त्रिसुपर्ण मन्त्राः

त्रिसुपर्णमन्त्राः

ओं नमः परमात्मने, श्री महागणपतये नमः,

श्री गुरुभ्यो नमः⁠। ह॒रिः॒ ओं⁠॥

ॐ
ब्रह्म॑मेतु॒ मां⁠। मधु॑मेतु॒ मां⁠। ब्रह्म॑मे॒व मधु॑मेतु॒ मां⁠। यास्ते॑ सोम प्र॒जा व॒थ्सोऽभि॒ सो अ॒हं⁠। दुःष्व॑प्न॒हन्दु॑रुष्षह⁠। यास्ते॑ सोम प्रा॒णाꣴस्ताञ्जु॑होमि⁠। त्रिसु॑पर्ण॒ मया॑चितं ब्राह्म॒णाय॑ दद्यात्⁠। ब्र॒ह्म॒ह॒त्याव्ँवा ए॒ते घ्न॑न्ति⁠। ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति⁠। ते सोमं॒ प्राप्नु॑वन्ति⁠। आ॒ स॒ह॒स्रात् प॒ङ्क्तिं पुन॑न्ति⁠। ओं⁠॥ १ ब्रह्म॑ मे॒धया᳚⁠। मधु॑ मे॒धया᳚⁠। ब्रह्म॑मे॒व मधु॑ मे॒धया᳚⁠। अ॒द्या नो॑ देव सवितः प्र॒जाव॑थ्सावी॒स्सौभ॑गं⁠। परा॑ दु॒ष्वप्नि॑यꣳ सुव⁠। विश्वा॑नि देव सवितर् दुरि॒तानि॒ परा॑सुव⁠। यद्भ॒द्रं तन्म॒ आसु॑व⁠। मधु॒ वाता॑ ऋताय॒ते मधु॑ ख्‍षरन्ति॒ सिन्ध॑वः⁠। माद्ध्वी᳚र् नस्स॒न्त्वोष॑धीः⁠। मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त् पार्त्थि॑व॒ꣳ॒ रजः॑⁠। मधु॒ द्यौर॑स्तु नः पि॒ता⁠। मधु॑मान्नो॒ वन॒स्पति॒र् मधु॑माꣳ अस्तु॒ सूर्यः॑⁠। माद्ध्वी॒र् गावो॑ भवन्तु न ः⁠। य इ॒मं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात्⁠। भ्रू॒ण॒ह॒त्याव्ँवा ए॒ते घ्न॑न्ति⁠। ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति⁠। ते सोमं॒ प्राप्नु॑वन्ति⁠। आ॒स॒ह॒स्रात् प॒ङ्क्तिं पुन॑न्ति⁠। ओं⁠॥ २ ब्रह्म॑ मे॒धवा᳚⁠। मधु॑ मे॒धवा᳚⁠। ब्रह्म॑मे॒व मधु॑ मे॒धवा᳚⁠। ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒नामृषि॒र् विप्रा॑णां महि॒षो मृ॒गाणां᳚⁠। श्ये॒नो गृद्ध्रा॑णा॒ꣴ॒ स्वधि॑ति॒र् वना॑ना॒ꣳ॒ सोमः॑ प॒वित्र॒ मत्ये॑ति॒ रेभ॑न्न्⁠। ह॒ꣳ॒सश्शु॑चि॒षद् वसु॑रन्तरिख्‍ष॒सद्धोता॑ वेदि॒षदति॑थिर् दुरोण॒सत्⁠। नृ॒षद् व॑र॒सद् ऋ॑त॒सद् व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्⁠॥ ३ ऋ॒चे त्वा॑ रु॒चे त्वा॒ समिथ् स्र॑वन्ति स॒रितो॒ न धेनाः᳚⁠। अ॒न्तर्‌हृ॒दा मन॑सा पू॒यमा॑नाः⁠। घृ॒तस्य॒ धारा॑ अ॒भिचा॑कशीमि⁠। हि॒र॒ण्ययो॑ वेत॒सो मद्ध्य॑ आसां⁠। तस्मि᳚न्थ् सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता᳚भ्यः⁠। तस्या॑सते॒ हर॑यस्स॒प्ततीरे᳚ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारां᳚⁠। य इ॒दं त्रिसु॑पर्ण॒मया॑चितं ब्राह्म॒णाय॑ दद्यात्⁠। वी॒र॒ह॒त्याव्ँवा ए॒ते घ्न॑न्ति⁠। ये ब्रा᳚ह्म॒णास्त्रिसु॑पर्णं॒ पठ॑न्ति⁠। ते सोमं॒ प्राप्नु॑वन्ति⁠। आ॒स॒ह॒स्रात् प॒ङ्क्तिं पुन॑न्ति⁠। ओं⁠॥
Sections१
Mantras१
Version5.0