कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
द्वितीयकाण्डे प्रथमः प्रश्नः

कांड २ प्रश्न १
पशुविधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
वा॒य॒व्य॑ꣴ श्वे॒तमा ल॑भेत॒ भूति॑कामो वा॒युर् वै ख्‍षेपि॑ष्ठा दे॒वता॑वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒म्भूति॑ङ्गमयति॒ भव॑त्ये॒वाति॑ख्‍षिप्रा दे॒वतेत्या॑हुः॒ सैन॑मीश्व॒रा प्र॒दह॒ इत्ये॒तमे॒व सन्त॑व्ँवा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत नि॒युद् वा अ॑स्य॒ धृति॑र् धृ॒त ए॒व भूति॒मुपै॒त्यप्र॑दाहाय॒ भव॑त्ये॒व [१] वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒ ग्राम॑कामो वा॒युर् वा इ॒माः प्र॒जा न॑स्यो॒ता ने॑नीयते वा॒युमे॒व नि॒युत्व॑न्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्र॒जा न॑स्यो॒ता नि य॑च्छति ग्रा॒म्ये॑व भ॑वति नि॒युत्व॑ते भवति ध्रु॒वा ए॒वास्मा॒ अन॑पगाः करोति वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत प्र॒जाका॑मः प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत् प्रा॑णापा॒नौ खलु॒ वा ए॒तस्य॑ प्र॒जाया॒ [२] अप॑ क्रामतो॒ योऽल॑म्प्र॒जायै॒ सन् प्र॒जान्न वि॒न्दते॑ वा॒युमे॒व नि॒युत्व॑न्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्राणापा॒नाभ्या᳚म्प्र॒जाम्प्र ज॑नयति वि॒न्दते᳚ प्र॒जाव्ँवा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒ ज्योगा॑मयावी प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत् प्रा॑णापा॒नौ खलु॒ वा ए॒तस्मा॒दप॑ क्रामतो॒ यस्य॒ ज्योगा॒मय॑ति वा॒युमे॒व नि॒युत्व॑न्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ [३] धावति॒ स ए॒वास्मि॑न् प्राणापा॒नौ द॑धात्यु॒त यदी॒तासु॒र् भव॑ति॒ जीव॑त्ये॒व प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसी॒थ् सो॑ऽकामयत प्र॒जाः प॒शून्थ् सृ॑जे॒येति॒ स आ॒त्मनो॑ व॒पामुद॑क्खिद॒त् ताम॒ग्नौ प्रागृ॑ह्णा॒त् ततो॒ऽजस्तू॑प॒रः सम॑भव॒त् तꣴ स्वायै॑ दे॒वता॑या॒ आऽ*ल॑भत॒ ततो॒ वै स प्र॒जाः प॒शून॑सृजत॒ यः प्र॒जाका॑मः [४] प॒शुका॑मः॒ स्याथ् स ए॒तम्प्रा॑जाप॒त्यम॒जन्तू॑प॒रमा ल॑भेत प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्र॒जाम्प॒शून् प्र ज॑नयति॒ यच्छ्म॑श्रु॒णस्तत् पुरु॑षाणाꣳ रू॒पय्ँयत् तू॑प॒रस्तदश्वा॑ना॒य्ँयद॒न्यतो॑द॒न् तद् गवा॒य्ँयदव्या॑ इव श॒फास्तदवी॑ना॒य्ँयद॒जस्तद॒जाना॑मे॒ताव॑न्तो॒ वै ग्रा॒म्याः प॒शव॒स्तान् [५] रू॒पेणै॒वाव॑ रुन्धे सोमापौ॒ष्णन्त्रै॒तमा ल॑भेत प॒शुका॑मो॒ द्वौ वा अ॒जायै॒ स्तनौ॒ नानै॒व द्वाव॒भि जाये॑ते॒ ऊर्ज॒म्पुष्टि॑न्तृ॒तीयः॑ सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शून् प्र ज॑नयतः॒ सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून् प्र ज॑नय॒त्यौदुं॑बरो॒ यूपो॑ भव॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्क् प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑ रुन्धे⁠ [६] (प्र॒जाकाम॒ स्तान् यूप॒ स्त्रयो॑दश च) ॥१॥
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्माथ् सृ॒ष्टाः परा॑चीराय॒न् ता वरु॑णमगच्छ॒न् ता अन्वै॒त् ताः पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒थ् सो᳚ऽब्रवी॒द् वर॑व्ँवृणी॒ष्वाथ॑ मे॒ पुन॑र् दे॒हीति॒ तासा॒व्ँवर॒माऽ*ल॑भत॒ स कृ॒ष्ण एक॑शितिपादभव॒द्यो वरु॑णगृहीतः॒ स्याथ् स ए॒तव्ँवा॑रु॒णङ्कृ॒ष्णमेक॑शितिपाद॒माल॑भेत॒ वरु॑ण [७] मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑व्ँवरुणपा॒शान् मु॑ञ्चति कृ॒ष्ण एक॑शितिपाद् भवति वारु॒णो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै॒ सुव॑र्भानुरासु॒रः सूर्य॒न्तम॑साऽविद्ध्य॒त् तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न् तस्य॒ यत् प्र॑थ॒मन्तमो॒ऽपाघ्न॒न्थ् सा कृ॒ष्णाऽवि॑रभव॒द् यद् द्वि॒तीय॒ꣳ॒ सा फल्गु॑नी॒ यत् तृ॒तीय॒ꣳ॒ सा ब॑ल॒ख्‍षी