कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
षष्ठकाण्डे पञ्चमः प्रश्नः

कांड ६ प्रश्न ५
सोममन्त्रब्राह्मणनिरूपणं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छ॒थ् स वृ॒त्रो वज्रा॒दुद्य॑तादबिभे॒थ् सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम्मयि॑ वी॒र्य॑न्तत् ते॒ प्र दा᳚स्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑म्प्राय॑च्छ॒त् तस्मै᳚ द्वि॒तीय॒मुद॑यच्छ॒थ् सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम्मयि॑ वी॒र्य॑न्तत् ते॒ प्र दा᳚स्या॒मीति॒ [१] तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त् तस्मै॑ तृ॒तीय॒मुद॑यच्छ॒त् तव्ँविष्णु॒रन्व॑तिष्ठत ज॒हीति॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दम्मयि॑ वी॒र्य॑न्तत् ते॒ प्र दा᳚स्या॒मीति॒ तस्मा॑ उ॒क्थ्य॑मे॒व प्राय॑च्छ॒त् तन्निर्मा॑यम्भू॒तम॑हन् य॒ज्ञो हि तस्य॑ मा॒याऽऽसी॒द्यदु॒क्थ्यो॑ गृ॒ह्यत॑ इन्द्रि॒यमे॒व [२] तद् वी॒र्य॑य्ँयज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्त॒ इन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत॒ इत्या॒हेन्द्रा॑य॒ हि स तम्प्राय॑च्छ॒त् तस्मै᳚ त्वा॒ विष्ण॑वे॒ त्वेत्या॑ह॒ यदे॒व विष्णु॑र॒न्वति॑ष्ठत ज॒हीति॒ तस्मा॒द्विष्णु॑म॒न्वाभ॑जति॒ त्रिर् निर् गृ॑ह्णाति॒ त्रिर्‌हि स तन्तस्मै॒ प्राय॑च्छदे॒ष ते॒ योनिः॒ पुन॑र्‌हविर॒सीत्या॑ह॒ पुनः॑पुन॒र् [३] ह्य॑स्मान्निर् गृ॒ह्णाति॒ चख्‍षु॒र् वा ए॒तद्य॒ज्ञस्य॒ यदु॒क्थ्य॑स्तस्मा॑दु॒क्थ्य॑ꣳ हु॒तꣳ सोमा॑ अ॒न्वाय॑न्ति॒ तस्मा॑दा॒त्मा चख्‍षु॒रन्वे॑ति॒ तस्मा॒देक॒य्ँयन्त॑म्ब॒हवोऽनु॑ यन्ति॒ तस्मा॒देको॑ बहू॒नाम्भ॒द्रो भ॑वति॒ तस्मा॒देको॑ ब॒ह्वीर् जा॒या वि॑न्दते॒ यदि॑ का॒मये॑ताद्ध्व॒र्युरा॒त्मान॑य्ँयज्ञयश॒सेना᳚र्पयेय॒ मित्य॑न्त॒राऽऽह॑व॒नीय॑ञ्च हवि॒र्द्धान॑ञ्च॒ तिष्ठ॒न्नव॑ नये [४] दा॒त्मान॑मे॒व य॑ज्ञयश॒सेना᳚र्पयति॒ यदि॑ का॒मये॑त॒ यज॑मानय्ँयज्ञयश॒सेना᳚र्पयेय॒मित्य॑न्त॒रा स॑दोहविर्द्धा॒ने तिष्ठ॒न्नव॑ नये॒द्यज॑मानमे॒व य॑ज्ञयश॒सेना᳚र्पयति॒ यदि॑ का॒मये॑त सद॒स्या॑न् यज्ञयश॒सेना᳚र्पयेय॒मिति॒ सद॑ आ॒लभ्याव॑ नयेथ् सद॒स्या॑ने॒व य॑ज्ञयश॒सेना᳚र्पयति⁠ [५] (इती᳚ न्द्रि॒यमे॒व पुनः॑पुनर् नये॒त् त्रय॑स्त्रिꣳशच्च) ॥१॥
