कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
द्वितीयकाण्डे चतुर्थः प्रश्नः

कांड २ प्रश्न ४
इष्टिविधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
दे॒वा म॑नु॒ष्याः᳚ पि॒तर॒स्ते᳚ऽन्यत॑ आस॒न्नसु॑रा॒ रख्‍षा॑ꣳसि पिशा॒चास्ते᳚ऽन्यत॒स्तेषा᳚न्दे॒वाना॑मु॒त यदल्प॒ल्ँलोहि॑त॒मकु॑र्व॒न् तद्रख्‍षा॑ꣳसि॒ रात्री॑भिरसुभ्न॒न् तान्थ् सु॒ब्धान् मृ॒तान॒भि व्यौ᳚च्छ॒त् ते दे॒वा अ॑विदु॒र्यो वै नो॒ऽयम्म्रि॒यते॒ रख्‍षा॑ꣳसि॒ वा इ॒मं(२) घ्न॒न्तीति॒ ते रख्‍षा॒ꣴ॒स्युपा॑मन्त्रयन्त॒ तान्य॑ब्रुव॒न् वर॑व्ँवृणामहै॒ य [१] दसु॑रा॒न् जया॑म॒ तन्नः॑ स॒हास॒दिति॒ ततो॒ वै दे॒वा असु॑रानजय॒न् तेऽसु॑रान् जि॒त्वा रख्‍षा॒ꣴ॒स्यपा॑नुदन्त॒ तानि॒ रख्‍षा॒ꣴ॒स्यनृ॑तमक॒र्तेति॑ सम॒न्तन्दे॒वान् पर्य॑विश॒न् ते दे॒वा अ॒ग्नाव॑नाथन्त॒ ते᳚ऽग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर॑वपन्न॒ग्नये॑ विबा॒धव॑ते॒ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒रव॑प॒न्॒‌यान्ये॒व पु॒रस्ता॒द्रख्‍षा॒ꣴ॒स्या [२] स॒न्तानि॒ तेन॒ प्राणु॑दन्त॒ यद॒ग्नये॑ विबा॒धव॑ते॒ यान्ये॒वाभितो॒ रख्‍षा॒ꣴ॒स्यास॒न् तानि॒ तेन॒ व्य॑बाधन्त॒ यद॒ग्नये॒ प्रती॑कवते॒ यान्ये॒व प॒श्चाद्रख्‍षा॒ꣴ॒स्यास॒न् तानि॒ तेनापा॑नुदन्त॒ ततो॑ दे॒वा अभ॑व॒न् परासु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स स्पर्द्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॒ प्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेद॒ग्नये॑ विबा॒धव॑ते॒ [३] ऽग्नये॒ प्रती॑कवते॒ यद॒ग्नये॒ प्रव॑ते नि॒र्वप॑ति॒ य ए॒वास्मा॒च्छ्रेया॒न्भ्रातृ॑व्य॒स्तन्तेन॒ प्र णु॑दते॒ यद॒ग्नये॑ विबा॒धव॑ते॒ य ए॒वैने॑न स॒दृङ् तन्तेन॒ वि बा॑धते॒ यद॒ग्नये॒ प्रती॑कवते॒ य ए॒वास्मा॒त् पापी॑या॒न् तन्तेनाप॑ नुदते॒ प्र श्रेया॑ꣳस॒म्भ्रातृ॑व्यन्नुद॒तेऽति॑ स॒दृश॑ङ्क्रामति॒ नैन॒म्पापी॑यानाप्नोति॒ य ए॒वव्ँवि॒द्वाने॒तयेष्ट्या॒ यज॑ते⁠ [४] (वृ॒णा॒म॒है॒ यत् पु॒रस्ता॒द् रख्‍षा॑ꣳसि वपेद॒ग्नये॑ विबा॒धव॑त ए॒वं च॒त्वारि॑ च) ॥१॥
दे॒वा॒सु॒राः सय्ँय॑त्ता आस॒न् ते दे॒वा अ॑ब्रुव॒न्॒‌यो नो॑ वी॒र्या॑वत्तम॒स्तमनु॑ स॒मार॑भामहा॒ इति॒ त इन्द्र॑मब्रुव॒न् त्वव्ँवै नो॑ वी॒र्या॑वत्तमोऽसि॒ त्वामनु॑ स॒मार॑भामहा॒ इति॒ सो᳚ऽब्रवीत् ति॒स्रो म॑ इ॒मास्त॒नुवो॑ वी॒र्या॑वती॒स्ताः प्री॑णी॒ताथासु॑रान॒भि भ॑विष्य॒थेति॒ ता वै ब्रू॒हीत्य॑ब्रुवन्नि॒य म॑ꣳहो॒मुगि॒यव्ँवि॑मृ॒धेयमि॑न्द्रि॒याव॒ती [५] त्य॑ब्रवी॒त्त इन्द्रा॑याꣳहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर॑वप॒न्निन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॑ते॒ यदिन्द्रा॑याꣳहो॒मुचे॑ नि॒रव॑प॒न्नꣳह॑स ए॒व तेना॑मुच्यन्त॒ यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनापा᳚घ्नत॒ यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒ऽऽ*त्मन्न॑दधत॒ त्रय॑स्त्रिꣳशत्कपालम्पुरो॒डाश॒न्निर॑वप॒न् त्रय॑स्त्रिꣳश॒द्वै दे॒वता॒स्ता इन्द्र॑ आ॒त्मन्ननु॑ स॒मारं॑भयत॒ भूत्यै॒ [६] ताव्ँवाव दे॒वा विजि॑तिमुत्त॒मामसु॑रै॒र् व्य॑जयन्त॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ् स स्पर्द्ध॑मान ए॒तयेष्ट्या॑ यजे॒तेन्द्रा॑याꣳहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपाल॒न्निर्व॑पे॒दिन्द्रा॑य वैमृ॒धायेन्द्रा॑येन्द्रि॒याव॒तेऽꣳ ह॑सा॒ वा ए॒ष गृ॑ही॒तो यस्मा॒च्छ्रेया॒न् भ्रातृ॑व्यो॒ यदिन्द्रा॑याꣳहो॒मुचे॑ नि॒र्वप॒त्यꣳह॑स ए॒व तेन॑ मुच्यते मृ॒धा वा ए॒षो॑ऽभिष॑ण्णो॒ यस्मा᳚थ् समा॒नेष्व॒न्यः श्रेया॑नु॒ता [७] ऽभ्रा॑तृव्यो॒ यदिन्द्रा॑य वैमृ॒धाय॒ मृध॑ ए॒व तेनाप॑ हते॒ यदिन्द्रा॑येन्द्रि॒याव॑त इन्द्रि॒यमे॒व तेना॒त्मन् ध॑त्ते॒ त्रय॑स्त्रिꣳशत्कपालम्पुरो॒डाश॒न्निर्व॑पति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॒स्ता ए॒व यज॑मान आ॒त्मन्ननु॑ स॒मारं॑भयते॒ भूत्यै॒ सा वा ए॒षा विजि॑ति॒र् नामेष्टि॒र् य ए॒वव्ँवि॒द्वाने॒तयेष्ट्या॒ यज॑त उत्त॒मामे॒व विजि॑ति॒म्भ्रातृ॑व्येण॒ वि ज॑यते⁠ [८] (इ॒न्द्रि॒याव॑ती॒ भूत्या॑ उ॒तै का॒न्नप॑ञ्चा॒शच्च॑) ॥२॥
दे॒वा॒सु॒राः सय्ँय॑त्ता आस॒न् तेषा᳚ङ्गाय॒त्य्रोजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून्थ् सं॒गृह्या॒ *ऽऽदाया॑प॒क्रम्या॑तिष्ठ॒त् ते॑ऽमन्यन्त यत॒रान्‌वा इ॒यमु॑पाव॒र्थ्स्यति॒ त इ॒दम्भ॑विष्य॒न्तीति॒ ताव्ँव्य॑ह्वयन्त॒ विश्व॑कर्म॒न्निति॑ दे॒वा दाभीत्यसु॑राः॒ सा नान्य॑त॒राꣴश्च॒ नोपाव॑र्तत॒ ते दे॒वा ए॒तद् यजु॑रपश्य॒न्नोजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ [९] भ्राजो॑ऽसि दे॒वाना॒न्धाम॒ नामा॑ऽसि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु॑रभि॒भूरिति॒ वाव दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून॑वृञ्जत॒ यद्गा॑य॒त्य्र॑प॒क्रम्याति॑ष्ठ॒त् तस्मा॑दे॒ताङ्गा॑य॒त्रीतीष्टि॑माहुः सव्ँवथ्स॒रो वै गा॑य॒त्री स॑व्ँवथ्स॒रो वै तद॑प॒क्रम्या॑तिष्ठ॒द्यदे॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्यं॑ [१०] प्र॒जाम्प॒शूनवृ॑ञ्जत॒ तस्मा॑दे॒ताꣳ स॑व्ँव॒र्ग इतीष्टि॑माहु॒र्यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स स्पर्द्ध॑मान ए॒तयेष्ट्या॑ यजेता॒ग्नये॑ सव्ँव॒र्गाय॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पे॒त् तꣳ शृ॒तमास॑न्नमे॒तेन॒ यजु॑षा॒ऽभि मृ॑शे॒दोज॑ ए॒व बल॑मिन्द्रि॒यव्ँवी॒र्य॑म्प्र॒जां प॒शून् भ्रातृ॑व्यस्य वृङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भवति⁠ [११] (बल॑मस्ये॒तया॑ दे॒वा असु॑राणा॒मोजो॒ बल॑मिन्द्रि॒यव्ँवी॒र्यं॑पञ्च॑चत्वारिꣳशच्च) ॥३॥
