कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
द्वितीयकाण्डे पञ्चमः प्रश्नः

कांड २ प्रश्न ५
इष्टिविधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
वि॒श्वरू॑पो॒ वै त्वा॒ष्ट्रः पु॒रोहि॑तो दे॒वाना॑मासीथ् स्व॒स्रीयोऽसु॑राणा॒न्तस्य॒ त्रीणि॑ शी॒र्॒‌षाण्या॑सन्थ् सोम॒पान॑ꣳ सुरा॒पान॑म॒न्नाद॑न॒ꣳ॒ स प्र॒त्यख्‍ष॑न्दे॒वेभ्यो॑ भा॒गम॑वदत् प॒रोख्‍ष॒मसु॑रेभ्यः॒ सर्व॑स्मै॒ वै प्र॒त्यख्‍ष॑म्भा॒गव्ँव॑दन्ति॒ यस्मा॑ ए॒व प॒रोख्‍ष॒व्ँवद॑न्ति॒ तस्य॑ भा॒ग उ॑दि॒तस्तस्मा॒दिन्द्रो॑ऽबिभेदी॒दृङ्‌वै रा॒ष्ट्रव्ँवि प॒र्याव॑र्तय॒तीति॒ तस्य॒ वज्र॑मा॒दाय॑ शी॒र्॒‌षाण्य॑च्छिन॒द्यथ् सो॑म॒पान॒ [१] मासी॒थ् स क॒पिञ्ज॑लोऽभव॒त् यथ् सु॑रा॒पान॒ꣳ॒ स क॑ल॒विङ्को॒ यद॒न्नाद॑न॒ꣳ॒ स ति॑त्ति॒रिस्तस्या᳚ञ्ज॒लिना᳚ ब्रह्मह॒त्यामुपा॑गृह्णा॒त् ताꣳ स॑व्ँवथ्स॒रम॑बिभ॒स्तम्भू॒तान्य॒भ्य॑क्रोश॒न् ब्रह्म॑ह॒न्निति॒ स पृ॑थि॒वीमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृहा॒णेति॒ साऽब्र॑वी॒द्वर॑व्ँवृणै खा॒तात् प॑राभवि॒ष्यन्ती॑ मन्ये॒ ततो॒ मा परा॑ भूव॒मिति॑ पु॒रा ते॑ [२] सव्ँवथ्स॒रादपि॑ रोहा॒दित्य॑ब्रवी॒त् तस्मा᳚त् पु॒रा स॑व्ँवथ्स॒रात् पृ॑थि॒व्यै खा॒तमपि॑ रोहति॒ वारे॑वृत॒ꣴ॒ ह्य॑स्यै॒ तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्णा॒त् तथ् स्वकृ॑त॒मिरि॑णमभव॒त् तस्मा॒दाहि॑ताग्निः श्र॒द्धादे॑वः॒ स्वकृ॑त॒ इरि॑णे॒ नाव॑ स्येद्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णः॒ स वन॒स्पती॒नुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॒ ते᳚ऽब्रुव॒न् वर॑व्ँवृणामहै वृ॒क्णात् [३] प॑राभवि॒ष्यन्तो॑ मन्यामहे॒ ततो॒ मा परा॑ भू॒मेत्या॒व्रश्च॑नाद् वो॒ भूया॑ꣳस॒ उत्ति॑ष्ठा॒नित्य॑ब्रवी॒त् तस्मा॑दा॒व्रश्च॑नाद्वृ॒ख्‍षाणा॒म्भूया॑ꣳस॒ उत्ति॑ष्ठन्ति॒ वारे॑वृत॒ꣴ॒ ह्ये॑षा॒न्तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्थ् स नि॑र्या॒सो॑ऽभव॒त् तस्मा᳚न्निर्या॒सस्य॒ नाऽऽश्य॑म्ब्रह्मह॒त्यायै॒ ह्ये॑ष वर्णोऽथो॒ खलु॒ य ए॒व लोहि॑तो॒ यो वा॒ऽऽव्रश्च॑नान्नि॒र्येष॑ति॒ तस्य॒ नाऽऽश्यं॑ [४] काम॑म॒न्यस्य॒ स स्त्री॑षꣳसा॒दमुपा॑सीदद॒स्यै ब्र॑ह्मह॒त्यायै॒ तृती॑य॒म्प्रति॑ गृह्णी॒तेति॒ ता अ॑ब्रुव॒न् वर॑व्ँवृणामहा॒ ऋत्वि॑यात् प्र॒जाव्ँवि॑न्दामहै॒ काम॒मा विज॑नितोः॒ सम्भ॑वा॒मेति॒ तस्मा॒दृत्वि॑या॒थ् स्त्रियः॑ प्र॒जाव्ँवि॑न्दन्ते॒ काम॒मा विज॑नितोः॒ सम्भ॑वन्ति॒ वारे॑वृत॒ꣴ॒ ह्या॑सा॒न्तृती॑यम्ब्रह्मह॒त्यायै॒ प्रत्य॑गृह्ण॒न्थ् सा मल॑वद्वासा अभव॒त् तस्मा॒न् मल॑वद्वाससा॒ न सव्ँव॑देत॒ [५] न स॒हाऽऽसी॑त॒ नास्या॒ अन्न॑मद्याद्ब्रह्मह॒त्यायै॒ ह्ये॑षा वर्ण॑म्प्रति॒मुच्याऽऽस्तेऽथो॒ खल्वा॑हुर॒भ्यञ्ज॑न॒व्ँवाव स्त्रि॒या अन्न॑म॒भ्यञ्ज॑नमे॒व न प्र॑ति॒गृह्य॒ङ्काम॑म॒न्यदिति॒ याम्मल॑वद्वाससꣳ सं॒भव॑न्ति॒ यस्ततो॒ जाय॑ते॒ सो॑ऽभिश॒स्तो यामर॑ण्ये॒ तस्यै᳚ स्ते॒नो याम्परा॑ची॒न्तस्यै᳚ ह्रीतमु॒ख्य॑पग॒ल्भो या स्नाति॒ तस्या॑ अ॒फ्सु मारु॑को॒ या [६] ऽभ्य॒ङ्क्ते तस्यै॑ दु॒श्चर्मा॒ या प्र॑लि॒खते॒ तस्यै॑ खल॒तिर॑पमा॒री याऽऽङ्क्ते तस्यै॑ का॒णो या द॒तो धाव॑ते॒ तस्यै᳚ श्या॒वद॒न्॒‌या न॒खानि॑ निकृ॒न्तते॒ तस्यै॑ कुन॒खी या कृ॒णत्ति॒ तस्यै᳚ क्ली॒बो या रज्जु॑ꣳ सृ॒जति॒ तस्या॑ उ॒द्बन्धु॑को॒ या प॒र्णेन॒ पिब॑ति॒ तस्या॑ उ॒न्मादु॑को॒ या ख॒र्वेण॒ पिब॑ति॒ तस्यै॑ ख॒र्वस्ति॒स्रो रात्री᳚र् व्र॒तञ्च॑रेदञ्ज॒लिना॑ वा॒ पिबे॒दख॑र्वेण वा॒ पात्रे॑ण प्र॒जायै॑ गोपी॒थाय॑⁠ [७] (यथ् सो॑म॒पानं॑ ते वृ॒क्णात् तस्य॒ नाश्यं॑ वदेत॒ मारु॑को॒ या ऽख॑र्वेण वा॒ त्रीणि॑ च) ॥१॥
त्वष्टा॑ ह॒तपु॑त्रो॒ वीन्द्र॒ꣳ॒ सोम॒माऽह॑र॒त् तस्मि॒न्निन्द्र॑ उपह॒वमै᳚च्छत॒ तन्नोपा᳚ह्वयत पु॒त्रम्मे॑ऽवधी॒रिति॒ स य॑ज्ञवेश॒सङ्कृ॒त्वा प्रा॒सहा॒ सोम॑मपिब॒त् तस्य॒ यद॒त्यशि॑ष्यत॒ तत् त्वष्टा॑ऽऽहव॒नीय॒मुप॒ प्राव॑र्तय॒थ् स्वाहेन्द्र॑शत्रुर् वर्द्ध॒स्वेति॒ यदव॑र्तय॒त् तद्वृ॒त्रस्य॑ वृत्र॒त्वय्ँयदब्र॑वी॒थ् स्वाहेन्द्र॑शत्रु वर्द्ध॒स्वेति॒ तस्मा॑द॒स्ये [८] न्द्रः॒ शत्रु॑रभव॒थ् स सं॒भव॑न्न॒ग्नीषोमा॑व॒भि सम॑भव॒थ् स इ॑षुमा॒त्रमि॑षुमात्र॒व्ँविष्व॑ङ्ङवर्द्धत॒ स इ॒माल्ँलो॒कान॑वृणो॒द्यदि॒माल्ँलो॒कानवृ॑णो॒त् तद् वृ॒त्रस्य॑ वृत्र॒त्वन्तस्मा॒दिन्द्रो॑ऽबिभे॒थ् स