कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
तृतीयकाण्डे चतुर्थः प्रश्नः

कांड ३ प्रश्न ४
इष्टिहोमाभिधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
वि वा ए॒तस्य॑ य॒ज्ञ ऋ॑द्ध्यते॒ यस्य॑ ह॒विर॑ति॒रिच्य॑ते॒ सूर्यो॑ दे॒वो दि॑वि॒षद्भ्य॒ इत्या॑ह॒ बृह॒स्पति॑ना चै॒वास्य॑ प्र॒जाप॑तिना च य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑ वपति॒ रख्‍षा॑ꣳसि॒ वा ए॒तत् प॒शुꣳ स॑चन्ते॒ यदे॑कदेव॒त्य॑ आल॑ब्धो॒ भूया॒न् भव॑ति॒ यस्या᳚स्ते॒ हरि॑तो॒ गर्भ॒ इत्या॑ह देव॒त्रैवैना᳚ङ्गमयति॒ रख्‍ष॑सा॒मप॑हत्या॒ आ व॑र्तन वर्त॒येत्या॑ह॒ [१] ब्रह्म॑णै॒वैन॒मा व॑र्तयति॒ वि ते॑ भिनद्मि तक॒रीमित्या॑ह यथा य॒जुरे॒वैतदु॑रुद्र॒फ्सो वि॒श्वरू॑प॒ इन्दु॒रित्या॑ह प्र॒जा वै प॒शव॒ इन्दुः॑ प्र॒जयै॒वैन॑म्प॒शुभिः॒ सम॑र्द्धयति॒ दिव॒व्ँवै य॒ज्ञस्य॒ व्यृ॑द्धङ्गच्छति पृथि॒वीमति॑रिक्त॒न्तद्यन्न श॒मये॒दार्ति॒मार्च्छे॒द्यज॑मानो म॒ही द्यौः पृ॑थि॒वी च॑ न॒ इत्या॑ [२] ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व य॒ज्ञस्य॒ व्यृ॑द्ध॒ञ्चाति॑रिक्तञ्च शमयति॒ नाऽऽ*र्ति॒मार्च्छ॑ति॒ यज॑मानो॒ भस्म॑ना॒ऽभि समू॑हति स्व॒गाकृ॑त्या॒ अथो॑ अ॒नयो॒र् वा ए॒ष गर्भो॒ऽनयो॑रे॒वैन॑न्दधाति॒ यद॑व॒द्येदति॒ तद् रे॑चये॒द् यन्नाव॒द्येत् प॒शोराल॑ब्धस्य॒ नाऽव॑ द्येत् पु॒रस्ता॒न्नाभ्या॑ अ॒न्यद॑व॒द्येदु॒परि॑ष्टाद॒न्यत् पु॒रस्ता॒द्वै नाभ्यै᳚ [३] प्रा॒ण उ॒परि॑ष्टादपा॒नो यावा॑ने॒व प॒शुस्तस्याव॑ द्यति॒ विष्ण॑वे शिपिवि॒ष्टाय॑ जुहोति॒ यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒ यः प॒शोर् भू॒मा या पुष्टि॒स्तद् विष्णुः॑ शिपिवि॒ष्टोऽति॑रिक्त ए॒वाति॑रिक्तं दधा॒त्यति॑रिक्तस्य॒ शान्त्या॑ अ॒ष्टाप्रू॒ड्ढिर॑ण्य॒न्दख्‍षि॑णा॒ऽष्टाप॑दी॒ ह्ये॑षाऽऽत्मा न॑व॒मः प॒शोराप्त्या॑ अन्तरको॒श उ॒ष्णीषे॒णाऽऽ*वि॑ष्टितम्भवत्ये॒वमि॑व॒ हि प॒शुरुल॑ꣴमिव॒ चर्मे॑व मा॒ꣳ॒समि॒वास्थी॑व॒ यावा॑ने॒व प॒शुस्तमा॒प्त्वाऽव॑ रुन्धे॒ यस्यै॒षा य॒ज्ञे प्राय॑श्चित्तिः क्रि॒यत॑ इ॒ष्ट्वा वसी॑यान् भवति⁠ [४] (व॒र्त॒येत्या॑ह न॒ इति॒ वै नाभ्या॒ उल॑ꣴमि॒वै क॑विꣳशतिश्च) ॥१॥
आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्र॑न्ते नि॒युतो॑ विश्ववार⁠। उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू᳚र्व॒पेय᳚म्⁠॥ आकू᳚त्यै त्वा॒ कामा॑य त्वा स॒मृधे᳚ त्वा किक्कि॒टा ते॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॑ किक्कि॒टा ते᳚ प्रा॒णव्ँवा॒यवे॒ स्वाहा॑ किक्कि॒टा ते॒ चख्‍षुः॒ सूर्या॑य॒ स्वाहा॑ किक्कि॒टा ते॒ श्रोत्र॒न्द्यावा॑पृथि॒वीभ्या॒ꣴ॒ स्वाहा॑ किक्कि॒टा ते॒ वाच॒ꣳ॒ सर॑स्वत्यै॒ स्वाहा॒ [५] त्वन्तु॒रीया॑ व॒शिनी॑ व॒शाऽसि॑ स॒कृद् यत् त्वा॒ मन॑सा॒ गर्भ॒ आऽश॑यत्⁠। व॒शा त्वव्ँव॒शिनी॑ गच्छ दे॒वान्थ्स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚⁠॥ अ॒जाऽसि॑ रयि॒ष्ठा पृ॑थि॒व्याꣳ सी॑दो॒र्द्‌ध्वाऽन्तरि॑ख्‍ष॒मुप॑ तिष्ठस्व दि॒वि ते॑ बृ॒हद् भाः⁠॥ तन्तु॑न्त॒न्वन् रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑ख्‍ष धि॒या कृ॒तान्⁠॥ अ॒नु॒ल॒ꣴणव्ँव॑यत॒ जोगु॑वा॒मपो॒ मनु॑र् भव ज॒नया॒ दैव्य॒ञ्जन᳚म्⁠॥ मन॑सो ह॒विर॑सि प्र॒जाप॑ते॒र् वर्णो॒ गात्रा॑णान्ते गात्र॒भाजो॑ भूयास्म⁠ [६] (सर॑स्वत्यै॒ स्वाहा॒ मनु॒ स्त्रयो॑दश च) ॥२॥
इ॒मे वै स॒हाऽऽ*स्ता॒न्ते वा॒युर्व्य॑वा॒त् ते गर्भ॑मदधाता॒न्तꣳ सोमः॒ प्राज॑नयद॒ग्निर॑ग्रसत॒ स ए॒तम्प्र॒जाप॑तिराग्ने॒यम॒ष्टाक॑पालमपश्य॒त् तन्निर॑वप॒त् तेनै॒वैना॑म॒ग्नेरधि॒ निर॑क्रीणा॒त् तस्मा॒दप्य॑न्यदेव॒त्या॑मा॒लभ॑मान आग्ने॒यम॒ष्टाक॑पालम्पु॒रस्ता॒न्निर्व॑पेद॒ग्नेरे॒वैना॒मधि॑ नि॒ष्क्रीयाऽऽल॑भते॒ यद् [७] वा॒युर् व्यवा॒त् तस्मा᳚द्वाय॒व्या॑ यदि॒मे गर्भ॒मद॑धाता॒न्तस्मा᳚द्द्यावापृथि॒व्या॑ यथ् सोमः॒ प्राज॑नयद॒ग्निरग्र॑सत॒ तस्मा॑दग्नीषो॒मीया॒ यद॒नयो᳚र् विय॒त्योर् वागव॑द॒त् तस्मा᳚थ् सारस्व॒ती