कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
द्वितीयकाण्डे द्वितीयः प्रश्नः

कांड २ प्रश्न २
इष्टिविधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः सृ॒ष्टा इ॑न्द्रा॒ग्नी अपा॑गूहता॒ꣳ॒ सो॑ऽचायत् प्र॒जाप॑तिरिन्द्रा॒ग्नी वै मे᳚ प्र॒जा अपा॑घुख्‍षता॒मिति॒ स ए॒तमै᳚न्द्रा॒ग्न मेका॑दशकपालमपश्य॒त् तन्निर॑वप॒त् ताव॑स्मै प्र॒जाः प्रासा॑धयतामिन्द्रा॒ग्नी वा ए॒तस्य॑ प्र॒जामप॑ गूहतो॒ योऽल॑म्प्र॒जायै॒ सन् प्र॒जान्न वि॒न्दत॑ ऐन्द्रा॒ग्न मेका॑दशकपाल॒न्निर्व॑पेत्प्र॒जाका॑म इन्द्रा॒ग्नी [१] ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै᳚ प्र॒जाम्प्र सा॑धयतो वि॒न्दते᳚ प्र॒जामै᳚न्द्रा॒ग्न मेका॑दशकपाल॒न्निर्व॑पे॒थ् स्पर्द्ध॑मानः॒ ख्‍षेत्रे॑ वा सजा॒तेषु॑ वेन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ताभ्या॑मे॒वेन्द्रि॒यव्ँवी॒र्य॑म्भ्रातृ॑व्यस्य वृङ्क्ते॒ वि पा॒प्मना॒ भ्रातृ॑व्येण जय॒तेऽप॒ वा ए॒तस्मा॑दिन्द्रि॒यव्ँवी॒र्य॑ङ्क्रामति॒ यः सं॑ग्रा॒ममु॑पप्र॒यात्यै᳚न्द्रा॒ग्न मेका॑दशकपाल॒न्निर् [२] व॑पेथ् संग्रा॒ममु॑पप्रया॒स्यन्नि॑न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निन्द्रि॒यव्ँवी॒र्य॑न्धत्तः स॒हेन्द्रि॒येण॑ वी॒र्ये॑णोप॒ प्र या॑ति॒ जय॑ति॒ तꣳ सं॑ग्रा॒मव्ँवि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्द्ध्यते॒ यः सं॑ग्रा॒मञ्जय॑त्यैन्द्रा॒ग्नमेका॑दशकपाल॒न्निर्व॑पेथ् संग्रा॒मञ्जि॒त्वेन्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निन्द्रि॒यव्ँवी॒र्यं॑ [३] धत्तो॒ नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑द्ध्य॒तेऽप॒ वा ए॒तस्मा॑दिन्द्रि॒यव्ँवी॒र्य॑ङ्क्रामति॒ य एति॑ ज॒नता॑मैन्द्रा॒ग्न मेका॑दशकपाल॒न्निर्व॑पेज्ज॒नता॑मे॒ष्यन्नि॑न्द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निन्द्रि॒यव्ँवी॒र्य॑न्धत्तः स॒हेन्द्रि॒येण॑ वी॒र्ये॑ण ज॒नता॑मेति पौ॒ष्णञ्च॒रुमनु॒ निर्व॑पेत् पू॒षा वा इ॑न्द्रि॒यस्य॑ वी॒र्य॑स्यानुप्रदा॒ता पू॒षण॑मे॒व [४] स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ इन्द्रि॒यव्ँवी॒र्य॑मनु॒ प्र य॑च्छति ख्‍षैत्रप॒त्यञ्च॒रुन्निर्व॑पेज्ज॒नता॑मा॒गत्ये॒यव्ँवै ख्‍षेत्र॑स्य॒ पति॑र॒स्यामे॒व प्रति॑ तिष्ठत्यैन्द्रा॒ग्नमेका॑दशकपालमु॒परि॑ष्टा॒न्निर्व॑पेद॒स्यामे॒व प्र॑ति॒ष्ठाये᳚न्द्रि॒यं वी॒र्य॑मु॒परि॑ष्टादा॒त्मन् ध॑त्ते⁠ [५] (प्र॒जाका॑म इन्द्रा॒ग्नी उ॑पप्र॒यात्यै᳚न्द्रा॒ग्न मेका॑दशकपाल॒न्निर् वी॒र्यं॑ पू॒षण॑मे॒ वै का॒न्नच॑त्वारि॒ꣳ॒शच्च॑) ॥१॥
अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यो द॑र्‌शपूर्णमासया॒जी सन्न॑मावा॒स्या᳚व्ँवा पौर्णमा॒सीव्ँवा॑ऽतिपा॒दये᳚त् प॒थो वा ए॒षोऽद्ध्यप॑थेनैति॒ यो द॑र्‌शपूर्णमासया॒जी सन्न॑मावा॒स्या᳚व्ँवा पौर्णमा॒सीव्ँवा॑ऽतिपा॒दय॑त्य॒ग्निमे॒व प॑थि॒कृत॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मप॑था॒त् पन्था॒मपि॑ नयत्यन॒ड्वान् दख्‍षि॑णा व॒ही ह्ये॑ष समृ॑द्ध्या अ॒ग्नये᳚ व्र॒तप॑तये [६] पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्य आहि॑ताग्निः॒ सन्न॑व्र॒त्यमि॑व॒ चरे॑द॒ग्निमे॒व व्र॒तप॑ति॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑व्ँव्र॒तमा लं॑भयति॒ व्रत्यो॑ भवत्य॒ग्नये॑ रख्‍षो॒घ्ने पु॑रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यꣳ रख्‍षा॑ꣳसि॒ सचे॑रन्न॒ग्निमे॒व र॑ख्‍षो॒हण॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒द्रख्‍षा॒ꣴ॒स्यप॑ हन्ति॒ निशि॑ताया॒न्निर्व॑पे॒ [७] न्निशि॑ताया॒ꣳ॒ हि रख्‍षा॑ꣳसि प्रे॒रते॑ सं॒प्रेर्णा᳚न्ये॒वैना॑नि हन्ति॒ परि॑श्रिते याजये॒द्रख्‍ष॑सा॒मन॑न्ववचाराय रख्‍षो॒घ्नी या᳚ज्यानुवा॒क्ये॑ भवतो॒ रख्‍ष॑सा॒ꣴ॒ स्तृत्या॑ अ॒ग्नये॑ रु॒द्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेदभि॒चर॑न्ने॒षा वा अ॑स्य घो॒रा त॒नूर् यद् रु॒द्रस्तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒ मार्च्छ॑त्य॒ग्नये॑ सुरभि॒मते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यस्य॒ गावो॑ वा॒ पुरु॑षा [८] वा प्र॒मीये॑र॒न्॒‌यो वा॑ बिभी॒यादे॒षा वा अ॑स्य भेष॒ज्या॑ त॒नूर् यथ् सु॑रभि॒मती॒ तयै॒वास्मै॑ भेष॒जं क॑रोति सुरभि॒मते॑ भवति पूतीग॒न्धस्याप॑हत्या अ॒ग्नये॒ ख्‍षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेथ् संग्रा॒मे सय्ँय॑त्ते भाग॒धेये॑नै॒वैन॑ꣳ शमयि॒त्वा परा॑न॒भि निर्दि॑शति॒ यमव॑रेषा॒व्ँविद्ध्य॑न्ति॒ जीव॑ति॒ स यम्परे॑षा॒म्प्र स मी॑यते॒ जय॑ति॒ तꣳ सं॑ग्रा॒म [९] म॒भि वा ए॒ष ए॒तानु॑च्यति॒ येषा᳚म्पूर्वाप॒रा अ॒न्वञ्चः॑ प्र॒मीय॑न्ते पुरुषाहु॒तिर् ह्य॑स्य प्रि॒यत॑मा॒ऽग्नये॒ ख्‍षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेद् भाग॒धेये॑नै॒वैन॑ꣳ शमयति॒ नैषा᳚म्पु॒राऽऽ*यु॒षोऽप॑रः॒ प्र मी॑यते॒ऽभि वा ए॒ष ए॒तस्य॑ गृ॒हानु॑च्यति॒ यस्य॑ गृ॒हान् दह॑त्य॒ग्नये॒ ख्‍षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेद् भाग॒धेये॑नै॒वैन॑ꣳ शमयति॒ ना स्याप॑रङ्गृ॒हान् द॑हति⁠ [१०] (व्र॒तप॑तये॒ निशि॑ताया॒न्निर्व॑पे॒त् पुरु॑षाः संग्रा॒मं न च॒त्वारि॑ च) ॥२॥
