कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
चतुर्थकाण्डे प्रथमः प्रश्नः

कांड ४ प्रश्न १
अग्निचित्यङ्गमन्त्रपाठाभिधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
यु॒ञ्जा॒नः प्र॑थ॒मम्मन॑स्त॒त्वाय॑ सवि॒ता धियः॑⁠। अ॒ग्निञ्ज्योति॑र्नि॒चाय्य॑ पृथि॒व्या अद्ध्याऽभ॑रत्⁠॥ यु॒क्त्वाय॒ मन॑सा दे॒वान्थ् सुव॑र्य॒तो धि॒या दिव᳚म्⁠। बृ॒हज्ज्योतिः॑ करिष्य॒तः स॑वि॒ता प्र सु॑वाति॒ तान्⁠॥ यु॒क्तेन॒ मन॑सा व॒यन्दे॒वस्य॑ सवि॒तुः स॒वे⁠। सु॒व॒र्गेया॑य॒ शक्त्यै᳚⁠॥ यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑⁠। वि होत्रा॑ दधे वयुना॒विदेक॒ इन् [१] म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः⁠॥ यु॒जे वा॒म्ब्रह्म॑ पू॒र्व्यन्नमो॑भि॒र् वि श्लोका॑ यन्ति प॒थ्ये॑व॒ सूराः᳚⁠। शृ॒ण्वन्ति॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः⁠॥ यस्य॑ प्र॒याण॒मन्वव॒न्य इद्य॒युर् दे॒वा दे॒वस्य॑ महि॒मान॒मर्च॑तः⁠। यः पार्त्थि॑वानि विम॒मे स एत॑शो॒ रजा॑ꣳसि दे॒वः स॑वि॒ता म॑हित्व॒ना⁠॥ देव॑ सवितः॒ प्र सु॑व य॒ज्ञम्प्र सु॑व [२] य॒ज्ञप॑ति॒म्भगा॑य दि॒व्यो ग॑न्ध॒र्वः⁠। के॒त॒पूः केत॑न्नः पुनातु वा॒चस्पति॒र् वाच॑म॒द्य स्व॑दाति नः⁠॥ इ॒मन्नो॑ देव सवितर् य॒ज्ञम्प्र सु॑व देवा॒युव॑ꣳ सखि॒विद॑ꣳ सत्रा॒जित॑न्धन॒जित॑ꣳ सुव॒र्जित᳚म्⁠॥ ऋ॒चा स्तोम॒ꣳ॒ सम॑र्द्धय गाय॒त्रेण॑ रथन्त॒रम्⁠। बृ॒हद्गा॑य॒त्रव॑र्तनि⁠॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र् बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्याङ्गाय॒त्रेण॒ छन्द॒साऽऽद॑देऽङ्गिर॒स्वदभ्रि॑रसि॒ नारि॑ [३] रसि पृथि॒व्याः स॒धस्था॑द॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदा भ॑र॒ त्रैष्टु॑भेन त्वा॒ छन्द॒साऽऽद॑देऽङ्गिर॒स्वद्बभ्रि॑रसि॒ नारि॑रसि॒ त्वया॑ व॒यꣳ स॒धस्थ॒ आग्निꣳ श॑केम॒ खनि॑तुम्पुरी॒ष्य॑ञ्जाग॑तेन त्वा॒ छन्द॒साऽऽद॑देऽङ्गिर॒स्वद्धस्त॑ आ॒धाय॑ सवि॒ता बिभ्र॒दभ्रि॑ꣳ हिर॒ण्ययी᳚म्⁠। तया॒ ज्योति॒रज॑स्र॒मिद॒ग्निङ्खा॒त्वी न॒ आ भ॒रा*नु॑ष्टुभेन त्वा॒ छन्द॒सा ऽऽद॑देऽङ्गिर॒स्वत्⁠ [४] (इद् य॒ज्ञम्प्रसु॑व॒ नारि॒ रानु॑ष्टुभेन त्वा॒ छन्द॑सा॒ त्रीणि॑ च) ॥१॥
इ॒माम॑गृभ्णन् रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या⁠। तया॑ दे॒वाः सु॒तमा ब॑भूवुर्‌ऋ॒तस्य॒ साम᳚न्थ् स॒रमा॒रप॑न्ती⁠॥ प्रतू᳚र्तव्ँवाजि॒न्ना द्र॑व॒ वरि॑ष्ठा॒मनु॑ स॒व्ँवत᳚म्⁠। दि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑ख्‍षे॒ नाभिः॑ पृथि॒व्यामधि॒ योनिः॑⁠॥ यु॒ञ्जाथा॒ꣳ॒ रास॑भय्ँयु॒वम॒स्मिन्‌यामे॑ वृषण्वसू⁠। अ॒ग्निम्भर॑न्तमस्म॒युम्⁠॥ योगे॑योगे त॒वस्त॑र॒व्ँवाजे॑वाजे हवामहे⁠। सखा॑य॒ इन्द्र॑मू॒तये᳚⁠॥ प्र॒तूर्व॒ [५] न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑पत्यान् मयो॒भूरेहि॑⁠। उ॒र्व॑न्तरि॑ख्‍ष॒मन्वि॑हि स्व॒स्तिग॑व्यूति॒रभ॑यानि कृ॒ण्वन्न्⁠॥ पू॒ष्णा स॒युजा॑ स॒ह⁠। पृ॒थि॒व्याः स॒धस्था॑द॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे᳚ह्य॒ग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॑मो॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रिष्यामो॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑रामः⁠॥ अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः⁠। अनु॒ सूर्य॑स्य [६] पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तान⁠॥ आ॒गत्य॑ वा॒ज्यद्ध्व॑नः॒ सर्वा॒ मृधो॒ वि धू॑नुते⁠। अ॒ग्निꣳ स॒धस्थे॑ मह॒ति चख्‍षु॑षा॒ नि चि॑कीषते⁠॥ आ॒क्रम्य॑ वाजिन् पृथि॒वीम॒ग्निमि॑च्छ रु॒चा त्वम्⁠। भूम्या॑ वृ॒त्वाय॑ नो ब्रूहि॒ यतः॒ खना॑म॒ तव्ँव॒यम्⁠॥ द्यौस्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॑मा॒त्माऽन्तरि॑ख्‍षꣳ समु॒द्रस्ते॒ योनिः॑⁠। वि॒ख्याय॒ चख्‍षु॑षा॒ त्वम॒भि ति॑ष्ठ [७] पृतन्य॒तः⁠॥ उत्क्रा॑म मह॒ते सौभ॑गाया॒स्मादा॒स्थाना᳚द् द्रविणो॒दा वा॑जिन्न्⁠। व॒यꣴ स्या॑म सुम॒तौ पृ॑थि॒व्या अ॒ग्निङ्ख॑नि॒ष्यन्त॑ उ॒पस्थे॑ अस्याः⁠॥ उद॑क्रमीद् द्रविणो॒दा वा॒ज्यर्वाऽकः॒ स लो॒कꣳ सुकृ॑तम्पृथि॒व्याः⁠। ततः॑ खनेम सु॒प्रती॑कम॒ग्निꣳ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे⁠॥ अ॒पो दे॒वीरुप॑ सृज॒ मधु॑मतीरय॒ख्‍ष्माय॑ प्र॒जाभ्यः॑⁠। तासा॒ꣴ॒ स्थाना॒दुज्जि॑हता॒मोष॑धयः सुपिप्प॒लाः⁠॥ जिघ॑र्म्य॒ [८] ग्निम्मन॑सा घृ॒तेन॑ प्रति॒ख्‍ष्यन्त॒म्भुव॑नानि॒ विश्वा᳚⁠। पृ॒थुन्ति॑र॒श्चा वय॑सा बृ॒हन्त॒व्ँव्यचि॑ष्ठ॒मन्न॑ꣳ रभ॒सव्ँविदा॑नम्⁠॥ आ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेना॑ऽर॒ख्‍षसा॒ मन॑सा॒ तज्जु॑षस्व⁠। मर्य॑श्रीः स्पृह॒यद् व॑र्णो अ॒ग्निर् नाऽभि॒मृशे॑ त॒नुवा॒ जर्‌हृ॑षाणः⁠॥ परि॒ वाज॑पतिः क॒विर॒ग्निर्‌ह॒व्यान्य॑क्रमीत्⁠। दध॒द् रत्ना॑नि दा॒शुषे᳚⁠॥ परि॑ त्वाऽग्ने॒ पुर॑व्ँव॒यव्ँविप्र॑ꣳ सहस्य धीमहि⁠। धृ॒षद्व॑र्णन्दि॒वेदि॑वे भे॒त्तार॑म्भङ्गु॒राव॑तः⁠॥ त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒ख्‍षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑⁠। त्वव्ँवने᳚भ्य॒ स्त्वमोष॑धीभ्य॒ स्त्वन्नृ॒णान्नृ॑पते जायसे॒ शुचिः॑⁠ [९] (प्र॒तूर्व॒न्थ्सूर्य॑स्यतिष्ठ॒ जिघ॑र्मि भे॒त्तारं॑ विꣳश॒तिश्च॑) ॥२॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र् बा॒हुभ्या᳚म्पू॒ष्णो हस्ता᳚भ्याम्पृथि॒व्याः स॒धस्थे॒ऽग्निं पु॑री॒ष्य॑मङ्गिर॒स्वत् ख॑नामि⁠॥ ज्योति॑ष्मन्तन्त्वाऽग्ने सु॒प्रती॑क॒मज॑स्रेण भा॒नुना॒ दीद्या॑नम्⁠। शि॒वम्प्र॒जाभ्योऽहि॑ꣳसन्तम्पृथि॒व्याः स॒धस्थे॒ऽग्निम्पु॑री॒ष्य॑मङ्गिर॒स्वत् ख॑नामि⁠॥ अ॒पाम्पृ॒ष्ठम॑सि स॒प्रथा॑ उ॒र्व॑ग्निम्भ॑रि॒ष्यदप॑रावपिष्ठम्⁠। वर्द्ध॑मानम्म॒ह आ च॒ पुष्क॑रन्दि॒वो मात्र॑या वरि॒णा प्र॑थस्व⁠॥ शर्म॑ च स्थो॒ [१०] वर्म॑ च स्थो॒ अच्छि॑द्रे बहु॒ले उ॒भे⁠। व्यच॑स्वती॒ सव्ँव॑साथाम्भ॒र्तम॒ग्निम्पु॑री॒ष्य᳚म्⁠॥ सव्ँव॑साथाꣳ सुव॒र्विदा॑ स॒मीची॒ उर॑सा॒ त्मना᳚⁠। अ॒ग्निम॒न्तर् भ॑रि॒ष्यन्ती॒ ज्योति॑ष्मन्त॒मज॑स्र॒मित्⁠॥ पु॒री॒ष्यो॑ऽसि वि॒श्वभ॑राः⁠। अथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्ने⁠॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दद्ध्यथ॑र्वा॒ निर॑मन्थत⁠। मू॒र्द्ध्नो विश्व॑स्य वा॒घतः॑⁠॥ तमु॑ त्वा द॒द्ध्यङ् ऋषिः॑ पु॒त्र ई॑धे॒ [११] अथ॑र्वणः⁠। वृ॒त्र॒हण॑म्पुरन्द॒रम्⁠॥ तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम्⁠। ध॒न॒ञ्ज॒यꣳ रणे॑रणे⁠॥ सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्थ् सा॒दया॑ य॒ज्ञꣳ सु॑कृ॒तस्य॒ योनौ᳚⁠। दे॒वा॒वीर् दे॒वान्‌ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः⁠॥ नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाꣳ अ॑सदथ् सु॒दख्‍षः॑⁠। अद॑ब्धव्रतप्रमति॒र् वसि॑ष्ठः सहस्रंभ॒रः शुचि॑जिह्वो अ॒ग्निः⁠॥ सꣳ सी॑दस्व म॒हाꣳ अ॑सि॒ शोच॑स्व [१२] देव॒वीत॑मः⁠। वि धू॒मम॑ग्ने अरु॒षम्मि॑येद्ध्य सृ॒ज प्र॑शस्त दर्‌श॒तम्⁠॥ जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्ना॑ꣳ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु⁠। दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर्‌होता॒ नि ष॑सादा॒ यजी॑यान्⁠ [१३] (स्थ॒ ई॒धे॒ शोच॑स्व स॒प्तवि॑ꣳशतिश्च) ॥३॥
सन्ते॑ वा॒युर् मा॑त॒रिश्वा॑ दधातूत्ता॒नायै॒ हृद॑य॒य्ँयद्विलि॑ष्टम्⁠। दे॒वाना॒य्ँयश्चर॑ति प्रा॒णथे॑न॒ तस्मै॑ च देवि॒ वष॑डस्तु॒ तुभ्य᳚म्⁠॥ सुजा॑तो॒ ज्योति॑षा स॒ह शर्म॒ वरू॑थ॒माऽस॑दः॒ सुवः॑⁠। वासो॑ अग्ने वि॒श्वरू॑प॒ꣳ॒ सव्ँव्य॑यस्व विभावसो⁠॥ उदु॑ तिष्ठ स्वद्ध्व॒रावा॑ नो दे॒व्या कृ॒पा⁠। दृ॒शे च॑ भा॒सा बृ॑ह॒ता सु॑शु॒क्वनि॒राऽग्ने॑ याहि सुश॒स्तिभिः॑⁠ [१४] ऊ॒र्द्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा॑ दे॒वो न स॑वि॒ता⁠। ऊ॒र्द्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि॑र् वा॒घद्भि॑र् वि॒ह्वया॑महे⁠॥ स जा॒तो गर्भो॑ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र् विभृ॑त॒ ओष॑धीषु⁠। चि॒त्रः शिशुः॒ परि॒ तमा॑ꣴस्य॒क्तः प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद् गाः⁠॥ स्थि॒रो भ॑व वी॒ड्व॑ङ्ग आ॒शुर् भ॑व वा॒ज्य॑र्वन्न्⁠। पृ॒थुर् भ॑व सु॒षद॒स्त्वम॒ग्नेः पु॑रीष॒वाह॑नः⁠॥ शि॒वो भ॑व [१५] प्र॒जाभ्यो॒ मानु॑षीभ्य॒स्त्वम॑ङ्गिरः⁠। मा द्यावा॑पृथि॒वी अ॒भि शू॑शुचो॒ माऽन्तरि॑ख्‍ष॒म्मा वन॒स्पती॑न्⁠॥ प्रैतु॑ वा॒जी कनि॑क्रद॒न्नान॑द॒द्रास॑भः॒ पत्वा᳚⁠। भर॑न्न॒ग्निम्पु॑री॒ष्य॑म्मा पा॒द्यायु॑षः पु॒रा⁠॥ रास॑भो वा॒ङ्कनि॑क्रद॒थ् सुयु॑क्तो वृषणा॒ रथे᳚⁠। स वा॑म॒ग्निम्पु॑री॒ष्य॑मा॒शुर् दू॒तो व॑हादि॒तः⁠॥ वृषा॒ऽग्निव्ँवृष॑ण॒म्भर॑न्न॒पाङ्गर्भ॑ꣳ समु॒द्रिय᳚म्⁠। अग्न॒ आ या॑हि [१६] वी॒तय॑ ऋ॒तꣳ स॒त्यम्⁠॥ ओष॑धयः॒ प्रति॑ गृह्णीता॒ऽग्निमे॒तꣳ शि॒वमा॒यन्त॑म॒भ्यत्र॑ यु॒ष्मान्⁠। व्यस्य॒न् विश्वा॒ अम॑ती॒ररा॑तीर् नि॒षीद॑न्नो॒ अप॑ दुर्म॒तिꣳ ह॑नत्⁠॥ ओष॑धयः॒ प्रति॑ मोदद्ध्वमेन॒म्पुष्पा॑वतीः सुपिप्प॒लाः⁠। अ॒यव्ँवो॒ गर्भ॑ ऋ॒त्वियः॑ प्र॒त्नꣳ स॒धस्थ॒माऽस॑दत्⁠ [१७] (सु॒श॒स्तिभिः॑शि॒वो भ॑व याहि॒ षट्त्रि॑ꣳशच्च) ॥४॥
वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒ख्‍षसो॒ अमी॑वाः⁠। सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हꣳ सु॒हव॑स्य॒ प्रणी॑तौ⁠॥ आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन⁠। म॒हे रणा॑य॒ चख्‍ष॑से⁠॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑⁠। उ॒श॒तीरि॑व मा॒तरः॑⁠॥ तस्मा॒ अर॑ङ्गमाम वो॒ यस्य॒ ख्‍षया॑य॒ जिन्व॑थ⁠। आपो॑ ज॒नय॑था च नः⁠॥ मि॒त्रः [१८] स॒ꣳ॒सृज्य॑ पृथि॒वीम्भूमि॑ञ्च॒ ज्योति॑षा स॒ह⁠। सुजा॑तञ्जा॒तवे॑दसम॒ग्निव्ँवै᳚श्वान॒रव्ँवि॒भुम्⁠॥ अ॒य॒ख्‍ष्माय॑ त्वा॒ सꣳ सृ॑जामि प्र॒जाभ्यः॑⁠। विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राः सꣳ सृ॑ज॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत्⁠॥ रु॒द्राः सं॒भृत्य॑ पृथि॒वीम्बृ॒हज्ज्योतिः॒ समी॑धिरे⁠। तेषा᳚म्भा॒नुरज॑स्र॒ इच्छु॒क्रो दे॒वेषु॑ रोचते⁠॥ सꣳ सृ॑ष्टा॒व्ँवसु॑भी रु॒द्रैर् धीरैः᳚ कर्म॒ण्या᳚म्मृद᳚म्⁠। हस्ता᳚भ्याम्मृ॒द्वीङ्कृ॒त्वा सि॑नीवा॒ली क॑रोतु॒ [१९] ताम्⁠॥ सि॒नी॒वा॒ली सु॑कप॒र्दा सु॑कुरी॒रा स्वौ॑प॒शा⁠। सा तुभ्य॑मदिते मह॒ ओखान्द॑धातु॒ हस्त॑योः⁠॥ उ॒खाङ्क॑रोतु॒ शक्त्या॑ बा॒हुभ्या॒मदि॑तिर् धि॒या⁠। मा॒ता पु॒त्रय्ँयथो॒पस्थे॒ साऽग्निम्बि॑भर्तु॒ गर्भ॒ आ⁠॥ म॒खस्य॒ शिरो॑ऽसि य॒ज्ञस्य॑ प॒दे स्थः॑⁠। वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वत् पृ॑थि॒व्य॑सि रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वद॒न्तरि॑ख्‍षमस्या [२०] दि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद् द्यौर॑सि॒ विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वद्दिशो॑ऽसि ध्रु॒वाऽसि॑ धा॒रया॒ मयि॑ प्र॒जाꣳ रा॒यस्पोषं॑ गौप॒त्यꣳ सु॒वीर्य॑ꣳ सजा॒तान्‌यज॑माना॒याऽदि॑त्यै॒ रास्ना॒ऽस्य दि॑तिस्ते॒ बिल॑ङ्गृह्णातु॒ पाङ्क्ते॑न॒ छन्द॑साऽङ्गिर॒स्वत्⁠॥ कृ॒त्वाय॒ सा म॒हीमु॒खाम्मृ॒न्मयी॒य्ँयोनि॑म॒ग्नये᳚⁠। ताम्पु॒त्रेभ्यः॒ सम्प्रा य॑च्छ॒ददि॑तिः श्र॒पया॒निति॑⁠ [२१] (मि॒त्रः क॑रो त्व॒न्तरि॑ख्‍षमसि॒ प्र च॒त्वारि॑ च) ॥५॥
वस॑वस्त्वा धूपयन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्रु॒द्रास्त्वा॑ धूपयन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वदा॑दि॒त्यास्त्वा॑ धूपयन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒रा धू॑पय॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वदिन्द्र॑स्त्वा धूपयत्वङ्गिर॒स्वद्विष्णु॑स्त्वा धूपयत्वङ्गिर॒स्वद् वरु॑णस्त्वा धूपयत्वङ्गिर॒स्वददि॑तिस्त्वा दे॒वी वि॒श्वदे᳚व्यावती पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वत् ख॑नत्ववट दे॒वाना᳚न्त्वा॒ पत्नी᳚र् [२२] दे॒वीर् वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वद्द॑धतूखे धि॒षणा᳚स्त्वा दे॒वीर् वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वद॒भीन्ध॑तामुखे॒ ग्ना स्त्वा॑ दे॒वीर् वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वच्छ्र॑पयन्तूखे॒ वरू᳚त्रयो॒ जन॑यस्त्वा दे॒वीर् वि॒श्वदे᳚व्यावतीः पृथि॒व्याः स॒धस्थे᳚ऽङ्गिर॒स्वत् प॑चन्तूखे⁠॥ मित्रै॒तामु॒खाम्प॑चै॒षा मा भे॑दि⁠। ए॒तान्ते॒ परि॑ ददा॒म्यभि॑त्त्यै⁠॥ अ॒भीमां [२३] म॑हि॒ना दिव॑म्मि॒त्रो ब॑भूव स॒प्रथाः᳚⁠। उ॒त श्रव॑सा पृथि॒वीम्⁠॥ मि॒त्रस्य॑ चर्‌षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम्⁠। द्यु॒म्नञ्चि॒त्रश्र॑वस्तमम्⁠॥ दे॒वस्त्वा॑ सवि॒तोद् व॑पतु सुपा॒णिः स्व॑ङ्गु॒रिः⁠। सु॒बा॒हुरु॒त शक्त्या᳚⁠॥ अप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॑ण⁠। उत्ति॑ष्ठ बृह॒ती भ॑वो॒र्द्ध्वा ति॑ष्ठ ध्रु॒वा त्वम्⁠॥ वस॑व॒स्त्वाऽऽच्छृ॑न्दन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद् रु॒द्रास्त्वाऽऽच्छृ॑न्दन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वदा॑दि॒त्यास्त्वाऽऽच्छृ॑न्दन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्विश्वे᳚ त्वा दे॒वा वै᳚श्वान॒रा आ च्छृ॑न्द॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वत्⁠ [२४] (पत्नी॑ रि॒माꣳ रु॒द्रास्त्वाऽऽच्छृ॑न्द॒न्त्वे का॒न्नवि॑ꣳश॒तिश्च॑) ॥६॥
समा᳚स्त्वाऽग्न ऋ॒तवो॑ वर्द्धयन्तु सव्ँवथ्स॒रा ऋष॑यो॒ यानि॑ स॒त्या⁠। सन्दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिशः॑ पृथि॒व्याः⁠॥ सञ्चे॒द्ध्यस्वा᳚ऽग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय⁠। मा च॑ रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ माऽन्ये⁠॥ त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने [२५] स॒व्ँवर॑णे भवा नः⁠। स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन्न्⁠॥ इ॒हैवाग्ने॒ अधि॑ धारया र॒यिम्मा त्वा॒ नि क्र॑न् पूर्व॒चितो॑ निका॒रिणः॑⁠। ख्‍ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्द्धतान्ते॒ अनि॑ष्टृतः⁠॥ ख्‍ष॒त्रेणा᳚ऽग्ने॒ स्वायुः॒ सꣳ र॑भस्व मि॒त्रेणा᳚ऽग्ने मित्र॒धेये॑ यतस्व⁠। स॒जा॒ताना᳚म्मद्ध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह⁠॥ अति॒ [२६] निहो॒ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने⁠। विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्य॑ꣳ स॒हवी॑राꣳ र॒यिन्दाः᳚⁠॥ अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राड॑ग्ने ख्‍षत्र॒भृद् दी॑दिही॒ह⁠। विश्वा॒ आशाः᳚ प्रमु॒ञ्चन् मानु॑षीर्भि॒यः शि॒वाभि॑र॒द्य परि॑ पाहि नो वृ॒धे⁠॥ बृह॑स्पते सवितर् बो॒धयै॑न॒ꣳ॒ सꣳशि॑तञ्चिथ् सन्त॒राꣳ सꣳ शि॑शाधि⁠। व॒र्द्धयै॑नम्मह॒ते सौभ॑गाय॒ [२७] विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः⁠॥ अ॒मु॒त्र॒भूया॒दध॒ यद् य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः⁠। प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद् दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः⁠॥ उद् व॒यन्तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम्⁠। दे॒वन्दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्⁠ [२८] (इ॒मे शि॒वो अ॒ग्ने ऽति॒ सौभ॑गाय॒ चतु॑स्त्रिꣳशच्च) ॥७॥
