कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
द्वितीयकाण्डे तृतीयः प्रश्नः

कांड २ प्रश्न ३
इष्टिविधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
आ॒दि॒त्येभ्यो॒ भुव॑द्वद्भ्यश्च॒रुन्निर्व॑पे॒द्भूति॑काम आदि॒त्या वा ए॒तम्भूत्यै॒ प्रति॑ नुदन्ते॒ योऽल॒म्भूत्यै॒ सन् भूति॒न्न प्रा॒प्नोत्या॑दि॒त्याने॒व भुव॑द्वतः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैन॒म्भूति॑ङ्गमयन्ति॒ भव॑त्ये॒वाऽऽदि॒त्येभ्यो॑ धा॒रय॑द्वद्भ्यश्च॒रुन्निर्व॑पे॒दप॑रुद्धो वाऽपरु॒द्ध्यमा॑नो वाऽऽदि॒त्या वा अ॑परो॒द्धार॑ आदि॒त्या अ॑वगमयि॒तार॑ आदि॒त्याने॒व धा॒रय॑द्वतः॒ [१] स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैन॑व्ँवि॒शि दा᳚द्ध्रत्यनपरु॒द्ध्यो भ॑व॒त्यदि॒तेऽनु॑ मन्य॒स्वे त्य॑परु॒द्ध्यमा॑नोऽस्य प॒दमा द॑दीते॒यव्ँवा अदि॑तिरि॒य मे॒वास्मै॑ रा॒ज्यमनु॑ मन्यते स॒त्याऽऽशीरित्या॑ह स॒त्यामे॒वाऽऽशिष॑ङ्कुरुत इ॒ह मन॒ इत्या॑ह प्र॒जा ए॒वास्मै॒ सम॑नसः करो॒त्युप॒ प्रेत॑ मरुतः [२] सुदानव ए॒ना वि॒श्पति॑ना॒ऽभ्य॑मुꣳ राजा॑न॒मित्या॑ह मारु॒ती वै विड् ज्ये॒ष्ठो वि॒श्पति॑र् वि॒शैवैन॑ꣳ रा॒ष्ट्रेण॒ सम॑र्द्धयति॒ यः प॒रस्ता᳚द् ग्राम्यवा॒दी स्यात् तस्य॑ गृ॒हाद्व्री॒हीना ह॑रेच्छु॒क्लाꣴश्च॑ कृ॒ष्णाꣴश्च॒ वि चि॑नुया॒द्ये शु॒क्लाः स्युस्तमा॑दि॒त्यञ्च॒रुन्निर्व॑पेदादि॒त्या वै दे॒वत॑या॒ विड् विश॑मे॒वाव॑ गच्छ॒ [३] त्यव॑गताऽस्य॒ विडन॑वगतꣳ रा॒ष्ट्रमित्या॑हु॒र् ये कृ॒ष्णाः स्युस्तव्ँवा॑रु॒णञ्च॒रुन्निर्व॑पेद् वारु॒णव्ँवै रा॒ष्ट्रमु॒भे ए॒व विश॑ञ्च रा॒ष्ट्रञ्चाव॑ गच्छति॒ यदि॒ नाव॒गच्छे॑दि॒मम॒हमा॑दि॒त्येभ्यो॑ भा॒गन्निर्व॑पा॒म्याऽमुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रिति॒ निर्व॑पेदादि॒त्या ए॒वैन॑म्भाग॒धेय॑म्प्रे॒फ्सन्तो॒ विश॒मव॑ [४] गमयन्ति॒ यदि॒ नाव॒गच्छे॒दाश्व॑त्थान् म॒यूखा᳚न्थ् स॒प्त म॑द्ध्यमे॒षाया॒मुप॑ हन्यादि॒दम॒हमा॑दि॒त्यान् ब॑द्ध्ना॒म्याऽमुष्मा॑द॒मुष्यै॑ वि॒शोऽव॑गन्तो॒रित्या॑दि॒त्या ए॒वैन॑म्ब॒द्धवी॑रा॒ विश॒मव॑ गमयन्ति॒ यदि॒ नाव॒गच्छे॑दे॒तमे॒वाऽऽदि॒त्यञ्च॒रुन्निर्व॑पेदि॒द्ध्मेऽपि॑ म॒यूखा॒न्थ् सं न॑ह्येदनपरु॒द्ध्यमे॒वाव॑ गच्छ॒त्याश्व॑त्था भवन्ति म॒रुता॒व्ँवा ए॒त दोजो॒ यद॑श्व॒त्थ ओज॑सै॒व विश॒मव॑ गच्छति स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ गच्छति⁠ [५] (धा॒रय॑द्वतो मरुतो गच्छति॒ विश॒मवै॒ त द॒ष्टाद॑श च) ॥१॥
दे॒वा वै मृ॒त्योर॑बिभयु॒स्ते प्र॒जाप॑ति॒मुपा॑धाव॒न् तेभ्य॑ ए॒ताम्प्रा॑जाप॒त्याꣳ श॒तकृ॑ष्णला॒न्निर॑वप॒त् तयै॒वैष्व॒मृत॑मदधा॒द्यो मृ॒त्योर्बि॑भी॒यात् तस्मा॑ ए॒ताम्प्रा॑जाप॒त्याꣳ श॒तकृ॑ष्णला॒न्निर्व॑पेत् प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्नायु॑र् दधाति॒ सर्व॒मायु॑रेति श॒तकृ॑ष्णला भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये [६] प्रति॑ तिष्ठति घृ॒ते भ॑व॒त्यायु॒र्वै घृ॒तम॒मृत॒ꣳ॒ हिर॑ण्य॒मायु॑श्चै॒वास्मा॑ अ॒मृत॑ञ्च स॒मीची॑ दधाति च॒त्वारि॑चत्वारि कृ॒ष्णला॒न्यव॑ द्यति चतुरव॒त्तस्याऽऽप्त्या॑ तस्याऽऽप्त्या॑ एक॒धा ब्र॒ह्मण॒ उप॑ हरत्येक॒धैव यज॑मान॒ आयु॑र् दधात्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न् तस्मा॑ ए॒तꣳ सौ॒र्यञ्च॒रुन्निर॑वप॒न् तेनै॒वास्मि॒न् [७] रुच॑मदधु॒र्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात् तस्मा॑ ए॒तꣳ सौ॒र्यञ्च॒रुन्निर्व॑पेद॒मुमे॒वाऽऽदि॒त्यꣴ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सन्द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वत्युभ॒यतो॑ रु॒क्मौ भ॑वत उभ॒यत॑ ए॒वास्मि॒न् रुच॑न्दधाति प्रया॒जेप्र॑याजे कृ॒ष्णल॑ञ्जुहोति दि॒ग्भ्य ए॒वास्मै᳚ ब्रह्मवर्च॒समव॑ रुन्ध आग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेथ् सावि॒त्रन्द्वाद॑शकपाल॒म्भूम्यै॑ [८] च॒रुय्ँयः का॒मये॑त॒ हिर॑ण्यव्ँविन्देय॒ हिर॑ण्य॒म्मोप॑ नमे॒दिति॒ यदा᳚ग्ने॒यो भव॑त्याग्ने॒यव्ँवै हिर॑ण्य॒य्ँयस्यै॒व हिर॑ण्य॒न्तेनै॒वैन॑द् विन्दते सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दते॒ भूम्यै॑ च॒रुर् भ॑वत्य॒स्यामे॒वैन॑द्विन्दत॒ उपै॑न॒ꣳ॒ हिर॑ण्यन्नमति॒ वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्द्ध्यते॒ यो हिर॑ण्यव्ँवि॒न्दत॑ ए॒ता [९] मे॒व निर्व॑पे॒द्धिर॑ण्यव्ँवि॒त्त्वा नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑द्ध्यत ए॒तामे॒व निर्व॑पे॒द्यस्य॒ हिर॑ण्य॒न्नश्ये॒द्यदा᳚ग्ने॒यो भव॑त्याग्ने॒यव्ँवै हिर॑ण्य॒य्ँयस्यै॒ व हिर॑ण्य॒न्तेनै॒वैन॑द्विन्दति सावि॒त्रो भ॑वति सवि॒तृप्र॑सूत ए॒वैन॑द्विन्दति॒ भूम्यै॑ च॒रुर् भ॑वत्य॒स्याव्ँवा ए॒तन्न॑श्यति॒ यन्नश्य॑त्य॒स्यामे॒वैन॑द्विन्द॒तीन्द्र॒ [१०] स्त्वष्टुः॒ सोम॑मभी॒षहा॑ऽपिब॒थ् स विष्व॒ङ् व्या᳚र्च्छ॒थ् स इ॑न्द्रि॒येण॑ सोमपी॒थेन॒ व्या᳚र्द्ध्यत॒ स यदू॒र्द्ध्वमु॒दव॑मी॒त् ते श्या॒माका॑ अभव॒न्थ् स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑ ए॒तꣳ सो॑मे॒न्द्रꣴ श्या॑मा॒कञ्च॒रुन्निर॑वप॒त् तेनै॒वास्मि॑न्निन्द्रि॒यꣳ सो॑मपी॒थम॑दधा॒द्वि वा ए॒ष इ॑न्द्रि॒येण॑ सोमपी॒थेन॑र्द्ध्यते॒ यः सोम॒व्ँवमि॑ति॒ यः सो॑मवा॒मी स्यात् तस्मा॑ [११] ए॒तꣳ सो॑मे॒न्द्रꣴ श्या॑मा॒कञ्च॒रुन्निर्व॑पे॒थ् सोम॑ञ्चै॒वेन्द्र॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निन्द्रि॒यꣳ सो॑मपी॒थन्ध॑त्तो॒ नेन्द्रि॒येण॑ सोमपी॒थेन॒ व्यृ॑द्ध्यते॒ यथ् सौ॒म्यो भव॑ति सोमपी॒थमे॒वाव॑ रुन्धे॒ यदै॒न्द्रो भव॑तीन्द्रि॒यव्ँवै सो॑मपी॒थ इ॑न्द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे श्यामा॒को भ॑वत्ये॒ष वाव स सोमः॑ [१२] सा॒ख्‍षादे॒व सो॑मपी॒थमव॑ रुन्धे॒ऽग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒दिन्द्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालम्प॒शुका॑मो॒ऽग्निरे॒वास्मै॑ प॒शून् प्र॑ज॒नय॑ति वृ॒द्धानिन्द्रः॒ प्र य॑च्छति॒ दधि॒ मधु॑ घृ॒तमापो॑ धा॒ना भ॑वन्त्ये॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒व प॒शूनव॑ रुन्धे पञ्चगृही॒तम्भ॑वति॒ पाङ्क्ता॒ हि प॒शवो॑ बहुरू॒पम्भ॑वति बहुरू॒पा हि प॒शवः॒ [१३] समृ॑द्ध्यै प्राजाप॒त्यम्भ॑वति प्राजाप॒त्या वै प॒शवः॑ प्र॒जाप॑तिरे॒वास्मै॑ प॒शून् प्र ज॑नयत्या॒त्मा वै पुरु॑षस्य॒ मधु॒ यन्मद्ध्व॒ग्नौ जु॒होत्या॒त्मान॑मे॒व तद्यज॑मानो॒ऽग्नौ प्र द॑धाति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तः॒ पुरु॑षः॒ पाङ्क्ताः᳚ प॒शव॑ आ॒त्मान॑मे॒व मृ॒त्योर्नि॒ष्क्रीय॑ प॒शूनव॑ रुन्धे⁠ [१४] (इ॒न्द्रि॒ये᳚ऽस्मि॒न् भूम्या॑ ए॒ता मिन्द्रः॒ स्यात् तस्मै॒ सोमो॑ बहुरू॒पा हि प॒शव॒ एक॑चत्वारिꣳशच्च) ॥२॥
