मन्त्रपुष्पम्

मन्त्रपुष्पम् — तैत्तिरीयारण्यकम्
भ॒द्रङ्कर्णे॑भिश्शृणु॒याम॑ देवाः । भ॒द्रम्प॑श्येमा॒ख्‍षभि॒र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाꣳस॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒ यदायुः॑ ॥१॥स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॑स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒॒स्तिन॒स्तार्ख्‍ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥२॥

॥ ओं शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥

यो॑ऽपाम्पुष्पं॒ वेद॑ । पुष्प॑वान्प्र॒जावा᳚न्पशु॒मान्भ॑वति । च॒न्द्रमा॒ वा अ॒पाम्पुष्पम्᳚ । पुष्प॑वान्प्र॒जावा᳚न्पशु॒मान्भ॑वति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति ॥४॥अ॒ग्निर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो᳚ऽग्नेरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति ॥५॥वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति ॥६॥अ॒सौ वै तप॑न्न॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो॑ऽमुष्य॒तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वा अ॒मुष्य॒तप॑त आ॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति ॥७॥च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति ॥८॥नख्‍षत्र॑त्राणि॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यो नख्‍षत्र॑त्राणामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै नख्‍ष॑त्राणामा॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति ॥९॥प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान्भवति । यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै प॒र्जन्य॑स्या॒यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति ॥१०॥सं॒व॒त्स॒रो वा अ॒पामा॒यत॑न॒म् । आ॒यत॑नवान्भवति । यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । आपो॒ वै सं॑वत्स॒रस्या॒यत॑नम् । आ॒यत॑नवान्भवति । य एवं वेद॑ । यो᳚ऽफ्सु नाव॒म्प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥११॥ओं रा॒जा॒धि॒रा॒जाय॑ प्रसह्य सा॒हिने᳚ । नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे । स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्यम्᳚ । का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु । कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒राजाय॒ नमः॑ ॥१२॥ओ᳚न्तद्ब्र॒ह्म । ओ᳚न्तद्वा॒युः । ओ᳚न्तदा॒त्मा । ओ᳚न्तथ्स॒त्यम् । ओ᳚न्तत्सर्वम्᳚ । ओ᳚न्तत्पुरो॒र्नमः ॥१३॥अन्तश्चरति॑ भूते॒षु गुहायां वि॑श्वमू॒र्तिषु । त्वं यज्ञस्त्वं वषट्कारस्त्वमिन्द्रस्त्वꣳ रुद्रस्त्वं विष्णुस्त्वम्ब्रह्मत्व॑म्प्रजा॒पतिः । त्वन्त॑दाप॒ आपो॒ ज्योती॒रसो॒ऽमृतम्ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् । ईशानस्सर्व॑ विद्या॒नामीश्वरस्सर्व॑भूता॒नां ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् । तद्विष्णोः᳚ पर॒मम्प॒दꣳ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चख्‍षु॒रात॑तम् । तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाꣳ सस्समि॑न्धते । विष्नो॒र्यत्प॑र॒मम्प॒दम् । ऋतꣳ स॒त्यम्प॑रम्ब्र॒ह्म॒ पु॒रुष॑ङ्कृष्ण॒पिङ्ग॑लम् । ऊ॒र्ध्वरे॑तं वि॑रूपा॒ख्‍षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥१४॥

ओं ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।

तन्नो॑ विष्णुः प्रचो॒दया᳚त्

॥ ओं शान्ति॒श्शान्ति॒श्शान्तिः॑ ॥

Sections१४
Mantras१४
Version1.0