द्ध्य॒तेऽथो॒ यथा॒ पुरु॑षः॒ स्नाव॑भिः॒ सन्त॑त ए॒वमे॒वैताभि॑र॒ग्निः सन्त॑तो॒ऽग्निना॒ वै दे॒वाः सु॑व॒र्गल्ँलो॒कमा॑य॒न् ता अ॒मूः कृत्ति॑का अभव॒न्॒‌यस्यै॒ता उ॑पधी॒यन्ते॑ सुव॒र्गमे॒व [३८] लो॒कमे॑ति॒ गच्छ॑ति प्रका॒शञ्चि॒त्रमे॒व भ॑वति मण्डलेष्ट॒का उप॑ दधाती॒मे वै लो॒का म॑ण्डलेष्ट॒का इ॒मे खलु॒ वै लो॒का दे॑वपु॒रा दे॑वपु॒रा ए॒व प्र वि॑शति॒ नाऽऽर्ति॒मार्च्छ॑त्य॒ग्निञ्चि॑क्या॒नो वि॒श्वज्यो॑तिष॒ उप॑ दधाती॒माने॒वैताभि॑र्लो॒कान् ज्योति॑ष्मतः कुरु॒तेऽथो᳚ प्रा॒णाने॒वैता यज॑मानस्य दाध्रत्ये॒ता वै दे॒वताः᳚ सुव॒र्ग्या᳚स्ता ए॒वा न्वा॒रभ्य॑ सुव॒र्गल्ँलो॒कमे॑ति⁠ [३९] (सु॒व॒र्गमे॒व ता ए॒व च॒त्वारि॑ च) ॥९॥
वृ॒ष्टि॒सनी॒रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुन्धे॒ यदे॑क॒धोप॑द॒द्ध्यादेक॑मृ॒तुव्ँव॑र्‌षेदनुपरि॒हार॑ꣳ सादयति॒ तस्मा॒थ् सर्वा॑नृ॒तून्‌व॑र्‌षति पुरोवात॒सनि॑र॒सीत्या॑है॒तद् व वृष्ट्यै॑ रू॒पꣳ रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे स॒य्ँयानी॑भि॒र् वै दे॒वा इ॒माल्ँलो॒कान्थ् सम॑यु॒स्तथ् स॒य्ँयानी॑नाꣳ सय्ँयानि॒त्वय्ँयथ् स॒य्ँयानी॑रुप॒दधा॑ति॒ यथा॒ऽफ्सु ना॒वा स॒य्ँयात्ये॒व [४०] मे॒वैताभि॒र् यज॑मान इ॒माल्ँलो॒कान्थ् सय्ँया॑ति प्ल॒वो वा ए॒षो᳚ऽग्नेर् यथ् स॒य्ँयानी॒र् यथ् स॒य्ँयानी॑रुप॒दधा॑ति प्ल॒वमे॒वैतम॒ग्नय॒ उप॑ दधात्यु॒त यस्यै॒तासूप॑हिता॒स्वापो॒ऽग्निꣳ हर॒न्त्यहृ॑त ए॒वास्या॒ग्निरा॑दित्येष्ट॒का उप॑ दधात्यादि॒त्या वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ योऽल॒म्भूत्यै॒ सन् भूति॒न्न प्रा॒प्नोत्या॑दि॒त्या [४१] ए॒वैन॒म्भूति॑ङ्गमयन्त्य॒सौ वा ए॒तस्या॑ऽऽदि॒त्यो रुच॒मा द॑त्ते॒ यो᳚ऽग्निञ्चि॒त्वा न रोच॑ते॒ यदा॑दित्येष्ट॒का उ॑प॒दधा᳚त्य॒सावे॒वास्मि॑न्नादि॒त्यो रुच॑न्दधाति॒ यथा॒ऽसौ दे॒वाना॒ꣳ॒ रोच॑त ए॒वमे॒वैष म॑नु॒ष्या॑णाꣳ रोचते घृतेष्ट॒का उप॑ दधात्ये॒तद्वा अ॒ग्नेः प्रि॒यन्धाम॒ यद्घृ॒तम्प्रि॒येणै॒वैन॒न्धाम्ना॒ सम॑र्द्धय॒त्य [४२] थो॒ तेज॑साऽनुपरि॒हार॑ꣳ सादय॒त्यप॑रिवर्गमे॒वास्मि॒न् तेजो॑ दधाति प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स यश॑सा॒ व्या᳚र्द्ध्यत॒ स ए॒ता य॑शो॒दा अ॑पश्य॒त् ता उपा॑धत्त॒ ताभि॒र् वै स यश॑ आ॒त्मन्न॑धत्त॒ यद्य॑शो॒दा उ॑प॒दधा॑ति॒ यश॑ ए॒व ताभि॒र् यज॑मान आ॒त्मन् ध॑त्ते॒ पञ्चोप॑ दधाति॒ पाङ्क्तः॒ पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मि॒न्॒‌यशो॑ दधाति⁠ [४३] (ए॒वंप्रा॒प्नोत्या॑दि॒त्याअ॑र्द्धय॒त्येका॒न्न प॑ञ्चा॒शच्च॑) ॥१०॥