दे॒वा वै स॒त्रमा॑स॒तर्धि॑परिमित॒य्ँयश॑स्कामा॒स्तेषा॒ꣳ॒ सोम॒ꣳ॒ राजा॑न॒य्ँयश॑ आर्च्छ॒थ् स गि॒रिमुदै॒त् तम॒ग्निरनूदै॒त् ताव॒ग्नीषोमौ॒ सम॑भवता॒न्ताविन्द्रो॑ य॒ज्ञवि॑भ्र॒ष्टोऽनु॒ परै॒त् ताव॑ब्रवीद्या॒जय॑त॒म्मेति॒ तस्मा॑ ए॒तामिष्टि॒न्निर॑वपतामाग्ने॒यम॒ष्टाक॑पालमै॒न्द्र मेका॑दशकपालꣳ सौ॒म्यञ्च॒रुन्तयै॒वास्मि॒न् तेज॑ [१५] इन्द्रि॒यम्ब्र॑ह्मवर्च॒सम॑धत्ता॒य्ँयो य॒ज्ञवि॑भ्रष्टः॒ स्यात् तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेदाग्ने॒य म॒ष्टाक॑पालमै॒न्द्रमेका॑दशकपालꣳ सौ॒म्यञ्च॒रुय्ँयदा᳚ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न् तेन॑ दधाति॒ यदै॒न्द्रो भव॑तीन्द्रि॒यमे॒वास्मि॒न् तेन॑ दधाति॒ यथ् सौ॒म्यो ब्र॑ह्मवर्च॒सन्तेना᳚ऽऽग्ने॒यस्य॑ च सौ॒म्यस्य॑ चै॒न्द्रे स॒माश्ले॑षये॒त् तेज॑श्चै॒वास्मि॑न् ब्रह्मवर्च॒सञ्च॑ स॒मीची॑ [१६] दधात्यग्नीषो॒मीय॒मेका॑दशकपाल॒न्निर्व॑पे॒द्यङ्कामो॒ नोप॒नमे॑दाग्ने॒यो वै ब्रा᳚ह्म॒णः स सोम॑म्पिबति॒ स्वामे॒व दे॒वता॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवैन॒ङ्कामे॑न॒ सम॑र्द्धय॒त्युपै॑नं॒ कामो॑ नमत्यग्नीषो॒मीय॑म॒ष्टाक॑पाल॒न्निर्व॑पेद्ब्रह्मवर्च॒सका॑मो॒ऽग्नीषोमा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न् ब्रह्मवर्च॒सन्ध॑त्तो ब्रह्मवर्च॒स्ये॑व [१७] भ॑वति॒ यद॒ष्टाक॑पाल॒स्तेना᳚ऽऽग्ने॒यो यच्छ्या॑मा॒कस्तेन॑ सौ॒म्यः समृ॑द्ध्यै॒ सोमा॑य वा॒जिने᳚ श्यामा॒कञ्च॒रुन्निर्व॑पे॒द्यः क्लैब्या᳚द्बिभी॒याद् रेतो॒ हि वा ए॒तस्मा॒द्वाजि॑नमप॒क्राम॒त्यथै॒ष क्लैब्या᳚द्बिभाय॒ सोम॑मे॒व वा॒जिन॒ꣴ॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न् रेतो॒ वाजि॑नन्दधाति॒ न क्ली॒बो भ॑वति ब्राह्मणस्प॒त्यमेका॑दशकपाल॒न्निर्व॑पे॒द् ग्राम॑कामो॒ [१८] ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒तान् प्र य॑च्छति ग्रा॒म्ये॑व भ॑वति ग॒णव॑ती याज्यानुवा॒क्ये॑ भवतः सजा॒तैरे॒वैन॑ङ्ग॒णव॑न्तङ्करोत्ये॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त॒ ब्रह्म॒न् विश॒व्ँविना॑शयेय॒मिति॑ मारु॒ती या᳚ज्यानुवा॒क्ये॑ कुर्या॒द् ब्रह्म॑न्ने॒व विश॒व्ँवि ना॑शयति⁠ [१९] (तेजः॑ स॒मीची᳚ ब्रह्मवर्च॒स्ये॑व ग्राम॑काम॒ स्त्रिच॑त्वारिꣳशच्च) ॥३॥
अ॒र्यं॒णे च॒रुन्निर्व॑पेथ् सुव॒र्गका॑मो॒ऽसौ वा आ॑दि॒त्यो᳚ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑ꣳ सुव॒र्गल्ँलो॒कङ्ग॑मयत्यर्यं॒णे च॒रुन्निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जाः स्यु॒रित्य॒सौ वा आ॑दि॒त्यो᳚ऽर्य॒मा यः खलु॒ वै ददा॑ति॒ सो᳚ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वा [२०] स्मै॒ दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्यर्यं॒णे च॒रुन्निर्व॑पे॒द्यः का॒मये॑त स्व॒स्ति ज॒नता॑मिया॒मित्य॒सौ वा आ॑दि॒त्यो᳚ऽर्य॒माऽर्य॒मण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒न्तद्ग॑मयति॒ यत्र॒ जिग॑मिष॒तीन्द्रो॒ वै दे॒वाना॑मानुजाव॒र आ॑सी॒थ् स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपाल॒न्नि [२१] र॑वप॒त् तेनै॒वैन॒मग्र॑न्दे॒वता॑ना॒म्पर्य॑णयद् बु॒द्ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ अकरोद् बु॒द्ध्नादे॒वैन॒मग्र॒म्पर्य॑णय॒द्यो रा॑ज॒न्य॑ आनुजाव॒रः स्यात् तस्मा॑ ए॒तमै॒न्द्रमा॑नुषू॒कमेका॑दशकपाल॒न्निर्व॑पे॒दिन्द्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्र॑ꣳ समा॒नाना॒म्परि॑ णयति बु॒द्ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒द्ध्नादे॒वैन॒मग्रं॒ [२२] परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः समृ॑द्ध्यै॒ यो ब्रा᳚ह्म॒ण आ॑नुजाव॒रः स्यात् तस्मा॑ ए॒तम्बा॑र्‌हस्प॒त्यमा॑नुषू॒कञ्च॒रुन्निर्व॑पे॒द् बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मग्र॑ꣳ समा॒नाना॒म्परि॑ णयति बु॒द्ध्नव॑ती॒ अग्र॑वती याज्यानुवा॒क्ये॑ भवतो बु॒द्ध्नादे॒वैन॒मग्र॒म्परि॑ णयत्यानुषू॒को भ॑वत्ये॒षा ह्ये॑तस्य॑ दे॒वता॒ य आ॑नुजाव॒रः समृ॑द्ध्यै⁠ [२३] (ए॒व निर ग्र॑ मे॒तस्य॑ च॒त्वारि॑ च) ॥४॥