प्र॒जाप॑ति॒मुपा॑धाव॒ च्छत्रु॑र् मेऽ ज॒नीति॒ तस्मै॒ वज्र॑ꣳ सि॒क्त्वा प्राय॑च्छदे॒तेन॑ ज॒हीति॒ तेना॒भ्या॑यत॒ ताव॑ब्रूताम॒ग्नीषोमौ॒ मा [९] प्र हा॑रा॒वम॒न्तः स्व॒ इति॒ मम॒ वै यु॒वꣴ स्थ॒ इत्य॑ब्रवी॒न् माम॒भ्येत॒मिति॒ तौ भा॑ग॒धेय॑मैच्छेता॒न्ताभ्या॑मे॒तम॑ग्नीषो॒मीय॒मेका॑दशकपालम्पू॒र्णमा॑से॒ प्राय॑च्छ॒त् ताव॑ब्रूताम॒भि सन्द॑ष्टौ॒ वै स्वो॒ न श॑क्नुव॒ ऐतु॒मिति॒ स इन्द्र॑ आ॒त्मनः॑ शीतरू॒राव॑जनय॒त् तच्छी॑तरू॒रयो॒र् जन्म॒ य ए॒वꣳ शी॑तरू॒रयो॒र्जन्म॒ वेद॒ [१०] नैन॑ꣳ शीतरू॒रौ ह॑त॒स्ताभ्या॑मेनम॒भ्य॑नय॒त् तस्मा᳚ज्जञ्ज॒भ्यमा॑नाद॒ग्नीषोमौ॒ निर॑क्रामताम्प्राणापा॒नौ वा ए॑न॒न्तद॑जहिताम्प्रा॒णो वै दख्‍षो॑ऽपा॒नः क्रतु॒स्तस्मा᳚ज्जञ्ज॒भ्यमा॑नो ब्रूया॒न्मयि॑ दख्‍षक्र॒तू इति॑ प्राणापा॒नावे॒वाऽऽत्मन् ध॑त्ते॒ सर्व॒मायु॑रेति॒ स दे॒वता॑ वृ॒त्रान्नि॒र्॒‌हूय॒ वार्त्र॑घ्नꣳ ह॒विः पू॒र्णमा॑से॒ निर॑वप॒द् घ्नन्ति॒ वा ए॑नम्पू॒र्णमा॑स॒ आ [११] ऽमा॑वा॒स्या॑याम्प्याययन्ति॒ तस्मा॒द्वार्त्र॑घ्नी पू॒र्णमा॒सेऽनू᳚च्येते॒ वृध॑न्वती अमावा॒स्या॑या॒न्तथ् स॒ꣴ॒स्थाप्य॒ वार्त्र॑घ्नꣳ ह॒विर् वज्र॑मा॒दाय॒ पुन॑र॒भ्या॑यत॒ ते अ॑ब्रूता॒न्द्यावा॑पृथि॒वी मा प्र हा॑रा॒वयो॒र् वै श्रि॒त इति॒ ते अ॑ब्रूता॒व्ँवर॑व्ँवृणावहै॒ नख्‍ष॑त्रविहिता॒ऽहमसा॒नीत्य॒साव॑ब्रवी च्चि॒त्रवि॑हिता॒ऽहमिती॒यन्तस्मा॒न्नख्‍ष॑त्रविहिता॒ऽसौ चि॒त्रवि॑हिते॒ऽयय्ँय ए॒वन्द्यावा॑पृथि॒व्योर् [१२] वर॒व्ँवेदैन॒व्ँवरो॑ गच्छति॒ स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न् ते दे॒वा वृ॒त्रꣳ ह॒त्वाऽग्नीषोमा॑वब्रुवन् ह॒व्यन्नो॑ वहत॒मिति॒ ताव॑ब्रूता॒मप॑ तेजसौ॒ वै त्यौ वृ॒त्रे वै त्ययो॒स्तेज॒ इति॒ ते᳚ऽब्रुव॒न् क इ॒दमच्छै॒तीति॒ गौरित्य॑ब्रुव॒न् गौर् वाव सर्व॑स्य मि॒त्रमिति॒ साऽब्र॑वी॒ [१३] द्वर॑व्ँवृणै॒ मय्ये॒व स॒तोऽभये॑न भुनजाद्ध्वा॒ इति॒ तद्गौराऽह॑र॒त् तस्मा॒द्गवि॑ स॒तोभये॑न भुञ्जत ए॒तद्वा अ॒ग्नेस्तेजो॒ यद् घृ॒तमे॒तथ् सोम॑स्य॒ यत् पयो॒ य ए॒वम॒ग्नीषोम॑यो॒ स्तेजो॒ वेद॑ तेज॒स्व्ये॑व भ॑वति ब्रह्मवा॒दिनो॑ वदन्ति किन्देव॒त्य॑म्पौर्णमा॒समिति॑ प्राजाप॒त्यमिति॑ ब्रूया॒त् तेनेन्द्र॑ञ्ज्ये॒ष्ठम्पु॒त्रन्नि॒रवा॑सायय॒दिति॒ तस्मा᳚ ज्ज्ये॒ष्ठम्पु॒त्रन्धने॑न नि॒रव॑साययन्ति⁠ [१४] (अ॒स्य॒ मा वेदा द्यावा॑पृथि॒व्यो र॑ब्रवी॒ दिति॒ तस्मा᳚ च्च॒त्वारि॑ च) ॥२॥
इन्द्र॑व्ँवृ॒त्रञ्ज॑घ्नि॒वाꣳस॒म्मृधो॒ऽभि प्रावे॑पन्त॒ स ए॒तव्ँवै॑मृ॒धम्पू॒र्णमा॑सेऽनुनिर्वा॒प्य॑मपश्य॒त् तन्निर॑वप॒त् तेन॒ वै स मृधोऽपा॑हत॒ यद्वै॑मृ॒धः पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भव॑ति॒ मृध॑ ए॒व तेन॒ यज॑मा॒नोऽप॑ हत॒ इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा दे॒वता॑भिश्चेन्द्रि॒येण॑ च॒ व्या᳚र्द्ध्यत॒ स ए॒तमा᳚ग्ने॒य म॒ष्टाक॑पालममावा॒स्या॑यामपश्यदै॒न्द्रन्दधि॒ [१५] तन्निर॑वप॒त् तेन॒ वै स दे॒वता᳚श्चेन्द्रि॒यञ्चावा॑रुन्ध॒ यदा᳚ग्ने॒यो᳚ऽष्टाक॑पालोऽमावा॒स्या॑या॒म्भव॑त्यै॒न्द्रन्दधि॑ दे॒वता᳚श्चै॒व तेने᳚न्द्रि॒यञ्च॒ यज॑मा॒नोऽव॑ रुन्ध॒ इन्द्र॑स्य वृ॒त्रञ्ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य॑म्पृथि॒वीमनु॒ व्या᳚र्च्छ॒त् तदोष॑धयो वी॒रुधो॑ऽभव॒न्थ् स प्र॒जाप॑ति॒ मुपा॑धावद्वृ॒त्रम्मे॑ ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्यं॑ [१६] पृथि॒वीमनु॒ व्या॑र॒त् तदोष॑धयो वी॒रुधो॑ऽभूव॒न्निति॒ स प्र॒जाप॑तिः प॒शून॑ब्रवीदे॒तद॑स्मै॒ सन्न॑य॒तेति॒ तत् प॒शव॒ ओष॑धी॒भ्योऽद्ध्या॒त्मन्थ् सम॑नय॒न् तत् प्रत्य॑दुह॒न्॒‌यथ् स॒मन॑य॒न् तथ् सां᳚ना॒य्यस्य॑ सांनाय्य॒त्वय्ँयत् प्र॒त्यदु॑ह॒न् तत् प्र॑ति॒धुषः॑ प्रतिधु॒क्त्वꣳ सम॑नैषुः॒ प्रत्य॑धुख्‍ष॒न् न तु मयि॑ श्रयत॒ इत्य॑ब्रवीदे॒तद॑स्मै [१७] शृ॒तङ्कु॑रु॒तेत्य॑ब्रवी॒त् तद॑स्मै शृ॒तम॑कुर्वन्निन्द्रि॒यव्ँवावास्मि॑न् वी॒र्य॑न्तद॑श्रय॒न् तच्छृ॒तस्य॑ शृत॒त्वꣳ सम॑नैषुः॒ प्रत्य॑धुख्‍षञ्छृ॒तम॑क्र॒न् न तु मा॑ धिनो॒तीत्य॑ब्रवीदे॒तद॑स्मै॒ दधि॑ कुरु॒तेत्य॑ब्रवी॒त् तद॑स्मै॒ दद्ध्य॑कुर्व॒न् तदे॑नमधिनो॒त् तद्द॒द्ध्नो द॑धि॒त्वम्ब्र॑ह्मवा॒दिनो॑ वदन्ति द॒द्ध्नः पूर्व॑स्याव॒देयं॒ [१८] दधि॒ हि पूर्व॑ङ्क्रि॒यत॒ इत्यना॑दृत्य॒ तच्छृ॒तस्यै॒व पूर्व॒स्याव॑ द्येदिन्द्रि॒यमे॒वास्मि॑न् वी॒र्य॑ꣴ श्रि॒त्वा