कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
षष्ठकाण्डे द्वितीयः प्रश्नः

कांड ६ प्रश्न २
सोममन्त्रब्राह्मणनिरूपणं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
यदु॒भौ वि॒मुच्या॑ऽऽति॒थ्यङ्गृ॑ह्णी॒याद्य॒ज्ञव्ँविच्छि॑न्द्या॒द्यदु॒भाववि॑मुच्य॒ यथाऽना॑गतायाऽऽति॒थ्यङ्क्रि॒यते॑ ता॒दृगे॒व तद्विमु॑क्तो॒ऽन्यो॑ऽन॒ड्वान् भव॒त्यवि॑मुक्तो॒ऽन्योऽथा॑ऽऽति॒थ्यङ्गृ॑ह्णाति य॒ज्ञस्य॒ सन्त॑त्यै॒ पत्न्य॒न्वार॑भते॒ पत्नी॒ हि पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒वानु॑मत॒न्निर् व॑पति॒ यद्वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नन्तदथो॒ पत्नि॑या ए॒वै [१] ष य॒ज्ञस्या᳚न्वारं॒भोऽन॑वच्छित्त्यै॒ याव॑द्भि॒र् वै राजा॑ऽनुच॒रैरा॒गच्छ॑ति॒ सर्वे᳚भ्यो॒ वै तेभ्य॑ आति॒थ्यङ्क्रि॑यते॒ छन्दा॑ꣳसि॒ खलु॒ वै सोम॑स्य॒ राज्ञो॑ऽनुच॒राण्य॒ग्नेरा॑ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ सोम॑स्याऽऽति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह त्रि॒ष्टुभ॑ ए॒वैतेन॑ करो॒त्यति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह॒ जग॑त्या [२] ए॒वैतेन॑ करोत्य॒ग्नये᳚ त्वा रायस्पोष॒दाव्‌न्ने॒ विष्ण॑वे॒ त्वेत्या॑हानु॒ष्टुभ॑ ए॒वैतेन॑ करोति श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा᳚ख्‍षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्धे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ् स॒त्याद्गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒ इति॒ यदे॒वादः सोम॒मा [३] ऽह॑र॒त् तस्मा᳚द्गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ कियते पु॒रस्ता᳚च्चो॒परि॑ष्टाच्च॒ शिरो॒ वा ए॒तद् य॒ज्ञस्य॒ यदा॑ति॒थ्यन्नव॑कपालः पुरो॒डाशो॑ भवति॒ तस्मा᳚न्नव॒धा शिरो॒ विष्यू॑त॒न्नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑ता॒स्तेज॑स्त्रि॒वृत् तेज॑ ए॒व य॒ज्ञस्य॑ शी॒र्॒‌षन् द॑धाति॒ नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता᳚ प्रा॒णेन॒ सम्मि॑तास्त्रि॒वृद्वै [४] प्रा॒णस्त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वय्ँय॒ज्ञस्य॑ शी॒र्॒‌षन् द॑धाति प्र॒जाप॑ते॒र् वा ए॒तानि॒ पख्‍ष्मा॑णि॒ यद॑श्ववा॒ला ऐ᳚ख्‍ष॒वी ति॒रश्ची॒ यदाश्व॑वालः प्रस्त॒रो भव॑त्यैख्‍ष॒वी ति॒रश्ची᳚ प्र॒जाप॑तेरे॒व तच्चख्‍षुः॒ सम्भ॑रति दे॒वा वै या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न् ते दे॒वाः का᳚र्ष्म॒र्य॑मपश्यन् कर्म॒ण्यो॑ वै कर्मै॑नेन कुर्वी॒तेति॒ ते का᳚र्ष्मर्य॒मया᳚न् परि॒धीन॑ [५] कुर्वत॒ तैर् वै ते रख्‍षा॒ꣴ॒स्यपा᳚घ्नत॒ यत् का᳚र्ष्मर्य॒मयाः᳚ परि॒धयो॒ भव॑न्ति॒ रख्‍ष॑सा॒मप॑हत्यै॒ सꣴ स्प॑र्‌शयति॒ रख्‍ष॑सा॒मन॑न्ववचाराय॒ न पु॒रस्ता॒त् परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन् पु॒रस्ता॒द् रख्‍षा॑ꣴस्यप॒हन्त्यू॒र्द्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रख्‍षा॒ꣴ॒स्यप॑ हन्ति॒ यजु॑षा॒ऽन्यां तू॒ष्णीम॒न्याम्मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्त्य॒ [६] ग्निश्च॒ वा ए॒तौ सोम॑श्च क॒था सोमा॑याऽऽति॒थ्यङ्क्रि॒यते॒ नाग्नय॒ इति॒ यद॒ग्नाव॒ग्निम्म॑थि॒त्वा प्र॒हर॑ति॒ तेनै॒वाग्नय॑ आति॒थ्यङ्क्रि॑य॒तेऽथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ यद्ध॒विरा॒साद्या॒ग्निम्मन्थ॑ति ह॒व्यायै॒वाऽऽ*स॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति⁠ [७] (पत्नि॑या ए॒व जग॑त्या॒ आ॒ त्रि॒वृद्वै प॑रि॒धीन् व॑द॒न्त्ये क॑चत्वारिꣳशच्च) ॥१॥