आयु॒र् वा ए॒तद्य॒ज्ञस्य॒ यद् ध्रु॒व उ॑त्त॒मो ग्रहा॑णाङ्गृह्यते॒ तस्मा॒दायुः॑ प्रा॒णाना॑मुत्त॒मम्मू॒र्द्धान॑न्दि॒वो अ॑र॒तिम्पृ॑थि॒व्या इत्या॑ह मू॒र्द्धान॑मे॒वैन॑ꣳ समा॒नाना᳚ङ्करोति वैश्वान॒रमृ॒ताय॑ जा॒तम॒ग्निमित्या॑ह वैश्वान॒रꣳ हि दे॒वत॒याऽऽयु॑रुभ॒यतो॑वैश्वानरो गृह्यते॒ तस्मा॑दुभ॒यतः॑ प्रा॒णा अ॒धस्ता᳚च्चो॒परि॑ष्टा च्चा॒र्द्धिनो॒ऽन्ये ग्रहा॑ गृ॒ह्यन्ते॒ऽर्द्धी ध्रु॒वस्तस्मा॑ [६] द॒र्द्ध्यवा᳚ङ् प्रा॒णो᳚ऽन्येषा᳚म्प्रा॒णाना॒मुपो᳚प्ते॒ऽन्ये ग्रहाः᳚ सा॒द्यन्तेऽनु॑पोप्ते ध्रु॒व स्तस्मा॑द॒स्थ्नाऽन्याः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति मा॒ꣳ॒सेना॒न्या असु॑रा॒ वा उ॑त्तर॒तः पृ॑थि॒वीम्प॒र्याचि॑कीर्‌ष॒न् तान्दे॒वा ध्रु॒वेणा॑दृꣳह॒न् तद् ध्रु॒वस्य॑ ध्रुव॒त्वय्ँयद् ध्रु॒व उ॑त्तर॒तः सा॒द्यते॒ धृत्या॒ आयु॒र्वा ए॒तद्य॒ज्ञस्य॒ यद् ध्रु॒व आ॒त्मा होता॒ यद्धो॑तृचम॒से ध्रु॒वम॑व॒नय॑त्या॒त्मन्ने॒व य॒ज्ञस्या [७] यु॑र् दधाति पु॒रस्ता॑दु॒क्थस्या॑व॒नीय॒ इत्या॑हुः पु॒रस्ता॒द्ध्यायु॑षो भु॒ङ्क्ते म॑द्ध्य॒तो॑ऽव॒नीय॒ इत्या॑हुर्मद्ध्य॒मेन॒ ह्यायु॑षो भु॒ङ्क्त उ॑त्तरा॒र्द्धे॑ऽव॒नीय॒ इत्या॑हुरुत्त॒मेन॒ ह्यायु॑षो भु॒ङ्क्ते वै᳚श्वदे॒व्यामृ॒चि श॒स्यमा॑नाया॒मव॑ नयति वैश्वदे॒व्यो॑ वै प्र॒जाः प्र॒जास्वे॒वाऽऽयु॑र् दधाति⁠ [८] (ध्रु॒वस्तस्मा॑दे॒व य॒ज्ञस्यैका॒न्नच॑त्वारि॒ꣳ॒शच्च॑) ॥२॥
य॒ज्ञेन॒ वै दे॒वाः सु॑व॒र्गल्ँलो॒कमा॑य॒न् ते॑ऽमन्यन्त मनु॒ष्या॑ नो॒ऽन्वाभ॑विष्य॒न्तीति॒ ते स॑व्ँवथ्स॒रेण॑ योपयि॒त्वा सु॑व॒र्गल्ँलो॒कमा॑य॒न् तमृष॑य ऋतुग्र॒हैरे॒वानु॒ प्राजा॑न॒न्॒‌यदृ॑तुग्र॒हा गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै॒ द्वाद॑श गृह्यन्ते॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रस्य॒ प्रज्ञा᳚त्यै स॒ह प्र॑थ॒मौ गृ॑ह्येते स॒होत्त॒मौ तस्मा॒द् द्वौद्वा॑वृ॒तू उ॑भ॒यतो॑मुखमृतुपा॒त्रम्भ॑वति॒ को [९] हि तद्वेद॒ यत॑ ऋतू॒नाम्मुख॑मृ॒तुना॒ प्रेष्येति॒ षट् कृत्व॑ आह॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णात्यृ॒तुभि॒रिति॑ च॒तुश्चतु॑ष्पद ए॒व प॒शून् प्री॑णाति॒ द्विः पुन॑र्‌ऋ॒तुना॑ऽऽह द्वि॒पद॑ ए॒व प्री॑णात्यृ॒तुना॒ प्रेष्येति॒ षट् कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुस्तस्मा॒च्चतु॑ष्पादः प॒शव॑ ऋ॒तूनुप॑ जीवन्ति॒ द्विः [१०] पुन॑र्‌ऋ॒तुना॑ऽऽह॒ तस्मा᳚द्द्वि॒पाद॒श्चतु॑ष्पदः प॒शूनुप॑ जीवन्त्यृ॒तुना॒ प्रेष्येति॒ षट् कृत्व॑ आह॒र्तुभि॒रिति॑ च॒तुर् द्विः पुन॑र्‌ऋ॒तुना॑ऽऽहा॒ऽऽक्रम॑णमे॒व तथ् सेतु॒य्ँयज॑मानः कुरुते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ नान्यो᳚ऽन्यमनु॒ प्र प॑द्येत॒ यद॒न्यो᳚ऽन्यम॑नुप्र॒पद्ये॑त॒र्तुर्‌ऋ॒तुमनु॒ प्र प॑द्येत॒र्तवो॒ मोहु॑काः स्यः॒ [११] प्रसि॑द्धमे॒वाद्ध्व॒र्युर् दख्‍षि॑णेन॒ प्रप॑द्यते॒ प्रसि॑द्धम्प्रतिप्रस्था॒तोत्त॑रेण॒ तस्मा॑दादि॒त्यः षण्मा॒सो दख्‍षि॑णेनैति॒ षडुत्त॑रेणोपया॒मगृ॑हीतोऽसि स॒ꣳ॒सर्पो᳚ऽस्यꣳहस्प॒त्याय॒ त्वेत्या॒हास्ति॑ त्रयोद॒शो मास॒ इत्या॑हु॒स्तमे॒व तत् प्री॑णाति⁠ [१२] (को जी॑वन्ति॒ द्विः स्यु॒ श्चतु॑स्त्रिꣳशच्च) ॥३॥