प्र॒जाप॑ते॒स्त्रय॑स्त्रिꣳशद् दुहि॒तर॑ आस॒न् ताः सोमा॑य॒ राज्ञे॑ऽददा॒त् तासा॑ꣳ रोहि॒णीमुपै॒त् ता ईर्ष्य॑न्तीः॒ पुन॑रगच्छ॒न् ता अन्वै॒त् ताः पुन॑रयाचत॒ ता अ॑स्मै॒ न पुन॑रददा॒थ् सो᳚ऽब्रवीद् ऋ॒तम॑मीष्व॒ यथा॑ समाव॒च्छ उ॑पै॒ष्याम्यथ॑ ते॒ पुन॑र् दास्या॒मीति॒ स ऋ॒तमा॑मी॒त् ता अ॑स्मै॒ पुन॑रददा॒त् तासा॑ꣳ रोहि॒णीमे॒वोपै॒त् [२४] तय्ँयख्‍ष्म॑ आर्च्छ॒द्राजा॑न॒य्ँयख्‍ष्म॑ आर॒दिति॒ तद्रा॑जय॒ख्‍ष्मस्य॒ जन्म॒ यत् पापी॑या॒नभ॑व॒त् तत् पा॑पय॒ख्‍ष्मस्य॒ यज्जा॒याभ्योऽवि॑न्द॒त् तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषा॒य्ँयख्‍ष्मा॑णा॒ञ्जन्म॒ वेद॒ नैन॑मे॒ते यख्‍ष्मा॑ विन्दन्ति॒ स ए॒ता ए॒व न॑म॒स्यन्नुपा॑धाव॒त् ता अ॑ब्रुव॒न् वर॑व्ँवृणामहै समाव॒च्छ ए॒व न॒ उपा॑य॒ इति॒ तस्मा॑ ए॒त [२५] मा॑दि॒त्यञ्च॒रुन्निर॑वप॒न् तेनै॒वैन॑म्पा॒पाथ् स्रामा॑दमुञ्च॒न्॒‌यः पा॑पय॒ख्‍ष्मगृ॑हीतः॒ स्यात् तस्मा॑ ए॒तमा॑दि॒त्यञ्च॒रुन्निर्व॑पेदादि॒त्याने॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैन॑म्पा॒पाथ् स्रामा᳚न्मुञ्चन्त्यमावा॒स्या॑या॒न्निर्व॑पेद॒मुमे॒वै न॑मा॒प्याय॑मान॒मन्वा प्या॑ययति॒ नवो॑नवो भवति॒ जाय॑मान॒ इति॑ पुरोनुवा॒क्या॑ भव॒त्यायु॑रे॒वास्मि॒न् तया॑ दधाति॒ यमा॑दि॒त्या अ॒ꣳ॒शुमा᳚प्या॒यय॒न्तीति॑ या॒ज्यैवैन॑मे॒तया᳚ प्याययति⁠ [२६] (ए॒वोपै॒ त म॑स्मि॒न् त्रयो॑दश च) ॥५॥
प्र॒जाप॑तिर् दे॒वेभ्यो॒ऽन्नाद्य॒व्ँव्यादि॑श॒थ् सो᳚ऽब्रवी॒द्यदि॒माल्ँलो॒कान॒भ्य॑ति॒रिच्या॑तै॒ तन्ममा॑स॒दिति॒ तदि॒माल्ँलो॒कान॒भ्यत्य॑रिच्य॒तेन्द्र॒ꣳ॒ राजा॑न॒मिन्द्र॑मधिरा॒जमिन्द्र॑ꣴ स्व॒राजा॑न॒न्ततो॒ वै स इ॒माल्ँलो॒काꣴ स्त्रे॒धाऽदु॑ह॒त् तत् त्रि॒धातो᳚स्त्रिधातु॒त्वय्ँयङ्का॒मये॑तान्ना॒दः स्या॒दिति॒ तस्मा॑ ए॒तन्त्रि॒धातु॒न्निर्व॑पे॒दिन्द्रा॑य॒ राज्ञे॑ पुरो॒डाश॒ [२७] मेका॑दशकपाल॒मिन्द्रा॑याधिरा॒जायेन्द्रा॑य स्व॒राज्ञे॒ऽयव्ँवा इन्द्रो॒ राजा॒ऽयमिन्द्रो॑ऽधिरा॒जो॑ऽसाविन्द्रः॑ स्व॒राडि॒माने॒व लो॒कान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्न॒म्प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ यथा॑ व॒थ्सेन॒ प्रत्ता॒ङ्गान्दु॒ह ए॒वमे॒वेमाल्ँलो॒कान् प्रत्ता॒न् काम॑म॒न्नाद्यं॑ दुह उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षाल्ँलो॒काना॒माप्त्या॒ उत्त॑र उत्तरो॒ ज्याया᳚न् भवत्ये॒वमि॑व॒ हीमे लो॒काः समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछं॑बट्कारव्ँव्य॒त्यास॒मन्वा॒हानि॑र्दाहाय⁠ [२८] (पु॒रो॒डाशं॒ त्रयः॒ षड्वि॑ꣳशतिश्च) ॥६॥
दे॒वा॒सु॒राः सय्ँय॑त्ता आस॒न् तान् दे॒वानसु॑रा अजय॒न् ते दे॒वाः प॑राजिग्या॒ना असु॑राणा॒व्ँवैश्य॒मुपा॑ऽऽय॒न् तेभ्य॑ इन्द्रि॒यव्ँवी॒र्य॑मपा᳚क्राम॒त् तदिन्द्रो॑ऽचाय॒त् तदन्वपा᳚क्राम॒त् तद॑व॒रुध॒न्नाश॑क्नो॒त् तद॑स्मादभ्य॒र्द्धो॑ऽचर॒थ् स प्र॒जाप॑ति॒मुपा॑धाव॒त् तमे॒तया॒ सर्व॑पृष्ठयाऽयाजय॒त् तयै॒वास्मि॑न्निन्द्रि॒यव्ँवी॒र्य॑मदधा॒द्य इ॑न्द्रि॒यका॑मो [२९] वी॒र्य॑कामः॒ स्यात् तमे॒तया॒ सर्व॑पृष्ठया याजयेदे॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न्निन्द्रि॒यव्ँवी॒र्य॑न्दधति॒यदिन्द्रा॑य॒ राथ॑न्तराय नि॒र्वप॑ति॒ यदे॒वाग्नेस्तेज॒स्तदे॒वाव॑ रुन्धे॒ यदिन्द्रा॑य॒ बार्‌ह॑ताय॒ यदे॒वेन्द्र॑स्य॒ तेज॒स्तदे॒वाव॑ रुन्धे॒ यदिन्द्रा॑य वैरू॒पाय॒ यदे॒व स॑वि॒तुस्तेज॒स्त [३०] दे॒वाव॑ रुन्धे॒ यदिन्द्रा॑य