भाग्यसूक्तम्

भाग्यसूक्तम्
ओं प्रा॒तर॒ग्निम्प्रा॒तरिन्द्रग्ं॑ हवामहे प्रा॒तर्मि॒त्रा वरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒तर्भग॑म्पू॒षण॒म्ब्रह्म॑ण॒स्पति॑म्प्रा॒तस्सोम॑मु॒त रु॒द्रꣳ हु॑वेम ॥१॥प्रा॒त॒र्जित॒म्भ॑गमु॒ग्रꣳ हु॑वेम व॒यम्पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒द्ध्रश्चि॒द्यम्मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यम्भग॑म्भ॒ख्‍षीत्याह॑ ॥२॥भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मान्धिय॒मुद॑व॒दद॑न्नः । भग॒प्रणो॑ जनय॒ गोभि॒रश्वै॒र्भग॒प्रनृभि॑र्नृ॒वन्त॑स्स्याम ॥३॥उ॒तेदानी॒म्भग॑वन्तस्स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना᳚म् । उ॒तोदि॑ता मघव॒न्​थ्सूर्य॑स्य व॒यन्दे॒वानाग्ं॑ सुम॒तौ स्या॑म ॥४॥भग॑ ए॒व भग॑वाꣳ अस्तु देवा॒स्तेन॑ व॒यम्भग॑वन्तस्स्याम । ॥५॥
ta-ntvā̍ bhaga̠ sarva̠ ijjō̍havīmi̠ sanō̍ bhaga pura ē̠tā bha̍vēha
सम॑ध्व॒रायो॒षसो॑ऽनमन्त दधि॒क्रावे॑व॒ शुचये॑ प॒दाय॑ । अ॒र्वा॒ची॒नं व॑सु॒विद॒म्भग॑न्नो॒ रथ॑मि॒वाऽश्वा॑वा॒जिन॒ आव॑हन्तु ॥६॥अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः । घृ॒तन्दुहा॑ना वि॒श्वतः॒ प्रपी॑ना यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ॥७॥यो मा᳚ऽग्ने भा॒गिनग्ं॑ स॒न्तमथा॑भा॒ग॑ञ्चिकी॑ऋषति । अभा॒गम॑ग्ने॒ तङ्कु॑रु॒ माम॑ग्ने भा॒गिन॑ङ्कुरु ॥८॥

॥ ओं शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥

Sections८
Mantras८
Version1.0