दे॒वा॒सु॒राः सय्ँय॑त्ता आस॒न् ते दे॒वा मि॒थो विप्रि॑या आस॒न् ते᳚ऽ(१॒)न्यो᳚ऽन्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाः पञ्च॒धा व्य॑क्रामन्न॒ग्निर् वसु॑भिः॒ सोमो॑ रु॒द्रैरिन्द्रो॑ म॒रुद्भि॒र् वरु॑ण आदि॒त्यैर् बृह॒स्पति॒र् विश्वै᳚र् दे॒वैस्ते॑ऽमन्य॒न्तासु॑रेभ्यो॒ वा इ॒दम्भ्रातृ॑व्येभ्यो रद्ध्यामो॒ यन्मि॒थो विप्रि॑याः॒ स्मो या न॑ इ॒माः प्रि॒यास्त॒नुव॒स्ताः स॒मव॑द्यामहै॒ ताभ्यः॒ स निर्‌ऋ॑च्छा॒द् यो [८] नः॑ प्रथ॒मो᳚(१॒)ऽन्यो᳚ऽन्यस्मै॒ द्रुह्या॒दिति॒ तस्मा॒द्यः सता॑नूनप्त्रिणाम्प्रथ॒मो द्रुह्य॑ति॒ स आर्ति॒मार्च्छ॑ति॒ यत् ता॑नून॒प्त्रꣳ स॑मव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति॒ पञ्च॒ कृत्वो ऽव॑ द्यति पञ्च॒धा हि ते तथ् स॑म॒वाद्य॒न्ताथो॒ पञ्चा᳚ख्‍षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्ध॒ आप॑तये त्वा गृह्णा॒मीत्या॑ह प्रा॒णो वा [९] आप॑तिः प्रा॒णमे॒व प्री॑णाति॒ परि॑पतय॒ इत्या॑ह॒ मनो॒ वै परि॑पति॒र् मन॑ ए॒व प्री॑णाति॒ तनू॒नप्त्र॒ इत्या॑ह त॒नुवो॒ हि ते ताः स॑म॒वाद्य॑न्त शाक्व॒रायेत्या॑ह॒ शक्त्यै॒ हि ते ताः स॑म॒वाद्य॑न्त॒ शक्म॒न्नोजि॑ष्ठा॒येत्या॒हौजि॑ष्ठ॒ꣳ॒ हि ते तदा॒त्मनः॑ सम॒वाद्य॒न्ताना॑धृष्टमस्यनाधृ॒ष्यमित्या॒हाना॑धृष्ट॒ꣴ॒ ह्ये॑तद॑नाधृ॒ष्यन्दे॒वाना॒मोज॒ [१०] इत्या॑ह दे॒वाना॒ꣴ॒ ह्ये॑तदोजो॑ऽभिशस्ति॒पा अ॑नभिशस्ते॒न्यमित्या॑हाभिशस्ति॒पा ह्ये॑तद॑नभिशस्ते॒न्यमनु॑ मे दी॒ख्‍षान्दी॒ख्‍षाप॑तिर् मन्यता॒मित्या॑ह यथाय॒जुरे॒वैतद्घृ॒तव्ँवै दे॒वा वज्र॑ङ्कृ॒त्वा सोम॑मघ्नन्नन्ति॒कमि॑व॒ खलु॒ वा अ॑स्यै॒तच्च॑रन्ति॒ यत् ता॑नून॒प्त्रेण॑ प्र॒चर॑न्त्य॒ꣳ॒शुर॑ꣳशुस्ते देव सो॒माऽऽप्या॑यता॒मित्या॑ह॒ य [११] दे॒वास्या॑पुवा॒यते॒ यन्मीय॑ते॒तदे॒वास्यै॒तेनाऽऽप्या॑यय॒त्या तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वेत्या॑हो॒भावे॒वेन्द्र॑ञ्च॒ सोम॒ञ्चाऽऽप्या॑यय॒त्या प्या॑यय॒ सखी᳚न्थ् स॒न्या मे॒धयेत्या॑ह॒र्त्विजो॒ वा अ॑स्य॒ सखा॑य॒स्ताने॒वाऽऽप्या॑ययति स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शी॒ये [१२] त्या॑हा॒ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ प्र वा ए॒ते᳚ऽस्माल्लो॒काच्च्य॑वन्ते॒ ये सोम॑माप्या॒यय॑न्त्यन्तरिख्‍षदेव॒त्यो॑ हि सोम॒ आप्या॑यित॒ एष्टा॒ रायः॒ प्रेषे भगा॒येत्या॑ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व न॑म॒स्कृत्या॒स्मिल्ँलो॒के प्रति॑ तिष्ठन्ति देवासु॒राः सय्ँय॑त्ता आस॒न् ते दे॒वा बिभ्य॑तो॒ऽग्निम्प्रावि॑श॒न् तस्मा॑दाहुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ ते᳚ [१३] ऽग्निमे॒व वरू॑थङ्कृ॒त्वाऽसु॑रान॒भ्य॑भवन्न॒ग्निमि॑व॒ खलु॒ वा ए॒ष प्र वि॑शति॒ यो॑ऽवान्तरदी॒ख्‍षामु॒पैति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्या॒त्मान॑मे॒व दी॒ख्‍षया॑ पाति प्र॒जाम॑वान्तरदी॒ख्‍षया॑ सन्त॒राम्मेख॑लाꣳ स॒माय॑च्छते प्र॒जा ह्या᳚त्मनोऽन्त॑रतरा त॒प्तव्र॑तो भवति॒ मद॑न्तीभिर् मार्जयते॒ निर् ह्य॑ग्निः शी॒तेन॒ वाय॑ति॒ समि॑द्ध्यै॒ या ते॑ अग्ने॒ रुद्रि॑या त॒नूरित्या॑ह॒ स्वयै॒वैन॑द् दे॒वत॑या व्रतयति सयोनि॒त्वाय॒ शान्त्यै᳚⁠ [१४] (यो वा ओज॑ आह॒ य द॑शी॒ये ति॒ ते᳚ ऽग्न॒ एका॑दश च) ॥२॥
तेषा॒मसु॑राणान्ति॒स्रः पुर॑ आसन्नय॒स्मय्य॑व॒माऽथ॑ रज॒ताऽथ॒ हरि॑णी॒ ता दे॒वा जेतु॒न्नाश॑क्नुव॒न् ता उ॑प॒सदै॒वाजि॑गीष॒न् तस्मा॑दाहु॒र् यश्चै॒वव्ँवेद॒ यश्च॒ नोप॒सदा॒ वै म॑हापु॒रञ्ज॑य॒न्तीति॒ त इषु॒ꣳ॒ सम॑स्कुर्वता॒ग्निमनी॑क॒ꣳ॒ सोम॑ꣳ श॒ल्यव्ँविष्णु॒न्तेज॑न॒न्ते᳚ऽब्रुव॒न् क इ॒माम॑सिष्य॒तीति॑ [१५] रु॒द्र इत्य॑ब्रुवन् रु॒द्रो वै क्रू॒रः सो᳚ऽस्य॒त्विति॒ सो᳚ऽब्रवी॒द् वर॑व्ँवृणा अ॒हमे॒व प॑शू॒ना मधि॑पतिरसा॒नीति॒ तस्मा᳚द् रु॒द्रः प॑शू॒नामधि॑पति॒स्ताꣳ रु॒द्रोऽवा॑सृज॒थ् स ति॒स्रः पुरो॑ भि॒त्त्वैभ्यो लो॒केभ्योऽसु॑रा॒न् प्राणु॑दत॒ यदु॑प॒सद॑ उपस॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्यै॒ नान्यामाहु॑तिम्पु॒रस्ता᳚ज्जुहुया॒द्यद॒न्यामाहु॑तिम्पु॒रस्ता᳚ज्जुहु॒या [१६] द॒न्यन्मुख॑ङ्कुर्याथ् स्रु॒वेणा॑ऽऽघा॒रमा घा॑रयति य॒ज्ञस्य॒ प्रज्ञा᳚त्यै॒ परा॑ङति॒क्रम्य॑ जुहोति॒ परा॑च ए॒वैभ्यो लो॒केभ्यो॒ यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते॒ पुन॑रत्या॒क्रम्यो॑प॒सद॑ञ्जुहोति प्र॒णुद्यै॒वैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्याञ्जि॒त्वा भ्रा॑तृव्यलो॒कम॒भ्यारो॑हति दे॒वा वै याः प्रा॒तरु॑प॒सद॑ उ॒पासी॑द॒न्नह्न॒स्ताभि॒रसु॑रा॒न् प्राणु॑दन्त॒ याः सा॒यꣳ रात्रि॑यै॒ ताभि॒र्यथ् सा॒यंप्रा॑तरुप॒सद॑ [१७] उपस॒द्यन्ते॑ऽहोरा॒त्राभ्या॑मे॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते॒ याः प्रा॒तर् या॒ज्याः᳚ स्यु स्ताः सा॒यम्पु॑रोनुवा॒क्याः᳚ कुर्या॒दया॑तयामत्वाय ति॒स्र उ॑प॒सद॒ उपै॑ति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान् प्री॑णाति॒ षट्थ् सम्प॑द्यन्ते॒ षड् वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः सं॑वथ्स॒रमे॒व प्री॑णाति॒ चतु॑र्विꣳशतिः॒ सं [१८] प॑द्यन्ते॒ चतु॑र्विꣳशतिरर्द्धमा॒सा अ॑र्द्धमा॒साने॒व प्री॑णा॒त्यारा᳚ग्रामवान्तरदी॒ख्‍षामुपे॑या॒द्यः का॒मये॑ता॒स्मिन् मे॑ लो॒केऽर्द्धु॑कꣴ स्या॒दित्येक॒मग्रेऽथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒षा वा आरा᳚ग्राऽवान्तरदी॒ख्‍षाऽस्मिन्ने॒वास्मै॑ लो॒केऽर्द्धु॑कम्भवति प॒रोव॑रीयसीमवान्तरदी॒ख्‍षामुपे॑या॒द्यः का॒मये॑ता॒मुष्मि॑न् मे लो॒केऽर्द्धु॑कꣴ स्या॒दिति॑ च॒तुरोऽग्रे ऽथ॒ त्रीनथ॒ द्वावथैक॑मे॒षा वै प॒रोव॑रीयस्यवान्तरदी॒ख्‍षाऽमुष्मि॑न्ने॒वास्मै॑ लो॒केऽर्द्धु॑कम्भवति⁠ [१९] (अ॒सि॒ष्य॒तीति॑ जुहु॒याथ् सा॒यम्प्रा॑तरुप॒सद॒ श्चतु॑र्विꣳशतिः॒ सं च॒तुरोऽग्रे॒ षोड॑श च) ॥३॥
सु॒व॒र्गव्ँवा ए॒ते लो॒कय्ँय॑न्ति॒ य उ॑प॒सद॑ उप॒यन्ति॒ तेषा॒य्ँय उ॒न्नय॑ते॒ हीय॑त ए॒व स नोद॑ने॒षीति॒ सू᳚न्नीयमिव॒ यो वै स्वा॒र्थेता᳚य्ँय॒ताꣴ श्रा॒न्तो हीय॑त उ॒त स नि॒ष्ट्याय॑ स॒ह व॑सति॒ तस्मा᳚थ् स॒कृदु॒न्नीय॒ नाप॑र॒मुन्न॑येत द॒द्ध्नोन्न॑येतै॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒व प॒शूनव॑ रुन्धे [२०] य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पङ्कृ॒त्वा स पृ॑थि॒वीम्प्रावि॑श॒त् तन्दे॒वा हस्ता᳚न्थ् स॒ꣳ॒रभ्यै᳚च्छ॒न् तमिन्द्र॑ उ॒पर्यु॑प॒र्यत्य॑क्राम॒थ् सो᳚ऽब्रवी॒त् को मा॒ऽयमु॒पर्यु॑प॒र्यत्य॑क्रमी॒दित्य॒हन्दु॒र्गे हन्तेत्यथ॒ कस्त्वमित्य॒हन्दु॒र्गादाह॒र्तेति॒ सो᳚ऽब्रवीद् दु॒र्गे वै हन्ता॑ऽवोचथा वरा॒हो॑ऽयव्ँवा॑ममो॒षः [२१] स॑प्ता॒नाङ्गि॑री॒णाम्प॒रस्ता᳚द्वि॒त्तव्ँवेद्य॒मसु॑राणाम्बिभर्ति॒ तञ्ज॑हि॒ यदि॑ दु॒र्गे हन्ताऽसीति॒ स द॑र्भपुञ्जी॒लमु॒द्वृह्य॑ स॒प्त गि॒रीन् भि॒त्त्वा तम॑ह॒न्थ् सो᳚ऽब्रवीद् दु॒र्गाद्वा आह॑र्ताऽवोचथा ए॒तमा ह॒रेति॒ तमे᳚भ्यो य॒ज्ञ ए॒व य॒ज्ञमाऽह॑र॒द्यत् तद्वि॒त्तव्ँवेद्य॒मसु॑राणा॒मवि॑न्दन्त॒ तदेक॒व्ँवेद्यै॑ वेदि॒त्वमसु॑राणा॒ [२२] व्ँवा इ॒यमग्र॑ आसी॒द् याव॒दासी॑नः परा॒पश्य॑ति॒ ताव॑द् दे॒वाना॒न्ते दे॒वा अ॑ब्रुव॒न्नस्त्वे॒व नो॒ऽस्यामपीति॒ किय॑द्वो दास्याम॒ इति॒ याव॑दि॒यꣳ स॑लावृ॒की त्रिः प॑रि॒क्राम॑ति॒ ताव॑न्नो द॒त्तेति॒ स इन्द्रः॑ सलावृ॒की रू॒पङ्कृ॒त्वेमान्त्रिः स॒र्वतः॒ पर्य॑क्राम॒त् तदि॒माम॑विन्दन्त॒ यदि॒मामवि॑न्दन्त॒ तद् वेद्यै॑ वेदि॒त्वꣳ [२३] सा वा इ॒यꣳ सर्वै॒व वेदि॒रिय॑ति शख्‍ष्या॒मीति॒ त्वा अ॑व॒माय॑ यजन्ते त्रि॒ꣳ॒शत् प॒दानि॑ प॒श्चात् ति॒रश्ची॑ भवति॒ षट्त्रि॑ꣳश॒त् प्राची॒ चतु॑र्विꣳशतिः पु॒रस्ता᳚त् ति॒रश्ची॒ दश॑दश॒ सम्प॑द्यन्ते॒ दशा᳚ख्‍षरा वि॒राडन्न॑व्ँवि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्ध॒ उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒द्ध्यन्तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धयः॒ परा॑ भवन्ति ब॒र्॒‌हिः स्तृ॑णाति॒ तस्मा॒दोष॑धयः॒ पुन॒रा भ॑व॒न्त्युत्त॑रम्ब॒र्॒‌हिष॑ उत्तरब॒र्॒‌हिः स्तृ॑णाति प्र॒जा वै ब॒र्॒‌हिर् यज॑मान उत्तरब॒र्॒‌हिर् यज॑मानमे॒वाय॑जमाना॒दुत्त॑रङ्करोति॒ तस्मा॒द्यज॑मा॒नोऽय॑जमाना॒दुत्त॑रः⁠ [२४] (रु॒न्धे॒ वा॒म॒मो॒षो वे॑दि॒त्वमसु॑राणांवेदि॒त्वंभ॑वन्ति॒ पञ्च॑विꣳशतिश्च) ॥४॥