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्माथ् सृ॒ष्टाः परा॑चीराय॒न् ता यत्राव॑स॒न् ततो॑ ग॒र्मुदुद॑तिष्ठ॒त् ता बृह॒स्पति॑श्चा॒न्ववै॑ता॒ꣳ॒ सो᳚ऽब्रवी॒द् बृह॒स्पति॑र॒नया᳚ त्वा॒ प्र ति॑ष्ठा॒न्यथ॑ त्वा प्र॒जा उ॒पाव॑र्थ्स्य॒न्तीति॒ तम्प्राति॑ष्ठ॒त् ततो॒ वै प्र॒जाप॑तिम्प्र॒जा उ॒पाव॑र्तन्त॒ यः प्र॒जाका॑मः॒ स्यात् तस्मा॑ ए॒तम्प्रा॑जाप॒त्यङ्गा᳚र्मु॒तञ्च॒रुन्निर्व॑पेत् प्र॒जाप॑ति [१२] मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्र॒जाम्प्र ज॑नयति प्र॒जाप॑तिः प॒शून॑सृजत॒ ते᳚ऽस्माथ् सृ॒ष्टाः परा᳚ञ्च आय॒न् ते यत्राव॑स॒न् ततो॑ ग॒र्मुदुद॑तिष्ठ॒त् तान् पू॒षा चा॒न्ववै॑ता॒ꣳ॒ सो᳚ऽब्रवीत् पू॒षाऽनया॑ मा॒ प्र ति॒ष्ठाथ॑ त्वा प॒शव॑ उ॒पाव॑र्थ्स्य॒न्तीति॒ माम्प्र ति॒ष्ठेति॒ सोमो᳚ऽब्रवी॒न् मम॒ वा [१३] अ॑कृष्टप॒च्यमित्यु॒भौ वा॒म्प्र ति॑ष्ठा॒नीत्य॑ब्रवी॒त् तौ प्राति॑ष्ठ॒त् ततो॒ वै प्र॒जाप॑तिम्प॒शव॑ उ॒पाव॑र्तन्त॒ यः प॒शुका॑मः॒ स्यात् तस्मा॑ ए॒तꣳ सो॑मापौ॒ष्णङ्गा᳚र्मु॒तञ्च॒रुन्निर्व॑पेथ् सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शून् प्र ज॑नयतः॒ सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒नाम्प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून् प्र ज॑नयति⁠ [१४] (व॒पे॒त् प्र॒जाप॑तिं॒वैदधा॑ति पू॒षा त्रीणि॑ च) ॥४॥
अग्ने॒ गोभि॑र् न॒ आ ग॒हीन्दो॑ पु॒ष्ट्या जु॑षस्व नः⁠। इन्द्रो॑ ध॒र्ता गृ॒हेषु॑ नः⁠॥ स॒वि॒ता यः स॑ह॒स्रियः॒ स नो॑ गृ॒हेषु॑ रारणत्⁠। आ पू॒षा ए॒त्वा वसु॑⁠॥ धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑⁠। स नः॑ पू॒र्णेन॑ वावनत्⁠॥ त्वष्टा॒ यो वृ॑ष॒भो वृषा॒ स नो॑ गृ॒हेषु॑ रारणत्⁠। स॒हस्रे॑णा॒युते॑न च⁠॥ येन॑ दे॒वा अ॒मृतं॑ [१५] दी॒र्घꣴ श्रवो॑ दि॒व्यैर॑यन्त⁠। राय॑स्पोष॒ त्वम॒स्मभ्य॒ङ्गवा᳚ङ्कु॒ल्मिञ्जी॒वस॒ आ यु॑वस्व⁠॥ अ॒ग्निर् गृ॒हप॑तिः॒ सोमो॑ विश्व॒वनिः॑ सवि॒ता सु॑मे॒धाः स्वाहा᳚⁠॥ अग्ने॑ गृहपते॒ यस्ते॒ घृत्यो॑ भा॒गस्तेन॒ सह॒ ओज॑ आ॒क्रम॑माणाय धेहि॒ श्रैष्ठ्या᳚त् प॒थो मा यो॑षम्मू॒र्द्धा भू॑यास॒ꣴ॒ स्वाहा᳚⁠ [१६] (अ॒मृत॑म॒ष्टात्रि॑ꣳशच्च) ॥५॥
चि॒त्रया॑ यजेत प॒शुका॑म इ॒यव्ँवै चि॒त्रा यद्वा अ॒स्याव्ँविश्व॑म्भू॒तमधि॑ प्र॒जाय॑ते॒ तेने॒यञ्चि॒त्रा य ए॒वव्ँवि॒द्वाꣴ श्चि॒त्रया॑ प॒शुका॑मो॒ यज॑ते॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते॒ प्रैवाऽऽग्ने॒येन॑ वापयति॒ रेतः॑ सौ॒म्येन॑ दधाति॒ रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ वि क॑रोति सारस्व॒तौ भ॑वत ए॒तद्वै दैव्य॑म्मिथु॒नन्दैव्य॑मे॒वास्मै॑ [१७] मिथु॒नम्म॑द्ध्य॒तो द॑धाति॒ पुष्ट्यै᳚ प्र॒जन॑नाय सिनीवा॒ल्यै च॒रुर् भ॑वति॒ वाग्वै सि॑नीवा॒ली पुष्टिः॒ खलु॒ वै वाक् पुष्टि॑मे॒व वाच॒मुपै᳚त्यै॒न्द्र उ॑त्त॒मो भ॑वति॒ तेनै॒व तन्मि॑थु॒नꣳ स॒प्तैतानि॑ ह॒वीꣳषि॑ भवन्ति स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्तार॒ण्याः स॒प्त छन्दा॑ꣴस्यु॒भय॒स्याव॑रुद्ध्या॒ अथै॒ता आहु॑तीर् जुहोत्ये॒ते वै दे॒वाः पुष्टि॑पतय॒स्त ए॒वा स्मि॒न् पुष्टि॑न्दधति॒ पुष्य॑ति प्र॒जया॑ प॒शुभि॒रथो॒ यदे॒ता आहु॑तीर् जु॒होति॒ प्रति॑ष्ठित्यै⁠ [१८] (अ॒स्मै॒ त ए॒व द्वाद॑श च) ॥६॥
