हिरण्यगर्भ सूक्तं

हिरण्यगर्भसूक्तम्

ओं नमः परमात्मने, श्री महागणपतये नमः,

श्री गुरुभ्यो नमः⁠। ह॒रिः॒ ओं⁠॥

ॐ
हि॒र॒ण्य॒ग॒र्भ स्सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्⁠। स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ २. यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑⁠। य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ ३. य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिष॒य्ँयस्य॑ दे॒वाः⁠। यस्य॑ छा॒याऽमृत॒य्ँयस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ ४. यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्र र॒सया॑ स॒हाऽऽहुः⁠। यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ ५. यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैख्‍षे॑तां॒ मन॑सा॒ रेज॑माने⁠। यत्राधि॒सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ ६. येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढे येन॒ सुवः॑ स्तभि॒तय्ँयेन॒ नाकः॑⁠। यो अ॒न्तरि॑ख्‍षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ ७. आपो॑ ह॒ यन्म॑ह॒तीर् विश्व॒माय॒न् दख्‍षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निं⁠। ततो॑ दे॒वाना॒न्निर॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ ८. यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द् दख्‍षं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निं⁠। यो दे॒वेष्वधि॑ दे॒व येक॒ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥

॥ ओं शान्तिः शान्तिः शान्तिः॑ ॥

Sections१
Mantras१
Version5.0