यद्वा अनी॑शानो भा॒रमा॑द॒त्ते वि वै स लि॑शते॒ यद् द्वाद॑श सा॒ह्नस्यो॑प॒सदः॒ स्युस्ति॒स्रो॑ऽहीन॑स्य य॒ज्ञस्य॒ विलो॑म क्रियेत ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञस्य॑ सवीर्य॒त्वायाथो॒ सलो॑म क्रियते व॒थ्सस्यैकः॒ स्तनो॑ भा॒गी हि सोऽथैक॒ꣴ॒ स्तन॑व्ँव्र॒तमुपै॒त्यथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ एतद् वै [२५] ख्‍षु॒रप॑वि॒ नाम॑ व्र॒तय्ँयेन॒ प्र जा॒तान् भ्रातृ॑व्यान् नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒नथो॒ कनी॑यसै॒व भूय॒ उपै॑ति च॒तुरोऽग्रे॒ स्तना᳚न् व्र॒तमुपै॒त्यथ॒ त्रीनथ॒ द्वावथैक॑मे॒तद् वै सु॑जघ॒नन्नाम॑ व्र॒तन्त॑प॒स्य॑ꣳ सुव॒र्ग्य॑मथो॒ प्रैव जा॑यते प्र॒जया॑ प॒शुभि॑र्यवा॒गू रा॑ज॒न्य॑स्य व्र॒तङ्क्रू॒रेव॒ वै य॑वा॒गूः क्रू॒र इ॑व [२६] राज॒न्यो॑ वज्र॑स्य रू॒पꣳ समृ॑द्ध्या आ॒मिख्‍षा॒ वैश्य॑स्य पाकय॒ज्ञस्य॑ रू॒पम्पुष्ट्यै॒ पयो᳚ ब्राह्म॒णस्य॒ तेजो॒ वै ब्रा᳚ह्म॒णस्तेजः॒ पय॒स्तेज॑सै॒व तेजः॒ पय॑ आ॒त्मन् ध॒त्तेऽथो॒ पय॑सा॒ वै गर्भा॑ वर्द्धन्ते॒ गर्भ॑ इव॒ खलु॒ वा ए॒ष यद् दी᳚ख्‍षि॒तो यद॑स्य॒ पयो᳚ व्र॒तम्भव॑त्या॒त्मान॑मे॒व तद् व॑र्द्धयति॒ त्रिव्र॑तो॒ वै मनु॑रासी॒द् द्विव्र॑ता॒ असु॑रा॒ एक॑व्रता [२७] दे॒वाः प्रा॒तर्म॒द्ध्यन्दि॑ने सा॒यन्तन् मनो᳚र् व्र॒तमा॑सीत् पाकय॒ज्ञस्य॑ रू॒पम्पुष्ट्यै᳚ प्रा॒तश्च॑ सा॒यञ्चासु॑राणान्निर्म॒द्ध्यङ्ख्‍षु॒धो रू॒पन्तत॒स्ते परा॑ऽभवन् म॒द्ध्यन्दि॑ने मद्ध्यरा॒त्रे दे॒वाना॒न्तत॒स्ते॑ऽभवन्थ् सुव॒र्गल्ँलो॒कमा॑य॒न्॒‌यद॑स्य म॒द्ध्यन्दि॑ने मद्ध्यरा॒त्रे व्र॒तम्भव॑ति मद्ध्य॒तो वा अन्ने॑न भुञ्जते मद्ध्य॒त ए॒व तदूर्ज॑न्धत्ते॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ [२८] परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति॒ गर्भो॒ वा ए॒ष यद् दी᳚ख्‍षि॒तो योनिर् दीख्‍षितविमि॒तय्ँयद् दी᳚ख्‍षि॒तो दी᳚ख्‍षितविमि॒तात् प्र॒वसे॒द् यथा॒ योने॒र् गर्भः॒ स्कन्द॑ति ता॒दृगे॒व तन्न प्र॑वस्त॒व्य॑मा॒त्मनो॑ गोपी॒थायै॒ष वै व्या॒घ्रः कु॑लगो॒पो यद॒ग्निस्तस्मा॒द् यद् दी᳚ख्‍षि॒तः प्र॒वसे॒थ् स ए॑नमीश्व॒रो॑ऽनू॒त्थाय॒ हन्तो॒र् न प्र॑वस्त॒व्य॑मा॒त्मनो॒ गुप्त्यै॑ दख्‍षिण॒तः श॑य ए॒तद्वै यज॑मानस्या॒ ऽऽयत॑न॒ꣴ ॒स्व ए॒वाऽऽयत॑ने शये॒ऽग्निम॑भ्या॒वृत्य॑ शये दे॒वता॑ ए॒व य॒ज्ञम॑भ्या॒वृत्य॑ शये⁠ [२९] (ए॒तद्वै क्रू॒र इ॒वै क॑व्रता आ॒त्मना॒ यज॑मानस्य॒ त्रयो॑दश च) ॥५॥
पु॒रोह॑विषि देव॒यज॑ने याजये॒द्यङ्का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मेद॒भि सु॑व॒र्गल्ँलो॒कञ्ज॑ये॒दित्ये॒तद्वै पु॒रोह॑विर्देव॒यज॑न॒य्ँयस्य॒ होता᳚ प्रातरनुवा॒कम॑नुब्रु॒वन्न॒ग्निम॒प आ॑दि॒त्यम॒भि वि॒पश्य॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्य॒भि सु॑व॒र्गल्ँलो॒कञ्ज॑यत्या॒प्ते दे॑व॒यज॑ने याजये॒द्भ्रातृ॑व्यवन्त॒म्पन्था᳚व्ँवाऽधिस्प॒र्॒‌शये᳚त् क॒र्तव्ँवा॒ याव॒न्नान॑से॒ यात॒वै [३०] न रथा॑यै॒तद्वा आ॒प्तन्दे॑व॒यज॑नमा॒प्नोत्ये॒व भ्रातृ॑व्य॒न्नैन॒म्भ्रातृ॑व्य आप्नो॒त्येको᳚न्नते देव॒यज॑ने याजयेत्प॒शुका॑म॒मेको᳚न्नता॒द्वै दे॑व॒यज॑ना॒दङ्गि॑रसः प॒शून॑सृजन्तान्त॒रा स॑दोहविर्द्धा॒ने उ॑न्न॒तꣴ स्या॑दे॒तद्वा