अ॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यङ्कामो॒ नोप॒नमे॑द॒ग्निमे॒व काम॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒ङ्कामे॑न॒ सम॑र्द्धय॒त्युपै॑न॒ङ्कामो॑ नमत्य॒ग्नये॒ यवि॑ष्ठाय पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒थ् स्पर्द्ध॑मानः॒ ख्‍षेत्रे॑ वा सजा॒तेषु॑ वा॒ऽग्निमे॒व यवि॑ष्ठ॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तेनै॒वेन्द्रि॒यव्ँवी॒र्य॑म्भ्रातृ॑व्यस्य [११] युवते॒ वि पा॒प्मना॒ भ्रातृ॑व्येण जयते॒ऽग्नये॒ यवि॑ष्ठाय पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेद भिच॒र्यमा॑णो॒ऽग्निमे॒व यवि॑ष्ठ॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒द्रख्‍षा॑ꣳसि यवयति॒ नैन॑मभि॒चर᳚न्थ् स्तृणुते॒ऽग्नय॒ आयु॑ष्मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यः का॒मये॑त॒ सर्व॒मायु॑रिया॒मित्य॒ग्निमे॒वाऽऽ*यु॑ष्मन्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒ [१२] न्नायु॑र् दधाति॒ सर्व॒मायु॑रेत्य॒ग्नये॑ जा॒तवे॑दसे पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्भूति॑कामो॒ऽग्निमे॒व जा॒तवे॑दस॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒म्भूति॑ङ्गमयति॒ भव॑त्ये॒वाग्नये॒ रुक्म॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्रुक्का॑मो॒ऽग्निमे॒व रुक्म॑न्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न् रुच॑न्दधाति॒ रोच॑त ए॒वाग्नये॒ तेज॑स्वते पुरो॒डाश॑ [१३] म॒ष्टाक॑पाल॒न्निर्व॑पे॒त् तेज॑स्कामो॒ऽग्निमे॒व तेज॑स्वन्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न् तेजो॑ दधाति तेज॒स्व्ये॑व भ॑वत्य॒ग्नये॑ साह॒न्त्याय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒थ् सीख्‍ष॑माणो॒ऽग्निमे॒व सा॑ह॒न्त्यꣴ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तेनै॒व स॑हते॒ यꣳ सीख्‍ष॑ते⁠ [१४] (भ्रातृ॑व्यस्या स्मि॒न् तेज॑स्वते पुरो॒डश॑ म॒ष्टात्रि॑ꣳशच्च) ॥३॥
अ॒ग्नयेऽन्न॑वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यः का॒मये॒तान्न॑वान्थ्स्या॒मित्य॒ग्निमे॒वान्न॑वन्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मन्न॑वन्तङ्करो॒त्यन्न॑वाने॒व भ॑वत्य॒ग्नये᳚ऽन्ना॒दाय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यः का॒मये॑तान्ना॒दः स्या॒मित्य॒ग्नि मे॒वान्ना॒दꣴ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑मन्ना॒दङ्क॑रोत्यन्ना॒द [१५] ए॒व भ॑वत्य॒ग्नयेऽन्न॑पतये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यः का॒मये॒तान्न॑पतिः स्या॒मित्य॒ग्नि मे॒वान्न॑पति॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मन्न॑पतिङ्करो॒त्यन्न॑पतिरे॒व भ॑वत्य॒ग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेद॒ग्नये॑ पाव॒काया॒ग्नये॒ शुच॑ये॒ ज्योगा॑मयावी॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒णमे॒वास्मि॒न् तेन॑ दधाति॒ यद॒ग्नये॑ [१६] पाव॒काय॒ वाच॑मे॒वास्मि॒न् तेन॑ दधाति॒ यद॒ग्नये॒ शुच॑य॒ आयु॑रे॒वास्मि॒न् तेन॑ दधात्यु॒त यदी॒तासु॒र् भव॑ति॒ जीव॑त्ये॒वैतामे॒व निर्व॑पे॒च्चख्‍षु॑ष्कामो॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒णमे॒वास्मि॒न् तेन॑ दधाति॒ यद॒ग्नये॑ पाव॒काय॒ वाच॑मे॒वास्मि॒न् तेन॑ दधाति॒ यद॒ग्नये॒ शुच॑ये॒ चख्‍षु॑रे॒वास्मि॒न् तेन॑ दधा [१७] त्यु॒त यद्य॒न्धो भव॑ति॒ प्रैव प॑श्यत्य॒ग्नये॑ पु॒त्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒दिन्द्रा॑य पु॒त्रिणे॑ पुरो॒डाश॒मेका॑दशकपालम्प्र॒जाका॑मो॒ऽग्निरे॒वास्मै᳚ प्र॒जाम्प्र॑ज॒नय॑ति वृ॒द्धामिन्द्रः॒ प्र य॑च्छत्य॒ग्नये॒ रस॑वतेऽजख्‍षी॒रे च॒रुन्निर्व॑पे॒द्यः का॒मये॑त॒ रस॑वान्थ्स्या॒मित्य॒ग्निमे॒व रस॑वन्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒ꣳ॒ रस॑वन्तङ्करोति॒ [१८] रस॑वाने॒व