मा॒रु॒तम॑सि म॒रुता॒मोजो॒ऽपान्धारा᳚म्भिन्धि र॒मय॑त मरुतः श्ये॒नमा॒यिन॒म्मनो॑जव स॒व्ँवृष॑णꣳ सुवृ॒क्तिम्⁠॥ येन॒ शर्द्ध॑ उ॒ग्रमव॑सृष्ट॒मेति॒ तद॑श्विना॒ परि॑ धत्तꣴ स्व॒स्ति⁠। पु॒रो॒वा॒तो वर्‌ष॑ञ्जि॒न्वरा॒वृथ् स्वाहा॑ वा॒ताव॒द्वर्‌ष॑न्नु॒ग्ररा॒वृथ् स्वाहा᳚ स्त॒नय॒न् वर्‌ष॑न् भी॒मरा॒वृथ् स्वाहा॑ऽनश॒न्य॑व॒स्फूर्ज॑न्दि॒द्युद्वर्‌ष॑न्त्वे॒षरा॒वृथ् स्वाहा॑ऽतिरा॒त्रव्ँवर्‌ष॑न् पू॒र्तिरा॒वृथ् [१९] स्वाहा॑ ब॒हु हा॒यम॑वृषा॒दिति॑ श्रु॒तरा॒वृथ् स्वाहा॒ऽऽतप॑ति॒ वर्‌ष॑न् वि॒राडा॒वृथ् स्वाहा॑ऽव॒स्फूर्ज॑न् दि॒द्युद्वर्‌ष॑न्भू॒तरा॒वृथ् स्वाहा॒ मान्दा॒ वाशाः॒ शुन्ध्यू॒रजि॑राः⁠। ज्योति॑ष्मती॒स्तम॑स्वरी॒रुन्द॑तीः॒ सुफे॑नाः⁠। मित्र॑भृतः॒ ख्‍षत्र॑भृतः॒ सुरा᳚ष्ट्रा इ॒ह मा॑ऽवत⁠॥ वृष्णो॒ अश्व॑स्य स॒न्दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्यामि⁠ [२०] (पू॒र्तिरा॒वृद् द्विच॑त्वारिꣳशच्च) ॥७॥
देवा॑ वसव्या॒ अग्ने॑ सोम सूर्य⁠॥ देवाः᳚ शर्मण्या॒ मित्रा॑वरुणाऽर्यमन्न्⁠॥ देवाः᳚ सपीत॒योऽपा᳚न्नपादाशुहेमन्न्⁠। उ॒द्नो द॑त्तोद॒धिम्भि॑न्त दि॒वः प॒र्जन्या॑द॒न्तरि॑ख्‍षात् पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑ऽवत⁠॥ दिवा॑ चि॒त् तमः॑ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑⁠। पृ॒थि॒वीय्ँयद् व्यु॒न्दन्ति॑⁠॥ आ यन्नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः⁠॥ वि प॒र्जन्याः᳚ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति [२१] वृ॒ष्टयः॑⁠। उदी॑रयथा मरुतः समुद्र॒तो यू॒यव्ँवृ॒ष्टिव्ँव॑र्‌षयथा पुरीषिणः⁠। न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नवः॒ शुभ॑य्ँया॒तामनु॒ रथा॑ अवृथ्सत⁠॥ सृ॒जा वृ॒ष्टिन्दि॒व आऽद्भिः स॑मु॒द्रम्पृ॑ण⁠॥ अ॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय᳚म्⁠॥ उन्नं॑भय पृथि॒वीम्भि॒न्धीदन्दि॒व्यन्नभः॑⁠। उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति᳚म्⁠॥ ये दे॒वा दि॒विभा॑गा॒ ये᳚ऽन्तरि॑ख्‍षभागा॒ ये पृ॑थि॒विभा॑गाः⁠। त इ॒मय्ँय॒ज्ञम॑वन्तु॒ त इ॒दङ्ख्‍षेत्र॒मा वि॑शन्तु॒ त इ॒दङ्ख्‍षेत्र॒मनु॒ वि वि॑शन्तु⁠ [२२] (य॒न्ति॒ दे॒वा वि॑ꣳश॒तिश्च॑) ॥८॥
मा॒रु॒तम॑सि म॒रुता॒मोज॒ इति॑ कृ॒ष्णव्ँवासः॑ कृ॒ष्णतू॑ष॒म्परि॑ धत्त ए॒तद्वै वृष्ट्यै॑ रू॒पꣳ सरू॑प ए॒व भू॒त्वा प॒र्जन्य॑व्ँवर्‌षयति र॒मय॑त मरुतः श्ये॒नमा॒यिन॒मिति॑ पश्चाद्वा॒तम्प्रति॑ मीवति पुरोवा॒तमे॒व ज॑नयति व॒र्॒‌षस्याव॑रुद्ध्यै वातना॒मानि॑ जुहोति वा॒युर् वै वृष्ट्या॑ ईशे वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्य॑व्ँवर्‌षयत्य॒ष्टौ [२३] जु॑होति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व वृष्टि॒ꣳ॒ सम्प्र च्या॑वयति कृष्णाजि॒ने सय्ँयौ॑ति ह॒विरे॒वाक॑रन्तर्वे॒दि सय्ँयौ॒त्यव॑रुद्ध्यै॒ यती॑नाम॒द्यमा॑नानाꣳ शी॒र्॒‌षाणि॒ परा॑ऽपत॒न् ते ख॒र्जूरा॑ अभव॒न् तेषा॒ꣳ॒ रस॑ ऊ॒र्द्ध्वो॑ऽपत॒त् तानि॑ क॒रीरा᳚ण्यभवन्थ् सौ॒म्यानि॒ वै क॒रीरा॑णि सौ॒म्या खलु॒ वा आहु॑तिर् दि॒वो वृष्टि॑ञ्च्यावयति॒ यत् क॒रीरा॑णि॒ भव॑न्ति [२४] सौ॒म्ययै॒वाऽऽ*हु॑त्या दि॒वो वृष्टि॒मव॑ रुन्धे॒ मधु॑षा॒ सय्ँयौ᳚त्य॒पाव्ँवा ए॒ष ओष॑धीना॒ꣳ॒ रसो॒ यन्मद्ध्व॒द्भ्य ए॒वौष॑धीभ्यो वर्‌ष॒त्यथो॑ अ॒द्भ्य ए॒वौष॑धीभ्यो॒ वृष्टि॒न्नि न॑यति॒ मान्दा॒ वाशा॒ इति॒ सय्ँयौ॑ति नाम॒धेयै॑रे॒वैना॒ अच्छै॒त्यथो॒ यथा᳚ ब्रू॒यादसा॒ वेहीत्ये॒वमे॒वैना॑ नाम॒धेयै॒रा [२५] च्या॑वयति॒ वृष्णो॒ अश्व॑स्य स॒न्दान॑मसि॒ वृष्ट्यै॒ त्वोप॑ नह्या॒मीत्या॑ह॒ वृषा॒ वा अश्वो॒ वृषा॑ प॒र्जन्यः॑ कृ॒ष्ण इ॑व॒ खलु॒ वै भू॒त्वा व॑र्‌षति रू॒पेणै॒वैन॒ꣳ॒ सम॑र्द्धयति व॒र्॒‌षस्या व॑रुद्ध्यै⁠ [२६] (अ॒ष्टौ भव॑न्ति नाम॒धेयै॒रै का॒न्नत्रि॒ꣳ॒शच्च॑) ॥९॥
देवा॑ वसव्या॒ देवाः᳚ शर्मण्या॒ देवाः᳚ सपीतय॒ इत्या ब॑द्ध्नाति दे॒वता॑भिरे॒वान्व॒हं वृष्टि॑मिच्छति॒ यदि॒ वर्‌षे॒त् ताव॑त्ये॒व हो॑त॒व्य॑य्ँयदि॒ न वर्‌षे॒च्छ्वो भू॒ते ह॒विर् निर्व॑पेदहोरा॒त्रे वै मि॒त्रावरु॑णावहोरा॒त्राभ्या॒ङ्खलु॒ वै प॒र्जन्यो॑ वर्‌षति॒ नक्त॑व्ँवा॒ हि दिवा॑ वा॒ वर्‌ष॑ति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ [२७] अहोरा॒त्राभ्या᳚म्प॒र्जन्य॑व्ँवर्‌षयतो॒ऽग्नये॑ धाम॒च्छदे॑ पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेन्मारु॒तꣳ स॒प्तक॑पालꣳ सौ॒र्यमेक॑कपालम॒ग्निर् वा इ॒तो वृष्टि॒मुदी॑रयति म॒रुतः॑ सृ॒ष्टान्न॑यन्ति य॒दा खलु॒ वा अ॒सावा॑दि॒त्यो न्य॑ङ् र॒श्मिभिः॑ पर्या॒वर्त॒तेऽथ॑ वर्‌षति धाम॒च्छदि॑व॒ खलु॒ वै भू॒त्वा व॑र्‌षत्ये॒ता वै दे॒वता॒ वृष्ट्या॑ ईशते॒ ता ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता [२८] ए॒वास्मै॑ प॒र्जन्य॑व्ँवर्‌षयन्त्यु॒ताव॑र्‌षिष्य॒न् वर्‌ष॑त्ये॒व सृ॒जा वृ॒ष्टिन्दि॒व आ*ऽद्भिः स॑मु॒द्रम्पृ॒णेत्या॑हे॒माश्चै॒वामूश्चा॒पः सम॑र्द्धय॒त्यथो॑ आ॒भिरे॒वामूरच्छै᳚त्य॒ब्जा अ॑सि प्रथम॒जा बल॑मसि समु॒द्रिय॒मित्या॑ह यथाय॒जुरे॒वैतदुन्नं॑भय पृथि॒वीमिति॑ वर्‌षा॒ह्वाञ्जु॑होत्ये॒षा वा ओष॑धीनाव्ँवृष्टि॒वनि॒स्तयै॒व वृष्टि॒मा च्या॑वयति॒ ये दे॒वा दि॒विभा॑गा॒ इति॑ कृष्णाजि॒नमव॑ धूनोती॒म ए॒वास्मै॑ लो॒काः प्री॒ता अ॒भीष्टा॑ भवन्ति⁠ [२९] (अ॒स्मै॒ धा॒व॒ति॒ ता वा एक॑विꣳशतिश्च) ॥१०॥
सर्वा॑णि॒ छन्दा॑ꣴस्ये॒तस्या॒मिष्ट्या॑म॒नूच्या॒नीत्या॑हुस्त्रि॒ष्टुभो॒ वा ए॒तद्वी॒र्य॑य्ँयत् क॒कुदु॒ष्णिहा॒ जग॑त्यै॒ यदु॑ष्णिहक॒कुभा॑व॒न्वाह॒ तेनै॒व सर्वा॑णि॒ छन्दा॒ꣴ॒स्यव॑ रुन्धे गाय॒त्री वा ए॒षा यदु॒ष्णिहा॒ यानि॑ च॒त्वार्यद्ध्य॒ख्‍षरा॑णि॒ चतु॑ष्पाद ए॒व ते प॒शवो॒ यथा॑ पुरो॒डाशे॑ पुरो॒डाशोऽद्ध्ये॒वमे॒व तद्यदृ॒च्यद्ध्य॒ख्‍षरा॑णि॒ यज्जग॑त्या [३०] परिद॒द्ध्यादन्त॑य्ँय॒ज्ञङ्ग॑मयेत् त्रि॒ष्टुभा॒ परि॑ दधातीन्द्रि॒यव्ँवै वी॒र्य॑न्त्रि॒ष्टुगि॑न्द्रि॒य ए॒व वी॒र्ये॑ य॒ज्ञम्प्रति॑ ष्ठापयति॒ नान्त॑ङ्गमय॒त्यग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्थेति॒ त्रिव॑त्या॒ परि॑ दधाति सरूप॒त्वाय॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीय॒ङ्कामा॑यकामाय॒ प्र यु॑ज्यते॒ सर्वे᳚भ्यो॒ हि कामे᳚भ्यो य॒ज्ञः प्र॑यु॒ज्यते᳚ त्रैधात॒वीये॑न यजेताभि॒चर॒न्थ् सर्वो॒ वा [३१] ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीय॒ꣳ॒ सर्वे॑णै॒वैन॑य्ँय॒ज्ञेना॒भि च॑रति स्तृणु॒त ए॒वैन॑मे॒तयै॒व य॑जेताभिच॒र्यमा॑णः॒ सर्वो॒ वा ए॒ष य॒ज्ञो यत् त्रै॑धात॒वीय॒ꣳ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ नैन॑मभि॒चर᳚न्थ् स्तृणुत ए॒तयै॒व य॑जेत स॒हस्रे॑ण य॒ख्‍ष्यमा॑णः॒ प्रजा॑तमे॒वैन॑द् ददात्ये॒तयै॒व य॑जेत स॒हस्रे॑णेजा॒नोऽन्त॒व्ँवा ए॒ष प॑शू॒नाङ्ग॑च्छति॒ [३२] यः स॒हस्रे॑ण॒ यज॑ते प्र॒जाप॑तिः॒ खलु॒ वै प॒शून॑सृजत॒ ताꣴस्त्रै॑धात॒वीये॑नै॒वासृ॑जत॒ य ए॒वव्ँवि॒द्वाꣴस्त्रै॑धात॒वीये॑न प॒शुका॑मो॒ यज॑ते॒ यस्मा॑दे॒व योनेः᳚ प्र॒जाप॑तिः प॒शूनसृ॑जत॒ तस्मा॑दे॒वैना᳚न्थ् सृजत॒ उपै॑न॒मुत्त॑रꣳ स॒हस्र॑न्नमति दे॒वता᳚भ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो य॒ख्‍ष्य इत्यु॒क्त्वा न यज॑ते त्रैधात॒वीये॑न यजेत॒ सर्वो॒ वा ए॒ष य॒ज्ञो [३३] यत् त्रै॑धात॒वीय॒ꣳ॒ सर्वे॑णै॒व य॒ज्ञेन॑ यजते॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ द्वाद॑शकपालः पुरो॒डाशो॑ भवति॒ ते त्रय॒श्चतु॑ष्कपालास्त्रिष्षमृद्ध॒त्वाय॒ त्रयः॑ पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षाल्ँलो॒काना॒माप्त्या॒ उत्त॑रौत्तरो॒ ज्याया᳚न् भवत्ये॒वमि॑व॒ हीमे लो॒का य॑व॒मयो॒ मद्ध्य॑ ए॒तद्वा अ॒न्तरि॑ख्‍षस्य रू॒पꣳ समृ॑द्ध्यै॒ सर्वे॑षामभिग॒मय॒न्नव॑ द्य॒त्यछं॑बट्कार॒ꣳ॒ हिर॑ण्यन्ददाति॒ तेज॑ ए॒वा [३४] ऽव॑ रुन्धे ता॒र्प्यन्द॑दाति प॒शूने॒वाव॑ रुन्धे धे॒नुन्द॑दात्या॒शिष॑ ए॒वाव॑ रुन्धे॒ साम्नो॒ वा ए॒ष वर्णो॒ यद्धिर॑ण्य॒य्ँयजु॑षान्ता॒र्प्यमु॑क्थाम॒दाना᳚न्धे॒नुरे॒ताने॒व सर्वा॒न्॒‌वर्णा॒नव॑ रुन्धे⁠ [३५] (जग॑त्या ऽभि॒चर॒न्थ् सर्वो॒ वै ग॑च्छति य॒ज्ञ स्तेज॑ ए॒व त्रि॒ꣳ॒शच्च॑) ॥११॥
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्र॒ꣳ॒ सोम॒माऽह॑र॒त् तस्मि॒न्निन्द्र॑ उपह॒वमै᳚च्छत॒ तन्नोपा᳚ह्वयत पु॒त्रम्मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त् तस्य॒ यद॒त्यशि॑ष्यत॒ तत् त्वष्टा॑ऽऽहव॒नीय॒मुप॒ प्राव॑र्तय॒थ् स्वाहेन्द्र॑शत्रुर्वर्द्ध॒स्वेति॒ स याव॑दू॒र्द्ध्वः प॑रा॒विद्ध्य॑ति॒ ताव॑ति स्व॒यमे॒व व्य॑रमत॒ यदि॑ वा॒ ताव॑त् प्रव॒ण [३६] मासी॒द्यदि॑ वा॒ ताव॒दद्ध्य॒ग्नेरासी॒थ् स सं॒भव॑न्न॒ ग्नीषोमा॑व॒भि सम॑भव॒थ् स इ॑षुमा॒त्रमि॑षुमात्र॒व्ँविष्व॑ङ्ङवर्द्धत॒ स इ॒माल्ँलो॒कान॑वृणो॒द्यदि॒माल्ँलो॒कानवृ॑णो॒त् तद्वृ॒त्रस्य॑ वृत्र॒त्वन्तस्मा॒दिन्द्रो॑ऽबिभे॒दपि॒ त्वष्टा॒ तस्मै॒ त्वष्टा॒ वज्र॑मसिञ्च॒त् तपो॒ वै स वज्र॑ आसी॒त् तमुद्य॑न्तु॒न्नाश॑क्नो॒दथ॒ वै तर्‌हि॒ विष्णु॑ [३७] र॒न्या दे॒वता॑ऽऽसी॒थ् सो᳚ऽब्रवी॒द्विष्ण॒वेही॒दमा ह॑रिष्यावो॒ येना॒यमि॒दमिति॒ स विष्णु॑स्त्रे॒धाऽऽत्मान॒व्ँवि न्य॑धत्त पृथि॒व्यान्तृती॑यम॒न्तरि॑ख्‍षे॒ तृती॑यन्दि॒वि तृती॑यमभिपर्याव॒र्ताद्ध्यबि॑भे॒द्यत्पृ॑थि॒व्यान्तृती॑य॒मासी॒त् तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं [३८] मयि॑ वी॒र्य॑न्तत् ते॒ प्र दा᳚स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त् तत् प्रत्य॑गृह्णा॒दधा॒ मेति॒ तद्विष्ण॒वेऽति॒ प्राय॑च्छ॒त् तद् विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति॒ यद॒न्तरि॑ख्‍षे॒ तृती॑य॒मासी॒त् तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द्विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒रस्ति॒ वा इ॒दं [३९] मयि॑ वी॒र्य॑न्तत् ते॒ प्र दा᳚स्या॒मीति॒ तद॑स्मै॒ प्राय॑च्छ॒त् तत् प्रत्य॑गृह्णा॒द् द्विर् मा॑ऽधा॒ इति॒ तद्विष्ण॒वेऽति॒ प्राय॑च्छ॒त् तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति॒ यद्दि॒वि तृती॑य॒मासी॒त् तेनेन्द्रो॒ वज्र॒मुद॑यच्छ॒द् विष्ण्व॑नुस्थितः॒ सो᳚ऽब्रवी॒न्मा मे॒ प्र हा॒र् येना॒ह [४०] मि॒दमस्मि॒ तत् ते॒ प्र दा᳚स्या॒मीति॒ त्वी(३) इत्य॑ब्रवीथ् स॒न्धान्तु सन्द॑धावहै॒ ॒ त्वामे॒व प्रवि॑शा॒नीति॒ यन्माम्प्र॑वि॒शेः किम्मा॑ भुञ्ज्या॒ इत्य॑ब्रवी॒त् त्वामे॒वेन्धी॑य॒ तव॒ भोगा॑य॒ त्वाम्प्रवि॑शेय॒मित्य॑ब्रवी॒त् तव्ँवृ॒त्रः प्रावि॑शदु॒दर॒व्ँवै वृ॒त्रः ख्‍षुत् खलु॒ वै म॑नु॒ष्य॑स्य॒ भ्रातृ॑व्यो॒ य [४१] ए॒वव्ँवेद॒ हन्ति॒ ख्‍षुध॒म्भ्रातृ॑व्य॒न्तद॑स्मै॒ प्राय॑च्छ॒त् तत् प्रत्य॑गृह्णा॒त्त्रिर् मा॑ऽधा॒ इति॒ तद्विष्ण॒वेऽति॒ प्राय॑च्छ॒त् तद्विष्णुः॒ प्रत्य॑गृह्णाद॒स्मास्विन्द्र॑ इन्द्रि॒यन्द॑धा॒त्विति॒ यत्त्रिः प्राय॑च्छ॒त् त्रिः प्र॒त्यगृ॑ह्णा॒त् तत् त्रि॒धातो᳚स्त्रिधातु॒त्वय्ँयद्विष्णु॑र॒न्वति॑ष्ठत॒ विष्ण॒वेऽति॒ प्राय॑च्छ॒त् तस्मा॑दैन्द्रावैष्ण॒वꣳ ह॒विर्भ॑वति॒ यद्वा इ॒दङ्किञ्च॒ तद॑स्मै॒ तत् प्राय॑च्छ॒द् ऋचः॒ सामा॑नि॒ यजू॑ꣳषि स॒हस्र॒व्ँवा अ॑स्मै॒ तत् प्राय॑च्छ॒त् तस्मा᳚थ् स॒हस्र॑दख्‍षिणम्⁠ [४२] (प्र॒व॒णं विष्णु॒र् वा इ॒द मि॒द म॒ह॒य्ँयो भ॑व॒ त्येक॑विꣳशतिश्च) ॥१२॥
दे॒वा वै रा॑ज॒न्या᳚ज्जाय॑मानादबिभयु॒स्तम॒न्तरे॒व सन्त॒न्दाम्नाऽपौं᳚भ॒न्थ् स वा ए॒षोऽपो᳚ब्धो जायते॒ यद्रा॑ज॒न्यो॑ यद्वा ए॒षोऽन॑पोब्धो॒ जाये॑त वृ॒त्रान् घ्नꣴश्च॑रे॒द्यङ्का॒मये॑त राज॒न्य॑मन॑पोब्धो जायेत वृ॒त्रान् घ्नꣴश्च॑रे॒दिति॒ तस्मा॑ ए॒तमै᳚न्द्राबार्‌हस्प॒त्यञ्च॒रुन्निर्व॑पेदै॒न्द्रो वै रा॑ज॒न्यो᳚ ब्रह्म॒ बृह॒स्पति॒र् ब्रह्म॑णै॒वैन॒न्दाम्नो॒ऽपोंभ॑नान् मुञ्चति हिर॒ण्मय॒न्दाम॒ दख्‍षि॑णा सा॒ख्‍षादे॒वैन॒न्दाम्नो॒ऽपोंभ॑नान् मुञ्चति⁠ [४३] (ए॒नं॒ द्वाद॑श च) ॥१३॥