द॒द्ध्नोपरि॑ष्टाद् धिनोति यथापू॒र्वमुपै॑ति॒ यत् पू॒तीकै᳚र् वा पर्णव॒ल्कैर् वा॑ऽऽत॒ञ्च्याथ् सौ॒म्यन्तद्यत् क्व॑लै राख्‍ष॒सन्तद्यत् त॑ण्डु॒लैर् वै᳚श्वदे॒वन्तद्यदा॒तञ्च॑नेन मानु॒षन्तद्यद्द॒द्ध्ना तथ् सेन्द्रं॑ द॒द्ध्नाऽऽत॑नक्ति [१९] सेन्द्र॒त्वाया᳚ग्निहोत्रोच्छेष॒णम॒भ्यात॑नक्ति य॒ज्ञस्य॒ सन्त॑त्या॒ इन्द्रो॑ वृ॒त्रꣳ ह॒त्वा परां᳚ परा॒वत॑मगच्छ॒दपा॑राध॒मिति॒ मन्य॑मान॒स्तन्दे॒वताः॒ प्रैष॑मैच्छ॒न्थ् सो᳚ऽब्रवीत् प्र॒जाप॑ति॒र्यः प्र॑थ॒मो॑ऽनुवि॒न्दति॒ तस्य॑ प्रथ॒मम्भा॑ग॒धेय॒मिति॒ तम्पि॒तरोऽन्व॑विन्द॒न् तस्मा᳚त् पि॒तृभ्यः॑ पूरेव॒द्युः क्रि॑यते॒ सो॑ऽमावा॒स्या᳚म्प्रत्याऽ*ग॑च्छ॒त् तन्दे॒वा अ॒भि सम॑गच्छन्ता॒मा वै नो॒ [२०] ऽद्य वसु॑ वस॒तीतीन्द्रो॒ हि दे॒वाना॒व्ँवसु॒ तद॑मावा॒स्या॑या अमावास्य॒त्वम्ब्र॑ह्मवा॒दिनो॑ वदन्ति किंदेव॒त्य॑ꣳ सांना॒य्यमिति॑ वैश्वदे॒वमिति॑ ब्रूया॒द्विश्वे॒ हि तद्दे॒वा भा॑ग॒धेय॑म॒भि स॒मग॑च्छ॒न्तेत्यथो॒ खल्वै॒न्द्रमित्ये॒व ब्रू॑या॒दिन्द्र॒व्ँवाव ते तद्भि॑ष॒ज्यन्तो॒ऽभि सम॑गच्छ॒न्तेति॑⁠ [२१] (दधि॑ मे ज॒घ्नुष॑ इन्द्रि॒यव्ँवी॒र्य॑ मित्य॑ब्रवीदे॒तद॑स्मा अव॒देयं॑ तनक्ति नो॒ द्विच॑त्वारिꣳशच्च) ॥३॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै द॑र्‌शपूर्णमा॒सौ य॑जेत॒ य ए॑नौ॒ सेन्द्रौ॒ यजे॒तेति॑ वैमृ॒धः पू॒र्णमा॑सेऽनुनिर्वा॒प्यो॑ भवति॒ तेन॑ पू॒र्णमा॑सः॒ सेन्द्र॑ ऐ॒न्द्रन्दद्ध्य॑मावा॒स्या॑या॒न्तेना॑मावा॒स्या॑ सेन्द्रा॒ य ए॒वव्ँवि॒द्वान् द॑र्‌शपूर्णमा॒सौ यज॑ते॒ सेन्द्रा॑वे॒वैनौ॑ यजते॒ श्वःश्वो᳚ऽस्मा ईजा॒नाय॒ वसी॑यो भवति दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒ता [२२] मिष्टि॑मपश्यन्नाग्नावैष्ण॒वमेका॑दशकपाल॒ꣳ॒ सर॑स्वत्यै च॒रुꣳ सर॑स्वते च॒रुन्ताम्पौ᳚र्णमा॒सꣳ स॒ꣴ॒स्थाप्यानु॒ निर॑वप॒न् ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स पौ᳚र्णमा॒सꣳ स॒ꣴ॒स्थाप्यै॒तामिष्टि॒मनु॒ निर्व॑पेत् पौर्णमा॒सेनै॒व वज्र॒म्भ्रातृ॑व्याय प्र॒हृत्या᳚ऽऽग्नावैष्ण॒वेन॑ दे॒वता᳚श्च य॒ज्ञञ्च॒ भ्रातृ॑व्यस्य वृङ्क्ते मिथु॒नान् प॒शून्थ् सा॑रस्व॒ताभ्या॒य्ँयाव॑दे॒वास्यास्ति॒ तथ् [२३] सर्व॑व्ँवृङ्क्ते पौर्णमा॒सीमे॒व य॑जेत॒ भ्रातृ॑व्यवा॒न्नामा॑वा॒स्या॑ꣳ ह॒त्वा भ्रातृ॑व्यं॒ नाऽऽप्या॑ययति साकंप्रस्था॒यीये॑न यजेत प॒शुका॑मो॒ यस्मै॒ वा अल्पे॑ना॒ऽऽहर॑न्ति॒ नाऽऽत्मना॒ तृप्य॑ति॒ नान्यस्मै॑ ददाति॒ यस्मै॑ मह॒ता तृप्य॑त्या॒त्मना॒ ददा᳚त्य॒न्यस्मै॑ मह॒ता पू॒र्णꣳ हो॑त॒व्य॑न्तृ॒प्त ए॒वैन॒मिन्द्रः॑ प्र॒जया॑ प॒शुभि॑स्तर्पयति दारुपा॒त्रेण॑ जुहोति॒ न हि मृ॒न्मय॒माहु॑तिमान॒श औदुं॑बरं [२४] भव॒त्यूर्ग्वा उ॑दुंबर॒ ऊर्क् प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्धे॒ नाग॑तश्रीर् महे॒न्द्रय्ँय॑जेत॒ त्रयो॒ वै ग॒तश्रि॑यः शुश्रु॒वान् ग्रा॑म॒णी रा॑ज॒न्य॑स्तेषा᳚म्महे॒न्द्रो दे॒वता॒ यो वै स्वां दे॒वता॑मति॒ यज॑ते॒ प्र स्वायै॑ दे॒वता॑यै च्यवते॒ न परा॒म्प्राप्नो॑ति॒ पापी॑यान् भवति सव्ँवथ्स॒रमिन्द्र॑य्ँयजेत सव्ँवथ्स॒रꣳ हि व्र॒तन्नाति॒ स्वै [२५] वैन॑न्दे॒वते॒ज्यमा॑ना॒ भूत्या॑ इन्धे॒ वसी॑यान् भवति सव्ँवथ्स॒रस्य॑ प॒रस्ता॑द॒ग्नये᳚ व्र॒तप॑तये पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेथ् सव्ँवथ्स॒रमे॒वैन॑व्ँवृ॒त्रञ्ज॑घ्नि॒वाꣳस॑म॒ग्निर् व्र॒तप॑तिर् व्र॒तमा लं॑भयति॒ ततोऽधि॒ काम॑य्ँयजेत⁠ [२६] (ए॒तां त दौदुं॑बर॒ꣴ॒ स्वात्रि॒ꣳ॒शच्च॑) ॥४॥
नासो॑मयाजी॒ सन्न॑ये॒दना॑गत॒व्ँवा ए॒तस्य॒ पयो॒ योऽसो॑मयाजी॒ यदसो॑मयाजी सं॒नये᳚त् परिमो॒ष ए॒व सोऽनृ॑तङ्करो॒त्यथो॒ परै॒व सि॑च्यते सोमया॒ज्ये॑व सन्न॑ये॒त् पयो॒ वै सोमः॒ पयः॑ सांना॒य्यम्पय॑सै॒व पय॑ आ॒त्मन् ध॑त्ते॒ वि वा ए॒तम्प्र॒जया॑ प॒शुभि॑रर्द्धयति व॒र्द्धय॑त्यस्य॒ भ्रातृ॑व्य॒य्ँयस्य॑ ह॒विर् निरु॑प्तम्पु॒रस्ता᳚च्च॒न्द्रमा॑ [२७] अ॒भ्यु॑देति॑ त्रे॒धा त॑ण्डु॒लान्‌वि भ॑जे॒द्ये म॑द्ध्य॒माः स्युस्तान॒ग्नये॑ दा॒त्रे पु॑रो॒डाश॑म॒ष्टाक॑पालङ्कुर्या॒द्ये स्थवि॑ष्ठा॒स्तानिन्द्रा॑य प्रदा॒त्रे द॒धꣴश्च॒रुय्ँयेऽणि॑ष्ठा॒ स्तान् विष्ण॑वे शिपिवि॒ष्टाय॑ शृ॒ते च॒रुम॒ग्निरे॒वास्मै᳚ प्र॒जाम्प्र॑ज॒नय॑ति वृ॒द्धामिन्द्रः॒ प्र य॑च्छति य॒ज्ञो वै विष्णुः॑ प॒शवः॒ शिपि॑र् य॒ज्ञ ए॒व प॒शुषु॒ प्रति॑ तिष्ठति॒ न