भ॑वत्यजख्‍षी॒रे भ॑वत्याग्ने॒यी वा ए॒षा यद॒जा सा॒ख्‍षादे॒व रस॒मव॑ रुन्धे॒ऽग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यः का॒मये॑त॒ वसु॑मान्थ्स्या॒मित्य॒ग्निमे॒व वसु॑मन्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒व्ँवसु॑मन्तङ्करोति॒ वसु॑माने॒व भ॑वत्य॒ग्नये॑ वाज॒सृते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेथ् संग्रा॒मे सय्ँय॑त्ते॒ वाज॒ [१९] व्ँवा ए॒ष सि॑सीर्‌षति॒ यः सं॑ग्रा॒मञ्जिगी॑षत्य॒ग्निः खलु॒ वै दे॒वाना᳚व्ँवाज॒सृद॒ग्निमे॒व वा॑ज॒सृत॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ धाव॑ति॒ वाज॒ꣳ॒ हन्ति॑ वृ॒त्रञ्जय॑ति॒ तꣳ सं॑ग्रा॒ममथो॑ अ॒ग्निरि॑व॒ न प्र॑ति॒धृषे॑ भवत्य॒ग्नये᳚ऽग्नि॒वते॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द्यस्या॒ग्नाव॒ग्निम॑भ्यु॒द्धरे॑यु॒र् निर्दि॑ष्टभागो॒ वा ए॒तयो॑र॒न्योऽनि॑र्दिष्टभागो॒ऽन्यस्तौ सं॒भव॑न्तौ॒ यज॑मान [२०] म॒भि सम्भ॑वतः॒ स ई᳚श्व॒र आर्ति॒मार्तो॒र् यद॒ग्नये᳚ऽग्नि॒वते॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैनौ॑ शमयति॒ नाऽऽ*र्ति॒मार्च्छ॑ति॒ यज॑मानो॒ऽग्नये॒ ज्योति॑ष्मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒द् यस्या॒ग्निरुद्धृ॒तोऽहु॑तेऽग्निहो॒त्र उ॒द्वाये॒दप॑र आ॒दीप्या॑नू॒द्धृत्य॒ इत्या॑हु॒स्तत् तथा॒ न का॒र्य॑य्ँयद् भा॑ग॒धेय॑म॒भि पूर्व॑ उद्ध्रि॒यते॒ किमप॑रो॒ऽभ्यु [२१] ध्रि॑ये॒तेति॒ तान्ये॒वाव॒ख्‍षाणा॑नि सन्नि॒धाय॑ मन्थेदि॒तः प्र॑थ॒मञ्ज॑ज्ञे अ॒ग्निः स्वाद्योने॒रधि॑ जा॒तवे॑दाः⁠। स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या दे॒वेभ्यो॑ ह॒व्यव्ँव॑हतु प्रजा॒नन्निति॒ छन्दो॑भिरे॒वैन॒ꣴ॒ स्वाद्योनेः॒ प्र ज॑नयत्ये॒ष वाव सो᳚ऽग्निरित्या॑हु॒र् ज्योति॒स्त्वा अ॑स्य॒ परा॑पतित॒मिति॒ यद॒ग्नये॒ ज्योति॑ष्मते नि॒र्वप॑ति॒ यदे॒वास्य॒ ज्योतिः॒ परा॑पतित॒न्तदे॒वाव॑ रुन्धे⁠ [२२] (क॒रो॒त्य॒न्ना॒दो द॑धाति॒ यद॒ग्नये॒ शुच॑ये॒ चख्‍षु॑रे॒वास्मि॒न् तेन॑ दधाति करोति॒ वाजं॒ यज॑मान॒ मु दे॒वास्य॒ षट्च॑) ॥४॥
वै॒श्वा॒न॒रन्द्वाद॑शकपाल॒न्निर्व॑पेद्वारु॒णञ्च॒रुन्द॑धि॒क्राव्‌ण्णे॑ च॒रुम॑भिश॒स्यमा॑नो॒ यद्वै᳚श्वान॒रो द्वाद॑शकपालो॒ भव॑ति सव्ँवथ्स॒रो वा अ॒ग्निर् वै᳚श्वान॒रः स॑व्ँवथ्स॒रेणै॒वैन॑ꣴ स्वदय॒त्यप॑ पा॒पव्ँवर्ण॑ꣳ हते वारु॒णेनै॒वैन॑व्ँवरुणपा॒शान् मु॑ञ्चति दधि॒क्राव्‌ण्णा॑ पुनाति॒ हिर॑ण्य॒न्दख्‍षि॑णा प॒वित्र॒व्ँवै हिर॑ण्यम्पु॒नात्ये॒वैन॑मा॒द्य॑म॒स्यान्न॑म्भवत्ये॒तामे॒व निर्व॑पेत् प्र॒जाका॑मः सव्ँवथ्स॒रो [२३] वा ए॒तस्याशा᳚न्तो॒ योनि॑म्प्र॒जायै॑ पशू॒नान्निर्द॑हति॒ योऽल॑म्प्र॒जायै॒ सन् प्र॒जान्न वि॒न्दते॒ यद्वै᳚श्वान॒रो द्वाद॑शकपालो॒ भव॑ति सव्ँवथ्स॒रो वा अ॒ग्निर् वै᳚श्वान॒रः स॑व्ँवथ्स॒रमे॒व भा॑ग॒धेये॑न शमयति॒ सो᳚ऽस्मै शा॒न्तः स्वाद्योनेः᳚ प्र॒जाम्प्र ज॑नयति वारु॒णेनै॒वैन॑व्ँवरुणपा॒शान् मु॑ञ्चति दधि॒क्राव्‌ण्णा॑ पुनाति॒ हिर॑ण्य॒न्दख्‍षि॑णा प॒वित्रं॒ वै हिर॑ण्यम्पु॒नात्ये॒वैन॑ [२४] व्ँवि॒न्दते᳚ प्र॒जाव्ँवै᳚श्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेत् पु॒त्रे जा॒ते यद॒ष्टाक॑पालो॒ भव॑ति गायत्रि॒यैवैन॑म्ब्रह्मवर्च॒सेन॑ पुनाति॒ यन्नव॑कपालस्त्रि॒वृतै॒वास्मि॒न् तेजो॑ दधाति॒ यद्दश॑कपालो वि॒राजै॒वास्मि॑न्न॒न्नाद्य॑न्दधाति॒ यदेका॑दशकपालस्त्रि॒ष्टुभै॒वास्मि॑न्निन्द्रि॒यन्द॑धाति॒ यद्द्वाद॑शकपालो॒ जग॑त्यै॒वास्मि॑न् प॒शून् द॑धाति॒ यस्मि॑न् जा॒त ए॒तामिष्टि॑न्नि॒र्वप॑ति पू॒त [२५] ए॒व ते॑ज॒स्व्य॑न्ना॒द इ॑न्द्रिया॒वी प॑शु॒मान् भ॑व॒त्यव॒ वा ए॒ष सु॑व॒र्गाल्लो॒काच्छि॑द्यते॒ यो द॑र्‌शपूर्णमासया॒जी सन्न॑मावा॒स्या᳚व्ँवा पौर्णमा॒सीव्ँवा॑ऽतिपा॒दय॑ति सुव॒र्गाय॒ हि लो॒काय॑ दर्‌शपूर्णमा॒सावि॒ज्येते॑ वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेदमावा॒स्या᳚व्ँवा पौर्णमा॒सीं वा॑ऽति॒पाद्य॑ सव्ँवथ्स॒रो वा अ॒ग्निर् वै᳚श्वान॒रः स॑व्ँवथ्स॒रमे॒व प्री॑णा॒त्यथो॑ सव्ँवथ्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या॒ [२६] अथो॑ दे॒वता॑ ए॒वान्वा॒रभ्य॑ सुव॒र्गल्ँलो॒कमे॑ति वीर॒हा वा ए॒ष दे॒वाना॒य्ँयो᳚ऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒राऽन्न॑मख्‍षन्नाग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेद्वैश्वान॒रन्द्वाद॑शकपालम॒ग्निमु॑द्वासयि॒ष्यन् यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाख्‍ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर्यावा॑ने॒वाग्निस्तस्मा॑ आति॒थ्यङ्क॑रो॒त्यथो॒ यथा॒ जन॑य्ँय॒ते॑ऽव॒सङ्क॒रोति॑ ता॒दृ [२७] गे॒व तद्द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रः खलु॒ वा अ॒ग्नेर् योनिः॒ स्वामे॒वैन॒य्ँयोनि॑ङ्गमयत्या॒द्य॑म॒स्यान्न॑म्भवति वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेन्मारु॒तꣳ स॒प्तक॑पाल॒ङ्ग्राम॑काम आहव॒नीये॑ वैश्वान॒रमधि॑ श्रयति॒ गार्‌ह॑पत्ये मारु॒तम्पा॑पवस्य॒सस्य॒ विधृ॑त्यै॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रेणै॒वास्मै॑ सजा॒ताꣴश्च्या॑वयति मारु॒तो भ॑वति [२८] म॒रुतो॒ वै दे॒वाना॒व्ँविशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑ रुन्धे स॒प्तक॑पालो भवति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑ रुन्धेऽनू॒च्यमा॑न॒ आ सा॑दयति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानङ्करोति⁠ [२९] (त्येका॒न्न त्रि॒ꣳ॒शच्च॑) ॥५॥
आ॒दि॒त्यञ्च॒रुन्निर्व॑पेथ् संग्रा॒ममु॑पप्रया॒स्यन्नि॒यव्ँवा अदि॑तिर॒स्यामे॒व पूर्वे॒ प्रति॑ तिष्ठन्ति वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेदा॒यत॑नङ्ग॒त्वा स॑व्ँवथ्स॒रो वा अ॒ग्निर् वै᳚श्वान॒रः स॑व्ँवथ्स॒रः खलु॒ वै दे॒वाना॑मा॒यत॑नमे॒तस्मा॒द्वा आ॒यत॑नाद्दे॒वा असु॑रानजय॒न्॒‌यद्वै᳚श्वान॒रन्द्वाद॑शकपालन्नि॒र्वप॑ति दे॒वाना॑मे॒वाऽऽयत॑ने यतते॒ जय॑ति॒ तꣳ सं॑ग्रा॒ममे॒तस्मि॒न् वा ए॒तौ मृ॑जाते॒ [३०] यो वि॑द्विषा॒णयो॒रन्न॒मत्ति॑ वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेद्विद्विषा॒णयो॒रन्न॑ञ्ज॒ग्द्ध्वा स॑व्ँवथ्स॒रो वा अ॒ग्निर् वै᳚श्वान॒रः स॑व्ँवथ्स॒रस्व॑दितमे॒वात्ति॒ नास्मि॑न् मृजाते सव्ँवथ्स॒राय॒ वा ए॒तौ सम॑माते॒ यौ स॑म॒माते॒ तयो॒र् यः पूर्वो॑ऽभि॒द्रुह्य॑ति॒ तव्ँवरु॑णो गृह्णाति वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेथ् सममा॒नयोः॒ पूर्वो॑ऽभि॒द्रुह्य॑ सव्ँवथ्स॒रो वा अ॒ग्निर् वै᳚श्वान॒रः स॑व्ँवथ्स॒रमे॒वाऽऽ*प्त्वा नि॑र्वरु॒णं [३१] प॒रस्ता॑द॒भि द्रु॑ह्यति॒ नैन॒व्ँवरु॑णो गृह्णात्या॒व॑व्ँवा ए॒ष प्रति॑ गृह्णाति॒ योऽवि॑म्प्रतिगृ॒ह्णाति॑ वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पे॒दवि॑म्प्रति॒गृह्य॑ सव्ँवथ्स॒रो वा अ॒ग्निर् वै᳚श्वान॒रः स॑व्ँवथ्स॒रस्व॑दितामे॒व प्रति॑ गृह्णाति॒ नाऽऽ*व्य॑म्प्रति॑ गृह्णात्या॒त्मनो॒ वा ए॒ष मात्रा॑माप्नोति॒ य उ॑भ॒याद॑त् प्रतिगृ॒ह्णात्यश्व॑व्ँवा॒ पुरु॑षव्ँवा वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेदुभ॒याद॑त् [३२] प्रति॒गृह्य॑ संवथ्स॒रो वा अ॒ग्निर् वै᳚श्वान॒रः स॑व्ँवथ्स॒रस्व॑दितमे॒व प्रति॑ गृह्णाति॒ नात्मनो॒ मात्रा॑माप्नोति वैश्वान॒रन्द्वाद॑शकपाल॒न्निर्व॑पेथ्स॒निमे॒ष्यन्थ्स॑व्ँवथ्स॒रो वा अ॒ग्निर् वै᳚श्वान॒रो य॒दा खलु॒ वै स॑व्ँवथ्स॒रञ्ज॒नता॑या॒ञ्चर॒त्यथ॒ स ध॑ना॒र्घो भ॑वति॒यद्वै᳚श्वान॒रन्द्वाद॑शकपालन्नि॒र्वप॑ति सव्ँवथ्स॒रसा॑तामे॒व स॒निम॒भि प्र च्य॑वते॒ दान॑कामा अस्मै प्र॒जा भ॑वन्ति॒ यो वै स॑व्ँवथ्स॒रं [३३] प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वत्ये॒तमे॒व वै᳚श्वान॒रम्पुन॑रा॒गत्य॒ निर्व॑पे॒द्यमे॒व प्र॑यु॒ङ्क्ते तम्भा॑ग॒धेये॑न॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्यै॒ यया॒ रज्वो᳚त्त॒माङ्गामा॒जेत् ताम्भ्रातृ॑व्याय॒ प्र हि॑णुया॒न्निर्‌ऋ॑तिमे॒वास्मै॒ प्र हि॑णोति⁠ [३४] (मृ॒जा॒ते॒ नि॒र्व॒रु॒णं व॑पेदुभ॒याद॒द् यो वै स॑व्ँवथ्स॒रꣳ षट्त्रि॑ꣳशच्च) ॥६॥
ऐ॒न्द्रञ्च॒रुन्निर्व॑पेत् प॒शुका॑म ऐ॒न्द्रा वै प॒शव॒ इन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् प्र य॑च्छति पशु॒माने॒व भ॑वति च॒रुर् भ॑वति॒ स्वादे॒वास्मै॒ योनेः᳚ प॒शून् प्र ज॑नय॒तीन्द्रा॑येन्द्रि॒याव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेत् प॒शुका॑म इन्द्रि॒यव्ँवै प॒शव॒ इन्द्र॑मे॒वेन्द्रि॒याव॑न्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स [३५] ए॒वास्मा॑ इन्द्रि॒यम्प॒शून् प्र य॑च्छति पशु॒माने॒व भ॑व॒तीन्द्रा॑य घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेद्ब्रह्मवर्च॒सका॑मो ब्रह्मवर्च॒सव्ँवै घ॒र्म इन्द्र॑मे॒व घ॒र्मव॑न्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑व॒तीन्द्रा॑या॒र्कव॑ते पुरो॒डाश॒ मेका॑दशकपाल॒न्निर्व॑पे॒दन्न॑कामो॒ऽर्को वै दे॒वाना॒ मन्न॒मिन्द्र॑मे॒वार्कव॑न्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नो [३६] प॑ धावति॒ स ए॒वास्मा॒ अन्न॒म्प्र य॑च्छत्यन्ना॒द ए॒व भ॑व॒तीन्द्रा॑य घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒दिन्द्रा॑येन्द्रि॒याव॑त॒ इन्द्रा॑या॒ऽर्कव॑ते॒ भूति॑कामो॒ यदिन्द्रा॑य घ॒र्मव॑ते नि॒र्वप॑ति॒ शिर॑ ए॒वास्य॒ तेन॑ करोति॒ यदिन्द्रा॑येन्द्रि॒याव॑त आ॒त्मान॑मे॒वास्य॒ तेन॑ करोति॒ यदिन्द्रा॑या॒ऽर्कव॑ते भू॒त ए॒वान्नाद्ये॒ प्रति॑ तिष्ठति॒ भव॑त्ये॒वेन्द्रा॑या [३७] ऽꣳहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यः पा॒प्मना॑ गृही॒तः स्यात् पा॒प्मा वा अꣳह॒ इन्द्र॑मे॒वाऽꣳहो॒मुच॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑म्पा॒प्मनोऽꣳह॑सो मुञ्च॒तीन्द्रा॑य वैमृ॒धाय॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यम्मृधो॒ऽभि प्र॒वेपे॑रन्रा॒ष्ट्राणि॑ वा॒ऽभि स॑मि॒युरिन्द्र॑मे॒व वै॑मृ॒धꣴ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒न्मृधो [३८] ऽप॑ ह॒न्तीन्द्रा॑य त्रा॒त्रे पु॑रो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेद्ब॒द्धो वा॒ परि॑यत्तो॒ वेन्द्र॑मे॒व त्रा॒तार॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑न्त्रायत॒ इन्द्रा॑यार्काश्वमे॒धव॑ते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यम्म॑हाय॒ज्ञो नोप॒नमे॑दे॒ते वै म॑हाय॒ज्ञस्यान्त्ये॑ त॒नू यद॑र्काश्वमे॒धाविन्द्र॑मे॒वार्का᳚श्वमे॒धव॑न्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ अन्त॒तो म॑हाय॒ज्ञञ्च्या॑वय॒त्युपै॑नम्महाय॒ज्ञो न॑मति⁠ [३९] (इ॒न्द्रि॒याव॑न्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सो᳚ ऽर्कव॑न्त॒ꣴ॒ स्वेन॑ भाग॒धेये॑नै॒ वेन्द्रा॑या स्मा॒न् मृधो᳚ ऽस्मै स॒प्त च॑) ॥७॥
इन्द्रा॒यान्वृ॑जवे पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द् ग्राम॑काम॒ इन्द्र॑मे॒वान्वृ॑जु॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒ताननु॑कान् करोति ग्रा॒म्ये॑व भ॑वतीन्द्रा॒ण्यै च॒रुन्निर्व॑पे॒द्यस्य॒ सेनाऽस॑ꣳशितेव॒ स्यादि॑न्द्रा॒णी वै सेना॑यै दे॒वते᳚न्द्रा॒णीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्य॒ सेना॒ꣳ॒ सꣴ श्य॑ति॒ बल॑ꣴजा॒नपी॒ [४०] द्ध्मे सन्न॑ह्ये॒द्गौर्यत्राधि॑ष्कन्ना॒ न्यमे॑ह॒त् ततो॒ बल॑ꣴजा॒ उद॑तिष्ठ॒न् गवा॑मे॒वैन॑न्न्या॒यम॑पि॒नीय॒ गा वे॑दय॒तीन्द्रा॑य मन्यु॒मते॒ मन॑स्वते पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पेथ् संग्रा॒मे सय्ँय॑त्त इन्द्रि॒येण॒ वै म॒न्युना॒ मन॑सा संग्रा॒मञ्ज॑य॒तीन्द्र॑मे॒व म॑न्यु॒मन्त॒म्मन॑स्वन्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यम्म॒न्युम्मनो॑ दधाति॒ जय॑ति॒ तꣳ [४१] सं॑ग्रा॒ममे॒तामे॒व निर्व॑पे॒द्यो ह॒तम॑नाः स्व॒यंपा॑प इव॒ स्यादे॒तानि॒ हि वा ए॒तस्मा॒दप॑क्रान्ता॒न्यथै॒ष ह॒तम॑नाः स्व॒यंपा॑प॒ इन्द्र॑मे॒व म॑न्यु॒मन्त॒म्मन॑स्वन्त॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यम्म॒न्युम्मनो॑ दधाति॒ न ह॒तम॑नाः स्व॒यम्पा॑पो भव॒तीन्द्रा॑य दा॒त्रे पु॑रो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जाः स्यु॒ [४२] रितीन्द्र॑मे॒व दा॒तार॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑व॒न्तीन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यस्मै॒ प्रत्त॑मिव॒ सन्न प्र॑दी॒येतेन्द्र॑मे॒व प्र॑दा॒तार॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ प्र दा॑पय॒तीन्द्रा॑य सु॒त्रांणे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒दप॑रुद्धो वा [४३] ऽपरु॒द्ध्यमा॑नो॒ वेन्द्र॑मे॒व सु॒त्रामा॑ण॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑न्त्रायते ऽनपरु॒द्ध्यो भ॑व॒तीन्द्रो॒ वै स॒दृङ् दे॒वता॑भिरासी॒थ् स न व्या॒वृत॑मगच्छ॒थ् स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑ ए॒तमै॒न्द्रमेका॑दशकपाल॒न्निर॑वप॒त् तेनै॒वास्मि॑न्निन्द्रि॒यम॑दधा॒च्छक्व॑री याज्यानुवा॒क्ये॑ अकरो॒द् वज्रो॒ वै शक्व॑री॒ स ए॑न॒व्ँवज्रो॒ भूत्या॑ ऐन्ध॒ [४४] सो॑ऽभव॒थ् सो॑ऽबिभेद्भू॒तः प्र मा॑ धख्‍ष्य॒तीति॒ स प्र॒जाप॑ति॒म्पुन॒रुपा॑धाव॒थ् स प्र॒जाप॑तिः॒ शक्व॑र्या॒ अधि॑रे॒वती॒न्निर॑मिमीत॒ शान्त्या॒ अप्र॑दाहाय॒ योऽल॑ꣴ श्रि॒यै सन्थ्स॒दृङ्ख्स॑मा॒नैः स्यात् तस्मा॑ ए॒तमै॒न्द्रमेका॑दशकपाल॒न्निर्व॑पे॒दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निन्द्रि॒यन्द॑धाति रे॒वती॑ पुरोनुवा॒क्या॑ भवति॒ शान्त्या॒ अप्र॑दाहाय॒ शक्व॑री या॒ज्या॑ वज्रो॒ वै शक्व॑री॒ स ए॑न॒व्ँवज्रो॒ भूत्या॑ इन्धे॒ भव॑त्ये॒व⁠ [४५] (अपि॒ तꣴ स्यु॑र् वै न्ध भवति॒ चतु॑र्दश च⁠।) ॥८॥
आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपाल॒न्निर्व॑पेदभि॒चर॒न्थ्सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र्‌हस्प॒त्यश्च॒रुर् यदा᳚ग्नावैष्ण॒व एका॑दशकपालो॒ भव॑त्य॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र् य॒ज्ञो दे॒वता॑भिश्चै॒वैन॑य्ँय॒ज्ञेन॑ चा॒भि च॑रति॒ सर॑स्व॒त्याज्य॑भागा भवति॒ वाग्वै सर॑स्वती वा॒चैवैन॑म॒भि च॑रति बार्‌हस्प॒त्य श्च॒रुर् भ॑वति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र् ब्रह्म॑णै॒वैन॑म॒भि च॑रति॒ [४६] प्रति॒ वै प॒रस्ता॑दभि॒चर॑न्तम॒भि च॑रन्ति॒ द्वेद्वे॑ पुरोनुवा॒क्ये॑ कुर्या॒दति॒ प्रयु॑क्त्या ए॒तयै॒व य॑जेताभिच॒र्यमा॑णो दे॒वता॑भिरे॒व दे॒वताः᳚ प्रति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञव्ँवा॒चा वाच॒म्ब्रह्म॑णा॒ ब्रह्म॒ स दे॒वता᳚श्चै॒व य॒ज्ञञ्च॑ मद्ध्य॒तो व्यव॑सर्पति॒ तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति॒ नैन॑मभि॒चर᳚न्थ्स्तृणुत आग्नावैष्ण॒वमेका॑दशकपाल॒न्निर्व॑पे॒द्यय्ँय॒ज्ञो नो [४७] प॒नमे॑द॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र् य॒ज्ञो᳚ऽग्निञ्चै॒व विष्णु॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ य॒ज्ञम्प्र य॑च्छत॒ उपै॑नय्ँय॒ज्ञो न॑मत्याग्नावैष्ण॒वङ्घृ॒ते च॒रुन्निर्व॑पे॒च्चख्‍षु॑ष्कामो॒ ऽग्नेर् वै चख्‍षु॑षा मनु॒ष्या॑ वि प॑श्यन्ति य॒ज्ञस्य॑ दे॒वा अ॒ग्निञ्चै॒व विष्णु॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वा [४८] ऽस्मि॒न् चख्‍षु॑र् धत्त॒श्चख्‍षु॑ष्माने॒व भ॑वति धे॒न्वै वा ए॒तद्रेतो॒ यदाज्य॑मन॒डुह॑स्तण्डु॒ला मि॑थु॒नादे॒वास्मै॒ चख्‍षुः॒ प्र ज॑नयति घृ॒ते भ॑वति॒ तेजो॒ वै घृ॒तन्तेज॒श्चख्‍षु॒स्तेज॑सै॒वास्मै॒ तेज॒श्चख्‍षु॒रव॑ रुन्ध इन्द्रि॒यव्ँवै वी॒र्य॑व्ँवृङ्क्ते॒ भ्रातृ॑व्यो॒ यज॑मा॒नोऽय॑जमानस्याद्ध्व॒रक॑ल्पा॒म्प्रति॒ निर्व॑पे॒द्भ्रातृ॑व्ये॒ यज॑माने॒ नास्ये᳚न्द्रि॒य [४९] व्ँवी॒र्य॑व्ँवृङ्क्ते पु॒रा वा॒चः प्रव॑दितो॒र् निर्व॑पे॒द्याव॑त्ये॒व वाक् तामप्रो॑दिता॒म्भ्रातृ॑व्यस्य वृङ्क्ते॒ ताम॑स्य॒ वाच॑म्प्र॒वद॑न्तीम॒न्या वाचोऽनु॒ प्रव॑दन्ति॒ ता इ॑न्द्रि॒यव्ँवी॒र्य॑य्ँयज॑माने दधत्याग्नावैष्ण॒वम॒ष्टाक॑पाल॒न्निर्व॑पेत् प्रातस्सव॒नस्या॑ऽऽ* का॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद् बा॑र्‌हस्प॒त्यश्च॒रुर्यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाख्‍ष॑रा गाय॒त्री गा॑य॒त्रम्प्रा॑तस्सव॒नं प्रा॑तस्सव॒नमे॒वतेना᳚प्नो [५०] त्याग्नावैष्ण॒वमेका॑दशकपाल॒न्निर्व॑पे॒न्माद्ध्य॑न्दिनस्य॒ सव॑नस्याऽऽ*का॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद् बा॑र्‌हस्प॒त्यश्च॒रुर् यदेका॑दशकपालो॒ भव॒त्येका॑दशाख्‍षरा त्रि॒ष्टुप् त्रैष्टु॑भ॒म्माद्ध्य॑न्दिन॒ꣳ॒ सव॑न॒म्माद्ध्य॑न्दिनमे॒व सव॑न॒न्तेना᳚ऽऽ*प्नोत्याग्नावैष्ण॒वन्द्वाद॑शकपाल॒न्निर्व॑पेत् तृतीयसव॒नस्या॑ऽऽ*का॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद् बा॑र्‌हस्प॒त्यश्च॒रुर् यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाख्‍षरा॒ जग॑ती॒ जाग॑तन्तृतीयसव॒नन्तृ॑तीयसव॒नमे॒व तेना᳚ऽऽप्नोति दे॒वता॑भिरे॒व दे॒वताः᳚ [५१] प्रति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञव्ँवा॒चा वाच॒म्ब्रह्म॑णा॒ ब्रह्म॑ क॒पालै॑रे॒व छन्दा॑ꣴस्या॒प्नोति॑ पुरो॒डाशैः॒ सव॑नानि मैत्रावरु॒णमेक॑कपाल॒न्निर्व॑पेद्व॒शायै॑ का॒ले यैवासौ भ्रातृ॑व्यस्य व॒शाऽनू॑ब॒न्ध्या॑ सो ए॒वैषैतस्यैक॑कपालो भवति॒ न हि क॒पालैः᳚ प॒शुमर्‌ह॒त्याप्तु᳚म्⁠ [५२] (ब्रह्म॑णै॒वैन॑म॒भि च॑रति य॒ज्ञो न तावे॒वा ऽस्ये᳚न्द्रि॒य मा᳚प्नोति दे॒वताः᳚ स॒प्तत्रि॑ꣳशच्च) ॥९॥
अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न् तस्मा॑ ए॒तꣳ सो॑मारौ॒द्रञ्च॒रुन्निर॑वप॒न् तेनै॒वास्मि॒न् रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑ ए॒तꣳ सो॑मारौ॒द्रं च॒रुन्निर्व॑पे॒थ् सोम॑ञ्चै॒व रु॒द्रञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न् ब्रह्मवर्च॒सं ध॑त्तो ब्रह्मवर्च॒स्ये॑व भ॑वति तिष्यापूर्णमा॒से निर्व॑पेद्रु॒द्रो [५३] वै ति॒ष्यः॑ सोमः॑ पू॒र्णमा॑सः सा॒ख्‍षादे॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे॒ परि॑श्रिते याजयति ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै श्वे॒तायै᳚ श्वे॒तव॑थ्सायै दु॒ग्धम्म॑थि॒तमाज्य॑म्भव॒त्याज्यं॒ प्रोख्‍ष॑ण॒माज्ये॑न मार्जयन्ते॒ याव॑दे॒व ब्र॑ह्मवर्च॒सन्तथ् सर्व॑ङ्करो॒त्यति॑ ब्रह्मवर्च॒सङ्क्रि॑यत॒ इत्या॑हुरीश्व॒रो