ऊ॒र्द्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्द्ध्वा शु॒क्रा शो॒चीꣴष्य॒ग्नेः⁠। द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः⁠॥ तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः⁠। प॒थ आऽन॑क्ति॒ मद्ध्वा॑ घृ॒तेन॑⁠॥ मद्ध्वा॑ य॒ज्ञन्न॑ख्‍षसे प्रीणा॒नो नरा॒शꣳसो॑ अग्ने⁠। सु॒कृद् दे॒वः स॑वि॒ता वि॒श्ववा॑रः⁠॥ अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र् नम॑सा⁠। अ॒ग्निꣴ स्रुचो॑ अद्ध्व॒रेषु॑ प्र॒यथ्सु॑⁠॥ स य॑ख्‍षदस्य महि॒मान॑म॒ग्नेः स [२९] ई॑ म॒न्द्रासु॑ प्र॒यसः॑⁠। वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च⁠॥ द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे᳚ व्र॒ता द॑दन्ते अ॒ग्नेः⁠। उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः⁠॥ ते अ॑स्य॒ योष॑णे दि॒व्ये न योना॑वु॒षासा॒नक्ता᳚⁠। इ॒मय्ँय॒ज्ञम॑वतामद्ध्व॒रन्नः॑⁠॥ दैव्या॑ होतारावू॒र्द्ध्वम॑द्ध्व॒रन्नो॒ऽग्नेर् जि॒ह्वाम॒भि गृ॑णीतम्⁠। कृ॒णु॒तन्नः॒ स्वि॑ष्टिम्⁠॥ ति॒स्रो दे॒वीर् ब॒र्॒‌हिरेदꣳ स॑द॒न्त्विडा॒ सर॑स्वती॒ [३०] भार॑ती⁠। म॒ही गृ॑णा॒ना⁠॥ तन्न॑स्तु॒रीप॒मद्भु॑तम्पुरु॒ख्‍षु त्वष्टा॑ सु॒वीर᳚म्⁠। रा॒यस्पोष॒व्ँवि ष्य॑तु॒ नाभि॑म॒स्मे⁠॥ वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑⁠। अ॒ग्निर्‌ह॒व्यꣳ श॑मि॒ता सू॑दयाति⁠॥ अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ इन्द्रा॑य ह॒व्यम्⁠। विश्वे॑ दे॒वा ह॒विरि॒दञ्जु॑षन्ताम्⁠॥ हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्⁠। स दा॑धार पृथि॒वीन्द्या [३१] मु॒तेमाङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद् राजा॒ जग॑तो ब॒भूव॑⁠। य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिष॒य्ँयस्य॑ दे॒वाः⁠। यस्य॑ छा॒याऽमृत॒य्ँयस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रꣳ र॒सया॑ स॒हा [३२] ऽऽहुः⁠। यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ यङ्क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैख्‍षे॑ता॒म्मन॑सा॒ रेज॑माने⁠। यत्राधि॒ सूर॒ उदि॑तौ॒ व्येति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढे येन॒ सुवः॑ स्तभि॒तय्ँयेन॒ नाकः॑⁠। यो अ॒न्तरि॑ख्‍षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ आपो॑ ह॒ यन्म॑ह॒तीर् विश्व॒ [३३] माय॒न् दख्‍ष॒न्दधा॑ना ज॒नय॑न्तीर॒ग्निम्⁠। ततो॑ दे॒वाना॒न्निर॑वर्त्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दख्‍ष॒न्दधा॑ना ज॒नय॑न्तीर॒ग्निम्⁠। यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠ [३४] (अ॒ग्नेः स सर॑स्वती॒ द्या॒ꣳ स॒ह विश्वं॒ चतु॑स्त्रिꣳशच्च) ॥८॥
पञ्चशती २९-३४: (ऊ॒र्द्ध्वा यः प्रा॑ण॒तो य आ᳚त्म॒दा यस्ये॒मे यङ्क्रन्द॑सी॒ येन॒ द्यौ रापो॑ ह॒ यत् ततो॑ दे॒वानां॒ यश्चि॒दापो॒ यो दे॒वेषु॒ नव॑)