द्वे [२८] य॑जेत॒ यत् पूर्व॑या संप्र॒ति यजे॒तोत्त॑रया छं॒बट् कु॑र्या॒द्यदुत्त॑रया संप्र॒ति यजे॑त॒ पूर्व॑या छं॒बट् कु॑र्या॒न्नेष्टि॒र् भव॑ति॒ न य॒ज्ञस्तदनु॑ ह्रीतमु॒ख्य॑पग॒ल्भो जा॑यत॒ एका॑मे॒व य॑जेत प्रग॒ल्भो᳚ऽस्य जाय॒तेऽना॑दृत्य॒ तद् द्वे ए॒व य॑जेत यज्ञमु॒खमे॒व पूर्व॑या॒ऽऽलभ॑ते॒ यज॑त॒ उत्त॑रया दे॒वता॑ ए॒व पूर्व॑याऽवरु॒न्ध इ॑न्द्रि॒यमुत्त॑रया देवलो॒कमे॒व [२९] पूर्व॑याऽभि॒जय॑ति मनुष्यलो॒कमुत्त॑रया॒ भूय॑सो यज्ञक्र॒तूनुपै᳚त्ये॒षा वै सु॒मना॒ नामेष्टि॒र् यम॒द्येजा॒नम्प॒श्चाच्च॒न्द्रमा॑ अ॒भ्यु॑देत्य॒स्मिन्ने॒वास्मै॑ लो॒केऽर्द्धु॑कम्भवति दाख्‍षायणय॒ज्ञेन॑ सुव॒र्गका॑मो यजेत पू॒र्णमा॑से॒ सन्न॑येन्मैत्रावरु॒ण्याऽऽमिख्‍ष॑याऽमावा॒स्या॑याय्ँयजेत पू॒र्णमा॑से॒ वै दे॒वाना॑ꣳ सु॒तस्तेषा॑मे॒तम॑र्द्धमा॒सम्प्रसु॑त॒स्तेषा᳚म्मैत्रावरु॒णी व॒शाऽमा॑वा॒स्या॑यामनूब॒न्ध्या॑ यत् [३०] पू᳚र्वे॒द्युर् यज॑ते॒ वेदि॑मे॒व तत् क॑रोति॒ यद् व॒थ्सान॑पाक॒रोति॑ सदोहविर्द्धा॒ने ए॒व सं मि॑नोति॒ यद्यज॑ते दे॒वैरे॒व सु॒त्याꣳ सम्पा॑दयति॒ स ए॒तम॑र्द्धमा॒सꣳ स॑ध॒माद॑न्दे॒वैः सोम॑म्पिबति॒ यन्मै᳚त्रावरु॒ण्याऽऽमिख्‍ष॑याऽमावा॒स्या॑या॒य्ँयज॑ते॒ यैवासौ दे॒वाना᳚व्ँव॒शाऽनू॑ब॒न्ध्या॑ सो ए॒वैषैतस्य॑ सा॒ख्‍षाद्वा ए॒ष दे॒वान॒भ्यारो॑हति॒ य ए॑षाय्ँय॒ज्ञ [३१] म॑भ्या॒रोह॑ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विद्ध्य॑ति॒ पापी॑यान् भवति॒ यदि॒ नाव॒विद्ध्य॑ति स॒दृङ् व्या॒वृत्का॑म ए॒तेन॑ य॒ज्ञेन॑ यजेत ख्‍षु॒रप॑वि॒र् ह्ये॑ष य॒ज्ञस्ता॒जक् पुण्यो॑ वा॒ भव॑ति॒ प्र वा॑ मीयते॒ तस्यै॒तद् व्र॒तन्नानृ॑तव्ँवदे॒न्न मा॒ꣳ॒सम॑श्ञीया॒न्न स्त्रिय॒मुपे॑या॒न्नास्य॒ पल्पू॑लनेन॒ वासः॑ पल्पूलयेयु रे॒तद्धि दे॒वाः सर्व॒न्न कु॒र्वन्ति॑⁠ [३२] (च॒न्द्रमा॒ द्वे दे॑वलो॒कमे॒व यद् य॒ज्ञं प॑ल्पूलयेयुः॒ षट् च॑) ॥५॥
ए॒ष वै दे॑वर॒थो यद्द॑र्‌शपूर्णमा॒सौ यो द॑र्‌शपूर्णमा॒सावि॒ष्ट्वा सोमे॑न॒ यज॑ते॒ रथ॑स्पष्ट ए॒वाव॒साने॒ वरे॑ दे॒वाना॒मव॑ स्यत्ये॒तानि॒ वा अङ्गा॒परू॑ꣳषि सव्ँवथ्स॒रस्य॒ यद्द॑र्‌शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान् द॑र्‌शपूर्णमा॒सौ यज॒तेऽङ्गा॒परू॑ꣴष्ये॒व स॑व्ँवथ्स॒रस्य॒ प्रति॑ दधात्ये॒ते वै स॑व्ँवथ्स॒रस्य॒ चख्‍षु॑षी॒ यद्द॑र्‌शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान् द॑र्‌शपूर्णमा॒सौ यज॑ते॒ ताभ्या॑मे॒व सु॑व॒र्गल्ँलो॒कमनु॑ पश्य [३३] त्ये॒षा वै दे॒वाना॒व्ँविक्रा᳚न्ति॒र् यद्द॑र्‌शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान् द॑र्‌शपूर्णमा॒सौ यज॑ते दे॒वाना॑मे॒व विक्रा᳚न्ति॒मनु॒ वि क्र॑मत ए॒ष वै दे॑व॒यानः॒ पन्था॒ यद्द॑र्‌शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान् द॑र्‌शपूर्णमा॒सौ यज॑ते॒ य ए॒व दे॑व॒यानः॒ पन्था॒स्तꣳ स॒मारो॑हत्ये॒तौ वै दे॒वाना॒ꣳ॒ हरी॒ यद्द॑र्‌शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान् द॑र्‌शपूर्णमा॒सौ यज॑ते॒ यावे॒व दे॒वाना॒ꣳ॒ हरी॒ ताभ्या॑ [३४] मे॒वैभ्यो॑ ह॒व्यव्ँव॑हत्ये॒तद्वै दे॒वाना॑मा॒स्य॑य्ँयद्द॑र्‌शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान् द॑र्‌शपूर्णमा॒सौ यज॑ते सा॒ख्‍षादे॒व दे॒वाना॑मा॒स्ये॑ जुहोत्ये॒ष वै ह॑विर्द्धा॒नी यो द॑र्‌शपूर्णमासया॒जी सा॒यंप्रा॑तरग्निहो॒त्रञ्जु॑होति॒ यज॑ते दर्‌शपूर्णमा॒सावह॑रहर् हविर्द्धा॒निना॑ꣳ सु॒तो य ए॒वव्ँवि॒द्वान् द॑र्‌शपूर्णमा॒सौ यज॑ते हविर्द्धा॒न्य॑स्मीति॒ सर्व॑मे॒वास्य॑ बर्‌हि॒ष्य॑न्द॒त्तम्भ॑वति दे॒वा वा अह॑र् [३५] य॒ज्ञिय॒न्नावि॑न्द॒न् ते द॑र्‌शपूर्णमा॒साव॑पुन॒न् तौ वा ए॒तौ पू॒तौ मेद्ध्यौ॒ यद्द॑र्‌शपूर्णमा॒सौ य ए॒वव्ँवि॒द्वान् द॑र्‌शपूर्णमा॒सौ यज॑ते पू॒तावे॒वैनौ॒ मेद्ध्यौ॑ यजते॒ नामा॑वा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॒ स्त्रिय॒मुपे॑या॒द्यदु॑पे॒यान्निरि॑न्द्रियः स्या॒त् सोम॑स्य॒ वै राज्ञो᳚ऽर्द्धमा॒सस्य॒ रात्र॑यः॒ पत्न॑य आस॒न् तासा॑ममावा॒स्या᳚ञ्च पौर्णमा॒सीञ्च॒ नोपै॒त् [३६] ते ए॑नम॒भि सम॑नह्येता॒न्तय्ँयख्‍ष्म॑ आर्च्छ॒द्राजा॑न॒य्ँयख्‍ष्म॑ आर॒दिति॒ तद्रा॑जय॒ख्‍ष्मस्य॒ जन्म॒ यत् पापी॑या॒नभ॑व॒त् तत् पा॑पय॒ख्‍ष्मस्य॒ यज्जा॒याभ्या॒मवि॑न्द॒त् तज्जा॒येन्य॑स्य॒ य ए॒वमे॒तेषा॒य्ँयख्‍ष्मा॑णा॒ञ्जन्म॒ वेद॒ नैन॑मे॒ते