सु॒व॒र्गाय॒ वा ए॒ते लो॒काय॑ गृह्यन्ते॒ यदृ॑तुग्र॒हा ज्योति॑रिन्द्रा॒ग्नी यदै᳚न्द्रा॒ग्नमृ॑तुपा॒त्रेण॑ गृ॒ह्णाति॒ ज्योति॑रे॒वास्मा॑ उ॒परि॑ष्टाद्दधाति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या ओजो॒भृतौ॒ वा ए॒तौ दे॒वाना॒य्ँयदि॑न्द्रा॒ग्नी यदै᳚न्द्रा॒ग्नो गृ॒ह्यत॒ ओज॑ ए॒वाव॑ रुन्धे वैश्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा अ॒सावा॑दि॒त्यः शु॒क्रो यद्वै᳚श्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ तस्मा॑द॒सावा॑दि॒त्यः [१३] सर्वाः᳚ प्र॒जाः प्र॒त्यङ्ङुदे॑ति॒ तस्मा॒थ् सर्व॑ ए॒व म॑न्यते॒ माम्प्रत्युद॑गा॒दिति॑ वैश्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जास्तेजः॑ शु॒क्रो यद्वै᳚श्वदे॒वꣳ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॑ प्र॒जास्वे॒व तेजो॑ दधाति⁠ [१४] (तस्मा॑द॒सावा॑दि॒त्य स्त्रि॒ꣳ॒शच्च॑) ॥४॥
इन्द्रो॑ म॒रुद्भिः॒ साव्ँवि॑द्येन॒ माद्ध्य॑न्दिने॒ सव॑ने वृ॒त्रम॑ह॒न्॒‌यन्माद्ध्य॑न्दिने॒ सव॑ने मरुत्व॒तीया॑ गृ॒ह्यन्ते॒ वार्त्र॑घ्ना ए॒व ते यज॑मानस्य गृह्यन्ते॒ तस्य॑ वृ॒त्रञ्ज॒घ्नुष॑ ऋ॒तवो॑ऽमुह्य॒न्थ् स ऋ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑नगृह्णा॒त् ततो॒ वै स ऋ॒तून् प्राजा॑ना॒द्यदृ॑तुपा॒त्रेण॑ मरुत्व॒तीया॑ गृ॒ह्यन्त॑ ऋतू॒नाम्प्रज्ञा᳚त्यै॒ वज्र॒व्ँवा ए॒तय्ँयज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ यन्म॑रुत्व॒तीया॒ उदे॒व प्र॑थ॒मेन॑ [१५] यच्छति॒ प्र ह॑रति द्वि॒तीये॑न स्तृणु॒ते तृ॒तीये॒नाऽऽयु॑ध॒व्ँवा ए॒तद्यज॑मानः॒ सꣴ स्कु॑रुते॒ यन्म॑रुत्व॒तीया॒ धनु॑रे॒व प्र॑थ॒मो ज्या द्वि॒तीय॒ इषु॑स्तृ॒तीयः॒ प्रत्ये॒व प्र॑थ॒मेन॑ धत्ते॒ वि सृ॑जति द्वि॒तीये॑न॒ विद्ध्य॑ति तृ॒तीये॒नेन्द्रो॑ वृ॒त्रꣳ ह॒त्वा परा᳚म्परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मानः॒ स हरि॑तोऽभव॒थ् स ए॒तान् म॑रुत्व॒तीया॑नात्म॒स्पर॑णानपश्य॒त् तान॑गृह्णीत [१६] प्रा॒णमे॒व प्र॑थ॒मेना᳚स्पृणुतापा॒नन्द्वि॒तीये॑ना॒ऽऽत्मान॑न्तृ॒तीये॑नाऽऽत्म॒स्पर॑णा॒ वा ए॒ते यज॑मानस्य गृह्यन्ते॒ यन्म॑रुत्व॒तीयाः᳚ प्रा॒णमे॒व प्र॑थ॒मेन॑ स्पृणुतेऽपा॒नन्द्वि॒तीये॑ना॒ऽऽत्मानं॑ तृ॒तीये॒नेन्द्रो॑ वृ॒त्रम॑ह॒न् तन्दे॒वा अ॑ब्रुवन् म॒हान्‌वा अ॒यम॑भू॒द्यो वृ॒त्रमव॑धी॒दिति॒ तन्म॑हे॒न्द्रस्य॑ महेन्द्र॒त्वꣳ स ए॒तम्मा॑हे॒न्द्रमु॑द्धा॒रमुद॑हरत वृ॒त्रꣳ ह॒त्वाऽन्यासु॑ दे॒वता॒स्व धि॒ यन्मा॑हे॒न्द्रो गृ॒ह्यत॑ उद्धा॒रमे॒व तय्ँयज॑मान॒ उद्ध॑रते॒ऽन्यासु॑ प्र॒जास्वधि॑ शुक्रपा॒त्रेण॑ गृह्णाति यजमानदेव॒त्यो॑ वै मा॑हे॒न्द्रस्तेजः॑ शु॒क्रो यन्मा॑हे॒न्द्रꣳ शु॑क्रपा॒त्रेण॑ गृ॒ह्णाति॒ यज॑मान ए॒व तेजो॑ दधाति⁠ [१७] (प्र॒थ॒मेना॑ गृह्णीत दे॒वता᳚स्व॒ ष्टावि॑ꣳशतिश्च) ॥५॥
