मृत संजीविनी सूक्तं

मृतसञ्जीविनीसूक्तम्

ओं नमः परमात्मने, श्री महागणपतये नमः,

श्री गुरुभ्यो नमः⁠। ह॒रिः॒ ओं⁠॥

ॐ
मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒ख्‍ष्मादु॒त रा᳚जय॒ख्‍ष्मात्⁠। ग्राहि॑र् ज॒ग्राह॒ यदि॑ वै॒तदे᳚नं॒ तस्या᳚ इन्द्राग्नी॒ प्र मु॑मुक्तमेनं⁠॥ १ यदि॑ख्‍षि॒तायु॒र् यदि॑ वा॒ परे᳚तो॒ यदि॑ मृ॒त्योर᳚न्ति॒कन्नी᳚त ए॒व⁠। तमाह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा᳚र्‌षमेनं श॒तशा᳚रदाय⁠॥ २ स॒ह॒स्रा॒ख्‍षेण॑ श॒तशा᳚रदेन श॒तायु॑षा ह॒विषा ऽऽ *हा᳚र्‌षमेनं⁠। श॒तं यथे॒मं श॒रदो॒ नया॒तीन्द्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रं⁠॥ ३ श॒तञ्जी᳚व श॒रदो॒ वर्द्ध॑मानश्श॒तं हे᳚म॒न्ताञ्च्छ॒तमु॑ वस॒न्तान्⁠। श॒तमि᳚न्द्रा॒ग्नी स॑वि॒ता बृह॒स्पति॑श्श॒तायु॑षा ह॒विषे॒मं पुन॑र् दुः⁠॥ ४ आ ऽहा᳚र्‌षं॒ त्वा ऽवि॑दन्त्वा॒ पुन॒रागाः᳚ पुनर्न॒व⁠। सर्वा᳚ङ्ग॒ सर्व᳚न्ते॒ चख्‍षुः॒ सर्व॒मायु॑श्चते ऽवि॒दं⁠॥तदित् प॒दं न विचि॑केत वि॒द्वान्⁠। यन्मृ॒तः पुन॑र॒प्येति॑ जी॒वान्⁠। त्रि॒वृद्यद् भुव॑नस्य रथ॒वृत्⁠। जी॒वो गर्भो॒ न मृ॒तस्स जी॑वात्⁠॥

॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Sections१
Mantras१
Version5.0