यख्‍ष्मा॑ विन्दन्ति॒ स ए॒ते ए॒व न॑म॒स्यन्नुपा॑धाव॒त् ते अ॑ब्रूता॒व्ँवर॑व्ँवृणावहा आ॒वन्दे॒वाना᳚म्भाग॒धे अ॑सावा॒ [३७] ऽऽवदधि॑ दे॒वा इ॑ज्यान्ता॒ इति॒ तस्मा᳚थ् स॒दृशी॑ना॒ꣳ॒ रात्री॑णाममावा॒स्या॑याञ्च पौर्णमा॒स्याञ्च॑ दे॒वा इ॑ज्यन्त ए॒ते हि दे॒वाना᳚म्भाग॒धे भा॑ग॒धा अ॑स्मै मनु॒ष्या॑ भवन्ति॒ य ए॒वव्ँवेद॑ भू॒तानि॒ ख्‍षुध॑मघ्नन्थ् स॒द्यो म॑नु॒ष्या॑ अर्द्धमा॒से दे॒वा मा॒सि पि॒तरः॑ सव्ँवथ्स॒रे वन॒स्पत॑य॒स्तस्मा॒दह॑रहर् मनु॒ष्या॑ अश॑नमिच्छन्तेऽर्द्धमा॒से दे॒वा इ॑ज्यन्ते मा॒सि पि॒तृभ्यः॑ क्रियते सव्ँवथ्स॒रे वन॒स्पत॑यः॒ फल॑ङ्गृह्णन्ति॒ य ए॒वव्ँवेद॒ हन्ति॒ ख्‍षुध॒म्भ्रातृ॑व्यम्⁠ [३८] (प॒श्य॒ति॒ ताभ्या॒ मह॑ रै दसाव॒ फल॑ꣳ स॒प्त च॑) ॥६॥
दे॒वा वै नर्चि न यजु॑ष्यश्रयन्त॒ ते साम॑न्ने॒वाश्र॑यन्त॒ हिङ्क॑रोति॒ सामै॒वाक॒र्॒‌हिं क॑रोति॒ यत्रै॒व दे॒वा अश्र॑यन्त॒ तत॑ ए॒वैना॒न् प्र यु॑ङ्क्ते॒ हिङ्क॑रोति वा॒च ए॒वैष योगो॒ हिं क॑रोति प्र॒जा ए॒व तद्यज॑मानः सृजते॒ त्रिः प्र॑थ॒मामन्वा॑ह॒ त्रिरु॑त्त॒माय्ँय॒ज्ञस्यै॒व तद् ब॒र्॒‌सं [३९] न॑ह्य॒त्यप्र॑स्रꣳसाय॒ सन्त॑त॒मन्वा॑ह प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्या॒ अथो॒ रख्‍ष॑सा॒मप॑हत्यै॒ राथ॑न्तरीम्प्रथ॒मामन्वा॑ह॒ राथ॑न्तरो॒ वा अ॒यल्ँलो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ त्रिर् वि गृ॑ह्णाति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ बार्‌ह॑तीमुत्त॒मामन्वा॑ह॒ बार्‌ह॑तो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति॒ प्र वो॒ [४०] वाजा॒ इत्यनि॑रुक्ताम्प्राजाप॒त्यामन्वा॑ह य॒ज्ञो वै प्र॒जाप॑तिर् य॒ज्ञमे॒व प्र॒जाप॑ति॒मा र॑भते॒ प्र वो॒ वाजा॒ इत्यन्वा॒हान्न॒व्ँवै वाजोऽन्न॑मे॒वाव॑ रुन्धे॒ प्र वो॒ वाजा॒ इत्यन्वा॑ह॒ तस्मा᳚त् प्रा॒चीन॒ꣳ॒ रेतो॑ धीय॒तेऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह॒ तस्मा᳚त् प्र॒तीचीः᳚ प्र॒जा जा॑यन्ते॒ प्र वो॒ वाजा॒ [४१] इत्यन्वा॑ह॒ मासा॒ वै वाजा॑ अर्द्धमा॒सा अ॒भिद्य॑वो दे॒वा ह॒विष्म॑न्तो॒ गौर् घृ॒ताची॑ य॒ज्ञो दे॒वाञ्जि॑गाति॒ यज॑मानः सुम्न॒युरि॒दम॑सी॒दम॒सीत्ये॒व य॒ज्ञस्य॑ प्रि॒यन्धामाव॑ रुन्धे॒ यङ्का॒मये॑त॒ सर्व॒मायु॑रिया॒दिति॒ प्र वो॒ वाजा॒ इति॒ तस्या॒नूच्याग्न॒ आ या॑हि वी॒तय॒ इति॒ सन्त॑त॒मुत्त॑रमर्द्ध॒र्चमा ल॑भेत [४२] प्रा॒णेनै॒वास्या॑पा॒नन्दा॑धार॒ सर्व॒मायु॑रेति॒ यो वा अ॑र॒त्निꣳ सा॑मिधे॒नीना॒व्ँवेदा॑र॒त्नावे॒व भ्रातृ॑व्यङ्कुरुतेऽर्द्ध॒र्चौ सन्द॑धात्ये॒ष वा अ॑र॒त्निः सा॑मिधे॒नीना॒य्ँय ए॒वव्ँवेदा॑र॒त्नावे॒व भ्रातृ॑व्यङ्कुरुत॒ ऋषे॑र्‌ऋषे॒र्वा ए॒ता निर्मि॑ता॒ यथ् सा॑मिधे॒न्य॑स्ता यदस॑य्ँयुक्ताः॒ स्युः प्र॒जया॑ प॒शुभि॒र् यज॑मानस्य॒ वि ति॑ष्ठेरन्नर्द्ध॒र्चौ सन्द॑धाति॒ सय्ँयु॑नक्त्ये॒वैना॒स्ता अ॑स्मै॒ सय्ँयु॑क्ता॒ अव॑रुद्धाः॒ सर्वा॑मा॒शिष॑न्दुह्रे⁠ [४३] (ब॒र्॒‌सं वो॑ जायन्ते॒ प्रवो॒ वाजा॑ लभेत दधाति॒ सं दश॑ च) ॥७॥
अय॑ज्ञो॒ वा ए॒ष यो॑ऽसा॒माऽग्न॒ आ या॑हि वी॒तय॒ इत्या॑ह रथन्त॒रस्यै॒ष वर्ण॒स्तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह वामदे॒व्यस्यै॒ष वर्णो॑ बृ॒हद॑ग्ने सु॒वीर्य॒मित्या॑ह बृह॒त ए॒ष वर्णो॒ यदे॒तं तृ॒चम॒न्वाह॑ य॒ज्ञमे॒व तथ् साम॑न्वन्तङ्करोत्य॒ग्निर॒मुष्मि॑ल्ँलो॒क आसी॑दादि॒त्यो᳚ऽस्मिन् तावि॒मौ लो॒कावशा᳚न्ता [४४] वास्ता॒न्ते दे॒वा अ॑ब्रुव॒न्नेते॒मौ वि पर्यू॑हा॒मेत्यग्न॒ आ या॑हि वी॒तय॒ इत्य॒स्मिल्ँलो॒के᳚ऽग्निम॑दधुर् बृ॒हद॑ग्ने सु॒वीर्य॒मित्य॒मुष्मि॑ल्ँलो॒क आ॑दि॒त्यन्ततो॒ वा इ॒मौ लो॒काव॑शाम्यता॒य्ँयदे॒वम॒न्वाहा॒नयो᳚र् लो॒कयोः॒ शान्त्यै॒ शाम्य॑तोऽस्मा इ॒मौ लो॒कौ य ए॒वव्ँवेद॒ पञ्च॑दश सामिधे॒नीरन्वा॑ह॒ पञ्च॑दश॒ [४५] वा अ॑र्द्धमा॒सस्य॒ रात्र॑योऽर्द्धमास॒शः स॑व्ँवथ्स॒र आ᳚प्यते॒ तासा॒न्त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्चा॒ख्‍षरा॑णि॒ ताव॑तीः सव्ँवथ्स॒रस्य॒ रात्र॑योऽख्‍षर॒श ए॒व स॑व्ँवथ्स॒रमा᳚प्नोति नृ॒मेध॑श्च॒ परु॑च्छेपश्च ब्रह्म॒वाद्य॑मवदेताम॒स्मिन् दारा॑वा॒र्द्रे᳚ऽग्निञ्ज॑नयाव यत॒रो नौ॒ ब्रह्मी॑या॒निति॑ नृ॒मेधो॒ऽभ्य॑वद॒थ् स धू॒मम॑जनय॒त् परु॑च्छेपो॒ऽभ्य॑वद॒थ् सो᳚ऽग्निम॑जनय॒दृष॒ इत्य॑ब्रवी॒द् [४६] यथ् स॒माव॑द् वि॒द्व क॒था त्वम॒ग्निमजी॑जनो॒ नाहमिति॑ सामिधे॒नीना॑मे॒वाहव्ँवर्ण॑व्ँवे॒देत्य॑ब्रवी॒द्यद् घृ॒तव॑त् प॒दम॑नू॒च्यते॒ स आ॑सा॒व्ँवर्ण॒स्तन्त्वा॑ स॒मिद्भि॑रङ्गिर॒ इत्या॑ह सामिधे॒नीष्वे॒व तज्ज्योति॑र् जनयति॒ स्त्रिय॒स्तेन॒ यदृचः॒ स्त्रिय॒स्तेन॒ यद् गा॑य॒त्रियः॒ स्त्रिय॒स्तेन॒ यथ् सा॑मिधे॒न्यो॑ वृष॑ण्वती॒मन्वा॑ह॒ [४७] तेन॒ पुꣴस्व॑ती॒स्तेन॒ सेन्द्रा॒स्तेन॑ मिथु॒ना अ॒ग्निर् दे॒वाना᳚न्दू॒त आसी॑दु॒शना॑ का॒व्योऽसु॑राणा॒न्तौ प्र॒जाप॑तिम्प्र॒श्ञमै॑ता॒ꣳ॒ स प्र॒जाप॑तिर॒ग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒भि प॒र्याव॑र्तत॒ ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यस्यै॒वव्ँवि॒दुषो॒ऽग्निन्दू॒तव्ँवृ॑णीमह॒ इत्य॒न्वाह॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्यद्ध्व॒रव॑ती॒मन्वा॑ह॒ भ्रातृ॑व्यमे॒वैतया᳚ [४८] ध्वरति शो॒चिष्के॑श॒स्तमी॑मह॒ इत्या॑ह प॒वित्र॑मे॒वैतद् यज॑मानमे॒वैतया॑ पवयति॒ समि॑द्धो अग्न आहु॒तेत्या॑ह परि॒धिमे॒वैतम्परि॑ दधा॒त्यस्क॑न्दाय॒ यदत॑ ऊ॒र्द्ध्वम॑भ्याद॒द्ध्याद्यथा॑ बहिःपरि॒धि स्कन्द॑ति ता॒दृगे॒व तत् त्रयो॒ वा अ॒ग्नयो॑ हव्य॒वाह॑नो दे॒वाना᳚ङ्कव्य॒वाह॑नः पितृ॒णाꣳ स॒हर॑ख्‍षा॒ असु॑राणा॒न्त ए॒तर्ह्या श॑ꣳसन्ते॒ माव्ँव॑रिष्यते॒ मा [४९] मिति॑ वृणी॒द्ध्वꣳ ह॑व्य॒वाह॑न॒मित्या॑ह॒ य ए॒व दे॒वाना॒न्तव्ँवृ॑णीत आर्‌षे॒यव्ँवृ॑णीते॒ बन्धो॑रे॒व नैत्यथो॒ सन्त॑त्यै प॒रस्ता॑द॒र्वाचो॑ वृणीते॒ तस्मा᳚त् प॒रस्ता॑द॒र्वाञ्चो॑ मनु॒ष्या᳚न् पि॒तरोऽनु॒ प्र पि॑पते⁠ [५०] (अशा᳚न्ता वाह॒ पञ्च॑दशा ब्रवी॒ दन्वा॑है॒ तया॑ वरिष्यते॒ मा मेका॒न्नत्रि॒ꣳ॒शच्च॑) ॥८॥
अग्ने॑ म॒हाꣳ अ॒सीत्या॑ह म॒हान्‌ह्ये॑ष यद॒ग्निर् ब्रा᳚ह्म॒णेत्या॑ह ब्राह्म॒णो ह्ये॑ष भा॑र॒तेत्या॑है॒ष हि दे॒वेभ्यो॑ ह॒व्यम्भर॑ति दे॒वेद्ध॒ इत्या॑ह दे॒वा ह्ये॑तमैन्ध॑त॒ मन्वि॑द्ध॒ इत्या॑ह॒ मनु॒र्ह्ये॑तमुत्त॑रो दे॒वेभ्य॒ ऐन्धर्‌षि॑ष्टुत॒ इत्या॒हर्‌ष॑यो॒ ह्ये॑तमस्तु॑व॒न् विप्रा॑नुमदित॒ इत्या॑ह॒ [५१] विप्रा॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसः॑ कविश॒स्त इत्या॑ह क॒वयो॒ ह्ये॑ते यच्छु॑श्रु॒वाꣳसो॒ ब्रह्म॑सꣳशित॒ इत्या॑ह॒ ब्रह्म॑सꣳशितो॒ ह्ये॑ष घृ॒ताह॑वन॒ इत्या॑ह घृताहु॒तिर् ह्य॑स्य प्रि॒यत॑मा प्र॒णीर् य॒ज्ञाना॒मित्या॑ह प्र॒णीर् ह्ये॑ष य॒ज्ञाना॑ꣳ र॒थीर॑द्ध्व॒राणा॒मित्या॑है॒ष हि दे॑वर॒थो॑ऽतूर्तो॒ होतेत्या॑ह॒ न ह्ये॑तङ्कश्च॒न [५२] तर॑ति॒ तूर्णि॑र्‌हव्य॒वाडित्या॑ह॒ सर्व॒ꣴ॒ ह्ये॑ष तर॒त्यास्पात्र॑ञ्जु॒हूर् दे॒वाना॒मित्या॑ह जु॒हूर् ह्ये॑ष दे॒वाना᳚ञ्चम॒सो दे॑व॒पान॒ इत्या॑ह चम॒सो ह्ये॑ष दे॑व॒पानो॒ऽराꣳ इ॑वाग्ने ने॒मिर् दे॒वाꣴस्त्वं प॑रि॒भूर॒सीत्या॑ह दे॒वान्‌ह्ये॑ष प॑रि॒भूर्यद्ब्रू॒यादा व॑ह दे॒वान् दे॑वय॒ते यज॑माना॒येति॒ भ्रातृ॑व्यमस्मै [५३] जनये॒दा व॑ह दे॒वान् यज॑माना॒येत्या॑ह॒ यज॑मानमे॒वैतेन॑ वर्द्धयत्य॒ग्निम॑ग्न॒ आ व॑ह॒ सोम॒मा व॒हेत्या॑ह दे॒वता॑ ए॒व तद्य॑थापू॒र्वमुप॑ ह्वयत॒ आ चा᳚ग्ने दे॒वान्‌वह॑ सु॒यजा॑ च यज जातवेद॒ इत्या॑हा॒ग्निमे॒व तथ् सꣴ श्य॑ति॒ सो᳚ऽस्य॒ सꣳशि॑तो दे॒वेभ्यो॑ ह॒व्यव्ँव॑हत्य॒ग्निर्‌होते [५४] त्या॑हा॒ग्निर् वै दे॒वाना॒ꣳ॒ होता॒ य ए॒व दे॒वाना॒ꣳ॒ होता॒ तव्ँवृ॑णीते॒ स्मो व॒यमित्या॑हा॒ऽऽत्मान॑मे॒व स॒त्त्वङ्ग॑मयति सा॒धु ते॑ यजमान दे॒वतेत्या॑हा॒ ऽऽशिष॑मे॒वैतामा शा᳚स्ते॒ यद्ब्रू॒याद्यो᳚ऽग्निꣳ होता॑र॒मवृ॑था॒ इत्य॒ग्निनो॑भ॒यतो॒ यज॑मानं॒ परि॑ गृह्णीयात् प्र॒मायु॑कः स्याद्यजमानदेव॒त्या॑ वै जु॒हूर् भ्रा॑तृव्यदेव॒त्यो॑प॒भृद् [५५] यद्द्वे इ॑व ब्रू॒याद् भ्रातृ॑व्यमस्मै जनयेद् घृ॒तव॑तीमद्ध्वर्यो॒ स्रुच॒माऽस्य॒स्वेत्या॑ह॒ यज॑मान मे॒वैतेन॑ वर्द्धयति देवा॒युव॒मित्या॑ह दे॒वान्‌ह्ये॑षाऽव॑ति वि॒श्ववा॑रा॒मित्या॑ह॒ विश्व॒ꣴ॒ ह्ये॑षाऽव॒तीडा॑महै दे॒वाꣳ ई॒डेन्या᳚न् नम॒स्याम॑ नम॒स्या॑न्‌यजा॑म य॒ज्ञिया॒नित्या॑ह मनु॒ष्या॑ वा ई॒डेन्याः᳚ पि॒तरो॑ नम॒स्या॑ दे॒वा य॒ज्ञिया॑ दे॒वता॑ ए॒व तद्य॑थाभा॒गय्ँय॑जति⁠ [५६] (विप्रा॑नुमदित॒ इत्या॑ह च॒ना ऽस्मै॒ होतो॑ प॒भृद् दे॒वता॑ ए॒व त्रीणि॑ च) ॥९॥