दु॒श्चर्मा॒ भवि॑तो॒रिति॑ मान॒वी ऋचौ॑ धा॒य्ये॑ कुर्या॒द्यद्वै किञ्च॒ मनु॒रव॑द॒त्तद् भे॑ष॒जं [५४] भे॑ष॒जमे॒वास्मै॑ करोति॒ यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णञ्च॒रुन्निर्व॑पेथ् सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शवः॒ स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वच॑ङ्करोति॒ न दु॒श्चर्मा॑ भवति सोमारौ॒द्रञ्च॒रुन्निर्व॑पेत् प्र॒जाका॑मः॒ सोमो॒ वै रे॑तो॒धा अ॒ग्निः प्र॒जाना᳚म्प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा᳚त्य॒ग्निः प्र॒जाम्प्र ज॑नयति वि॒न्दते᳚ [५५] प्र॒जाꣳ सो॑मारौ॒द्रञ्च॒रुन्निर्व॑पेदभि॒चर᳚न्थ्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑ष ए॒ष रु॒द्रो यद॒ग्निः स्वाया॑ ए॒वैन॑न्दे॒वता॑यै नि॒ष्क्रीय॑ रु॒द्रायापि॑ दधाति ता॒जगार्ति॒मार्च्छ॑ति सोमारौ॒द्रञ्च॒रुन्निर्व॑पे॒ ज्ज्योगा॑मयावी॒ सोम॒व्ँवा ए॒तस्य॒ रसो॑ गच्छत्य॒ग्निꣳ शरी॑र॒य्ँयस्य॒ ज्योगा॒मय॑ति॒ सोमा॑दे॒वास्य॒ रस॑न्निष्क्री॒णात्य॒ग्नेः शरी॑रमु॒त यदी॒ [५६] तासु॒र् भव॑ति॒ जीव॑त्ये॒व सो॑मारु॒द्रयो॒र् वा ए॒तङ्ग्र॑सि॒तꣳ होता॒ निष्खि॑दति॒ स ई᳚श्व॒र आर्ति॒मार्तो॑रन॒ड्वान्‌होत्रा॒ देयो॒ वह्नि॒र् वा अ॑न॒ड्वान् वह्नि॒र्॒‌होता॒ वह्नि॑नै॒व वह्नि॑मा॒त्मान॑ꣴ स्पृणोति सोमारौ॒द्रञ्च॒रुन्निर्व॑पे॒द्यः का॒मये॑त॒ स्वे᳚ऽस्मा आ॒यत॑ने॒ भ्रातृ॑व्यञ्जनयेय॒मिति॒ वेदिं॑ परि॒गृह्या॒र्द्धमु॑द्ध॒न्याद॒र्द्धन्नार्द्धम्ब॒र्॒‌हिषः॑ स्तृणी॒याद॒र्द्धन्नार्द्धमि॒द्ध्मस्या᳚भ्याद॒द्ध्याद॒र्द्धन्न स्व ए॒वास्मा॑ आ॒यत॑ने॒ भ्रातृ॑व्यञ्जनयति⁠ [५७] (रु॒द्रो भे॑ष॒जं वि॒न्दते॒ यदि॑ स्तृणी॒याद॒र्द्धं द्वाद॑श च) ॥१०॥
ऐ॒न्द्रमेका॑दशकपाल॒न्निर्व॑पेन्मारु॒तꣳ स॒प्तक॑पाल॒ङ्ग्राम॑काम॒ इन्द्र॑ञ्चै॒व म॒रुत॑श्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्याहव॒नीय॑ ऐ॒न्द्रमधि॑ श्रयति॒ गार्‌ह॑पत्ये मारु॒तम्पा॑पवस्य॒सस्य॒ विधृ॑त्यै स॒प्तक॑पालो मारु॒तो भ॑वति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑ रुन्धेऽनू॒च्यमा॑न॒ आ सा॑दयति॒ विश॑मे॒वा [५८] स्मा॒ अनु॑वर्त्मानङ्करोत्ये॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त ख्‍ष॒त्राय॑ च वि॒शे च॑ स॒मदं॑ दद्ध्या॒मित्यै॒न्द्रस्या॑व॒द्यन् ब्रू॑या॒दिन्द्रा॒यानु॑ ब्रू॒हीत्या॒श्राव्य॑ ब्रूयान्म॒रुतो॑ य॒जेति॑ मारु॒तस्या॑व॒द्यन् ब्रू॑यान्म॒रुद्भ्योऽनु॑ ब्रू॒हीत्या॒श्राव्य॑ ब्रूया॒दिन्द्र॑य्ँय॒जेति॒ स्व ए॒वैभ्यो॑ भाग॒धेये॑ स॒मद॑न्दधाति वितृꣳहा॒णास्ति॑ष्ठन्त्ये॒तामे॒व [५९] निर्व॑पे॒द्यः का॒मये॑त॒ कल्पे॑र॒न्निति॑ यथादेव॒तम॑व॒दाय॑ यथादेव॒तय्ँय॑जेद्भाग॒धेये॑नै॒वैना॑न्‌यथाय॒थङ्क॑ल्पयति॒ कल्प॑न्त ए॒वैन्द्रमेका॑दशकपाल॒न्निर्व॑पेद् वैश्वदे॒वन्द्वाद॑शकपाल॒ङ्ग्राम॑काम॒ इन्द्र॑ञ्चै॒व विश्वा॑ꣴश्च दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्यै॒न्द्रस्या॑व॒दाय॑ वैश्वदे॒वस्याव॑ द्ये॒दथै॒न्द्रस्यो॒ [६०] परि॑ष्टादिन्द्रि॒येणै॒वास्मा॑ उभ॒यतः॑ सजा॒तान् परि॑ गृह्णात्युपाधा॒य्य॑पूर्वय॒व्ँवासो॒ दख्‍षि॑णा सजा॒ताना॒मुप॑हित्यै॒ पृश्ञि॑यै दु॒ग्धे प्रैय॑ङ्गवञ्च॒रुन्निर्व॑पेन्म॒रुद्भ्यो॒ ग्राम॑कामः॒ पृश्ञि॑यै॒ वै पय॑सो म॒रुतो॑ जा॒ताः पृश्ञि॑यै प्रि॒यङ्ग॑वो मारु॒ताः खलु॒ वै दे॒वत॑या सजा॒ता म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति प्रि॒यव॑ती याज्यानुवा॒क्ये॑ [६१] भवतः प्रि॒यमे॒वैन॑ꣳ समा॒नाना᳚ङ्करोति द्वि॒पदा॑ पुरोनुवा॒क्या॑ भवति द्वि॒पद॑ ए॒वाव॑ रुन्धे॒ चतु॑ष्पदा या॒ज्या॑ चतु॑ष्पद ए॒व प॒शूनव॑ रुन्धे देवासु॒राः सय्ँय॑त्ता आस॒न् ते दे॒वा मि॒थो विप्रि॑या आस॒न् ते᳚ (१॒)ऽन्यो᳚ऽन्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाश्चतु॒र्द्धा व्य॑क्रामन्न॒ग्निर् वसु॑भिः॒ सोमो॑ रु॒द्रैरिन्द्रो॑ म॒रुद्भि॒र् वरु॑ण आदि॒त्यैः स इन्द्रः॑ प्र॒जाप॑ति॒मुपा॑धाव॒त् त [६२] मे॒तया॑ सं॒ज्ञान्या॑ऽयाजयद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वप॒थ् सोमा॑य रु॒द्रव॑ते च॒रुमिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपाल॒व्ँवरु॑णायाऽऽ*दि॒त्यव॑ते च॒रुन्ततो॒ वा इन्द्र॑न्दे॒वा ज्यैष्ठ्या॑या॒भि सम॑जानत॒ यः स॑मा॒नैर् मि॒थो विप्रि॑यः॒ स्यात् तमे॒तया॑ सं॒ज्ञान्या॑ याजयेद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒थ् सोमा॑य रु॒द्रव॑ते च॒रुमिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपाल॒व्ँवरु॑णाया ऽऽ*दि॒त्यव॑ते च॒रुमिन्द्र॑मे॒वैन॑म्भू॒तं ज्यैष्ठ्या॑य समा॒ना अ॒भि सञ्जा॑नते॒ वसि॑ष्ठः समा॒नाना᳚म्भवति⁠ [६३] (विश॑मे॒व ति॑ष्ठन्त्ये॒तामे॒ वाथै॒न्द्रस्य॑ याज्यानुवा॒क्ये॑ तं वरु॑णाय॒ चतु॑र्दश च) ॥११॥