यद॑द्ध्य॒स्थाद॒पाकृ॑न्त॒न्थ् साऽवि॑र् व॒शा [८] सम॑भव॒त् ते दे॒वा अ॑ब्रुवन् देवप॒शुर् वा अ॒यꣳ सम॑भू॒त् कस्मा॑ इ॒ममा ल॑फ्स्यामह॒ इत्यथ॒ वै तर्ह्यल्पा॑ पृथि॒व्यासी॒दजा॑ता॒ ओष॑धय॒स्तामवि॑व्ँव॒शामा॑दि॒त्येभ्यः॒ कामा॒याऽल॑भन्त॒ ततो॒ वा अप्र॑थत पृथि॒व्यजा॑य॒न्तौष॑धयो॒ यः का॒मये॑त॒ प्रथे॑य प॒शुभिः॒ प्र प्र॒जया॑ जाये॒येति॒ स ए॒तामवि॑व्ँव॒शामा॑दि॒त्येभ्यः॒ कामा॒या [९] ऽऽल॑भेताऽऽदि॒त्याने॒व काम॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ त ए॒वैन॑म्प्र॒थय॑न्ति प॒शुभिः॒ प्र प्र॒जया॑ जनयन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न् तस्मा॑ ए॒ता म॒ल॒हा आल॑भन्ताऽऽ*ग्ने॒यीङ्कृ॑ष्णग्री॒वीꣳ स॑ꣳहि॒तामै॒न्द्रीꣴ श्वे॒ताम्बा॑र्‌हस्प॒त्यान्ताभि॑रे॒वास्मि॒न् रुच॑मदधु॒र् यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑ ए॒ता म॒ल्॒‌हा आ ल॑भेता [१०] ऽऽग्ने॒यीङ्कृ॑ष्णग्री॒वीꣳ स॑ꣳहि॒तामै॒न्द्रीꣴ श्वे॒ताम्बा॑र्‌हस्प॒त्यामे॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न् ब्रह्मवर्च॒सन्द॑धति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता᳚ प्रा॒तरा᳚ग्ने॒यीङ्कृ॑ष्णग्री॒वीमा ल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने सꣳहि॒तामै॒न्द्रीꣳ श॒रद्य॑परा॒ह्णे श्वे॒तां बा॑र्‌हस्प॒त्यान्त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजा॑ꣳसि व॒सन्ता᳚ प्रा॒तर् ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजा॑ꣳसि॒ तान्ये॒वा [११] ऽव॑ रुन्धे सव्ँवथ्स॒रम्प॒र्याल॑भ्यन्ते सव्ँवथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता स॑व्ँवथ्स॒र ए॒वास्मै᳚ ब्रह्मवर्च॒सम्प्र य॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति ग॒र्भिण॑यो भवन्तीन्द्रि॒यव्ँवै गर्भ॑ इन्द्रि॒यमे॒वास्मि॑न् दधति सारस्व॒तीम्मे॒षीमा ल॑भेत॒ य ई᳚श्व॒रो वा॒चो वदि॑तोः॒ सन् वाच॒न्न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्मि॒न् [१२] वाच॑न्दधाति प्रवदि॒ता वा॒चो भ॑व॒त्यप॑न्नदती भवति॒ तस्मा᳚न् मनु॒ष्याः᳚ सर्वा॒व्ँवाच॑व्ँवदन्त्याग्ने॒यङ्कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यम्ब॒भ्रुञ्ज्योगा॑मयाव्य॒ग्निव्ँवा ए॒तस्य॒ शरी॑रङ्गच्छति॒ सोम॒ꣳ॒ रसो॒ यस्य॒ ज्योगा॒मय॑त्य॒ग्नेरे॒वास्य॒ शरी॑रन्निष्क्री॒णाति॒ सोमा॒द् रस॑मु॒त यदी॒तासु॒र् भव॑ति॒ जीव॑त्ये॒व सौ॒म्यम्ब॒भ्रुमा ल॑भेताऽऽ*ग्ने॒यङ्कृ॒ष्णग्री॑वम्प्र॒जाका॑मः॒ सोमो॒ [१३] वै रे॑तो॒धा अ॒ग्निः प्र॒जाना᳚म्प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा᳚त्य॒ग्निः प्र॒जाम्प्र ज॑नयति वि॒न्दते᳚ प्र॒जामा᳚ग्ने॒यङ्कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यम्ब॒भ्रुय्ँयो ब्रा᳚ह्म॒णो वि॒द्याम॒नूच्य॒ न वि॒रोचे॑त॒ यदा᳚ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न् तेन॑ दधाति॒ यथ् सौ॒म्यो ब्र॑ह्मवर्च॒सन्तेन॑ कृ॒ष्णग्री॑व आग्ने॒यो भ॑वति॒ तम॑ ए॒वास्मा॒दप॑ हन्ति श्वे॒तो भ॑वति॒ [१४] रुच॑मे॒वास्मि॑न् दधाति ब॒भ्रुः सौ॒म्यो भ॑वति ब्रह्मवर्च॒समे॒वास्मि॒न् त्विषि॑न्दधात्याग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यम्ब॒भ्रुमा᳚ग्ने॒यङ्कृ॒ष्णग्री॑वम्पुरो॒धाया॒ꣴ॒ स्पर्द्ध॑मान आग्ने॒यो वै ब्रा᳚ह्म॒णः सौ॒म्यो रा॑ज॒न्यो॑ऽभितः॑ सौ॒म्यमा᳚ग्ने॒यौ भ॑वत॒ स्तेज॑सै॒व ब्रह्म॑णोभ॒यतो॑ रा॒ष्ट्रम्परि॑ गृह्णात्येक॒धा स॒मा वृ॑ङ्क्ते पु॒र ए॑नन्दधते⁠ [१५] (ल॒भे॒त॒ वरु॑णं व॒शै तामवि॑व्ँव॒शामा॑दि॒त्येभ्यः॒ कामा॑य म॒ल्॒‌हा आ ल॑भेत॒ तान्ये॒व सैवास्मि॒न्थ् सोमः॑ श्वे॒तो भ॑वति॒ त्रिच॑त्वारिꣳशच्च) ॥२॥
दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्द्धन्त॒ स ए॒तव्ँविष्णु॑र् वाम॒नम॑पश्य॒त् तꣴ स्वायै॑ दे॒वता॑या॒ आऽ*ल॑भत॒ ततो॒ वै स इ॒माल्ँलो॒कान॒भ्य॑जयद् वैष्ण॒वव्ँवा॑म॒नमा ल॑भेत॒ स्पर्द्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वेमाल्ँलो॒कान॒भि ज॑यति॒ विष॑म॒ आ ल॑भेत॒ विष॑मा इव॒ हीमे लो॒काः समृ॑द्ध्या॒ इन्द्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लाम॑म्प्राशृ॒ङ्गमा ल॑भेत संग्रा॒मे [१६] सय्ँय॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा संग्रा॒मञ्ज॑य॒तीन्द्र॑मे॒व म॑न्यु॒मन्त॒म्मन॑स्वन्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यम्म॒न्युम्मनो॑ दधाति॒ जय॑ति॒ तꣳ सं॑ग्रा॒ममिन्द्रा॑य म॒रुत्व॑ते पृश्ञिस॒क्थमा ल॑भेत॒ ग्राम॑काम॒ इन्द्र॑मे॒व म॒रुत्व॑न्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒तान् प्र य॑च्छति ग्रा॒म्ये॑व भ॑वति॒ यदृ॑ष॒भस्तेनै॒ [१७] न्द्रो यत् पृश्ञि॒स्तेन॑ मारु॒तः समृ॑द्ध्यै प॒श्चात् पृ॑श्ञिस॒क्थो भ॑वति पश्चादन्ववसा॒यिनी॑मे॒वास्मै॒ विश॑ङ्करोति सौ॒म्यम्ब॒भ्रुमा ल॑भे॒तान्न॑कामः सौ॒म्यव्ँवा अन्न॒ꣳ॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्न॒म्प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति ब॒भ्रुर् भ॑वत्ये॒तद् वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्यै सौ॒म्यम्ब॒भ्रुमा ल॑भेत॒ यमल॑ꣳ [१८] रा॒ज्याय॒ सन्त॑ꣳ रा॒ज्यन्नोप॒नमे᳚थ् सौ॒म्यव्ँवै रा॒ज्यꣳ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ रा॒ज्यम्प्रय॑च्छ॒त्युपै॑नꣳ रा॒ज्यन्न॑मति ब॒भ्रुर् भ॑वत्ये॒तद् वै सोम॑स्य रू॒पꣳ समृ॑द्ध्या॒ इन्द्रा॑य वृत्र॒तुरे॑ ल॒लाम॑म्प्राशृ॒ङ्गमा ल॑भेत ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मः पा॒प्मान॑मे॒व वृ॒त्रन्ती॒र्त्वा प्र॑ति॒ष्ठाङ्ग॑च्छ॒तीन्द्रा॑याभिमाति॒घ्ने ल॒लाम॑म्प्राशृ॒ङ्गमा [१९] ल॑भेत॒ यः पा॒प्मना॑ गृही॒तः स्यात् पा॒प्मा वा अ॒भिमा॑ति॒रिन्द्र॑मे॒वाभि॑माति॒हन॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा᳚त् पा॒प्मान॑म॒भिमा॑ति॒म्प्र णु॑दत॒ इन्द्रा॑य व॒ज्रिणे॑ ल॒लाम॑म्प्राशृ॒ङ्गमा ल॑भेत॒ यमल॑ꣳ रा॒ज्याय॒ सन्त॑ꣳ रा॒ज्यन्नोप॒नमे॒दिन्द्र॑मे॒व व॒ज्रिण॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ वज्र॒म्प्र य॑च्छति॒ स ए॑न॒व्ँवज्रो॒ भूत्या॑ इन्ध॒ उपै॑नꣳ रा॒ज्यन्न॑मति ल॒लामः॑ प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य रू॒पꣳ समृ॑द्ध्यै⁠ [२०] (सं॒ग्रा॒मेतेनाल॑मभिमाति॒घ्ने ल॒लाम॑म्प्राशृ॒ङ्गमै नं॒ पञ्च॑दश च) ॥३॥
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न् तस्मा॑ ए॒तान्दश॑र्‌षभा॒माऽल॑भन्त॒ तयै॒वास्मि॒न् रुच॑मदधु॒र् यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑ ए॒तान्दश॑र्‌षभा॒माऽल॑भेता॒मुमे॒वा ऽऽ*दि॒त्यꣴ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता᳚ प्रा॒तस्त्रील्ँल॒लामा॒ना ल॑भेत ग्री॒ष्मे म॒द्ध्यन्दि॑ने॒ [२१] त्रीञ्छि॑तिपृ॒ष्ठाञ्छ॒रद्य॑परा॒ह्णे त्रीञ्छि॑ति॒वारा॒न् त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजा॑ꣳसि व॒सन्ता᳚ प्रा॒तर् ग्री॒ष्मे म॒द्ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजा॑ꣳसि॒ तान्ये॒वाव॑ रुन्धे॒ त्रय॑स्त्रय॒ आ ल॑भ्यन्तेऽभिपू॒र्वमे॒वास्मि॒न् तेजो॑ दधाति सव्ँवथ्स॒रम्प॒र्याल॑भ्यन्ते सव्ँवथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता स॑व्ँवथ्स॒र ए॒वास्मै᳚ ब्रह्मवर्च॒सम्प्र य॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति सव्ँवथ्स॒रस्य॑ प॒रस्ता᳚त् प्राजाप॒त्यङ्कद्रु॒ [२२] मा ल॑भेत प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑ तिष्ठति॒ यदि॑ बिभी॒याद् दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णꣴ श्या॒ममा ल॑भेत सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शवः॒ स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑ङ्करोति॒ न दु॒श्चर्मा॑ भवति दे॒वाश्च॒ वै य॒मश्चा॒स्मिल्ँलो॒के᳚ऽस्पर्द्धन्त॒ स य॒मो दे॒वाना॑मिन्द्रि॒यव्ँवी॒र्य॑मयुवत॒ तद् य॒मस्य॑ [२३] यम॒त्वन्ते दे॒वा अ॑मन्यन्त य॒मो वा