त्रीꣴस्तृ॒चाननु॑ ब्रूयाद्राज॒न्य॑स्य॒ त्रयो॒ वा अ॒न्ये रा॑ज॒न्या᳚त् पुरु॑षा ब्राह्म॒णो वैश्यः॑ शू॒द्रस्ताने॒वास्मा॒ अनु॑कान् करोति॒ पञ्च॑द॒शानु॑ ब्रूयाद् राज॒न्य॑स्य पञ्चद॒शो वै रा॑ज॒न्यः॑ स्व ए॒वैन॒ꣴ॒ स्तोमे॒ प्रति॑ ष्ठापयति त्रि॒ष्टुभा॒ परि॑ दद्ध्यादिन्द्रि॒यव्ँवै त्रि॒ष्टुगि॑न्द्रि॒यका॑मः॒ खलु॒ वै रा॑ज॒न्यो॑ यजते त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यम्परि॑ गृह्णाति॒ यदि॑ का॒मये॑त [५७] ब्रह्मवर्च॒सम॒स्त्विति॑ गायत्रि॒या परि॑ दद्ध्याद्ब्रह्मवर्च॒सव्ँवै गा॑य॒त्री ब्र॑ह्मवर्च॒समे॒व भ॑वति स॒प्तद॒शानु॑ ब्रूया॒द्वैश्य॑स्य सप्तद॒शो वै वैश्यः॒ स्व ए॒वैन॒ꣴ॒ स्तोमे॒ प्रति॑ ष्ठापयति॒ जग॑त्या॒ परि॑ दद्ध्या॒ज्जाग॑ता॒ वै प॒शवः॑ प॒शुका॑मः॒ खलु॒ वै वैश्यो॑ यजते॒ जग॑त्यै॒वास्मै॑ प॒शून् परि॑ गृह्णा॒त्येक॑विꣳशति॒मनु॑ ब्रूयात् प्रति॒ष्ठाका॑मस्यैकवि॒ꣳ॒शः स्तोमा॑नाम्प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ [५८] चतु॑र्विꣳशति॒मनु॑ ब्रूयाद्ब्रह्मवर्च॒सका॑मस्य॒ चतु॑र्विꣳशत्यख्‍षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैवास्मै᳚ ब्रह्मवर्च॒समव॑ रुन्धे त्रि॒ꣳ॒शत॒मनु॑ ब्रूया॒दन्न॑कामस्य त्रि॒ꣳ॒शद॑ख्‍षरा वि॒राडन्न॑व्ँवि॒राड् वि॒राजै॒वास्मा॑ अ॒न्नाद्य॒मव॑ रुन्धे॒ द्वात्रि॑ꣳशत॒मनु॑ ब्रूयात् प्रति॒ष्ठाका॑मस्य॒ द्वात्रि॑ꣳशदख्‍षराऽनु॒ष्टुग॑नु॒ष्टुप् छन्द॑साम्प्रति॒ष्ठा प्रति॑ष्ठित्यै॒ षट्त्रि॑ꣳशत॒मनु॑ ब्रूयात् प॒शुका॑मस्य॒ षट्त्रि॑ꣳशदख्‍षरा बृह॒ती बार्ह॑ताः प॒शवो॑ बृह॒त्यैवास्मै॑ प॒शू [५९] नव॑ रुन्धे॒ चतु॑श्चत्वारिꣳशत॒मनु॑ ब्रूयादिन्द्रि॒यका॑मस्य॒ चतु॑श्चत्वारिꣳशदख्‍षरा त्रि॒ष्टुगि॑न्द्रि॒यन्त्रि॒ष्टुप् त्रि॒ष्टुभै॒वास्मा॑ इन्द्रि॒यमव॑ रुन्धे॒ऽष्टाच॑त्वारिꣳशत॒मनु॑ ब्रूयात् प॒शुका॑मस्या॒ष्टाच॑त्वारिꣳशदख्‍षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ सर्वा॑णि॒ छन्दा॒ꣴ॒स्यनु॑ ब्रूयाद्बहुया॒जिनः॒ सर्वा॑णि॒ वा ए॒तस्य॒ छन्दा॒ꣴ॒स्यव॑रुद्धानि॒ यो ब॑हुया॒ज्यप॑रिमित॒मनु॑ ब्रूया॒दप॑रिमित॒स्याव॑रुद्ध्यै⁠ [६०] (का॒मये॑त॒प्रति॑ष्ठित्यैप॒शून्थ्स॒प्तच॑त्वारिꣳशच्च) ॥१०॥
निवी॑तम्मनु॒ष्या॑णाम्प्राचीनावी॒तम्पि॑तृ॒णामुप॑वीतन्दे॒वाना॒मुप॑ व्ययते देवल॒ख्‍ष्ममे॒व तत् कु॑रुते॒ तिष्ठ॒न्नन्वा॑ह॒ तिष्ठ॒न्॒‌ह्याश्रु॑ततर॒व्ँवद॑ति॒ तिष्ठ॒न्नन्वा॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्या॒ आसी॑नो यजत्य॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति॒ यत् क्रौ॒ञ्चम॒न्वाहा॑ऽऽसु॒रन्तद्यन्म॒न्द्रम्मा॑नु॒षन्तद्यद॑न्त॒रा तथ् सदे॑वमन्त॒राऽनूच्य॑ꣳ सदेव॒त्वाय॑ वि॒द्वाꣳसो॒ वै [६१] पु॒रा होता॑रोऽभूव॒न् तस्मा॒द्विधृ॑ता॒ अद्ध्वा॒नोऽभू॑व॒न् न पन्था॑नः॒ सम॑रुख्‍षन्नन्तर्वे॒द्य॑न्यः पादो॒ भव॑ति बहिर्वे॒द्य॑न्योऽथान्वा॒हाद्ध्व॑ना॒व्ँविधृ॑त्यै प॒थामस॑ꣳरोहा॒याथो॑ भू॒तञ्चै॒व भ॑वि॒ष्यच्चाव॑ रु॒न्धेऽथो॒ परि॑मितञ्चै॒वाप॑रिमित॒ञ्चाव॑ रु॒न्धेऽथो᳚ ग्रा॒म्याꣴश्चै॒व प॒शूना॑र॒ण्याꣴश्चाव॑ रु॒न्धेऽथो॑ [६२] देवलो॒कञ्चै॒व म॑नुष्यलो॒कञ्चा॒भि ज॑यति दे॒वा वै सा॑मिधे॒नीर॒नूच्य॑ य॒ज्ञन्नान्व॑पश्य॒न्थ् स प्र॒जाप॑तिस्तू॒ष्णीमा॑घा॒रमाऽघा॑रय॒त् ततो॒ वै दे॒वा य॒ज्ञमन्व॑पश्य॒न्॒‌यत् तू॒ष्णीमा॑घा॒रमा॑घा॒रय॑ति य॒ज्ञस्यानु॑ख्यात्या॒ अथो॑ सामिधे॒नीरे॒वाभ्य॑न॒क्त्यलू᳚ख्‍षो भवति॒ य ए॒वव्ँवेदाथो॑ त॒र्पय॑त्ये॒वैना॒स्तृप्य॑ति प्र॒जया॑ प॒शुभि॒र् [६३] य ए॒वव्ँवेद॒ यदेक॑याऽऽघा॒रये॒देका᳚म्प्रीणीया॒द्यद् द्वाभ्या॒न्द्वे प्री॑णीया॒द्यद् ति॒सृभि॒रति॒ तद्रे॑चये॒न् मन॒साऽऽघा॑रयति॒ मन॑सा॒ ह्यना᳚प्तमा॒प्यते॑ ति॒र्यञ्च॒मा घा॑रय॒त्यछं॑बट्कार॒व्ँवाक् च॒ मन॑श्चाऽऽर्तीयेताम॒हन्दे॒वेभ्यो॑ ह॒व्यव्ँव॑हा॒मीति॒ वाग॑ब्रवीद॒हन्दे॒वेभ्य॒ इति॒ मन॒स्तौ प्र॒जाप॑तिम्प्र॒ श्ञमै॑ता॒ꣳ॒ सो᳚ऽब्रवीत् [६४] प्र॒जाप॑तिर् दू॒तीरे॒व त्वम्मन॑सोऽसि॒ यद्धि मन॑सा॒ ध्याय॑ति॒ तद्वा॒चा वद॒तीति॒ तत् खलु॒ तुभ्य॒न्न वा॒चा जु॑हव॒न्नित्य॑ब्रवी॒त् तस्मा॒न्मन॑सा प्र॒जाप॑तये जुह्वति॒ मन॑ इव॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ परि॒धीन्थ् सम्मा᳚र्ष्टि पु॒नात्ये॒वैना॒न् त्रिर् म॑द्ध्य॒मन्त्रयो॒ वै प्रा॒णाः प्रा॒णाने॒वाभि ज॑यति॒ त्रिर् द॑ख्‍षिणा॒र्द्ध्य॑न्त्रय॑ [६५] इ॒मे लो॒का इ॒माने॒व लो॒कान॒भि ज॑यति॒ त्रिरु॑त्तरा॒र्द्ध्य॑न्त्रयो॒ वै दे॑व॒यानाः॒ पन्था॑न॒स्ताने॒वाभि ज॑यति॒ त्रिरुप॑ वाजयति॒ त्रयो॒ वै दे॑वलो॒का दे॑वलो॒काने॒वाभि ज॑यति॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रमे॒व