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्ना᳚ङ्के॒तुरु॒षसा॑मे॒त्यग्रे᳚⁠। भा॒गन्दे॒वेभ्यो॒ वि द॑धात्या॒यन् प्र च॒न्द्रमा᳚स्तिरति दी॒र्घमायुः॑⁠॥ यमा॑दि॒त्या अ॒ꣳ॒शुमा᳚प्या॒यय॑न्ति॒ यमख्‍षि॑त॒मख्‍षि॑तयः॒ पिब॑न्ति⁠। तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒रा प्या॑ययन्तु॒ भुव॑नस्य गो॒पाः⁠॥ प्राच्या᳚न्दि॒शि त्वमि॑न्द्रासि॒ राजो॒तोदी᳚च्याव्ँवृत्रहन् वृत्र॒हाऽसि॑⁠। यत्र॒ यन्ति॑ स्रो॒त्यास्त [४४] ज्जि॒तन्ते॑ दख्‍षिण॒तो वृ॑ष॒भ ए॑धि॒ हव्यः॑⁠॥ इन्द्रो॑ जयाति॒ न परा॑ जयाता अधिरा॒जो राज॑सु राजयाति⁠। विश्वा॒ हि भू॒याः पृत॑ना अभि॒ष्टीरु॑प॒सद्यो॑ नम॒स्यो॑ यथाऽस॑त्⁠॥ अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वन्दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑ख्‍षात्⁠। स्व॒राडिन्द्रो॒ दम॒ आ वि॒श्वगू᳚र्तः स्व॒रिरम॑त्रो ववख्‍षे॒ रणा॑य⁠॥ अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑⁠। ईशा॑न [४५] म॒स्य जग॑तः सुव॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑⁠॥ त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑⁠। त्वाव्ँवृ॒त्रेष्वि॑न्द्र॒ सत्प॑ति॒न्नर॒स्त्वाङ्काष्ठा॒स्वर्व॑तः⁠॥ यद् द्याव॑ इन्द्र ते श॒तꣳ श॒तम्भूमी॑रु॒त स्युः⁠। न त्वा॑ वज्रिन्थ् स॒हस्र॒ꣳ॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी⁠॥ पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यन्ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑⁠ [४६] सो॒तुर् बा॒हुभ्या॒ꣳ॒ सुय॑तो॒ नार्वा᳚⁠॥ रे॒वती᳚र् नः सध॒माद॒ इन्द्रे॑ सन्तु तु॒विवा॑जाः⁠। ख्‍षु॒मन्तो॒ याभि॒र् मदे॑म⁠॥ उद॑ग्ने॒ शुच॑य॒स्तव॒>१, वि ज्योति॒षो>२,दु॒ त्यञ्जा॒तवे॑दसꣳ>३, स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य⁠। शो॒चिष्के॑शव्ँविचख्‍षण⁠॥ चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑क॒ञ्चख्‍षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ऽग्नेः⁠। आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑ख्‍ष॒ꣳ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑ [४७] श्च⁠॥ विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्‌हवन॒श्रुतः॑⁠। जु॒षन्ता॒य्ँयुज्य॒म्पयः॑⁠॥ विश्वे॑ देवाः शृणु॒तेमꣳ हव॑म्मे॒ ये अ॒न्तरि॑ख्‍षे॒ य उप॒ द्यवि॒ ष्ठ⁠। ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन् ब॒र्॒‌हिषि॑ मादयद्ध्वम्⁠ [४८] (त दीशा॑न॒ मद्रि॑ स्त॒स्थुष॑ स्त्रि॒ꣳ॒शच्च॑) ॥१४॥
(दे॒वा म॑नु॒ष्या॑ देवासु॒रा अ॑ब्रुवन् देवासु॒रास्तेषा᳚ङ्गाय॒त्री प्र॒जाप॑ति॒स्ता यत्रा ग्ने॒ गोभिः॑ चि॒त्रया॑ मारु॒तं देवा॑ वसव्या॒ अग्ने॑ मारु॒तमिति॒ देवा॑ वसव्या॒ देवाः᳚ शर्मण्याः॒ सर्वा॑णि॒ त्वष्टा॑ ह॒तपु॑त्रो दे॒वा वै रा॑ज॒न्या᳚न् नवो॑नव॒ श्चतु॑र्दश)
(दे॒वा म॑नु॒ष्याः᳚ प्र॒जाम्प॒शून् देवा॑ वसव्याः परिद॒द्ध्यादि॒द मस्म्य॒ ष्टा च॑त्वारिꣳशत्)
(दे॒वा म॑नु॒ष्या॑ मादयद्ध्वं)
अनुवाकाः पञ्चशती
१४ ४८