इ॒दम॑भू॒द्यद्व॒यꣴ स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्थ् स ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उख्‍षव॒शौ निर॑मिमीत॒ ते दे॒वा वै᳚ष्णावरु॒णीव्ँव॒शामाऽल॑भन्तै॒न्द्रमु॒ख्‍षाणं॒ तव्ँवरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्तै॒न्द्रेणै॒वास्ये᳚न्द्रि॒यम॑वृञ्जत॒ यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स स्पर्द्ध॑मानो वैष्णावरु॒णी [२४] व्ँव॒शामा ल॑भेतै॒न्द्रमु॒ख्‍षाण॒व्ँवरु॑णेनै॒व भ्रातृ॑व्यङ्ग्राहयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्र णु॑दत ऐ॒न्द्रेणै॒वास्ये᳚न्द्रि॒यव्ँवृ॑ङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भव॒तीन्द्रो॑ वृ॒त्रम॑ह॒न् तव्ँवृ॒त्रो ह॒तः षो॑ड॒शभि॑र् भो॒गैर॑सिना॒त् तस्य॑ वृ॒त्रस्य॑ शीर्‌ष॒तो गाव॒ उदा॑य॒न् ता वै॑दे॒ह्यो॑ऽभव॒न् तासा॑मृष॒भो ज॒घनेऽनूदै॒त् तमिन्द्रो॑ [२५] ऽचाय॒थ् सो॑ऽमन्यत॒ यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात् पा॒प्मन॒ इति॒ स आ᳚ग्ने॒यङ्कृ॒ष्णग्री॑व॒मा ल॑भतै॒न्द्रमृ॑ष॒भन्तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑सृतः षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहदै॒न्द्रेणे᳚न्द्रि॒य मा॒त्मन्न॑धत्त॒ यः पा॒प्मना॑ गृही॒तः स्याथ् स आ᳚ग्ने॒यङ्कृ॒ष्णग्री॑व॒मा ल॑भेतै॒न्द्रमृ॑ष॒भम॒ग्निरे॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतः [२६] पा॒प्मान॒मपि॑ दहत्यै॒न्द्रेणे᳚न्द्रि॒यमा॒त्मन् ध॑त्ते॒ मुच्य॑ते पा॒प्मनो॒ भव॑त्ये॒व द्या॑वापृथि॒व्या᳚न्धे॒नुमा ल॑भेत॒ ज्योग॑परुद्धो॒ऽनयो॒र्॒‌हि वा ए॒षोऽप्र॑तिष्ठि॒तोऽथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ते ए॒वैन॑म्प्रति॒ष्ठाङ्ग॑मयतः॒ प्रत्ये॒व ति॑ष्ठति पर्या॒रिणी॑ भवति पर्या॒रीव॒ ह्ये॑तस्य॑ रा॒ष्ट्रय्ँयो ज्योग॑परुद्धः॒ समृ॑द्ध्यै वाय॒व्य॑ [२७] व्ँव॒थ्समा ल॑भेत वा॒युर्वा अ॒नयो᳚र् व॒थ्स इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विडप॑शु॒ष्काऽथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ इ॒माल्ँलो॒कान् विशं॒ प्र दा॑पयति॒ प्रास्मा॑ इ॒मे लो॒काः स्नु॑वन्ति भुञ्ज॒त्ये॑न॒व्ँविडुप॑ तिष्ठते⁠ [२८] (म॒द्ध्यन्दि॑ने॒ कद्रुं॑य॒मस्य॒स्पर्द्ध॑मानो वैष्णावरु॒णीं तमिन्द्रो᳚ ऽस्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतो वाय॒व्यं॑द्विच॑त्वारिꣳशच्च) ॥४॥
इन्द्रो॑ व॒लस्य॒ बिल॒मपौ᳚र्णो॒थ् स य उ॑त्त॒मः प॒शुरासी॒त् तम्पृ॒ष्ठम्प्रति॑ सं॒गृह्योद॑क्खिद॒त् तꣳ स॒हस्र॑म्प॒शवोऽनूदा॑य॒न्थ् स उ॑न्न॒तो॑ऽभव॒द्यः प॒शुका॑मः॒ स्याथ् स ए॒तमै॒न्द्रमु॑न्न॒तमा ल॑भे॒तेन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् प्र य॑च्छति पशु॒माने॒व भ॑वत्युन्न॒तो [२९] भ॑वति साह॒स्री वा ए॒षा ल॒ख्‍ष्मी यदु॑न्न॒तो ल॒ख्‍ष्मियै॒व प॒शूनव॑ रुन्धे य॒दा स॒हस्र॑म्प॒शून् प्रा᳚प्नु॒यादथ॑ वैष्ण॒वव्ँवा॑म॒नमा ल॑भेतै॒तस्मि॒न् वै तथ् स॒हस्र॒मद्ध्य॑तिष्ठ॒त् तस्मा॑दे॒ष वा॑म॒नः समी॑षितः प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठान्द॑धाति॒ को॑ऽर्‌हति स॒हस्र॑म्प॒शून् प्राप्तु॒मित्या॑हुरहोरा॒त्राण्ये॒व स॒हस्र॑ꣳ सं॒पाद्याऽऽ*ल॑भेत प॒शवो॒ [३०] वा अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान् प्रति॒ष्ठाङ्ग॑मय॒त्योष॑धीभ्यो वे॒हत॒मा ल॑भेत प्र॒जाका॑म॒ ओष॑धयो॒ वा ए॒तम्प्र॒जायै॒ परि॑ बाधन्ते॒ योऽल॑म्प्र॒जायै॒ सन् प्र॒जान्न वि॒न्दत॒ ओष॑धयः॒ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति॒ या वे॒हद्भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मै॒ स्वाद् योनेः᳚ प्र॒जाम्प्र ज॑नयन्ति वि॒न्दते᳚ [३१] प्र॒जामापो॒ वा ओष॑ध॒योऽस॒त् पुरु॑ष॒ आप॑ ए॒वास्मा॒ अस॑तः॒ सद् द॑दति॒ तस्मा॑दाहु॒र्यश्चै॒वव्ँवेद॒ यश्च॒ नाप॒स्त्वावास॑तः॒ सद् द॑द॒तीत्यै॒न्द्रीꣳ सू॒तव॑शा॒मा ल॑भेत॒ भूति॑का॒मोऽजा॑तो॒ वा ए॒ष