अदि॑तिः पु॒त्रका॑मा सा॒द्ध्येभ्यो॑ दे॒वेभ्यो᳚ ब्रह्मौद॒नम॑पच॒त् तस्या॑ उ॒च्छेष॑णमददु॒ स्तत् प्राश्ञा॒थ् सा रेतो॑ऽधत्त॒ तस्यै॑ च॒त्वार॑ आदि॒त्या अ॑जायन्त॒ सा द्वि॒तीय॑मपच॒थ् साऽम॑न्यतो॒च्छेष॑णान्म इ॒मे᳚ऽज्ञत॒ यदग्रे᳚ प्राशि॒ष्यामी॒तो मे॒ वसी॑याꣳसो जनिष्यन्त॒ इति॒ साऽग्रे॒ प्राश्ञा॒थ् सा रेतो॑ऽधत्त॒ तस्यै॒ व्यृ॑द्धमा॒ण्डम॑जायत॒ साऽऽदि॒त्येभ्य॑ ए॒व [१८] तृ॒तीय॑मपच॒द्भोगा॑य म इ॒दꣴ श्रा॒न्तम॒स्त्विति॒ ते᳚ऽब्रुव॒न् वर॑व्ँवृणामहै॒ योऽतो॒ जाया॑ता अ॒स्माक॒ꣳ॒ स एको॑ऽस॒द्यो᳚ऽस्य प्र॒जाया॒मृद्ध्या॑ता अ॒स्माक॒म्भोगा॑य भवा॒दिति॒ ततो॒ विव॑स्वानादि॒त्यो॑ऽजायत॒ तस्य॒ वा इ॒यम्प्र॒जा यन्म॑नु॒ष्या᳚स्तास्वेक॑ ए॒वर्द्धो यो यज॑ते॒ स दे॒वाना॒म्भोगा॑य भवति दे॒वा वै य॒ज्ञाद् [१९] रु॒द्रम॒न्तरा॑य॒न्थ् स आ॑दि॒त्यान॒न्वाक्र॑मत॒ ते द्वि॑देव॒त्या᳚न् प्राप॑द्यन्त॒ तान् न प्रति॒ प्राय॑च्छ॒न् तस्मा॒दपि॒ वद्ध्य॒म्प्रप॑न्न॒न्न प्रति॒ प्र य॑च्छन्ति॒ तस्मा᳚द् द्विदेव॒त्ये᳚भ्य आदि॒त्यो निर् गृ॑ह्यते॒ यदु॒च्छेष॑णा॒दजा॑यन्त॒ तस्मा॑दु॒च्छेष॑णाद्गृह्यते ति॒सृभि॑र्‌ऋ॒ग्भिर् गृ॑ह्णाति मा॒ता पि॒ता पु॒त्रस्तदे॒व तन्मि॑थु॒नमुल्ब॒ङ्गर्भो॑ ज॒रायु॒ तदे॒व तन् [२०] मि॑थु॒नम्प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ऊर्ग् दधि॑ द॒द्ध्ना म॑द्ध्य॒तः श्री॑णा॒त्यूर्ज॑मे॒व प॑शू॒नाम्म॑द्ध्य॒तो द॑धाति शृतात॒ङ्क्ये॑न मेद्ध्य॒त्वाय॒ तस्मा॑दा॒मा प॒क्वन्दु॑हे प॒शवो॒ वा ए॒ते यदा॑दि॒त्यः प॑रि॒श्रित्य॑ गृह्णाति प्रति॒रुद्ध्यै॒वास्मै॑ प॒शून् गृ॑ह्णाति प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निः प॑रि॒श्रित्य॑ गृह्णाति रु॒द्रादे॒व प॒शून॒न्तर् द॑धा [२१] त्ये॒ष वै विव॑स्वानादि॒त्यो यदु॑पाꣳशु॒सव॑नः॒ स ए॒तमे॒व सो॑मपी॒थम्परि॑ शय॒ आ तृ॑तीयसव॒नाद्विव॑स्व आदित्यै॒ष ते॑ सोमपी॒थ इत्या॑ह॒ विव॑स्वन्तमे॒वाऽऽदि॒त्यꣳ सो॑मपी॒थेन॒ सम॑र्द्धयति॒ या दि॒व्या वृष्टि॒स्तया᳚ त्वा श्रीणा॒मीति॒ वृष्टि॑कामस्य श्रीणीया॒द्वृष्टि॑मे॒वाव॑ रुन्धे॒ यदि॑ ता॒जक् प्र॒स्कन्दे॒द् वर्‌षु॑कः प॒र्जन्यः॑ स्या॒द्यदि॑ चि॒रमव॑र्‌षुको॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट् करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजे॒न्न हु॒त्वाऽन्वी᳚ख्‍षेत॒ यद॒न्वीख्‍षे॑त॒ चख्‍षु॑रस्य प्र॒मायु॑कꣴ स्या॒त् तस्मा॒न्नान्वीख्‍ष्यः॑⁠ [२२] (ए॒व य॒ज्ञा ज्ज॒रायु॒ तदे॒व तद॒ न्तर्द॑धाति॒ न स॒प्तवि॑ꣳशतिश्च) ॥६॥
अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रमा᳚ग्रय॒णाद्गृ॑ह्णाति प्र॒जाप॑ति॒र् वा ए॒ष यदा᳚ग्रय॒णः प्र॒जाना᳚म्प्र॒जन॑नाय॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट् करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजेदे॒ष वै गा॑य॒त्रो दे॒वाना॒य्ँयथ् स॑वि॒तैष गा॑यत्रि॒यै लो॒के गृ॑ह्यते॒ यदा᳚ग्रय॒णो यद॑न्तर्यामपा॒त्रेण॑ सावि॒त्रमा᳚ग्रय॒णाद्गृ॒ह्णाति॒ स्वादे॒वैन॒य्ँयोने॒र् निर् गृ॑ह्णाति॒ विश्वे॑ [२३] दे॒वास्तृ॒तीय॒ꣳ॒ सव॑न॒न्नोद॑यच्छ॒न् ते स॑वि॒तार॑म्प्रातस्सव॒नभा॑ग॒ꣳ॒ सन्त॑न्तृतीयसव॒नम॒भि पर्य॑णय॒न् ततो॒ वै ते तृ॒तीय॒ꣳ॒ सव॑न॒मुद॑यच्छ॒न्॒‌यत् तृ॑तीयसव॒ने सा॑वि॒त्रो गृ॒ह्यते॑ तृ॒तीय॑स्य॒ सव॑न॒स्योद्य॑त्यै सवितृपा॒त्रेण॑ वैश्वदे॒वङ्क॒लशा᳚द्गृह्णाति वैश्वदे॒व्यो॑ वै प्र॒जा वै᳚श्वदे॒वः क॒लशः॑ सवि॒ता प्र॑स॒वाना॑मीशे॒ यथ् स॑वितृपा॒त्रेण॑ वैश्वदे॒वङ्क॒लशा᳚द्गृ॒ह्णाति॑ सवि॒तृप्र॑सूत ए॒वास्मै᳚ प्र॒जाः प्र [२४] ज॑नयति॒ सोमे॒ सोम॑म॒भि गृ॑ह्णाति॒ रेत॑ ए॒व तद्द॑धाति सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒न इत्या॑ह॒ सोमे॒ हि सोम॑मभिगृ॒ह्णाति॒ प्रति॑ष्ठित्या ए॒तस्मि॒न् वा अपि॒ ग्रहे॑ मनु॒ष्ये᳚भ्यो दे॒वेभ्यः॑ पि॒तृभ्यः॑ क्रियते सु॒शर्मा॑ऽसि सुप्रतिष्ठा॒न इत्या॑ह मनु॒ष्ये᳚भ्य ए॒वैतेन॑ करोति बृ॒हदित्या॑ह दे॒वेभ्य॑ ए॒वैतेन॑ करोति॒ नम॒ इत्या॑ह पि॒तृभ्य॑ ए॒वैतेन॑ करोत्ये॒ ताव॑ती॒र् वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒ꣳ॒ सर्वा᳚भ्यो गृह्णात्ये॒ष ते॒ योनि॒र् विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्या॑ह वैश्वदे॒वो ह्ये॑षः⁠ [२५] (विश्वे॒ प्र पि॒तृभ्य॑ ए॒वैतेन॑ करो॒त्ये का॒न्नवि॑ꣳश॒तिश्च॑) ॥७॥
प्रा॒णो वा ए॒ष यदु॑पा॒ꣳ॒शुर्यदु॑पाꣳशुपा॒त्रेण॑ प्रथ॒मश्चो᳚त्त॒मश्च॒ ग्रहौ॑ गृ॒ह्येते᳚ प्रा॒णमे॒वानु॑ प्र॒यन्ति॑ प्रा॒णमनूद्य॑न्ति प्र॒जाप॑ति॒र् वा ए॒ष यदा᳚ग्रय॒णः प्रा॒ण उ॑पा॒ꣳ॒शुः पत्नीः᳚ प्र॒जाः प्र ज॑नयन्ति॒ यदु॑पाꣳशुपा॒त्रेण॑ पात्नीव॒तमा᳚ग्रय॒णाद्गृ॒ह्णाति॑ प्र॒जाना᳚म्प्र॒जन॑नाय॒ तस्मा᳚त् प्रा॒णं प्र॒जा अनु॒ प्र जा॑यन्ते दे॒वा वा इ॒तै॑तः॒ पत्नीः᳚ सुव॒र्ग [२६] ल्ँलो॒कम॑जिगाꣳस॒न् ते सु॑व॒र्गल्ँलो॒कन्न प्राजा॑न॒न् त ए॒तम्पा᳚त्नीव॒तम॑पश्य॒न् तम॑गृह्णत॒ ततो॒ वै ते सु॑व॒र्गल्ँलो॒कम्प्राजा॑न॒न्॒‌यत् पा᳚त्नीव॒तो गृ॒ह्यते॑ सुव॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै॒ स सोमो॒ नाति॑ष्ठत स्त्री॒भ्यो गृ॒ह्यमा॑ण॒स्तङ्घृ॒तव्ँवज्र॑ङ्कृ॒त्वाऽघ्न॒न् तन्निरि॑न्द्रियम्भू॒तम॑गृह्ण॒न् तस्मा॒थ् स्त्रियो॒ निरि॑न्द्रिया॒ अदा॑यादी॒रपि॑ पा॒पात् पु॒ꣳ॒स उप॑स्तितर [२७] व्ँवदन्ति॒ यद्घृ॒तेन॑ पात्नीव॒तꣴ श्री॒णाति॒ वज्रे॑णै॒वैन॒व्ँवशे॑ कृ॒त्वा गृ॑ह्णा त्युपया॒मगृ॑हीतो॒ऽसीत्या॑हे॒यव्ँवा उ॑पया॒मस्तस्मा॑दि॒माम्प्र॒जा अनु॒ प्र जा॑यन्ते॒ बृह॒स्पति॑सुतस्य त॒ इत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र् ब्रह्म॑णै॒वास्मै᳚ प्र॒जाः प्र ज॑नयतीन्दो॒ इत्या॑ह॒ रेतो॒ वा इन्दू॒ रेत॑ ए॒व तद्द॑धातीन्द्रियाव॒ इ [२८] त्या॑ह प्र॒जा वा इ॑न्द्रि॒यम्प्र॒जा ए॒वास्मै॒ प्र ज॑नय॒त्यग्ना(३) इत्या॑हा॒ग्निर् वै रे॑तो॒धाः पत्नी॑व॒ इत्या॑ह मिथुन॒त्वाय॑ स॒जूर् दे॒वेन॒ त्वष्ट्रा॒ सोम॑म्पि॒बेत्या॑ह॒ त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नाना॑ꣳ रूप॒कृद्रू॒पमे॒व प॒शुषु॑ दधाति दे॒वा वै त्वष्टा॑र मजिघाꣳस॒न्थ् स पत्नीः॒ प्राप॑द्यत॒ तन्न प्रति॒ प्राय॑च्छ॒न् तस्मा॒दपि॒ [२९] वद्ध्य॒म्प्रप॑न्न॒न्न प्रति॒ प्र य॑च्छन्ति॒ तस्मा᳚त् पात्नीव॒ते त्वष्ट्रेऽपि॑ गृह्यते॒ न सा॑दय॒त्यस॑न्ना॒द्धि प्र॒जाः प्र॒जाय॑न्ते॒ नानु॒ वष॑ट् करोति॒ यद॑नुवषट्कु॒र्याद्रु॒द्रम्प्र॒जा अ॒न्वव॑सृजे॒द्यन्नानु॑वषट्कु॒र्यादशा᳚न्तम॒ग्नीथ् सोम॑म्भख्‍षयेदुपा॒ꣴ॒श्वनु॒ वष॑ट् करोति॒ न रु॒द्रम्प्र॒जा अ॑न्ववसृ॒जति॑ शा॒न्तम॒ग्नीथ् सोम॑म्भख्‍षय॒त्यग्नी॒न्नेष्टु॑रु॒पस्थ॒मा सी॑द॒ [३०] नेष्टः॒ पत्नी॑मु॒दान॒येत्या॑हा॒ग्नीदे॒व नेष्ट॑रि॒ रेतो॒ दधा॑ति॒ नेष्टा॒ पत्नि॑यामुद्गा॒त्रा सङ्ख्या॑पयति प्र॒जाप॑ति॒र् वा ए॒ष यदु॑द्गा॒ता प्र॒जाना᳚म्प्र॒जन॑नाया॒प उप॒ प्र व॑र्तयति॒ रेत॑ ए॒व तथ् सि॑ञ्चत्यू॒रुणोप॒ प्र व॑र्तयत्यू॒रुणा॒ हि रेतः॑ सि॒च्यते॑ नग्नं॒कृत्यो॒रुमुप॒ प्र व॑र्तयति य॒दा हि न॒ग्न ऊ॒रुर् भव॒त्यथ॑ मिथु॒नी भ॑व॒तोऽथ॒ रेतः॑ सिच्य॒तेऽथ॑ प्र॒जाः प्र जा॑यन्ते⁠ [३१] (पत्नीः᳚ सुव॒र्ग मुप॑स्तितर मिन्द्रियाव॒ इत्यपि॑सीदमिथु॒न्य॑ष्टौ च॑) ॥८॥
इन्द्रो॑ वृ॒त्रम॑ह॒न् तस्य॑ शीर्‌षकपा॒लमुदौ᳚ब्ज॒थ् स द्रो॑णकल॒शो॑ऽभव॒त् तस्मा॒थ् सोमः॒ सम॑स्रव॒थ् स हा॑रियोज॒नो॑ऽभव॒त् तव्ँव्य॑चिकिथ्सज्जु॒हवा॒नी(३) मा हौ॒षा(३)मिति॒ सो॑ऽमन्यत॒ यद्धो॒ष्याम्या॒मꣳ हो᳚ष्यामि॒ यन्न हो॒ष्यामि॑ यज्ञवेश॒सङ्क॑रिष्या॒मीति॒ तम॑द्ध्रियत॒ होतु॒ꣳ॒ सो᳚ऽग्निर॑ब्रवी॒न्न मय्या॒मꣳ हो᳚ष्य॒सीति॒ तन्धा॒नाभि॑रश्रीणा॒त् [३२] तꣳ शृ॒तम्भू॒तम॑जुहो॒द्यद्धा॒नाभि॑र्‌हारियोज॒नꣴ श्री॒णाति॑ शृत॒त्वाय॑ शृ॒तमे॒वैन॑म्भू॒तञ्जु॑होति ब॒ह्वीभिः॑ श्रीणात्ये॒ताव॑तीरे॒वास्या॒मुष्मि॑ल्ँलो॒के का॑म॒दुघा॑ भव॒न्त्यथो॒ खल्वा॑हुरे॒ता वा इन्द्र॑स्य॒ पृश्ञ॑यः काम॒दुघा॒ यद्धा॑रियोज॒नीरिति॒ तस्मा᳚द्ब॒ह्वीभिः॑ श्रीणीयादृख्सा॒मे वा इन्द्र॑स्य॒ हरी॑ सोम॒पानौ॒ तयोः᳚ परि॒धय॑ आ॒धान॒य्ँयदप्र॑हृत्य परि॒धीञ्जु॑हु॒याद॒न्तरा॑धानाभ्यां [३३] घा॒सम्प्र य॑च्छेत् प्र॒हृत्य॑ परि॒धीञ्जु॑होति॒ निरा॑धानाभ्यामे॒व घा॒सम्प्र य॑च्छत्युन्ने॒ता जु॑होति या॒तया॑मेव॒ ह्ये॑तर्ह्य॑द्ध्व॒र्युः स्व॒गाकृ॑तो॒ यद॑द्ध्व॒र्युर् जु॑हु॒याद्यथा॒ विमु॑क्त॒म्पुन॑र् यु॒नक्ति॑ ता॒दृगे॒व तच्छी॒र्॒‌षन्न॑धिनि॒धाय॑ जुहोति शीर्‌ष॒तो हि स स॒मभ॑वद्वि॒क्रम्य॑ जुहोति वि॒क्रम्य॒ हीन्द्रो॑ वृ॒त्रमह॒न्थ् समृ॑द्ध्यै प॒शवो॒ वै हा॑रियोज॒नीर् यथ् सं॑भि॒न्द्यादल्पा॑ [३४] एनम्प॒शवो॑ भु॒ञ्जन्त॒ उप॑तिष्ठेर॒न्॒‌यन्न सं॑भि॒न्द्याद्ब॒हव॑ एनम्प॒शवोऽभु॑ञ्जन्त॒ उप॑ तिष्ठेर॒न् मन॑सा॒ सम्बा॑धत उ॒भय॑ङ्करोति ब॒हव॑ ए॒वैन॑म्प॒शवो॑ भु॒ञ्जन्त॒ उप॑ तिष्ठन्त उन्ने॒त॒र्यु॑पह॒वमि॑च्छन्ते॒ य ए॒व तत्र॑ सोमपी॒थस्तमे॒वाव॑ रुन्धत उत्तरवे॒द्यान्निव॑पति प॒शवो॒ वा उ॑त्तरवे॒दिः प॒शवो॑ हारियोज॒नीः प॒शुष्वे॒व प॒शून् प्रति॑ ष्ठापयन्ति⁠ [३५] (अ॒श्री॒णा॒ द॒न्तरा॑धानाभ्या॒ मल्पाः᳚ स्थापयन्ति) ॥९॥
ग्रहा॒न्॒‌वा अनु॑ प्र॒जाः प॒शवः॒ प्र जा॑यन्त उपाꣴश्वन्तर्या॒माव॑जा॒वयः॑ शु॒क्राम॒न्थिनौ॒ पुरु॑षा ऋतुग्र॒हानेक॑शफा आदित्यग्र॒हङ्गाव॑ आदित्यग्र॒हो भूयि॑ष्ठाभिर्‌ऋ॒ग्भिर् गृ॑ह्यते॒ तस्मा॒द्गावः॑ पशू॒नाम्भूयि॑ष्ठा॒ यत् त्रिरु॑पा॒ꣳ॒शुꣳ हस्ते॑न विगृ॒ह्णाति॒ तस्मा॒द् द्वौ त्रीन॒जा ज॒नय॒त्यथाव॑यो॒ भूय॑सीः पि॒ता वा ए॒ष यदा᳚ग्रय॒णः पु॒त्रः क॒लशो॒ यदा᳚ग्रय॒ण उ॑प॒दस्ये᳚त् क॒लशा᳚द्गृह्णीया॒द्यथा॑ पि॒ता [३६] पु॒त्रङ्ख्‍षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तद्यत् क॒लश॑ उप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीया॒द्यथा॑ पु॒त्रः पि॒तर॑ङ्ख्‍षि॒त उ॑प॒धाव॑ति ता॒दृगे॒व तदा॒त्मा वा ए॒ष य॒ज्ञस्य॒ यदा᳚ग्रय॒णो यद्ग्रहो॑ वा क॒लशो॑ वोप॒दस्ये॑दाग्रय॒णाद्गृ॑ह्णीयादा॒त्मन॑ ए॒वाधि॑ य॒ज्ञन्निष्क॑रो॒त्यवि॑ज्ञातो॒ वा ए॒ष गृ॑ह्यते॒ यदा᳚ग्रय॒णः स्था॒ल्या गृ॒ह्णाति॑ वाय॒व्ये॑न जुहोति॒ तस्मा॒द् [३७] गर्भे॒णावि॑ज्ञातेन ब्रह्म॒हाऽव॑भृ॒थमव॑ यन्ति॒ परा᳚ स्था॒लीरस्य॒न्त्युद्वा॑य॒व्या॑नि हरन्ति॒ तस्मा॒थ् स्त्रिय॑ञ्जा॒ताम्परा᳚ऽस्य॒न्त्युत् पुमा॑ꣳसꣳ हरन्ति॒ यत् पु॑रो॒रुच॒माह॒ यथा॒ वस्य॑स आ॒हर॑ति ता॒दृगे॒व तद्यद्ग्रह॑ङ्गृ॒ह्णाति॒ यथा॒ वस्य॑स आ॒हृत्य॒ प्राऽऽह॑ ता॒दृगे॒व तद्यथ् सा॒दय॑ति॒ यथा॒ वस्य॑स उपनि॒धाया॑प॒क्राम॑ति ता॒दृगे॒व तद् यद् वै य॒ज्ञस्य॒ साम्ना॒ यजु॑षा क्रि॒यते॑ शिथि॒लन्तद्यदृ॒चा तद् दृ॒ढम्पु॒रस्ता॑दुपयामा॒ यजु॑षा गृह्यन्त उ॒परि॑ष्टा दुपयामा ऋ॒चा य॒ज्ञस्य॒ धृत्यै᳚⁠ [३८] (यथा॑ पि॒ता तस्मा॑ दप॒क्राम॑ति ता॒दृगे॒व तद् य द॒ष्टाद॑श च) ॥१०॥