एको᳚न्नतन्देव॒यज॑नम्पशु॒माने॒व भ॑वति॒ त्य्रु॑न्नते देव॒यज॑ने याजयेथ्सुव॒र्गका॑म॒न्त्य्रु॑न्नता॒द्वै दे॑व॒यज॑ना॒दङ्गि॑रसस्सुव॒र्गल्ँलो॒कमा॑यन्नन्त॒राऽऽह॑व॒नीय॑ञ्च हवि॒र्द्धान॑ञ्चो [३१] न्न॒तꣴ स्या॑दन्त॒रा ह॑वि॒र्द्धान॑ञ्च॒ सद॑श्चान्त॒रा सद॑श्च॒ गार्‌ह॑पत्यञ्चै॒तद्वै त्य्रु॑न्नतन्देव॒यज॑नꣳ सुव॒र्गमे॒व लो॒कमे॑ति॒ प्रति॑ष्ठिते देव॒यज॑ने याजयेत् प्रति॒ष्ठाका॑ममे॒तद्वै प्रति॑ष्ठितन्देव॒यज॑न॒य्ँयथ् स॒र्वतः॑ स॒मम्प्रत्ये॒व ति॑ष्ठति॒ यत्रा॒न्याअ॑न्या॒ ओष॑धयो॒ व्यति॑षक्ताः॒ स्यु स्तद्या॑जयेत् प॒शुका॑म मे॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒वास्मै॑ प॒शू [३२] नव॑ रुन्धे पशु॒माने॒व भ॑वति॒ निर्‌ऋ॑तिगृहीते देव॒यज॑ने याजये॒द्यङ्का॒मये॑त॒ निर्‌ऋ॑त्याऽस्य य॒ज्ञङ्ग्रा॑हयेय॒मित्ये॒तद्वै निर्‌ऋ॑तिगृहीतन्देव॒यज॑न॒य्ँयथ् स॒दृश्यै॑ स॒त्या॑ ऋ॒ख्‍षं निर्‌ऋ॑त्यै॒वास्य॑ य॒ज्ञङ्ग्रा॑हयति॒ व्यावृ॑त्ते देव॒यज॑ने याजयेद् व्या॒वृत्का॑म॒य्ँयम्पात्रे॑ वा॒ तल्पे॑ वा॒ मीमा॑ꣳसेरन् प्रा॒चीन॑माहव॒नीया᳚त् प्रव॒णꣴ स्या᳚त् प्रती॒चीन॒ङ्गार्‌ह॑पत्यादे॒तद्वै व्यावृ॑त्तन्देव॒यज॑न॒व्ँवि पा॒प्मना॒ भ्रातृ॑व्ये॒णाऽऽव॑र्तते॒ नैन॒म्पात्रे॒ न तल्पे॑ मीमाꣳसन्ते का॒र्ये॑ देव॒यज॑ने याजये॒द्भूति॑कामङ्का॒र्यो॑ वै पुरु॑षो॒ भव॑त्ये॒व⁠ [३३] (यात॒वैह॑वि॒र्द्धान॑ञ्च प॒शून् पा॒प्मना॒ ऽष्टाद॑श च) ॥६॥
तेभ्य॑ उत्तरवे॒दिस्सि॒ꣳ॒ही रू॒पङ्कृ॒त्वोभया॑नन्त॒राऽप॒क्रम्या॑तिष्ठ॒त्ते दे॒वा अ॑मन्यन्त यत॒रान्‌वा इ॒यमु॑पाव॒र्थ्स्यति॒ त इ॒दम्भ॑विष्य॒न्तीति॒ तामुपा॑मन्त्रयन्त॒ साऽब्र॑वी॒द्वर॑व्ँवृणै॒ सर्वा॒न् मया॒ कामा॒न् व्य॑श्ञवथ॒ पूर्वा॒न्तु मा॒ऽग्नेराहु॑तिरश्ञवता॒ इति॒ तस्मा॑दुत्तरवे॒दिम्पूर्वा॑म॒ग्नेर्व्याघा॑रयन्ति॒ वारे॑वृत॒ꣴ॒ह्य॑स्यै॒ शम्य॑या॒ परि॑ मिमीते॒ [३४] मात्रै॒वास्यै॒ साऽथो॑ यु॒क्तेनै॒व यु॒क्तमव॑ रुन्धे वि॒त्ताय॑नी मे॒ऽसीत्या॑ह वि॒त्ता ह्ये॑ना॒नाव॑त् ति॒क्ताय॑नी मे॒ऽसीत्या॑ह ति॒क्तान्‌ह्ये॑ना॒नाव॒दव॑तान् मा नाथि॒तमित्या॑ह नाथि॒तान्‌ह्ये॑ना॒नाव॒दव॑तान् मा व्यथि॒तमित्या॑ह व्यथि॒तान् ह्ये॑ना॒नाव॑द्वि॒देर॒ग्निर् नभो॒ नामा [३५] ग्ने॑ अङ्गिर॒ इति॒ त्रिर्‌ह॑रति॒ य ए॒वैषु लो॒केष्व॒ ग्नय॒स्ताने॒वाव॑ रुन्धे तू॒ष्णीञ्च॑तु॒र्त्थꣳ ह॑र॒त्यनि॑रुक्तमे॒वाव॑ रुन्धे सि॒ꣳ॒हीर॑सि महि॒षीर॒सीत्या॑ह सि॒ꣳ॒हीर् ह्ये॑षा रू॒पङ्कृ॒त्वोभया॑नन्त॒रा ऽप॒क्रम्याति॑ष्ठदु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒मित्या॑ह॒ यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति ध्रु॒वा [३६] ऽसीति॒ सꣳ ह॑न्ति॒ धृत्यै॑ दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुंभ॒स्वेत्यव॑ चो॒ख्‍षति॒ प्र च॑ किरति॒ शुद्ध्या॑ इन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता᳚त् पा॒त्वित्या॑ह दि॒ग्भ्य ए॒वैना॒म्प्रोख्‍ष॑ति दे॒वाꣴश्चेदु॑त्तरवे॒दि रु॒पाव॑वर्ती॒हैव वि ज॑यामहा॒ इत्यसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ तानि॑न्द्रघो॒षो वसु॑भिः पु॒रस्ता॒दपा॑ [३७] नुदत॒ मनो॑जवाः पि॒तृभि॑र् दख्‍षिण॒तः प्रचे॑ता रु॒द्रैः प॒श्चाद्वि॒श्वक॑र्माऽऽदि॒त्यैरु॑त्तर॒तो यदे॒वमु॑त्तरवे॒दिम्प्रो॒ख्‍षति॑ दि॒ग्भ्य ए॒व तद्यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दत॒ इन्द्रो॒ यती᳚न्थ् सालावृ॒केभ्यः॒ प्राय॑च्छ॒त् तान् द॑ख्‍षिण॒त उ॑त्तरवे॒द्या आ॑द॒न्॒‌यत् प्रोख्‍ष॑णीनामु॒च्छिष्ये॑त॒ तद् द॑ख्‍षिण॒त उ॑त्तरवे॒द्यै नि न॑ये॒द्यदे॒व तत्र॑ क्रू॒रन्तत् तेन॑ शमयति॒ यन्द्वि॒ष्यात् तन्ध्या॑येच्छु॒चै वैन॑मर्पयति⁠ [३८] (मि॒मी॒ते॒ नाम॑ ध्रु॒वा ऽप॑ शु॒चा त्रीणि॑ च) () ॥७॥