योऽल॒म्भूत्यै॒ सन् भूति॒न्न प्रा॒प्नोतीन्द्र॒ङ्खलु॒ वा ए॒षा सू॒त्वा व॒शाऽभ॑व॒ [३२] दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒म्भूति॑ङ्गमयति॒ भव॑त्ये॒व यꣳ सू॒त्वा व॒शा स्यात् तमै॒न्द्रमे॒वाऽऽ* ल॑भेतै॒तद्वाव तदि॑न्द्रि॒यꣳ सा॒ख्‍षादे॒वेन्द्रि॒यमव॑ रुन्ध ऐन्द्रा॒ग्नम्पु॑नरुथ्सृ॒ष्टमा ल॑भेत॒ य आ तृ॒तीया॒त् पुरु॑षा॒थ् सोम॒न्न पिबे॒द्विच्छि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थो यो ब्रा᳚ह्म॒णः सन्ना [३३] तृ॒तीया॒त् पुरु॑षा॒थ् सोम॒न्न पिब॑तीन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ सोमपी॒थम्प्र य॑च्छत॒ उपै॑नꣳ सोमपी॒थो न॑मति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यव्ँवै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे॒ यदा᳚ग्ने॒यो भव॑त्याग्ने॒यो वै ब्रा᳚ह्म॒णः स्वामे॒व दे॒वता॒मनु॒ सन्त॑नोति पुनरुथ्सृ॒ष्टो भ॑वति पुनरुथ्सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑ [३४] सोमपी॒थः समृ॑द्ध्यै ब्राह्मणस्प॒त्यन्तू॑प॒रमा ल॑भेताभि॒चर॒न् ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति तूप॒रो भ॑वति ख्‍षु॒रप॑वि॒र् वा ए॒षा ल॒ख्‍ष्मी यत् तू॑प॒रः समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मय॑म्ब॒र्॒‌हिः शृ॒णात्ये॒वैन॒व्ँवैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन᳚म्⁠ [३५] (भ॒व॒त्यु॒न्न॒तः प॒शवो॑ जनयन्ति वि॒न्दते॑ ऽभव॒थ् सन्नै तस्ये॒ द्ध्म स्त्रीणि॑ च) ॥५॥
बा॒र्॒‌ह॒स्प॒त्यꣳ शि॑तिपृ॒ष्ठमा ल॑भेत॒ ग्राम॑कामो॒ यः का॒मये॑त पृ॒ष्ठꣳ स॑मा॒नाना॑ꣴ स्या॒मिति॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑म्पृ॒ष्ठꣳ स॑मा॒नाना᳚ङ्करोति ग्रा॒म्ये॑व भ॑वति शितिपृ॒ष्ठो भ॑वति बार्‌हस्प॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै पौ॒ष्णꣴ श्या॒ममा ल॑भे॒तान्न॑का॒मोऽन्न॒व्ँवै पू॒षा पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ [३६] अन्न॒म्प्र य॑च्छत्यन्ना॒द ए॒व भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्यै मारु॒तम्पृश्ञि॒मा ल॑भे॒ताऽन्न॑का॒मोऽन्न॒व्ँवै म॒रुतो॑ म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्न॒म्प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ पृश्ञि॑र् भवत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्या ऐ॒न्द्रम॑रु॒णमा ल॑भेतेन्द्रि॒यका॑म॒ इन्द्र॑मे॒व [३७] स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यन्द॑धातीन्द्रिया॒व्ये॑व भ॑वत्यरु॒णो भ्रूमा᳚न् भवत्ये॒तद्वा इन्द्र॑स्य रू॒पꣳ समृ॑द्ध्यै सावि॒त्रमु॑पद्ध्व॒स्तमा ल॑भेत स॒निका॑मः सवि॒ता वै प्र॑स॒वाना॑मीशे सवि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ स॒निम्प्र सु॑वति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्युपद्ध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑ष [३८] दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वम्ब॑हुरू॒पमा ल॑भे॒ताऽन्न॑कामो वैश्वदे॒वव्ँवा अन्न॒व्ँविश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्न॒म्प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति बहुरू॒पो भ॑वति बहुरू॒पꣴ ह्यन्न॒ꣳ॒ समृ॑द्ध्यै वैश्वदे॒वम्ब॑हुरू॒पमा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ [३९] सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो᳚ (१॒) ह्ये॑ष समृ॑द्ध्यै प्राजाप॒त्यं तू॑प॒रमा ल॑भेत॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मये᳚त् प्राजाप॒त्यो वै पुरु॑षः प्र॒जाप॑तिः॒ खलु॒ वै तस्य॑ वेद॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒न्तस्मा॒थ् स्रामा᳚न्मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो ह्ये॑ ष दे॒वत॑या॒ समृ॑द्ध्यै⁠ [४०] (त ए॒वास्मै᳚ प्राजाप॒त्यो हि त्रीणि॑ च) ॥६॥