वैरा॒जाय॒ यदे॒व धा॒तुस्तेज॒स्तदे॒वाव॑ रुन्धे॒ यदिन्द्रा॑य शाक्व॒राय॒ यदे॒व म॒रुता॒न्तेज॒स्तदे॒वाव॑ रुन्धे॒ यदिन्द्रा॑य रैव॒ताय॒ यदे॒व बृह॒स्पते॒स्तेज॒स्तदे॒वाव॑ रुन्ध ए॒ताव॑न्ति॒ वै तेजा॑ꣳसि॒ तान्ये॒वाव॑ रुन्ध उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ द्वाद॑शकपालः पुरो॒डाशो॑ [३१] भवति वैश्वदेव॒त्वाय॑ सम॒न्तम्प॒र्यव॑द्यति सम॒न्तमे॒वेन्द्रि॒यव्ँवी॒र्य॑य्ँयज॑माने दधाति व्य॒त्यास॒ मन्वा॒हानि॑र्दाहा॒याश्व॑ ऋष॒भो वृ॒ष्णिर् ब॒स्तः सा दख्‍षि॑णा वृष॒त्वायै॒तयै॒व य॑जेताभिश॒स्यमा॑न ए॒ताश्चेद्वा अ॑स्य दे॒वता॒ अन्न॑म॒दन्त्य॒दन्त्यु॑ वे॒वास्य॑ मनु॒ष्याः᳚⁠ [३२] (इ॒न्द्रि॒य॒का॑मः सवि॒तुस्तेज॒स्तत् पु॑रो॒डाशो॒ ऽष्टात्रि॑ꣳशच्च) ॥७॥
रज॑नो॒ वै कौ॑णे॒यः क्र॑तु॒जित॒ञ्जान॑किञ्चख्‍षु॒र्वन्य॑मया॒त् तस्मा॑ ए॒तामिष्टि॒न्निर॑वपद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालꣳ सौ॒र्यञ्च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्तयै॒वास्मि॒न् चख्‍षु॑रदधा॒द्यश्चख्‍षु॑ष्कामः॒ स्यात् तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालꣳ सौ॒र्यञ्च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालम॒ग्नेर् वै चख्‍षु॑षा मनु॒ष्या॑ वि [३३] प॑श्यन्ति॒ सूर्य॑स्य दे॒वा अ॒ग्निञ्चै॒व सूर्य॑ञ्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒न् चख्‍षु॑र्द्धत्त॒श्चख्‍षु॑ष्माने॒व भ॑वति॒ यदा᳚ग्ने॒यौ भव॑त॒श्चख्‍षु॑षी ए॒वास्मि॒न् तत् प्रति॑ दधाति॒ यथ् सौ॒र्यो नासि॑का॒न्तेना॒भितः॑ सौ॒र्यमा᳚ग्ने॒यौ भ॑वत॒स्तस्मा॑द॒भितो॒ नासि॑का॒ञ्चख्‍षु॑षी॒ तस्मा॒न्ना सि॑कया॒ चख्‍षु॑षी॒ विधृ॑ते समा॒नी या᳚ज्यानुवा॒क्ये॑ भवतः समा॒नꣳ हि चख्‍षुः॒ समृ॑द्ध्या॒ उदु॒त्यं जा॒तवे॑दसꣳ स॒प्त त्वा॑ ह॒रितो॒ रथे॑ चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑क॒मिति॒ पिण्डा॒न् प्र य॑च्छति॒ चख्‍षु॑रे॒वास्मै॒ प्र य॑च्छति॒ यदे॒व तस्य॒ तत्⁠ [३४] (वि ह्य॑ ष्टावि॑ꣳशतिश्च) ॥८॥
ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयास॒न्धीर॒श्चेत्ता॑ वसु॒विद् ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासमु॒ग्रश्चेत्ता॑ वसु॒विद् ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयासमभि॒भूश्चेत्ता॑ वसु॒विदाम॑नम॒स्याम॑नस्य देवा॒ ये स॑जा॒ताः कु॑मा॒राः सम॑नस॒स्तान॒हङ्का॑मये हृ॒दा ते माङ्का॑मयन्ताꣳ हृ॒दा तान् म॒ आम॑नसः कृधि॒ स्वाहाऽऽम॑नम॒स्या [३५] म॑नस्य देवा॒ याः स्त्रियः॒ सम॑नस॒स्ता अ॒हङ्का॑मये हृ॒दा ता माङ्का॑मयन्ताꣳ हृ॒दा ता म॒ आम॑नसः कृधि॒ स्वाहा॑ वैश्वदे॒वीꣳ सां᳚ग्रह॒णीन्निर्व॑पे॒द् ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ् स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति सांग्रह॒णी भ॑वति मनो॒ग्रह॑ण॒व्ँवै सं॒ग्रह॑ण॒म्मन॑ ए॒व स॑जा॒तानां᳚ [३६] गृह्णाति ध्रु॒वो॑ऽसि ध्रु॒वो॑ऽहꣳ स॑जा॒तेषु॑ भूयास॒मिति॑ परि॒धीन् परि॑ दधात्या॒शिष॑मे॒वैतामा शा॒स्तेऽथो॑ ए॒तदे॒व सर्व॑ꣳ सजा॒तेष्वधि॑ भवति॒ यस्यै॒वव्ँवि॒दुष॑ ए॒ते प॑रि॒धयः॑ परिधी॒यन्त॒ आम॑नम॒स्याम॑नस्य देवा॒ इति॑ ति॒स्र आहु॑तीर् जुहोत्ये॒ताव॑न्तो॒ वै स॑जा॒ता ये म॒हान्तो॒ ये ख्‍षु॑ल्ल॒का याः स्त्रिय॒स्ताने॒वाव॑ रुन्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते⁠ [३७] (स्वाहाऽऽम॑नमसिसजा॒ताना॑ꣳ रुन्धे॒पञ्च॑ च) ॥९॥