यत् प्र॒जाप॑तिर॒ग्नेरधि॑ नि॒रक्री॑णा॒त् तस्मा᳚त् प्राजाप॒त्या सा वा ए॒षा स॑र्वदेव॒त्या॑ यद॒जा व॒शा वा॑य॒व्या॑मा ल॑भेत॒ भूति॑कामो वा॒युर् वै ख्‍षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ [८] भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒म्भूति॑ङ्गमयति द्यावापृथि॒व्या॑मा ल॑भेत कृ॒षमा॑णः प्रति॒ष्ठाका॑मो दि॒व ए॒वास्मै॑ प॒र्जन्यो॑ वर्‌षति॒ व्य॑स्यामोष॑धयो रोहन्ति स॒मर्द्धु॑कमस्य स॒स्यम्भ॑वत्यग्नीषो॒मीया॒मा ल॑भेत॒ यः का॒मये॒तान्न॑वानन्ना॒दः स्या॒मित्य॒ग्निनै॒वान्न॒मव॑ रुन्धे॒ सोमे॑ना॒न्नाद्य॒मन्न॑वाने॒वान्ना॒दो भ॑वति सारस्व॒तीमा ल॑भेत॒ य [९] ई᳚श्व॒रो वा॒चो वदि॑तोः॒ सन् वाच॒न्न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्मि॒न् वाच॑न्दधाति प्राजाप॒त्यामा ल॑भेत॒ यः का॒मये॒तान॑भिजितम॒भि ज॑येय॒मिति॑ प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वान॑भिजितम॒भि ज॑यति वाय॒व्य॑यो॒पाक॑रोति वा॒योरे॒वैना॑मव॒रुद्ध्याऽऽल॑भत॒ आकू᳚त्यै त्वा॒ कामा॑य॒ त्वे [१०] त्या॑ह यथाय॒जुरे॒वैतत् कि॑क्किटा॒कार॑ञ्जुहोति किक्किटाका॒रेण॒ वै ग्रा॒म्याः प॒शवो॑ रमन्ते॒ प्राऽऽ*र॒ण्याः प॑तन्ति॒ यत् कि॑क्किटा॒कार॑ञ्जु॒होति॑ ग्रा॒म्याणा᳚म्पशू॒नान्धृत्यै॒ पर्य॑ग्नौ क्रि॒यमा॑णे जुहोति॒ जीव॑न्तीमे॒वैना॑ꣳ सुव॒र्गल्ँलो॒कङ्ग॑मयति॒ त्वन्तु॒रीया॑ व॒शिनी॑ व॒शाऽसीत्या॑ह देव॒त्रैवैनां᳚ गमयति स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामा॒ इत्या॑है॒ष वै कामो॒ [११] यज॑मानस्य॒ यदना᳚र्त उ॒दृच॒ङ्गच्छ॑ति॒ तस्मा॑दे॒वमा॑हा॒ऽजाऽसि॑ रयि॒ष्ठेत्या॑है॒ष्वे॑वैना᳚ल्ँलो॒केषु॒ प्रति॑ ष्ठापयति दि॒वि ते॑ बृ॒हद् भा इत्या॑ह सुव॒र्ग ए॒वास्मै॑ लो॒के ज्योति॑र् दधाति॒ तन्तु॑न्त॒न्वन् रज॑सो भा॒नुमन्वि॒हीत्या॑हे॒माने॒वास्मै॑ लो॒कान् ज्योति॑ष्मतः करोत्यनुल॒ꣴणव्ँव॑यत॒ जोगु॑वा॒मप॒ इत्या॑ [१२] ह॒ यदे॒व य॒ज्ञ उ॒लꣴण॑ङ्क्रि॒यते॒ तस्यै॒वैषा शान्ति॒र् मनु॑र् भव