आकू॑तिम॒ग्निम्प्र॒युज॒ꣴ॒ स्वाहा॒ मनो॑ मे॒धाम॒ग्निम्प्र॒युज॒ꣴ॒ स्वाहा॑ चि॒त्तव्ँविज्ञा॑तम॒ग्निम्प्र॒युज॒ꣴ॒ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निम्प्र॒युज॒ꣴ॒ स्वाहा᳚ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ऽग्नये॑ वैश्वान॒राय॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर् मर्तो॑ वृणीत स॒ख्यव्ँविश्वे॑ रा॒य इ॑षुद्ध्यसि द्यु॒म्नव्ँवृ॑णीत पु॒ष्यसे॒ स्वाहा॒ मा सु भि॑त्था॒ मा सु रि॑षो॒ दृꣳह॑स्व वी॒डय॑स्व॒ सु⁠। अंब॑ धृष्णु वी॒रय॑स्वा॒ [३५] ऽग्निश्चे॒दङ्क॑रिष्यथः⁠॥ दृꣳह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒ताऽसि॑⁠। जुष्ट॑न्दे॒वाना॑मि॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन्न्⁠॥ मित्रै॒तामु॒खान्त॑पै॒षा मा भे॑दि⁠। ए॒तान्ते॒ परि॑ ददा॒म्यभि॑त्त्यै⁠॥ द्र्व॑न्नः स॒र्पिरा॑सुतिः प्र॒त्नो होता॒ वरे᳚ण्यः⁠। सह॑सस्पु॒त्रो अद्भु॑तः⁠॥ पर॑स्या॒ अधि॑ स॒व्ँवतोऽव॑राꣳ अ॒भ्या [३६] त॑र⁠। यत्रा॒हमस्मि॒ ताꣳ अ॑व⁠॥ प॒र॒मस्याः᳚ परा॒वतो॑ रो॒हिद॑श्व इ॒हाऽऽ*ग॑हि⁠। पु॒री॒ष्यः॑ पुरुप्रि॒योऽग्ने॒ त्वन्त॑रा॒ मृधः॑⁠॥ सीद॒ त्वम्मा॒तुर॒स्या उ॒पस्थे॒ विश्वा᳚न्यग्ने व॒युना॑नि वि॒द्वान्⁠। मैना॑म॒र्चिषा॒ मा तप॑सा॒ऽभि शू॑शुचो॒ऽन्तर॑स्याꣳ शु॒क्रज्यो॑ति॒र् वि भा॑हि⁠॥ अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे⁠। तस्या॒स्त्वꣳ हर॑सा॒ तप॒न् जात॑वेदः शि॒वो भ॑व⁠॥ शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम्⁠। शि॒वाः कृ॒त्वा दिशः॒ सर्वाः॒ स्वाय्ँयोनि॑मि॒हाऽऽस॑दः⁠ [३७] (वी॒रय॒स्वा ऽऽ तप॑न् विꣳश॒तिश्च॑) ॥९॥
यद॑ग्ने॒ यानि॒ कानि॒ चाऽऽते॒ दारू॑णि द॒ध्मसि॑⁠। तद॑स्तु॒ तुभ्य॒मिद् घृ॒तन्तज्जु॑षस्व यविष्ठ्य⁠॥ यदत्त्यु॑प॒जिह्वि॑का॒ यद् व॒म्रो अ॑ति॒सर्प॑ति⁠। सर्व॒न्तद॑स्तु ते घृ॒तन्तज्जु॑षस्व यविष्ठ्य⁠॥ रात्रि॑ꣳरात्रि॒मप्र॑याव॒म्भर॒न्तोऽश्वा॑येव॒ तिष्ठ॑ते घा॒सम॑स्मै⁠। रा॒यस्पोषे॑ण॒ समि॒षा मद॒न्तोऽग्ने॒ मा ते॒ प्रति॑वेशा रिषाम⁠॥ नाभा॑ [३८] पृथि॒व्याः स॑मिधा॒नम॒ग्निꣳ रा॒यस्पोषा॑य बृह॒ते ह॑वामहे⁠। इ॒रं॒म॒दम्बृ॒हदु॑क्थ॒य्ँयज॑त्र॒ञ्जेता॑रम॒ग्निम्पृत॑नासु सास॒हिम्⁠॥ याः सेना॑ अ॒भीत्व॑रीराव्या॒धिनी॒रुग॑णा उ॒त⁠। ये स्ते॒ना ये च॒ तस्क॑रा॒स्ताꣴस्ते॑ अ॒ग्नेऽपि॑ दधाम्या॒स्ये᳚⁠॥ दꣴष्ट्रा᳚भ्याम्म॒लिम्लू॒न् जंभ्यै॒स्तस्क॑राꣳ उ॒त⁠। हनू᳚भ्याꣴ स्ते॒नान् भ॑गव॒ स्ताꣴ स्त्वङ्खा॑द॒ सुखा॑दितान्⁠॥ ये जने॑षु म॒लिम्ल॑वः स्ते॒नास॒स्तस्क॑रा॒ वने᳚⁠। ये [३९] कख्‍षे᳚ष्वघा॒यव॒ स्ताꣴ स्ते॑ दधामि॒ जंभ॑योः⁠॥ यो अ॒स्मभ्य॑मराती॒याद्यश्च॑ नो॒ द्वेष॑ते॒ जनः॑⁠। निन्दा॒द्यो अ॒स्मान् दिफ्सा᳚च्च॒ सर्व॒न्तम्म॑स्म॒सा कु॑रु⁠॥ सꣳशि॑तम्मे॒ ब्रह्म॒ सꣳशि॑तव्ँवी॒र्य॑म्बल᳚म्⁠। सꣳशि॑तङ्ख्‍ष॒त्रञ्जि॒ष्णु यस्या॒ऽहमस्मि॑ पु॒रोहि॑तः⁠॥ उदे॑षाम्बा॒हू अ॑तिर॒मुद्वर्च॒ उदू॒ बल᳚म्⁠। ख्‍षि॒णोमि॒ ब्रह्म॑णा॒ऽमित्रा॒नुन्न॑यामि॒ [४०] स्वाꣳ अ॒हम्⁠॥ दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्‌ष॒मायुः॑ श्रि॒ये रु॑चा॒नः⁠। अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र् यदे॑न॒न्द्यौरज॑नयथ् सु॒रेताः᳚⁠॥ विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्राऽसा॑वीद्भ॒द्रन्द्वि॒पदे॒ चतु॑ष्पदे⁠। वि नाक॑मख्यथ् सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति⁠॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ꣳ समी॒ची⁠। द्यावा॒ ख्‍षामा॑ रु॒क्मो [४१] अ॒न्तर् वि भा॑ति दे॒वा अ॒ग्निन्धा॑रयन् द्रविणो॒दाः⁠॥ सु॒प॒र्णो॑ऽसि ग॒रुत्मा᳚न् त्रि॒वृत् ते॒ शिरो॑ गाय॒त्रञ्चख्‍षुः॒ स्तोम॑ आ॒त्मा साम॑ ते त॒नूर्वा॑मदे॒व्यं बृ॑हद्रथन्त॒रे प॒ख्‍षौ य॑ज्ञाय॒ज्ञिय॒म्पुच्छ॒ञ्छन्दा॒ꣴ॒स्यङ्गा॑नि॒ धिष्णि॑याः श॒फा यजू॑ꣳषि॒ नाम॑⁠॥ सु॒प॒र्णो॑ऽसि ग॒रुत्मा॒न् दिव॑ङ्गच्छ॒ सुवः॑ पत⁠ [४२] (नाभा॒ वने॒ ये न॑यामि॒ ख्‍षामा॑ रु॒क्मो᳚ ऽष्टात्रि॑ꣳशच्च) ॥१०॥
अग्ने॒ यय्ँय॒ज्ञम॑द्ध्व॒रव्ँवि॒श्वतः॑ परि॒भूरसि॑⁠। स इद्दे॒वेषु॑ गच्छति⁠॥ सोम॒ यास्ते॑ मयो॒भुव॑ ऊ॒तयः॒ सन्ति॑ दा॒शुषे᳚⁠। ताभि॑र् नोऽवि॒ता भ॑व⁠॥ अ॒ग्निर् मू॒र्द्धा >१ , भुवः॑ > २⁠॥ त्वन्नः॑ सोम॒ >३, या ते॒ धामा॑नि >४⁠॥ तथ् स॑वि॒तुर् वरे᳚ण्य॒म्भर्गो॑ दे॒वस्य॑ धीमहि⁠। धियो॒ यो नः॑ प्रचो॒दया᳚त्⁠॥ अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर् दख्‍षैः॒ प्रभू॑ती पूरुष॒त्वता᳚⁠ [४३] दे॒वेषु॑ च सवित॒र् मानु॑षेषु च॒ त्वन्नो॒ अत्र॑ सुवता॒दना॑गसः⁠॥ चो॒द॒यि॒त्री सू॒नृता॑ना॒ञ्चेत॑न्ती सुमती॒नाम्⁠। य॒ज्ञन्द॑धे॒ सर॑स्वती⁠॥ पावी॑रवी क॒न्या॑ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धिय॑न्धात्⁠। ग्नाभि॒रच्छि॑द्रꣳ शर॒णꣳ स॒जोषा॑ दुरा॒धर्‌ष॑ङ्गृण॒ते शर्म॑ यꣳसत्⁠॥ पू॒षा गा अन्वे॑तु नः पू॒षा र॑ख्‍ष॒त्वर्व॑तः⁠। पू॒षा वाज॑ꣳ सनोतु नः⁠॥ शु॒क्रन्ते॑ अ॒न्यद्य॑ज॒तन्ते॑ अ॒न्य [४४] द्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि⁠। विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु⁠॥ ते॑ऽवर्द्धन्त॒ स्वत॑वसो महित्व॒नाऽऽनाक॑न्त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑⁠। विष्णु॒र् यद्धाऽऽव॒द्वृष॑णम्मद॒च्युत॒व्ँवयो॒ न सी॑द॒न्नधि॑ ब॒र्॒‌हिषि॑ प्रि॒ये⁠॥ प्र चि॒त्रम॒र्कङ्गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरद्ध्वम्⁠। ये सहा॑ꣳसि॒ सह॑सा॒ सह॑न्ते॒ [४५] रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑⁠॥ विश्वे॑ दे॒वा >५, विश्वे॑ देवाः >६⁠॥ द्यावा॑ नः पृथि॒वी इ॒मꣳ सि॒द्ध्रम॒द्य दि॑वि॒स्पृश᳚म्⁠। य॒ज्ञन्दे॒वेषु॑ यच्छताम्⁠॥ प्र पू᳚र्व॒जे पि॒तरा॒ नव्य॑सीभिर् गी॒र्भिः कृ॑णुद्ध्व॒ꣳ॒ सद॑ने ऋ॒तस्य॑⁠। आ नो᳚ द्यावापृथिवी॒ दैव्ये॑न॒ जने॑न यात॒म्महि॑ वा॒व्ँवरू॑थम्⁠॥ अ॒ग्निꣴ स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम्⁠। ह॒व्या दे॒वेषु॑ नो दधत्⁠॥ स ह॑व्य॒वाडम॑र्त्य उ॒शिग् दू॒तश्चनो॑हितः⁠। अ॒ग्निर् धि॒या समृ॑ण्वति⁠॥ शन्नो॑ भवन्तु॒>७ , वाजे॑वाजे> ८⁠ [४६] (पु॒रु॒ष॒त्वता॑ यज॒तन्ते॑ अ॒न्यथ् सह॑न्ते॒ चनो॑हितो॒ ऽष्टौ च॑) ॥११॥
(यु॒ञ्जा॒न इ॒माम॑गृभ्णन् दे॒वस्य॒ सन्ते॒ वि पाज॑सा॒ वस॑वस्त्वा॒ समा᳚स्त्वो॒र् द्ध्वा अ॒स्याकू॑तिं॒ यद॑ग्ने॒ यान् यग्ने॒ यय्ँय॒ज्ञ मेका॑दश)
(यु॒ञ्जा॒नो वर्म॑ च स्थ आदि॒त्यस्त्वा॒ भार॑ती॒ स्वाꣳ अ॒हꣳ षट्च॑त्वारिꣳशत्)
(यु॒ञ्जा॒नो वाजे॑वाजे)
अनुवाकाः पञ्चशती
११ ४६