यन्नव॒मैत् तन्नव॑नीतमभव॒द्यदस॑र्प॒त् तथ् स॒र्पिर॑भव॒द्यदद्ध्रि॑यत॒ तद् घृ॒तम॑भवद॒श्विनोः᳚ प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्ता॒य्ँययोः᳚ प्रा॒णोऽसि॒ स्वाहेन्द्र॑स्य प्रा॒णो॑ऽसि॒ तस्य॑ ते ददातु॒ यस्य॑ प्रा॒णोऽसि॒ स्वाहा॑ मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसि॒ तस्य॑ ते दत्ता॒य्ँययोः᳚ प्रा॒णोऽसि॒ स्वाहा॒ विश्वे॑षान्दे॒वाना᳚म्प्रा॒णो॑ऽसि॒ [३८] तस्य॑ ते ददतु॒ येषा᳚म्प्रा॒णोऽसि॒ स्वाहा॑ घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मिन्द्रे॑ण द॒त्ताम्प्रय॑ताम्म॒रुद्भिः॑⁠। तत् त्वा॒ विष्णुः॒ पर्य॑पश्य॒त् तत् त्वेडा॒ गव्यैर॑यत्⁠॥ पा॒व॒मा॒नेन॑ त्वा॒ स्तोमे॑न गाय॒त्रस्य॑ वर्त॒न्योपा॒ꣳ॒शोर् वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ् सृ॑जतु जी॒वात॑वे जीवन॒स्यायै॑ बृहद्रथन्त॒रयो᳚स्त्वा॒ स्तोमे॑न त्रि॒ष्टुभो॑ वर्त॒न्या शु॒क्रस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ् [३९] सृ॑जतु जी॒वात॑वे जीवन॒स्याया॑ अ॒ग्नेस्त्वा॒ मात्र॑या॒ जग॑त्यै वर्त॒न्याऽऽग्र॑य॒णस्य॑ वी॒र्ये॑ण दे॒वस्त्वा॑ सवि॒तोथ् सृ॑जतु जी॒वात॑वे जीवन॒स्याया॑ इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒यꣳ रेतो॑ वरुण सोम राजन्न्⁠। मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्॒‌यथाऽस॑त्⁠॥ अ॒ग्निरायु॑ष्मा॒न्थ् स वन॒स्पति॑भि॒रायु॑ष्मा॒न् तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तङ्करोमि॒ सोम॒ आयु॑ष्मा॒न्थ् स ओष॑धीभिर् य॒ज्ञ आयु॑ष्मा॒न्थ् स दख्‍षि॑णाभि॒र् ब्रह्माऽऽयु॑ष्म॒त् तद्ब्रा᳚ह्म॒णैरायु॑ष्मद् दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॑न पि॒तर॒ आयु॑ष्मन्त॒स्ते स्व॒धयाऽऽयु॑ष्मन्त॒स्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तङ्करोमि⁠ [४०] (आयु॑ष्मा॒न् पञ्च॑विꣳशतिश्च) ॥१०॥
अ॒ग्निव्ँवा ए॒तस्य॒ शरी॑रङ्गच्छति॒ सोम॒ꣳ॒ रसो॒ वरु॑ण एनव्ँवरुणपा॒शेन॑ गृह्णाति॒ सर॑स्वती॒व्ँवाग॒ग्नाविष्णू॑ आ॒त्मा यस्य॒ ज्योगा॒मय॑ति॒ यो ज्योगा॑मयावी॒ स्याद्यो वा॑ का॒मये॑त॒ सर्व॒मायु॑रिया॒मिति॒ तस्मा॑ ए॒तामिष्टि॒न्निर्व॑पेदाग्ने॒य म॒ष्टाक॑पालꣳ सौ॒म्यञ्च॒रुव्ँवा॑रु॒णन्दश॑कपालꣳ सारस्व॒तञ्च॒रुमा᳚ग्नावैष्ण॒व मेका॑दशकपाल म॒ग्नेरे॒वास्य॒ शरी॑रन्निष्क्री॒णाति॒ सोमा॒द्रस॑ [४१] व्ँवारु॒णेनै॒वैन॑व्ँवरुणपा॒शान् मु॑ञ्चति सारस्व॒तेन॒ वाच॑न्दधात्य॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र् य॒ज्ञो दे॒वता॑भिश्चै॒वैन॑य्ँय॒ज्ञेन॑ च भिषज्यत्यु॒त यदी॒तासु॒र् भव॑ति॒ जीव॑त्ये॒व यन्नव॒मैत् तन्नव॑नीतमभव॒दित्याज्य॒मवे᳚ख्‍षते रू॒पमे॒वास्यै॒ तन्म॑हि॒मान॒व्ँव्याच॑ष्टे॒ऽश्विनोः᳚ प्रा॒णो॑ऽसीत्या॑हा॒श्विनौ॒ वै दे॒वानां᳚ [४२] भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जङ्क॑रो॒तीन्द्र॑स्य प्रा॒णो॑ऽसीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्ने॒तेन॑ दधाति मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसीत्या॑ह प्राणा पा॒नावे॒वास्मि॑न्ने॒तेन॑ दधाति॒ विश्वे॑षान्दे॒वानां᳚ प्रा॒णो॑ऽसीत्या॑ह वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मित्या॑ह यथाय॒जु रे॒वैतत् पा॑वमा॒नेन॑ त्वा॒ स्तोमे॒नेत्या॑ [४३] ह प्रा॒णमे॒वास्मि॑न्ने॒तेन॑ दधाति बृहद्रथन्त॒रयो᳚स्त्वा॒ स्तोमे॒नेत्या॒हौज॑ ए॒वास्मि॑न्ने॒तेन॑ दधात्य॒ग्नेस्त्वा॒ मात्र॒येत्या॑हा॒ऽऽत्मान॑मे॒वास्मि॑न्ने॒तेन॑ दधात्यृ॒त्विजः॒ पर्या॑हु॒र्याव॑न्त ए॒वर्त्विज॒स्त ए॑नम्भिषज्यन्ति ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य॒ पर्या॑हुरेक॒धैव यज॑मान॒ आयु॑र् दधति॒ यदे॒व तस्य॒ तद्धिर॑ण्याद् [४४] घृ॒तन्निष्पि॑ब॒त्यायु॒र् वै घृ॒तम॒मृत॒ꣳ॒ हिर॑ण्यम॒मृता॑दे॒वाऽऽयु॒र् निष्पि॑बति श॒तमा॑नम्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठ॒त्यथो॒ खलु॒ याव॑तीः॒ समा॑ ए॒ष्यन् मन्ये॑त॒ ताव॑न्मानꣴ स्या॒थ् समृ॑द्ध्या इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्या॒हाऽऽयु॑रे॒वास्मि॒न् वर्चो॑ दधाति॒ विश्वे॑ देवा॒ जर॑दष्टि॒र् यथाऽस॒दित्या॑ ह॒ जर॑दष्टिमे॒वैन॑ङ्करोत्य॒ग्निरायु॑ष्मा॒निति॒ हस्त॑ङ्गृह्णात्ये॒ते वै दे॒वा आयु॑ष्मन्त॒स्त ए॒वास्मि॒न्नायु॑र् दधति॒ सर्व॒मायु॑रेति⁠ [४५] (रसं॑ दे॒वाना॒ꣴ॒ स्तोमे॒नेति॒ हिर॑ण्या॒ दस॒दिति॒ द्वावि॑ꣳशतिश्च) ॥११॥
प्र॒जाप॑ति॒र् वरु॑णा॒याश्व॑मनय॒थ् स स्वान्दे॒वता॑मार्च्छ॒थ् स पर्य॑दीर्यत॒ स ए॒तव्ँवा॑रु॒णं चतु॑ष्कपालमपश्य॒त् तन्निर॑वप॒त् ततो॒ वै स व॑रुणपा॒शाद॑मुच्यत॒ वरु॑णो॒ वा ए॒तङ्गृ॑ह्णाति॒ योऽश्व॑म्प्रतिगृ॒ह्णाति॒ याव॒तोऽश्वा᳚न् प्रतिगृह्णी॒यात् ताव॑तो वारु॒णान् चतु॑ष्कपाला॒न् निर्व॑पे॒द्वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑व्ँवरुणपा॒शान् मु॑ञ्चति॒ [४६] चतु॑ष्कपाला भवन्ति॒ चतु॑ष्पा॒द्ध्यश्वः॒ समृ॑द्ध्या॒ एक॒मति॑रिक्त॒न्निर्व॑पे॒द्यमे॒व प्र॑तिग्रा॒ही भव॑ति॒ यव्ँवा॒ नाद्ध्येति॒ तस्मा॑दे॒व व॑रुणपा॒शान् मु॑च्यते॒ यद्यप॑रम्प्रतिग्रा॒ही स्याथ् सौ॒र्यमेक॑कपाल॒मनु॒ निर्व॑पेद॒मुमे॒वाऽऽदि॒त्यमु॑च्चा॒रङ्कु॑रुते॒ ऽपो॑ऽवभृ॒थमवै᳚त्य॒फ्सु वै वरु॑णः सा॒ख्‍षादे॒व वरु॑ण॒मव॑ यजतेऽपोन॒प्त्रीय॑ञ्च॒रुम्पुन॒रेत्य॒ निर्व॑पेद॒फ्सु यो॑नि॒र् वा अश्वः॒ स्वामे॒वैन॒य्ँयोनि॑ङ्गमयति॒ स ए॑नꣳ शा॒न्त उप॑ तिष्ठते⁠ [४७] (मु॒ञ्च॒ति॒ च॒रुꣳ स॒प्तद॑श च) ॥१२॥
या वा॑मिन्द्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चत॒य्ँया वा॑मिन्द्रावरुणा सह॒स्या॑ रख्‍ष॒स्या॑ तेज॒स्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चत॒य्ँयो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रावरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ चतु॑ष्पाथ्सु गो॒ष्ठे गृ॒हेष्व॒फ्स्वोष॑धीषु॒ वन॒स्पति॑षु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यज॒ इन्द्रो॒ वा ए॒तस्ये᳚ [४८] न्द्रि॒येणाप॑ क्रामति॒ वरु॑ण एनव्ँवरुणपा॒शेन॑ गृह्णाति॒ यः पा॒प्मना॑ गृही॒तो भव॑ति॒ यः पा॒प्मना॑ गृही॒तः स्यात् तस्मा॑ ए॒तामै᳚न्द्रावरु॒णीम्प॑य॒स्या᳚न्निर्व॑पे॒दिन्द्र॑ ए॒वास्मि॑न्निन्द्रि॒यन्द॑धाति॒ वरु॑ण एनव्ँवरुणपा॒शान् मु॑ञ्चति पय॒स्या॑ भवति॒ पयो॒ हि वा ए॒तस्मा॑दप॒क्राम॒त्यथै॒ष पा॒प्मना॑ गृही॒तो यत् प॑य॒स्या॑ भव॑ति॒ पय॑ ए॒वास्मि॒न् तया॑ दधाति पय॒स्या॑यां [४९] पुरो॒डाश॒मव॑ दधात्यात्म॒न्वन्त॑मे॒वैन॑ङ्करो॒त्यथो॑ आ॒यत॑नवन्तमे॒व च॑तु॒र्द्धा व्यू॑हति दि॒ख्‍ष्वे॑व प्रति॑ तिष्ठति॒ पुनः॒ समू॑हति दि॒ग्भ्य ए॒वास्मै॑ भेष॒जङ्क॑रोति स॒मूह्याव॑ द्यति॒ यथाऽऽवि॑द्धन्निष्कृ॒न्तति॑ ता॒दृगे॒व तद्यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यज॒ इत्या॑ह॒ दुरि॑ष्ट्या ए॒वैन॑म्पाति॒ यो वा॑मिन्द्रावरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यज॒ इत्या॑है॒ताव॑ती॒र् वा आप॒ ओष॑धयो॒ वन॒स्पत॑यः प्र॒जाः प॒शव॑ उपजीव॒नीया॒स्ता ए॒वास्मै॑ वरुणपा॒शान् मु॑ञ्चति⁠ [५०] (ए॒तस्य॑ पय॒स्या॑यां पाति॒ षड्वि॑ꣳशतिश्च) ॥१३॥