सोत्त॑रवे॒दिर॑ब्रवी॒थ् सर्वा॒न् मया॒ कामा॒न् व्य॑श्ञव॒थेति॒ ते दे॒वा अ॑कामय॒न्तासु॑रा॒न् भ्रातृ॑व्यान॒भि भ॑वे॒मेति॒ ते॑ऽजुहवुः सि॒ꣳ॒हीर॑सि सपत्नसा॒ही स्वाहेति॒ तेऽसु॑रा॒न् भ्रातृ॑व्यान॒भ्य॑भव॒न् तेऽसु॑रा॒न् भ्रातृ॑व्या नभि॒भूया॑कामयन्त प्र॒जाव्ँवि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒ꣳ॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहेति॒ ते प्र॒जाम॑विन्दन्त॒ ते प्र॒जाव्ँवि॒त्त्वा [३९] ऽका॑मयन्त प॒शून्‌वि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒ꣳ॒हीर॑सि रायस्पोष॒वनिः॒ स्वाहेति॒ ते प॒शून॑विन्दन्त॒ ते प॒शून्‌वि॒त्त्वाऽका॑मयन्त प्रति॒ष्ठाव्ँवि॑न्देम॒हीति॒ ते॑ऽजुहवुः सि॒ꣳ॒हीर॑स्यादित्य॒वनिः॒ स्वाहेति॒ त इ॒माम्प्र॑ति॒ष्ठाम॑विन्दन्त॒ त इ॒माम्प्र॑ति॒ष्ठाव्ँवि॒त्त्वाऽका॑मयन्त दे॒वता॑ आ॒शिष॒ उपे॑या॒मेति॒ ते॑ऽजुहवुः सि॒ꣳ॒हीर॒स्या व॑ह दे॒वान् दे॑वय॒ते [४०] यज॑मानाय॒ स्वाहेति॒ ते दे॒वता॑ आ॒शिष॒ उपा॑य॒न् पञ्च॒ कृत्वो॒ व्याघा॑रयति॒ पञ्चा᳚ख्‍षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्धेऽख्‍ष्ण॒या व्याघा॑रयति॒ तस्मा॑दख्‍ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै भू॒तेभ्य॒स्त्वेति॒ स्रुच॒मुद् गृ॑ह्णाति॒ य ए॒व दे॒वा भू॒तास्तेषा॒न्तद्भा॑ग॒धेय॒न्ताने॒व तेन॑ प्रीणाति॒ पौतु॑द्रवान् परि॒धीन् परि॑ दधात्ये॒षा [४१] ल्ँलो॒काना॒व्ँविधृ॑त्या अ॒ग्नेस्त्रयो॒ ज्याया॑ꣳसो॒ भ्रात॑र आस॒न् ते दे॒वेभ्यो॑ ह॒व्यव्ँवह॑न्तः॒ प्रामी॑यन्त॒ सो᳚ऽग्निर॑बिभेदि॒त्थव्ँवाव स्य आर्ति॒माऽरि॑ष्य॒तीति॒ स निला॑यत॒ स याव्ँवन॒स्पति॒ष्वव॑स॒त् ताम्पूतु॑द्रौ॒ यामोष॑धीषु॒ ताꣳ सु॑गन्धि॒तेज॑ने॒ याम्प॒शुषु॒ ताम्पेत्व॑स्यान्त॒रा शृङ्गे॒ तन्दे॒वताः॒ प्रैष॑मैच्छ॒न् तमन्व॑विन्द॒न् तम॑ब्रुव॒ [४२] न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यन्नो॑ व॒हेति॒ सो᳚ऽब्रवी॒द् वर॑व्ँवृणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्दा॒त् तन्मे॒ भ्रातृ॑णाम्भाग॒धेय॑मस॒दिति॒ तस्मा॒द्यद्गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्द॑ति॒ तेषा॒न्तद् भा॑ग॒धेय॒न्ताने॒व तेन॑ प्रीणाति॒ सो॑ऽमन्यतास्थ॒न्वन्तो॑ मे॒ पूर्वे॒ भ्रात॑रः॒ प्रामे॑षता॒स्थानि॑ शातया॒ इति॒ स यान्य॒ [४३] स्थान्यशा॑तयत॒ तत् पूतु॑द्व्रभव॒द्यन्मा॒ꣳ॒समुप॑मृत॒न्तद्गुल्गु॑लु॒ यदे॒तान्थ् सं॑भा॒रान्थ् सं॒ भर॑त्य॒ग्निमे॒व तथ् संभ॑रत्य॒ग्नेः पुरी॑षम॒सीत्या॑हा॒ग्नेर्ह्ये॑तत् पुरी॑ष॒य्ँयथ् सं॑भा॒रा अथो॒ खल्वा॑हुरे॒ते वावैन॒न्ते भ्रात॑रः॒ परि॑ शेरे॒ यत् पौतु॑द्रवाः परि॒धय॒ इति॑⁠ [४४] (वि॒त्त्वा दे॑वय॒त ए॒षा म॑ब्रुव॒न् यानि॒ चतु॑श्चत्वारिꣳशच्च) ॥८॥
ब॒द्धमव॑ स्यति वरुणपा॒शादे॒वैने॑ मुञ्चति॒ प्र णे॑नेक्ति॒ मेद्ध्ये॑ ए॒वैने॑ करोति सावित्रि॒यर्चा हु॒त्वा ह॑वि॒र्द्धाने॒ प्र व॑र्तयति सवि॒तृप्र॑सूत ए॒वैने॒ प्र व॑र्तयति॒ वरु॑णो॒ वा ए॒ष दु॒र्वागु॑भ॒यतो॑ ब॒द्धो यदख्‍षः॒ स यदु॒थ्सर्जे॒द्यज॑मानस्य गृ॒हान॒भ्युथ्स॑र्जेथ् सु॒वाग् दे॑व॒ दुर्या॒ꣳ॒ आ व॒देत्या॑ह गृ॒हा वै दुर्याः॒ शान्त्यै॒ पत्न्यु [४५] पा॑नक्ति॒ पत्नी॒ हि सर्व॑स्य मि॒त्रम्मि॑त्र॒त्वाय॒ यद् वै पत्नी॑ य॒ज्ञस्य॑ क॒रोति॑ मिथु॒नन्तदथो॒ पत्नि॑या ए॒वैष य॒ज्ञस्या᳚न्वारं॒भोऽन॑वच्छित्त्यै॒ वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञꣳ रख्‍षा॑ꣳसि जिघाꣳसन्ति वैष्ण॒वीभ्या॑मृ॒ग्भ्याव्ँवर्त्म॑नोर् जुहोति य॒ज्ञो वै विष्णु॑र् य॒ज्ञादे॒व रख्‍षा॒ꣴ॒स्यप॑ हन्ति॒ यद॑द्ध्व॒र्युर॑न॒ग्नावाहु॑तिञ्जुहु॒याद॒न्धो᳚ऽद्ध्व॒र्युः स्या॒द्रख्‍षा॑ꣳसि य॒ज्ञꣳ ह॑न्यु॒र् [४६] हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚ऽद्ध्व॒र्युर् भव॑ति॒ न य॒ज्ञꣳ रख्‍षा॑ꣳसि घ्नन्ति॒ प्राची॒ प्रेत॑मद्ध्व॒रङ्क॒ल्पय॑न्ती॒ इत्या॑ह सुव॒र्गमे॒वैने॑ लो॒कङ्ग॑मय॒त्यत्र॑ रमेथा॒व्ँवर्ष्म॑न् पृथि॒व्या इत्या॑ह॒ वर्ष्म॒ ह्ये॑तत् पृ॑थि॒व्या यद् दे॑व॒यज॑न॒ꣳ॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्द्धान॑न्दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या [४७] इत्या॒शीर्प॑दय॒र्चा दख्‍षि॑णस्य हवि॒र्द्धान॑स्य मे॒थीन्नि ह॑न्ति शीर्‌ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषोऽव॑ रुन्धे द॒ण्डो वा औ॑प॒रस्तृ॒तीय॑स्य हवि॒र्द्धान॑स्य वषट्का॒रेणाख्‍ष॑मच्छिन॒द्यत्तृ॒तीय॑ञ्छ॒दिर् ह॑वि॒र्द्धान॑योरुदाह्रि॒यते॑ तृ॒तीय॑स्य हवि॒र्द्धान॒स्याव॑रुद्ध्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्द्धान॒व्ँविष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॒सीत्या॑ह॒ तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑त॒व्ँविष्णोः॒ स्यूर॑सि॒ विष्णो᳚र् ध्रु॒वम॒सीत्या॑ह वैष्ण॒वꣳ हि दे॒वत॑या हवि॒र्द्धान॒य्ँयम्प्र॑थ॒मङ्ग्र॒न्थिङ्ग्र॑थ्नी॒याद्यत् तन्न वि॑स्र॒ꣳ॒सये॒दमे॑हेनाद्ध्व॒र्युः प्र मी॑येत॒ तस्मा॒थ् स वि॒स्रस्यः॑⁠ [४८] (पत्नी॑हन्युर् वा पृथि॒व्याविष्यू॑त॒व्ँविष्णोः॒षड्वि॑ꣳशतिश्च) ॥९॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्रि॒मा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚र् बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म्पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॒ वज्र॑ इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ शान्त्यै॒ काण्डे॑काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञꣳ रख्‍षा॑ꣳसि जिघाꣳसन्ति॒ परि॑लिखित॒ꣳ॒ रख्‍षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रख्‍ष॑सा॒मप॑हत्या [४९] इ॒दम॒हꣳ रख्‍ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यञ्चै॒व द्वेष्टि॒ यश्चै॑न॒न्द्वेष्टि॒ तयो॑रे॒वान॑न्तरायङ्ग्री॒वाः कृ॑न्तति दि॒वे त्वा॒ऽन्तरि॑ख्‍षाय त्वा पृथि॒व्यै त्वेत्या॑है॒भ्य ए॒वैना᳚ल्ँलो॒केभ्यः॒ प्रोख्‍ष॑ति प॒रस्ता॑द॒र्वाची॒म्प्रोख्‍ष॑ति॒ तस्मा᳚त् [५०] प॒रस्ता॑द॒र्वाची᳚म्मनु॒ष्या॑ ऊर्ज॒मुप॑ जीवन्ति क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ यत् खन॑त्य॒पोऽव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै॑ यव॒ ऊर्गु॑दुं॒बर॑ ऊ॒र्जैवोर्ज॒ꣳ॒ सम॑र्द्धयति॒ यज॑मानेन॒ सम्मि॒तौदुं॑बरी भवति॒ यावा॑ने॒व यज॑मान॒स्ताव॑तीमे॒वास्मि॒न्नूर्ज॑न्दधाति पितृ॒णाꣳ सद॑नम॒सीति॑ ब॒र्॒‌हिरव॑ स्तृणाति पितृदेव॒त्या᳚(१॒)ꣴ॒ [५१] ह्ये॑तद्यन्निखा॑त॒य्ँयद्ब॒र्॒‌हिरन॑वस्तीर्य मिनु॒यात् पि॑तृदेव॒त्या॑ निखा॑ता स्याद्ब॒र्॒‌हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैना᳚म्मिनो॒त्यथो᳚ स्वा॒रुह॑मे॒वैना᳚ङ्करो॒त्युद्दिव॑ꣴ स्तभा॒नाऽऽ*न्तरि॑ख्‍षम्पृ॒णेत्या॑है॒षाल्ँलो॒काना॒व्ँविधृ॑त्यै द्युता॒नस्त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह द्युता॒नो ह॑ स्म॒ वै मा॑रु॒तो दे॒वाना॒मौदुं॑बरीम्मिनोति॒ तेनै॒वै [५२] ना᳚म्मिनोति ब्रह्म॒वनि॑न्त्वा ख्‍षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतद् घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मित्यौदुं॑बर्याञ्जुहोति॒ द्यावा॑पृथि॒वी ए॒व रसे॑नानक्त्या॒न्तम॒न्वव॑स्रावयत्या॒न्तमे॒व यज॑मान॒न्तेज॑साऽनक्त्यै॒न्द्रम॒सीति॑ छ॒दिरधि॒ नि द॑धात्यै॒न्द्रꣳ हि दे॒वत॑या॒ सदो॑ विश्वज॒नस्य॑ छा॒येत्या॑ह विश्वज॒नस्य॒ ह्ये॑षा छा॒या यथ् सदो॒ नव॑छदि॒ [५३] तेज॑स्कामस्य मिनुयात् त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑त॒न्तेज॑स्त्रि॒वृत् ते॑ज॒स्व्ये॑व भ॑व॒त्येका॑दश छदीन्द्रि॒यका॑म॒स्यैका॑दशाख्‍षरा