प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ऽमुमे॒व तैर् लो॒कम॒भि ज॑यति॒ परा॑ङिव॒ ह्य॑सौ लो॒को यानि॒ पुनः॑ प्रयु॒ज्यन्त॑ इ॒ममे॒व तैर् लो॒कम॒भि ज॑यति॒ पुनः॑पुनरिव॒ ह्य॑यल्ँलो॒कः प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ परा॑ भवन्ति॒ यानि॒ पुनः॑ [३९] प्रयु॒ज्यन्ते॒ तान्यन्वोष॑धयः॒ पुन॒रा भ॑वन्ति॒ प्रान्यानि॒ पात्रा॑णि यु॒ज्यन्ते॒ नान्यानि॒ यानि॑ परा॒चीना॑नि प्रयु॒ज्यन्ते॒ तान्यन्वा॑र॒ण्याः प॒शवोऽर॑ण्य॒मप॑ यन्ति॒ यानि॒ पुनः॑ प्रयु॒ज्यन्ते॒ तान्यनु॑ ग्रा॒म्याः प॒शवो॒ ग्राम॑मु॒पाव॑यन्ति॒ यो वै ग्रहा॑णान्नि॒दान॒व्ँवेद॑ नि॒दान॑वान् भव॒त्याज्य॒मित्यु॒क्थन्तद्वै ग्रहा॑णान्नि॒दान॒य्ँयदु॑पा॒ꣳ॒शु शꣳस॑ति॒ त [४०] दु॑पाꣴश्वन्तर्या॒मयो॒र् यदु॒च्चैस्तदित॑रेषा॒ङ्ग्रहा॑णामे॒तद्वै ग्रहा॑णान्नि॒दान॒य्ँय ए॒वव्ँवेद॑ नि॒दान॑वान् भवति॒ यो वै ग्रहा॑णाम्मिथु॒नव्ँवेद॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते स्था॒लीभि॑र॒न्ये ग्रहा॑ गृ॒ह्यन्ते॑ वाय॒व्यै॑र॒न्य ए॒तद्वै ग्रहा॑णाम्मिथु॒नय्ँय ए॒वव्ँवेद॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यत॒ इन्द्र॒स्त्वष्टुः॒ सोम॑मभी॒षहा॑ऽपिब॒थ् स विष्व॒ङ् [४१] व्या᳚र्च्छ॒थ् स आ॒त्मन्ना॒रम॑ण॒न्नावि॑न्द॒थ् स ए॒तान॑नुसव॒नम्पु॑रो॒डाशा॑नपश्य॒त् तान् निर॑वप॒त् तैर्वै स आ॒त्मन्ना॒रम॑णमकुरुत॒ तस्मा॑दनुसव॒नम्पु॑रो॒डाशा॒ निरु॑प्यन्ते॒ तस्मा॑दनुसव॒नम्पु॑रो॒डाशा॑नां॒ प्राश्ञी॑यादा॒त्मन्ने॒वाऽऽरम॑णङ्कुरुते॒ नैन॒ꣳ॒ सोमोऽति॑ पवते ब्रह्मवा॒दिनो॑ वदन्ति॒ नर्चा न यजु॑षा प॒ङ्क्तिरा᳚प्य॒तेऽथ॒ किय्ँय॒ज्ञस्य॑ पाङ्क्त॒त्वमिति॑ धा॒नाः क॑रं॒भः प॑रिवा॒पः पु॑रो॒डाशः॑ पय॒स्या॑ तेन॑ प॒ङ्क्तिरा᳚प्यते॒ तद्य॒ज्ञस्य॑ पाङ्क्त॒त्वम्⁠ [४२] (भ॒व॒न्ति॒ यानि॒ पुनः॒ शꣳस॑ति॒ त द्विष्व॒ङ् किं चतु॑र्दश च) ॥११॥
(इन्द्रो॑ वृ॒त्रायाऽऽयु॒र्वै य॒ज्ञेन॑ सुव॒र्गा येन्द्रो॑ म॒रुद्भि॒ रदि॑ति रन्तर्यामपा॒त्रेण॑ प्रा॒ण उ॑पाꣳशु पा॒त्रे णेन्द्रो॑ वृ॒त्रम॑ह॒न् तस्य॒ ग्रहा॒न् प्रान्या न्येका॑दश)
(इन्द्रो॑ वृ॒त्राय॒ पुन॑र्‌ऋ॒तुना॑ऽऽह मिथु॒नम्प॒शवो॒ नेष्टः॒ पत्नी॑ मुपाꣴश्वन्तर्या॒मयो॒ द्विच॑त्वारिꣳशत्)
(इन्द्रो॑ वृ॒त्राय॑ पाङ्क्त॒त्वं)
अनुवाकाः पञ्चशती
११ ४२