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚ऽच्छिन॒त् तस्यै॒ रसः॒ परा॑पत॒त् तम्बृह॒स्पति॒रुपा॑ऽगृह्णा॒थ् सा शि॑तिपृ॒ष्ठा व॒शाऽभ॑व॒द्यो द्वि॒तीयः॑ प॒राप॑त॒त् तम्मि॒त्रावरु॑णा॒वुपा॑गृह्णीता॒ꣳ॒ सा द्वि॑रू॒पा व॒शाऽभ॑व॒द् यस्तृ॒तीयः॑ प॒राप॑त॒त् तव्ँविश्वे॑ दे॒वा उपा॑गृह्ण॒न्थ् सा ब॑हुरू॒पा व॒शाऽभ॑व॒द् यश्च॑तु॒र्त्थः प॒राप॑त॒थ् स पृ॑थि॒वीम्प्राऽवि॑श॒त् तम्बृह॒स्पति॑र॒भ्य॑ [४१] गृह्णा॒दस्त्वे॒वायम्भोगा॒येति॒ स उ॑ख्‍षव॒शः सम॑भव॒द्यल्लोहि॑तम्प॒राप॑त॒त् तद्रु॒द्र उपा॑ऽगृह्णा॒थ् सा रौ॒द्री रोहि॑णी व॒शाऽभ॑वद्बार्‌हस्प॒त्याꣳ शि॑तिपृ॒ष्ठामा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ छन्द॑सा॒व्ँवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ [४२] वै ब्र॑ह्मवर्च॒सञ्छन्द॑सामे॒व रसे॑न॒ रस॑म्ब्रह्मवर्च॒समव॑ रुन्धे मैत्रावरु॒णीन्द्वि॑रू॒पामा ल॑भेत॒ वृष्टि॑कामो मै॒त्रव्ँवा अह॑र् वारु॒णी रात्रि॑रहोरा॒त्राभ्या॒ङ्खलु॒ वै प॒र्जन्यो॑ वर्‌षति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्या᳚म्प॒र्जन्य॑व्ँवर्‌षयत॒ श्छन्द॑सा॒व्ँवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै वृष्टि॒ श्छन्द॑सामे॒व रसे॑न॒ [४३] रस॒व्ँवृष्टि॒मव॑ रुन्धे मैत्रावरु॒णीन्द्वि॑रू॒पामा ल॑भेत प्र॒जाका॑मो मै॒त्रव्ँवा अह॑र् वारु॒णी रात्रि॑ रहोरा॒त्राभ्या॒ङ्खलु॒ वै प्र॒जाः प्र जा॑यन्ते मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्या᳚म्प्र॒जाम्प्र ज॑नयत॒ श्छन्द॑सा॒व्ँवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै प्र॒जा छन्द॑सामे॒व रसे॑न॒ रस॑म्प्र॒जामव॑ [४४] रुन्धे वैश्वदे॒वीम्ब॑हुरू॒पामा ल॑भे॒तान्न॑कामो वैश्वदे॒वव्ँवा अन्न॒व्ँविश्वा॑ने॒व दे॒वान्थ् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्न॒म्प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ छन्द॑सा॒व्ँवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वा अन्न॒ञ्छन्द॑सामे॒व रसे॑न॒ रस॒मन्न॒मव॑ रुन्धे वैश्वदे॒वीम्ब॑हुरू॒पामा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै [४५] स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति॒ छन्द॑सा॒व्ँवा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै स॑जा॒ता श्छन्द॑सामे॒व रसे॑न॒ रस॑ꣳ सजा॒तानव॑ रुन्धे बार्‌हस्प॒त्यमु॑ख्‍षव॒शमा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं [४६] द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ वश॒व्ँवा ए॒ष च॑रति॒ यदु॒ख्‍षा वश॑ इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सव्ँवशे॑नै॒व वश॑म्ब्रह्मवर्च॒समव॑ रुन्धे रौ॒द्रीꣳ रोहि॑णी॒मा ल॑भेताभि॒चर॑न् रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मय॑म्ब॒र्॒‌हिः शृ॒णात्ये॒वैनं॒ वैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन᳚म्⁠ [४७] (एका॒न्नवि॑ꣳश॒तिश्च॑) ॥७॥
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न् तस्मा॑ ए॒ताꣳ सौ॒रीꣴ श्वे॒ताव्ँव॒शामाऽल॑भन्त॒ तयै॒वास्मि॒न् रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑ ए॒ताꣳ सौ॒रीꣴ श्वे॒ताव्ँव॒शामा ल॑भेता॒मुमे॒वाऽऽदि॒त्यꣴ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति बै॒ल्॒‌वो यूपो॑ भवत्य॒सौ [४८] वा आ॑दि॒त्यो यतोऽजा॑यत॒ ततो॑ बि॒ल्व॑ उद॑तिष्ठ॒थ् सयो᳚न्ये॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे ब्राह्मणस्प॒त्याम्ब॑भ्रुक॒र्णीमा ल॑भेताभि॒चर॑न् वारु॒णन्दश॑कपालम्पु॒रस्ता॒न् निर्व॑पे॒द् वरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते बभ्रुक॒र्णी भ॑वत्ये॒तद्वै ब्रह्म॑णो रू॒पꣳ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मय॑म्ब॒र्॒‌हिः शृ॒णा [४९] त्ये॒वैन॒व्ँवैभी॑दक इ॒द्ध्मो भि॒नत्त्ये॒वैन॑व्ँवैष्ण॒वव्ँवा॑म॒नमा ल॑भेत॒ यय्ँय॒ज्ञो नोप॒नमे॒द्विष्णु॒र् वै य॒ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ य॒ज्ञम्प्र य॑च्छ॒त्युपै॑नय्ँय॒ज्ञो न॑मति वाम॒नो भ॑वति वैष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै त्वा॒ष्ट्रव्ँव॑ड॒बमा ल॑भेत प॒शुका॑म॒स्त्वष्टा॒ वै प॑शू॒नाम्मि॑थु॒नानां᳚ [५०] प्रजनयि॒ता त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् मि॑थु॒नान् प्र ज॑नयति प्र॒जा हि वा ए॒तस्मि॑न् प॒शवः॒ प्रवि॑ष्टा॒ अथै॒ष पुमा॒न्थ् सन् व॑ड॒बः सा॒ख्‍षादे॒व प्र॒जाम्प॒शूनव॑ रुन्धे मै॒त्रꣴ श्वे॒तमा ल॑भेत संग्रा॒मे सय्ँय॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑म्मि॒त्रेण॒ सन्न॑यति [५१] विशा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैन॑म्प्राजाप॒त्यङ्कृ॒ष्णमा ल॑भेत॒ वृष्टि॑कामः प्र॒जाप॑ति॒र् वै वृष्ट्या॑ ईशे प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्य॑व्ँवर्‌षयति कृ॒ष्णो भ॑वत्ये॒तद्वै वृष्ट्यै॑ रू॒पꣳ रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे श॒बलो॑ भवति वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा व॑र्‌षयत्यवाशृ॒ङ्गो भ॑वति॒ वृष्टि॑मे॒वास्मै॒ नि य॑च्छति⁠ [५२] (अ॒सौ शृ॒णाति॑ मिथु॒नानां᳚ नयति यच्छति) ॥८॥
वरु॑णꣳ सुषुवा॒णम॒न्नाद्य॒न्नोपा॑नम॒थ् स ए॒ताव्ँवा॑रु॒णीङ्कृ॒ष्णाव्ँव॒शाम॑पश्य॒त् ताꣴ स्वायै॑ दे॒वता॑या॒ आऽल॑भत॒ ततो॒ वै तम॒न्नाद्य॒मुपा॑नम॒द्यमल॑म॒न्नाद्या॑य॒ सन्त॑म॒न्नाद्य॒न्नोप॒नमे॒थ् स ए॒ताव्ँवा॑रु॒णीङ्कृ॒ष्णाव्ँव॒शामा ल॑भेत॒ वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्न॒म्प्र य॑च्छत्यन्ना॒द [५३] ए॒व भ॑वति कृ॒ष्णा भ॑वति वारु॒णी ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै मै॒त्रꣴ श्वे॒तमा ल॑भेत वारु॒णङ्कृ॒ष्णम॒पाञ्चौष॑धीनाञ्च स॒न्धावन्न॑कामो मै॒त्रीर् वा ओष॑धयो वारु॒णीरापो॒ऽपाञ्च॒ खलु॒ वा ओष॑धीनाञ्च॒ रस॒मुप॑ जीवामो मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॒ अन्नं॒ प्र य॑च्छतोऽन्ना॒द ए॒व भ॑व [५४] त्य॒पाञ्चौष॑धीनाञ्च स॒न्धावा ल॑भत उ॒भय॒स्याव॑रुद्ध्यै॒ विशा॑खो॒ यूपो॑ भवति॒ द्वे ह्ये॑ते दे॒वते॒ समृ॑द्ध्यै मै॒त्रꣴ श्वे॒तमा ल॑भेत वारु॒णङ्कृ॒ष्णञ्ज्योगा॑मयावी॒ यन् मै॒त्रो भव॑ति मि॒त्रेणै॒वास्मै॒ वरु॑णꣳ शमयति॒ यद्वा॑रु॒णः सा॒ख्‍षादे॒वैन॑व्ँवरुणपा॒शान् मु॑ञ्चत्यु॒त यदी॒तासु॒र् भव॑ति॒ जीव॑त्ये॒व दे॒वा वै पुष्टि॒न्नावि॑न्द॒न् [५५] ताम्मि॑थु॒ने॑ऽपश्य॒न् तस्या॒न्न सम॑राधय॒न् ताव॒श्विना॑वब्रूतामा॒वयो॒र् वा ए॒षामैतस्या᳚व्ँवदद्ध्व॒मिति॒ साऽश्विनो॑रे॒वाभ॑व॒द् यः पुष्टि॑कामः॒ स्याथ् स ए॒तामा᳚श्वि॒नीय्ँय॒मीव्ँव॒शामा ल॑भेता॒ऽश्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒न् पुष्टि॑न्धत्तः॒ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑⁠ [५६] (अ॒न्ना॒दो᳚ ऽन्ना॒द ए॒व भ॑वत्य विन्द॒न् पञ्च॑चत्वारिꣳशच्च) ॥९॥
आ॒श्वि॒नन्धू॒म्रल॑लाम॒मा ल॑भेत॒ यो दुर्ब्रा᳚ह्मणः॒ सोम॒म्पिपा॑सेद॒श्विनौ॒ वै दे॒वाना॒मसो॑मपावास्ता॒न्तौ प॒श्चा सो॑मपी॒थम्प्राप्नु॑ताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ यो दुर्ब्रा᳚ह्मणः॒ सोम॒म्पिपा॑सत्य॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ सोमपी॒थम्प्र य॑च्छत॒ उपै॑नꣳ सोमपी॒थो न॑मति॒ यद्धू॒म्रो भव॑ति धूम्रि॒माण॑मे॒वास्मा॒दप॑ हन्ति ल॒लामो॑ [५७] भवति मुख॒त ए॒वास्मि॒न् तेजो॑ दधाति वाय॒व्य॑ङ्गोमृ॒गमा ल॑भेत॒ यमज॑घ्निवाꣳसमभि॒शꣳसे॑यु॒रपू॑ता॒ वा ए॒तव्ँवागृ॑च्छति॒ यमज॑घ्निवाꣳसमभि॒शꣳस॑न्ति॒ नैष ग्रा॒म्यः प॒शुर् नार॒ण्यो यद्गो॑मृ॒गो नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यमज॑घ्निवाꣳसमभि॒शꣳस॑न्ति वा॒युर् वै दे॒वाना᳚म्प॒वित्र॑व्ँवा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वै [५८] न॑म्पवयति॒ परा॑ची॒ वा ए॒तस्मै᳚ व्यु॒च्छन्ती॒ व्यु॑च्छति॒ तमः॑ पा॒प्मान॒म्प्र वि॑शति॒ यस्या᳚श्वि॒ने श॒स्यमा॑ने॒ सूर्यो॒ ना*ऽऽविर् भव॑ति सौ॒र्यम्ब॑हुरू॒पमा ल॑भेता॒मुमे॒वादि॒त्यꣴ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒त् तमः॑ पा॒प्मान॒मप॑ हन्ति प्र॒तीच्य॑स्मै व्यु॒च्छन्ती॒ व्यु॑च्छ॒त्यप॒ तमः॑ पा॒प्मान॑ꣳ हते⁠ [५९] (ल॒लामः॒ स ए॒व षट्च॑त्वारिꣳशच्च) ॥१०॥