त्रि॒ष्टुगि॑न्द्रि॒यन्त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशछदि॒ भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शछदि प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ एक॑विꣳशतिछदि प्रति॒ष्ठाका॑मस्यैकवि॒ꣳ॒शः स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्या उ॒दर॒व्ँवै सद॒ ऊर्गु॑दुं॒बरो॑ मद्ध्य॒त औदुं॑बरीम्मिनोति मद्ध्य॒त ए॒व प्र॒जाना॒मूर्ज॑न्दधाति॒ तस्मा᳚न् [५४] मद्ध्य॒त ऊ॒र्जा भु॑ञ्जते यजमानलो॒के वै दख्‍षि॑णानि छ॒दीꣳषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दख्‍षि॑णा॒न्युत्त॑राणि करोति॒ यज॑मानमे॒वाय॑जमाना॒दुत्त॑रङ्करोति॒ तस्मा॒द् यज॑मा॒नोऽय॑जमाना॒दुत्त॑रोऽन्तर्व॒र्तान् क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒दर॑ण्यम्प्र॒जा उप॑ जीवन्ति॒ परि॑ त्वा गिर्वणो॒ गिर॒ इत्या॑ह यथाय॒जुरे॒वैतदिन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒व म॒सीत्या॑है॒न्द्रꣳ हि दे॒वत॑या॒ सदो॒ यम्प्र॑थ॒मङ्ग्र॒न्थिङ्ग्र॑थ्नी॒याद्यत् तन्न वि॑स्र॒ꣳ॒सये॒दमे॑हेनाद्ध्व॒र्युः प्र मी॑येत॒ तस्मा॒थ् स वि॒स्रस्यः॑⁠ [५५] (अप॑हत्यै॒ तस्मा᳚त् पितृदेव॒त्यं॑ तेनै॒व नव॑छदि॒ तस्मा॒थ् सदः॒ पञ्च॑दश च) ॥१०॥
शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्द्धान॑म्प्रा॒णा उ॑पर॒वा ह॑वि॒र्द्धाने॑ खायन्ते॒ तस्मा᳚च्छी॒र्॒‌षन् प्रा॒णा अ॒धस्ता᳚त् खायन्ते॒ तस्मा॑द॒धस्ता᳚च्छी॒र्ष्णः प्रा॒णा र॑ख्‍षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान् ख॑ना॒मीत्या॑ह वैष्ण॒वा हि दे॒वत॑योपर॒वा असु॑रा॒ वै नि॒र्यन्तो॑ दे॒वाना᳚म्प्रा॒णेषु॑ वल॒गान् न्य॑खन॒न् तान् बा॑हुमा॒त्रेऽन्व॑विन्द॒न् तस्मा᳚द् बाहुमा॒त्राः खा॑यन्त इ॒दम॒हन्तव्ँव॑ल॒गमुद्व॑पामि॒ [५६] यन्नः॑ समा॒नो यमस॑मानो निच॒खानेत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यश्चै॒व स॑मा॒नो यश्चास॑मानो॒ यमे॒वास्मै॒ तौ व॑ल॒गन्नि॒खन॑त॒ स्तमे॒वोद्व॑पति॒ सन्तृ॑णत्ति॒ तस्मा॒थ् सन्तृ॑ण्णा अन्तर॒तः प्रा॒णा न सम्भि॑नत्ति॒ तस्मा॒दसं॑भिन्नाः प्रा॒णा अ॒पोऽव॑ नयति॒ तस्मा॑दा॒र्द्रा अ॑न्तर॒तः प्रा॒णा यव॑मती॒रव॑ नय॒ [५७] त्यूर्ग् वै यवः॑ प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒वोर्ज॑न्दधाति ब॒र्॒‌हिरव॑ स्तृणाति॒ तस्मा᳚ल्लोम॒शा अ॑न्तर॒तः प्रा॒णा आज्ये॑न॒ व्याघा॑रयति॒ तेजो॒ वा आज्य॑म्प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒व तेजो॑ दधाति॒ हनू॒ वा ए॒ते य॒ज्ञस्य॒ यद॑धि॒षव॑णे॒ न सन्तृ॑ण॒त्त्यस॑न्तृण्णे॒ हि हनू॒ अथो॒ खलु॑ दीर्घसो॒मे स॒न्तृद्ये॒ धृत्यै॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यद्ध॑वि॒र्द्धानं॑ [५८] प्रा॒णा उ॑पर॒वा हनू॑ अधि॒षव॑णे जि॒ह्वा चर्म॒ ग्रावा॑णो॒ दन्ता॒ मुख॑माहव॒नीयो॒ नासि॑कोत्तरवे॒दिरु॒दर॒ꣳ॒ सदो॑ य॒दा खलु॒ वै जि॒ह्वया॑ द॒थ्स्वधि॒ खाद॒त्यथ॒ मुख॑ङ्गच्छति य॒दा मुख॒ङ्गच्छ॒त्यथो॒दर॑ङ्गच्छति॒ तस्मा᳚द्धवि॒र्द्धाने॒ चर्म॒न्नधि॒ ग्राव॑भिरभि॒षुत्या॑ऽऽहव॒नीये॑ हु॒त्वा प्र॒त्यञ्चः॑ प॒रेत्य॒ सद॑सि भख्‍षयन्ति॒ यो वै वि॒राजो॑ यज्ञमु॒खे दोह॒व्ँवेद॑ दु॒ह ए॒वै ना॑मि॒यव्ँवै वि॒राट् तस्यै॒ त्वक् चर्मोधो॑ऽधि॒षव॑णे॒ स्तना॑ उपर॒वा ग्रावा॑णो व॒थ्सा ऋ॒त्विजो॑ दुहन्ति॒ सोमः॒ पयो॒ य ए॒वव्ँवेद॑ दु॒ह ए॒वैना᳚म्⁠ [५९] (व॒पा॒मि॒ यव॑मती॒रव॑ नयति हवि॒र्द्धान॑ मे॒व त्रयो॑विꣳशतिश्च) ॥११॥
(यदु॒भौ दे॑वासु॒रा मि॒थ स्तेषा॑ꣳ सुव॒र्गं यद्वा अनी॑शानः पु॒रोह॑विषि॒ तेभ्यः॒ सोत्त॑रवे॒दिर् ब॒द्धन् दे॒वस्याभ्रि॒व्ँवज्रः शिरो॒ वा एका॑दश)
(यदु॒भा वित्या॑ह दे॒वानां᳚ य॒ज्ञो दे॒वेभ्यो॒ न रथा॑य॒ यज॑मानाय प॒रस्ता॑द॒र्वाची॒ न्नव॑ पञ्चा॒शत्)
(यदु॒भौ दु॒ह ए॒वैनां᳚)
अनुवाकाः पञ्चशती
११ ५९