प्री॑णा॒त्यथो॑ सव्ँवथ्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या आघा॒रमा घा॑रयति ति॒र इ॑व॒ [६६] वै सु॑व॒र्गो लो॒कः सु॑व॒र्गमे॒वास्मै॑ लो॒कम्प्र रो॑चयत्यृ॒जुमा घा॑रयत्यृ॒जुरि॑व॒ हि प्रा॒णः सन्त॑त॒मा घा॑रयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्या॒ अथो॒ रख्‍ष॑सा॒मप॑हत्यै॒ यङ्का॒मये॑त प्र॒मायु॑कः स्या॒दिति॑ जि॒ह्मन्तस्याऽऽघा॑रयेत् प्रा॒णमे॒वास्मा᳚ज्जि॒ह्मन्न॑यति ता॒जक् प्र मी॑यते॒ शिरो॒ वा ए॒तद्य॒ज्ञस्य॒ यदा॑घा॒र आ॒त्मा ध्रु॒वा [६७] ऽऽघा॒रमा॒घार्य॑ ध्रु॒वाꣳ सम॑नक्त्या॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑ दधात्य॒ग्निर् दे॒वाना᳚न्दू॒त आसी॒द् दैव्योऽसु॑राणा॒न्तौ प्र॒जाप॑तिम्प्र॒ श्ञमै॑ता॒ꣳ॒ स प्र॒जाप॑तिर्ब्राह्म॒णम॑ब्रवीदे॒तद्वि ब्रू॒हीत्या श्रा॑व॒येती॒दन्दे॑वाः शृणु॒तेति॒ वाव तद॑ब्रवीद॒ग्निर् दे॒वो होतेति॒ य ए॒व दे॒वाना॒न्तम॑वृणीत॒ ततो॑ दे॒वा [६८] अभ॑व॒न् पराऽसु॑रा॒ यस्यै॒वव्ँवि॒दुषः॑ प्रव॒रम्प्र॑वृ॒णते॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति॒ यद्ब्रा᳚ह्म॒णश्चाब्रा᳚ह्मणश्च प्र॒श्ञमे॒याता᳚म्ब्राह्म॒णायाधि॑ ब्रूया॒द् यद् ब्रा᳚ह्म॒णाया॒द्ध्याहा॒ ऽऽत्मनेऽद्ध्या॑ह॒ यद्ब्रा᳚ह्म॒णम्प॒राहा॒ऽऽत्मान॒म्परा॑ऽऽह॒ तस्मा᳚द् ब्राह्म॒णो न प॒रोच्यः॑⁠ [६९] (ध्रु॒वा दे॒वा श्च॑त्वारि॒ꣳ॒शच्च॑) ॥११॥
आयु॑ष्ट >१, आयु॒र्दा अ॑ग्न॒ >२, आ प्या॑यस्व॒ >३, सन्ते >४, ऽव॑ ते॒ हेड॒ >५,उदु॑त्त॒मं >६, प्रणो॑ दे॒व्या >७, नो॑ दि॒वो >८ , ऽग्ना॑ विष्णू॒ >९ ,अग्ना॑विष्णू >१० , इ॒मम्मे॑ वरुण॒ >११, तत्त्वा॑ या॒ >१२ , म्यु दु॒त्यं >१३, चि॒त्रं >१४⁠॥ अ॒पान्नपा॒दा ह्यस्था॑दु॒पस्थ॑ञ्जि॒ह्माना॑मू॒र्ध्वो वि॒द्युत॒व्ँवसा॑नः⁠। तस्य॒ ज्येष्ठ॑म्महि॒मान॒व्ँवह॑न्ती॒र्॒‌हिर॑ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः⁠॥ स [७०] म॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वन्न॒द्यः॑ पृणन्ति⁠। तमू॒ शुचि॒ꣳ॒ शुच॑यो दीदि॒वाꣳस॑म॒पान्नपा॑त॒म्परि॑ तस्थु॒रापः॑⁠॥ तमस्मे॑रा युव॒तयो॒ युवा॑नम्मर्मृ॒ज्यमा॑नाः॒ परि॑ य॒न्त्यापः॑⁠। स शु॒क्रेण॒ शिक्व॑ना रे॒वद॒ग्निर् दी॒दाया॑नि॒द्ध्मो घृ॒तनि॑र्णिग॒फ्सु⁠॥ इन्द्रा॒वरु॑णयोर॒हꣳ स॒म्राजो॒रव॒ आ वृ॑णे⁠। ता नो॑ मृडात ई॒दृशे᳚⁠॥ इन्द्रा॑वरुणा यु॒वम॑द्ध्व॒राय॑ नो [७१] वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम्⁠। दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यञ्ज॑येम॒ पृत॑नासु दू॒ढ्यः॑⁠॥ आ नो॑ मित्रावरुणा॒>१५, प्र बा॒हवा᳚ >१६⁠॥ त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः⁠। यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषा॑ꣳसि॒ प्र मु॑मुग्द्ध्य॒स्मत्⁠॥ स त्वन्नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ⁠। अव॑ यख्‍ष्व नो॒ वरु॑ण॒ꣳ॒ [७२] ररा॑णो वी॒हि मृ॑डी॒कꣳ सु॒हवो॑ न एधि⁠॥ प्रप्रा॒यम॒ग्निर् भ॑र॒तस्य॑ शृण्वे॒ वि यथ् सूर्यो॒ न रोच॑ते बृ॒हद् भाः⁠। अ॒भि यः पू॒रुम्पृत॑नासु त॒स्थौ दी॒दाय॒ दैव्यो॒ अति॑थिः शि॒वो नः॑⁠॥ प्र ते॑ यख्‍षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो॑ नो॒ हवे॑षु⁠। धन्व॑न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒ख्‍षवे॑ पू॒रवे᳚ प्रत्न राजन्न्⁠ [७३] वि पाज॑सा॒ >१७, वि ज्योति॑षा >१८⁠॥ स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑⁠। उ॒रु॒ख्‍षये॑षु॒ दीद्य॑त्⁠॥ तꣳ सु॒प्रती॑कꣳ सु॒दृश॒ꣴ॒ स्वञ्च॒मवि॑द्वाꣳसो वि॒दुष्ट॑रꣳ सपेम⁠। स य॑ख्‍ष॒द् विश्वा॑ व॒युना॑नि वि॒द्वान् प्र ह॒व्यम॒ग्निर॒मृते॑षु वोचत्⁠॥ अ॒ꣳ॒हो॒मुचे॑ >१९, वि॒वेष॒ यन्मा॒ >२०, विन॑ इ॒न्द्रे >२१, न्द्र॑ ख्‍ष॒त्र >२२ , मि॑न्द्रि॒याणि॑ शतक्र॒तो >२३,ऽनु॑ ते दायि >२४⁠ [७४] (य॒ह्वीः स म॑द्ध्व॒राय॑ नो॒ वरु॑णꣳ राज॒ꣴ॒ श्चतु॑श्चत्वारिꣳशच्च) ॥१२॥
(वि॒श्वरू॑प॒ स्त्वष्टे न्द्र॑व्ँवृ॒त्रं ब्र॑ह्मवा॒दिनः॒ स त्वै नासो॑मयाज्ये॒ ष वै दे॑वर॒थो दे॒वा वै नर्चि ना य॒ज्ञो ऽग्ने॑ म॒हान् त्रीन् निवी॑त॒ मायु॑ष्टे॒ द्वाद॑श)
(वि॒श्वरू॑पो॒ नैन॑ꣳ शीतरू॒रा व॒द्य वसु॑ पूर्वे॒द्युर् वाजा॒ इत्य ग्ने॑ म॒हान् निवी॑त म॒न्या यन्ति॒ चतुः॑ सप्ततिः)
(वि॒श्वरूपो॒ ऽनु॑ ते दायि)
अनुवाकाः पञ्चशती
१२ ७४