इन्द्र॑व्ँवो वि॒श्वत॒स्परी >१, न्द्र॒न्नरो॒ >२, मरु॑तो॒ यद्ध॑ वो दि॒वो >३, या वः॒ शर्म॑ >४⁠॥ भरे॒ष्विन्द्र॑ꣳ सु॒हव॑ꣳ हवामहेऽꣳहो॒मुच॑ꣳ सु॒कृत॒न्दैव्य॒ञ्जन᳚म्⁠। अ॒ग्निम्मि॒त्रव्ँवरु॑णꣳ सा॒तये॒ भग॒न्द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये᳚⁠॥ म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्॒‌हा म॒मत्तु॒ वातो॑ अ॒पाव्ँवृष॑ण्वान्⁠। शि॒शी॒तमि॑न्द्रापर्वता यु॒वन्न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः⁠॥ प्रि॒या वो॒ नाम॑ [६०] हुवे तु॒राणा᳚म्⁠। आ यत् तृ॒पन्म॑रुतो वावशा॒नाः⁠॥ श्रि॒यसे॒ कम्भा॒नुभिः॒ सम्मि॑मिख्‍षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑⁠। ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑⁠॥ अ॒ग्निः प्र॑थ॒मो वसु॑भिर्नो अव्या॒थ् सोमो॑ रु॒द्रेभि॑र॒भि र॑ख्‍षतु॒ त्मना᳚⁠। इन्द्रो॑ म॒रुद्भि॑र्‌ऋतु॒धा कृ॑णोत्वादि॒त्यैर् नो॒ वरु॑णः॒ सꣳ शि॑शातु⁠॥ सन्नो॑ दे॒वो वसु॑भिर॒ग्निः सꣳ [६१] सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः⁠। समिन्द्रो॑ म॒रुद्भि॑र् यज्ञियैः॒ समा॑दि॒त्यैर् नो॒ वरु॑णो अजिज्ञिपत्⁠॥ यथा॑ऽऽदि॒त्या वसु॑भिः संबभू॒वुर् म॒रुद्भी॑ रु॒द्राः स॒मजा॑नता॒भि⁠। ए॒वा त्रि॑णाम॒न्नहृ॑णीयमाना॒ विश्वे॑ दे॒वाः सम॑नसो भवन्तु⁠॥ कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने⁠। अर्‌ह॑न्तश्चि॒द्यमि॑न्ध॒ते स॑ञ्ज॒नय॑न्ति ज॒न्तवः॑⁠॥ सय्ँयदि॒षो वना॑महे॒ सꣳ ह॒व्या मानु॑षाणाम्⁠। उ॒त द्यु॒म्नस्य॒ शव॑स [६२] ऋ॒तस्य॑ र॒श्मिमा द॑दे⁠॥ य॒ज्ञो दे॒वाना॒म्प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑⁠। आ वो॒ऽर्वाची॑ सुम॒तिर् व॑वृत्याद॒ꣳ॒होश्चि॒द्या व॑रिवो॒वित्त॒राऽस॑त्⁠॥ शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ ख्‍षेति वृ॒द्धव॑याः सु॒वीरः॑⁠। नकि॒ष्टं(२) घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्याना॒म्भव॑ति॒ प्रणी॑तौ⁠॥ धा॒रय॑न्त आदि॒त्यासो॒ जग॒थ् स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः⁠। दी॒र्घाधि॑यो॒ रख्‍ष॑माणा [६३] असु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑⁠॥ ति॒स्रो भूमी᳚र् धारय॒न् त्रीꣳ रु॒त द्यून् त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम्⁠। ऋ॒तेना॑ऽऽ*दित्या॒ महि॑ वो महि॒त्वन्तद॑र्यमन् वरुण मित्र॒ चारु॑⁠॥ त्यान्नु ख्‍ष॒त्रिया॒ꣳ॒ अव॑ आदि॒त्यान् या॑चिषामहे⁠। सु॒मृ॒डी॒काꣳ अ॒भिष्ट॑ये⁠॥ न द॑ख्‍षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा⁠। पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद् [६४] यु॒ष्मानी॑तो॒ अभ॑य॒ञ्ज्योति॑रश्याम्⁠॥ आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सख्‍षी॒महि॒ शर्म॑णा॒ शन्त॑मेन⁠। अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मय्ँय॒ज्ञन्द॑धतु॒ श्रोष॑माणाः⁠॥ इ॒मम्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय⁠। त्वाम॑व॒स्युरा च॑के⁠॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑⁠॥ अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्र मो॑षीः⁠ [६५] (नामा॒ ऽग्निः सꣳ शव॑सो॒ रख्‍ष॑माणा धी॒र्या॑ चि॒दे का॒न्न प॑ञ्चा॒शच्च॑) ॥११॥
(वा॒य॒व्यं॑ प्र॒जाप॑ति॒स्ता वरु॑णं देवासु॒रा ए॒ष्व॑ सावा॑दि॒त्यो दश॑र्‌षभा॒मिन्द्रो॑ व॒लस्य॑ बार्‌हस्प॒त्यं व॑षट्का॒रो॑ ऽसौ सौ॒रीं वरु॑ण माश्वि॒न मिन्द्र॑व्ँवो॒ नर॒ एका॑दश)
(वा॒य॒व्य॑ माग्ने॒यीङ्कृ॑ष्णग्री॒वी म॒सावा॑दि॒त्यो वा अ॑होरा॒त्राणि॑ वषट्का॒रः प्र॑जनयि॒ता हु॑वे तु॒राणां॒ पञ्च॑षष्टिः)
(वा॒य॒व्यं॑ प्रमो॑षीः)
अनुवाकाः पञ्चशती
११ ६५