दे॒वा॒सु॒राः सय्ँय॑त्ता आस॒न् कनी॑याꣳसो दे॒वा आस॒न् भूया॒ꣳ॒सोऽसु॑रा॒स्ते दे॒वा ए॒ता इष्ट॑का अपश्य॒न् ता उपा॑दधत भूय॒स्कृद॒सीत्ये॒व भूया॑ꣳसोऽभव॒न् वन॒स्पति॑भि॒रोष॑धीभिर् वरिव॒स्कृद॒सीती॒माम॑जय॒न् प्राच्य॒सीति॒ प्राची॒न्दिश॑मजयन्नू॒र्द्ध्वाऽसीत्य॒मूम॑जयन्नन्तरिख्‍ष॒सद॑स्य॒न्तरि॑ख्‍षे सी॒देत्य॒न्तरि॑ख्‍षमजय॒न् ततो॑ दे॒वा अभ॑व॒न् [४४] पराऽसु॑रा॒ यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑ने॒व भ॑वत्य॒भीमाल्ँलो॒कान् ज॑यति॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्यफ्सु॒षद॑सि श्येन॒सद॒सीत्या॑है॒तद्वा अ॒ग्ने रू॒पꣳ रू॒पेणै॒वाग्निमव॑ रुन्धे पृथि॒व्यास्त्वा॒ द्रवि॑णे सादया॒मीत्या॑हे॒माने॒वैताभि॑र् लो॒कान् द्रवि॑णावतः कुरुत आयु॒ष्या॑ उप॑ दधा॒त्यायु॑रे॒वा [४५] स्मि॑न् दधा॒त्यग्ने॒ यत् ते॒ पर॒ꣳ॒ हृन्नामेत्या॑है॒तद् वा अ॒ग्नेः प्रि॒यन्धाम॑ प्रि॒यमे॒वास्य॒ धामोपा᳚ऽऽप्नोति॒ तावेहि॒ सꣳ र॑भावहा॒ इत्या॑ह॒ व्ये॑वैने॑न॒ परि॑ धत्ते॒ पाञ्च॑जन्ये॒ष्वप्ये᳚द्ध्यग्न॒ इत्या॑है॒ष वा अ॒ग्निः पाञ्च॑जन्यो॒ यः पञ्च॑चितीक॒स्तस्मा॑दे॒वमा॑हर्त॒व्या॑ उप॑ दधात्ये॒तद् वा ऋ॑तू॒नाम्प्रि॒यन्धाम॒ यदृ॑त॒व्या॑ ऋतू॒नामे॒व प्रि॒यन्धामाव॑ रुन्धे सु॒मेक॒ इत्या॑ह सव्ँवथ्स॒रो वै सु॒मेकः॑ सव्ँवथ्स॒रस्यै॒व प्रि॒यन्धामोपा᳚ऽऽप्नोति⁠ [४६] (अभ॑व॒न्नायु॑रे॒वर्त॒व्या॑ उप॒षड्वि॑ꣳशतिश्च) ॥११॥
प्र॒जाप॑ते॒रख्‍ष्य॑श्वय॒त् तत् परा॑ऽपत॒त् तदश्वो॑ऽभव॒द्यदश्व॑य॒त् तदश्व॑स्याश्व॒त्वन्तद्दे॒वा अ॑श्वमे॒धेनै॒व प्रत्य॑दधुरे॒ष वै प्र॒जाप॑ति॒ꣳ॒ सर्व॑ङ्करोति॒ यो᳚ऽश्वमे॒धेन॒ यज॑ते॒ सर्व॑ ए॒व भ॑वति॒ सर्व॑स्य॒ वा ए॒षा प्राय॑श्चित्तिः॒ सर्व॑स्य भेष॒जꣳ सर्व॒व्ँवा ए॒तेन॑ पा॒प्मान॑न्दे॒वा अ॑तर॒न्नपि॒ वा ए॒तेन॑ ब्रह्मह॒त्याम॑तर॒न्थ् सर्व॑म्पा॒प्मानं॑ [४७] तरति॒ तर॑ति ब्रह्मह॒त्याय्ँयो᳚ऽश्वमे॒धेन॒ यज॑ते॒ य उ॑ चैनमे॒वव्ँवेदोत्त॑र॒व्ँवै तत् प्र॒जाप॑ते॒रख्‍ष्य॑श्वय॒त् तस्मा॒दश्व॑स्योत्तर॒तोऽव॑ द्यन्ति दख्‍षिण॒तो᳚ऽन्येषा᳚म्पशू॒नाव्ँवै॑त॒सः कटो॑ भवत्य॒फ्सुयो॑नि॒र् वा अश्वो᳚ऽफ्सु॒जो वे॑त॒सः स्व ए॒वैन॒य्ँयोनौ॒ प्रति॑ ष्ठापयति चतुष्टो॒मः स्तोमो॑ भवति स॒रड्ढ॒ वा अश्व॑स्य॒ सक्थ्याऽवृ॑ह॒त् तद्दे॒वाश्च॑तुष्टो॒मेनै॒व प्रत्य॑दधु॒र् यच्च॑तुष्टो॒मः स्तोमो॒ भव॒त्यश्व॑स्य सर्व॒त्वाय॑⁠ [४८] (सर्व॑म्पा॒प्मान॑ मवृह॒द् द्वाद॑श च) ॥१२॥
(उ॒थ्स॒न्न॒य॒ज्ञ इन्द्रा᳚ग्नी दे॒वा वा अ॑ख्‍ष्णयास्तो॒मीया॑ अ॒ग्नेर्भा॒गो᳚ ऽस्यग्ने॑ जा॒तान् र॒श्मिरिति॑ नाक॒सद्भिः॒ छन्दा॑ꣳसि॒ सर्वा᳚भ्यो वृष्टि॒सनी᳚र् देवासु॒राः कनी॑याꣳसः प्र॒जाप॑ते॒रख्‍षि॒ द्वाद॑श)
(उ॒थ्स॒न्न॒य॒ज्ञो दे॒वा वै यस्य॒ मुख्य॑वतीर्नाक॒सद्भि॑रे॒ वै ताभि॑र॒ ष्टाच॑त्वारिꣳशत्)
(उ॒थ्स॒न्न॒य॒ज्ञः स॑र्व॒त्वाय॑)
अनुवाकाः पञ्चशती
१२ ४८