स प्र॑त्न॒व >१, न्निकाव्ये >२, न्द्र॑व्ँवो वि॒श्वत॒स्परी >३, न्द्र॒न्नरः॑ >४⁠॥ त्वन्नः॑ सोम वि॒श्वतो॒ रख्‍षा॑ राजन्नघाय॒तः⁠। न रि॑ष्ये॒त् त्वाव॑तः॒ सखा᳚⁠॥ या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याय्ँया पर्व॑ते॒ष्वोष॑धीष्व॒फ्सु⁠॥ तेभि॑र् नो॒ विश्वैः᳚ सु॒मना॒ अहे॑ड॒न् राज᳚न्थ्सोम॒ प्रति॑ ह॒व्या गृ॑भाय⁠॥ अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनत॒ङ्गिरः॑⁠। सन्दे॑व॒त्रा ब॑भूवथुः⁠॥ यु॒व [५१] मे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम्⁠॥ यु॒वꣳ सिन्धू॑ꣳर॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमु॑ञ्चतङ्गृभी॒तान्⁠॥ अग्नी॑षोमावि॒मꣳ सु मे॑ शृणु॒तव्ँवृ॑षणा॒ हव᳚म्⁠। प्रति॑ सू॒क्तानि॑ हर्यत॒म्भव॑तन्दा॒शुषे॒ मयः॑⁠॥ आऽन्यन्दि॒वो मा॑त॒रिश्वा॑ जभा॒राऽम॑थ्नाद॒न्यम्परि॑ श्ये॒नो अद्रेः᳚⁠। अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुय्ँय॒ज्ञाय॑ चक्रथुरु लो॒कम्⁠॥ अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तꣳ [५२] हर्य॑तव्ँवृषणा जु॒षेथा᳚म्⁠॥ सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्त॒य्ँयज॑मानाय॒ शय्ँयोः⁠॥ आ प्या॑यस्व॒ >५, सन्ते᳚ >६⁠॥ ग॒णाना᳚न्त्वा ग॒णप॑तिꣳ हवामहे क॒विङ्क॑वी॒नामु॑प॒मश्र॑वस्तमम्⁠। ज्ये॒ष्ठ॒राज॒म्ब्रह्म॑णाम्ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम्⁠। स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर् वाज॑म्भरते॒ धना॒ नृभिः॑⁠॥ दे॒वाना॒य्ँयः पि॒तर॑मा॒विवा॑सति [५३] श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म्⁠॥ स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लꣳ रु॑रोज फलि॒गꣳ रवे॑ण⁠। बृह॒स्पति॑रु॒स्त्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत्⁠॥ मरु॑तो॒ यद्ध॑ वो दि॒वो>७, या वः॒ शर्म॑ >८⁠॥ अ॒र्य॒माऽऽया॑ति वृष॒भस्तुवि॑ष्मान् दा॒ता वसू॑नाम्पुरुहू॒तो अर्‌ह॑न्⁠। स॒ह॒स्रा॒ख्‍षो गो᳚त्र॒भिद्वज्र॑बाहुर॒स्मासु॑ दे॒वो द्रवि॑णन्दधातु⁠॥ ये ते᳚ऽर्यमन् ब॒हवो॑ देव॒यानाः॒ पन्था॑नो [५४] राजन् दि॒व आ॒चर॑न्ति⁠। तेभि॑र् नो देव॒ महि॒ शर्म॑ यच्छ॒ शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे⁠॥ बु॒द्ध्नादग्र॒मङ्गि॑रोभिर् गृणा॒नो वि पर्व॑तस्य दृꣳहि॒तान्यै॑रत्⁠। रु॒जद्रोधा॑ꣳसि कृ॒त्रिमा᳚ण्येषा॒ꣳ॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार⁠॥ बु॒द्ध्नादग्रे॑ण॒ वि मि॑माय॒ मानै॒र् वज्रे॑ण॒ खान्य॑तृणन्न॒दीना᳚म्⁠। वृथा॑ऽसृजत् प॒थिभि॑र् दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार⁠ [५५] प्र यो ज॒ज्ञे वि॒द्वाꣳ अ॒स्य बन्धु॒व्ँविश्वा॑नि दे॒वो जनि॑मा विवक्ति⁠। ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मद्ध्या᳚न्नी॒चादु॒च्चा स्व॒धया॒ऽभि प्र त॑स्थौ⁠॥ म॒हान् म॒ही अ॑स्तभाय॒द्वि जा॒तो द्याꣳ सद्म॒ पार्त्थि॑वञ्च॒ रजः॑⁠। स बु॒द्ध्नादा᳚ष्ट ज॒नुषा॒ऽभ्यग्र॒म्बृह॒स्पति॑र् दे॒वता॒ यस्य॑ स॒म्राट्⁠॥ बु॒द्ध्नाद्यो अग्र॑म॒भ्यर्त्योज॑सा॒ बृह॒स्पति॒मा वि॑वासन्ति दे॒वाः⁠। भि॒नद्व॒लव्ँवि पुरो॑ दर्दरीति॒ कनि॑क्रद॒थ् सुव॑र॒पो जि॑गाय⁠ [५६] (यु॒वं वी॒तमा॒ विवा॑सति॒ पन्था॑नो दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकारदे॒वानव॑ च) ॥१४॥
(आ॒दि॒त्येभ्यो॑दे॒वा वै मृ॒त्योर्दे॒वा वै स॒त्र म॑र्यं॒णेप्र॒जाप॑ते॒स्त्रय॑स्त्रिꣳशत् प्र॒जाप॑तिर् दे॒वेभ्यो॒ऽन्नाद्यं॑देवासु॒रास्तान्रज॑नो ध्रु॒वो॑ऽसि॒ यन्नव॑ म॒ग्निव्ँवै प्र॒जाप॑ति॒र्वरु॑णाय॒ या वा॑मिन्द्रा वरुणा॒ स प्र॑त्न॒व च्चतु॑र्दश)
(आ॒दि॒त्येभ्य॒ स्त्वष्टु॑ रस्मै॒ दान॑कामा ए॒वाव॑ रुन्धे॒ ऽग्निव्ँवै स प्र॑त्न॒वथ् षट्प॑ञ्चा॒शत्)
(आ॒दि॒त्येभ्यः॒ सुव॑र॒पो जि॑गाय)
अनुवाकाः पञ्चशती
१४ ५६