हि॒र॒ण्य॒ग॒र्भ >१, आपो॑ ह॒ यत् >२, प्रजा॑पते >३⁠॥ स वे॑द पु॒त्रः पि॒तर॒ꣳ॒ स मा॒तर॒ꣳ॒ स सू॒नुर् भु॑व॒थ् स भु॑व॒त् पुन॑र्मघः⁠। स द्यामौर्णो॑द॒न्तरि॑ख्‍ष॒ꣳ॒ स सुवः॒ स विश्वा॒ भुवो॑ अभव॒थ् स आ*ऽभ॑वत्⁠॥ उदु॒ त्यं >४, चि॒त्रं >५⁠॥ स प्र॑त्न॒वन्नवी॑य॒साऽ*ग्ने᳚ द्यु॒म्नेन॑ स॒य्ँयता᳚⁠। बृ॒हत् त॑तन्थ भा॒नुना᳚⁠॥ नि काव्या॑ वे॒धसः॒ शश्व॑तस्क॒र्॒‌हस्ते॒ दधा॑नो॒ [६४] नर्या॑ पु॒रूणि॑⁠। अ॒ग्निर् भु॑वद्रयि॒पती॑ रयी॒णाꣳ स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा᳚⁠॥ हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये⁠। स चेत्ता॑ दे॒वता॑ प॒दम्⁠॥ वा॒मम॒द्य स॑वितर् वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्य॑ꣳ सावीः⁠॥ वा॒मस्य॒ हि ख्‍षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम⁠। बडि॒त्था पर्व॑तानाङ्खि॒द्रम्बि॑भर्‌षि पृथिवि⁠। प्र या भू॑मि प्रवत्वति म॒ह्ना जि॒नोषि॑ [६५] महिनि⁠॥ स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ष्टोभन्त्य॒क्तुभिः॑⁠। प्र या वाज॒न्न हेष॑न्तम्पे॒रुमस्य॑स्यर्जुनि⁠॥ ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये᳚द्धर्यश्व पी॒तः⁠। अ॒यय्ँयः सोमो॒ न्यधा᳚य्य॒स्मे तस्मा॒ इन्द्र॑म्प्र॒तिर॑मे॒म्यच्छ॑⁠॥ आपा᳚न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी॑वा॒ञ्छरु॑माꣳ ऋजी॒षी⁠। सोमो॒ विश्वा᳚न्यत॒सा वना॑नि॒ नार्वागिन्द्र॑म्प्रति॒माना॑नि देभुः⁠॥ प्र [६६] सु॑वा॒नः सोम॑ ऋत॒युश्चि॑के॒तेन्द्रा॑य॒ ब्रह्म॑ ज॒मद॑ग्नि॒रर्च॑न्न्⁠। वृषा॑ य॒न्ताऽसि॒ शव॑सस्तु॒रस्या॒न्तर्य॑च्छ गृण॒ते ध॒र्त्रन्दृ॑ꣳह⁠॥ स॒बाध॑स्ते॒ मद॑ञ्च शुष्म॒यञ्च॒ ब्रह्म॒ नरो᳚ ब्रह्म॒कृतः॑ सपर्य॑न्न्⁠। अ॒र्को वा॒ यत् तु॒रते॒ सोम॑चख्‍षा॒स्तत्रेदिन्द्रो॑ दधते पृ॒थ्सु तु॒र्याम्⁠॥ वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम्⁠ [६७] वर्द्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः⁠॥ प्र तत् ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒ऽर्यः श॑ꣳसामि व॒युना॑नि वि॒द्वान्⁠। तन्त्वा॑ गृणामि त॒वस॒मत॑वीया॒न् ख्‍षय॑न्तम॒स्य रज॑सः परा॒के⁠॥ किमित् ते॑ विष्णो परि॒चख्‍ष्य॑म्भू॒त् प्र यद्व॑व॒ख्‍षे शि॑पिवि॒ष्टो अ॑स्मि⁠। मा वर्पो॑ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू॑पः समि॒थे ब॒भूथ॑⁠ [६८] अग्ने॒ दा दा॒शुषे॑ र॒यिव्ँवी॒रव॑न्त॒म्परी॑णसम्⁠। शि॒शी॒हि नः॑ सूनु॒मतः॑⁠॥ दा नो॑ अग्ने श॒तिनो॒ दाः स॑ह॒स्रिणो॑ दु॒रो न वाज॒ꣴ॒ श्रुत्या॒ अपा॑ वृधि⁠। प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ सुव॒र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतुः⁠॥ अ॒ग्निर् दा॒ द्रवि॑णव्ँवी॒रपे॑शा अ॒ग्निर्‌ऋषि॒य्ँयः स॒हस्रा॑ स॒नोति॑⁠। अ॒ग्निर् दि॒वि ह॒व्यमा त॑ताना॒ग्नेर् धामा॑नि॒ विभृ॑ता पुरु॒त्रा⁠॥ मा [६९] नो॑ मर्धी॒ >६, रा तू भ॑र >७⁠॥ घृ॒तन्न पू॒तन्त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम्⁠। तत् ते॑ रु॒क्मो न रो॑चत स्वधावः⁠॥ उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि॑⁠। उ॒तो न॒ उत् पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इष॑ꣴ स्तो॒तृभ्य॒ आ भ॑र⁠॥ वायो॑ श॒तꣳ हरी॑णाय्ँयु॒वस्व॒ पोष्या॑णाम्⁠। उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा⁠॥ प्र याभि॒ [७०] र्यासि॑ दा॒श्वाꣳस॒मच्छा॑ नि॒युद्भि॑र् वायवि॒ष्टये॑ दुरो॒णे⁠। नि नो॑ र॒यिꣳ सु॒भोज॑सय्ँयुवे॒ह नि वी॒रव॒द्गव्य॒मश्वि॑यञ्च॒ राधः॑⁠॥ रे॒वती᳚र् नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः⁠। ख्‍षु॒मन्तो॒ याभि॒र् मदे॑म⁠॥ रे॒वाꣳ इद्रे॒वतः॑ स्तो॒ता स्यात् त्वाव॑तो म॒घोनः॑⁠। प्रेदु॑ हरिवः श्रु॒तस्य॑⁠ [७१] (दधा॑नो जि॒नोषि॑ देभुः॒ प्र ह॒व्यं ब॒भूथ॒ मा याभि॑ श्चत्वारि॒ꣳ॒शच्च॑) ॥१२॥
(प्र॒जाप॑ति॒स्ताः सृ॒ष्टा अ॒ग्नये॑ पथि॒कृते॒ ग्नये॒ कामा॑या॒ ग्नयेन्न॑वते वैश्वान॒र मा॑दि॒त्यञ्च॒रु मै॒न्द्रञ्च॒रु मिन्द्रा॒यान्वृ॑जव आग्नावैष्ण॒व म॒सौ सो॑मारौ॒द्र मै॒न्द्र मेका॑दशकपालꣳ हिरण्यग॒र्भो द्वाद॑श)
(प्र॒जाप॑ति र॒ग्नये॒ कामा॑या॒ ऽभि सम्भ॑वतो॒ यो वि॑द्विषा॒णयो॑ रि॒ध्मे सन्न॑ ह्ये दाग्नावैष्ण॒वमु॒ परि॑ष्टा॒ द्यासि॑ दा॒श्वाꣳस॒ मेक॑सप्ततिः)
(प्र॒जाप॑तिः॒ प्रेदु॑ हरिवः श्रु॒तस्य॑)
अनुवाकाः पञ्चशती
१२ ७१