उत्तर नारायणं

नारायणम् — उत्तरनारायणम् एवं महानारायणम्

ओं नमः परमात्मने, श्री महागणपतये नमः,

श्री गुरुभ्यो नमः⁠। ह॒रिः॒ ओं⁠॥

ॐ
१

उत्तर नारायणं

अ॒द्भ्यस्संभू॑तः पृथि॒व्यै रसा᳚च्च⁠। वि॒श्वक॑र्मणः॒ सम॑वर्त्त॒ताधि॑⁠। तस्य॒ त्वष्टा॑ वि॒दध॑द् रू॒पमे॑ति⁠। तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚⁠। १ वेदा॒हमे॒तं पुरु॑षं म॒हान्तं᳚⁠। आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात्⁠। तमे॒वव्ँवि॒द्वान॒मृत॑ इ॒ह भ॑वति⁠। नान्यः पन्था॑ विद्य॒तेऽय॑नाय⁠। २ प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः⁠। अ॒जाय॑मानो बहु॒धा विजा॑यते⁠। तस्य॒ धीराः॒ परि॑जानन्ति॒ योनिं᳚⁠। मरी॑चीनां प॒दमि॑च्छन्ति वे॒धसः॑⁠। ३ यो दे॒वेभ्य॒ आत॑पति⁠। यो दे॒वानां᳚ पु॒रोहि॑तः⁠। पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः⁠। नमो॑ रु॒चाय॒ ब्राह्म॑ये⁠। ४ रुचं॑ ब्रा॒ह्मञ्ज॒नय॑न्तः⁠। दे॒वा अग्रे॒ तद॑ब्रुवन्न्⁠। यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात्⁠। तस्य॑ दे॒वा अस॒न्वशे᳚⁠। ५ ह्रीश्च॑ ते ल॒ख्‍ष्मीश्च॒ पत्न्यौ᳚⁠। अ॒हो॒रा॒त्रे पा॒र्श्वे⁠। नख्‍ष॑त्राणि रू॒पं⁠। अ॒श्विनौ॒ व्यात्तं᳚⁠। इ॒ष्टं म॑निषाण⁠। अ॒मुं म॑निषाण⁠। सर्वं॑ मनिषाण⁠॥
२

महा नारायणं

स॒ह॒स्र॒शी॑र्‌षं दे॒व॒व्ँवि॒श्वाख्‍ष॑व्ँवि॒श्व शं॑भुवं⁠। विश्वं॑ ना॒राय॑णं दे॒व॒म॒ख्‍षरं॑ पर॒मं प॒दं⁠॥ १ वि॒श्वतः॒ पर॑मान्नि॒त्य॒व्ँवि॒श्वं ना॑राय॒णꣳ ह॑रिं⁠। विश्व॑मे॒वेदं पुरु॑ष॒ स्तद्विश्व॒मुप॑जीवति⁠॥ २ पति॒व्ँविश्व॑स्या॒त्मेश्व॑र॒ꣳ॒ शाश्व॑तꣳ शि॒वम॑च्युतं⁠। ना॒राय॒णं म॑हाज्ञे॒य॒व्ँवि॒श्वात्मा॑नं प॒राय॑णं⁠॥ ३ ना॒राय॒ण प॑रो ज्यो॒ति॒रा॒त्मा ना॑रय॒णः प॑रः⁠॥ ४ ना॒राय॒ण प॑रं ब्र॒ह्म॒ त॒त्त्वं ना॑राय॒णः प॑रः⁠। ना॒राय॒ण प॑रो ध्या॒ता॒ ध्या॒नं ना॑राय॒णः प॑रः⁠। यच्च॑ कि॒ञ्चिज्ज॑गथ् स॒र्वं॒ दृ॒श्यते᳚ श्रूय॒तेऽपि॑ वा⁠। अन्त॑र् ब॒हिश्च॑ तथ् स॒र्व॒व्ँव्या॒प्य ना॑राय॒णः स्थि॑तः⁠॥ ५ अन॑न्त॒मव्य॑यं क॒विꣳ स॑मु॒द्रेऽन्त॑व्ँवि॒श्वशं॑भुवं⁠। प॒द्म॒को॒शप्र॑तीका॒श॒ꣳ॒ हृ॒दयं॑ चाप्य॒धोमु॑खं⁠॥ ६ अधो॑ नि॒ष्ट्या वि॑तस्त्या॒न्ते॒ ना॒भ्यामु॑परि॒ तिष्ठ॑ति⁠। ज्वा॒ल॒मा॒लाकु॑लं भा॒ती॒ वि॒श्वस्या॑यत॒नं म॑हत्⁠॥ ७ सन्त॑तꣳ शि॒लाभि॑स्तु॒ लंब॑त्या कोश॒सन्नि॑भं⁠। तस्यान्ते॑ सुषि॒रꣳ सू॒ख्‍ष्मं तस्मि᳚न्थ् स॒र्वं प्रति॑ष्ठितं⁠॥ ८ तस्य॒ मद्ध्ये॑ म॒हान॑ग्निर् वि॒श्वार्चि॑र् वि॒श्वतो॑ मुखः⁠। सोऽग्र॑भु॒ग् विभ॑जन् ति॒ष्ठ॒न्नाहा॑रमज॒रः क॒विः⁠॥ ९ ति॒र्य॒गू॒र्द्ध्व म॑धश्शा॒यी॒ र॒श्मय॑स्तस्य॒ सन्त॑ता⁠। स॒न्ता॒पय॑ति स्वं दे॒हमापा॑दतल॒ मस्त॑गः⁠। तस्य॒ मद्ध्ये॒ वह्नि॑ शिखा अ॒णीयो᳚र्द्ध्वा व्य॒वस्थि॑तः⁠॥ १० नी॒लतो॑ यद॑ मद्ध्य॒स्था॒द् वि॒द्युल्ले॑खेव॒ भास्व॑रा⁠। नी॒वार॒ शूक॑वत्त॒न्वी॒ पी॒ता भा᳚स्वत्य॒णूप॑मा⁠॥ ११ तस्याः᳚ शिखा॒या म॑द्ध्ये प॒रमा᳚त्मा व्य॒वस्थि॑तः⁠। स ब्रह्म॒ स शिवः॒ स हरिः॒ सेन्द्रः॒ सोऽख्‍ष॑रः पर॒मः स्व॒राट्⁠॥ १२ ऋ॒तꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒ पिङ्ग॑लं⁠। ऊ॒र्द्ध्वरे॑तव्ँवि॑रूपा॒ख्‍ष॒व्ँवि॒श्वरू॑पाय॒ वै नमो॒ नमः॑⁠॥ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि⁠। तन्नो॑ विष्णुः प्रचो॒दया᳚त्⁠॥ विष्णो॒र्नुक॑व्ँवी॒र्या॑णि॒ प्रवो॑च॒य्ँयः पार्त्थि॑वानि विम॒मे रजा॑ꣳसि॒ यो अस्क॑भाय॒दुत्त॑रꣳ स॒धस्थ॑व्ँविचक्रमा॒ण स्त्रे॒धोरु॑गा॒यो विष्णो॑र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णोः॒ श्ञप्त्रे᳚स्थो॒ विष्णो॒स्स्यूर॑सि॒ विष्णो᳚र् ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा⁠॥ विष्णवे नारायणाय नमः⁠॥

॥ ओं शान्तिः शान्तिः शान्तिः॑ ॥

Sections२
Mantras२
Version5.0