ज॒नया॒ दैव्य॒ञ्जन॒मित्या॑ह मान॒व्यो॑ वै प्र॒जास्ता ए॒वाऽऽ*द्याः᳚ कुरुते॒ मन॑सो ह॒विर॒सीत्या॑ह स्व॒गाकृ॑त्यै॒ गात्रा॑णान्ते गात्र॒भाजो॑ भूया॒स्मेत्या॑हा॒ऽऽ*शिष॑मे॒वैतामा शा᳚स्ते॒ तस्यै॒ वा ए॒तस्या॒ एक॑मे॒वादे॑वयजनं॒ यदाल॑ब्धायाम॒भ्रो [१३] भव॑ति॒ यदाल॑ब्धायाम॒भ्रः स्याद॒फ्सु वा᳚ प्रवे॒शये॒थ् सर्वा᳚व्ँवा॒ प्राश्ञी॑या॒द् यद॒फ्सु प्र॑वे॒शये᳚द् यज्ञवेश॒सङ्कु॑र्या॒थ् सर्वा॑मे॒व प्राश्ञी॑यादिन्द्रि॒यमे॒वाऽऽ*त्मन् ध॑त्त॒ सा वा ए॒षा त्र॑या॒णामे॒वाव॑ रुद्धा सव्ँवथ्सर॒सदः॑ सहस्रया॒जिनो॑ गृहमे॒धिन॒स्त ए॒वैतया॑ यजेर॒न् तेषा॑मे॒वैषाऽऽप्ता⁠ [१४] (यथ् स्वेन॑ सारस्व॒तीमा ल॑भेत॒ यः कामा॑य त्वा॒ कामो ऽप॒ इत्य॒ भ्रो द्विच॑त्वारिꣳशच्च) ॥३॥
चि॒त्तञ्च॒ चित्ति॒श्चाऽऽ*कू॑त॒ञ्चाऽऽ*कू॑तिश्च॒ विज्ञा॑तञ्च वि॒ज्ञान॑ञ्च॒ मन॑श्च॒ शक्व॑रीश्च॒ दर्‌श॑श्च पू॒र्णमा॑सश्च बृ॒हच्च॑ रथन्त॒रञ्च॑ प्र॒जाप॑ति॒र् जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रः पृ॑त॒नाज्ये॑षु॒ तस्मै॒ विशः॒ सम॑नमन्त॒ सर्वाः॒ स उ॒ग्रः स हि हव्यो॑ ब॒भूव॑ देवासु॒राः सय्ँय॑त्ता आस॒न्थ् स इन्द्रः॑ प्र॒जाप॑ति॒मुपा॑ऽ धाव॒त् तस्मा॑ ए॒ताञ्जया॒न् प्राय॑च्छ॒त् तान॑जुहो॒त् ततो॒ वै दे॒वा असु॑रानजय॒न्॒‌यदज॑य॒न् तज्जया॑नाञ्जय॒त्वꣴ स्पर्द्ध॑मानेनै॒ते हो॑त॒व्या॑ जय॑त्ये॒व ताम्पृत॑नाम्⁠ [१५] (उप॒ पञ्च॑विꣳशतिश्च) ॥४॥
अ॒ग्निर् भू॒ताना॒मधि॑पतिः॒ स मा॑ऽव॒त्विन्द्रो᳚ ज्ये॒ष्ठाना᳚य्ँय॒मः पृ॑थि॒व्या वा॒युर॒न्तरि॑ख्‍षस्य॒ सूर्यो॑ दि॒वश्च॒न्द्रमा॒ नख्‍ष॑त्राणा॒म्बृह॒स्पति॒र् ब्रह्म॑णो मि॒त्रः स॒त्याना॒व्ँवरु॑णो॒ऽपाꣳ स॑मु॒द्रः स्रो॒त्याना॒मन्न॒ꣳ॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑ऽवतु॒ सोम॒ ओष॑धीनाꣳ सवि॒ता प्र॑स॒वाना॑ꣳ रु॒द्रः प॑शू॒नान्त्वष्टा॑ रू॒पाणा॒व्ँविष्णुः॒ पर्व॑तानाम्म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑ऽवन्तु॒ पित॑रः पितामहाः परेऽवरे॒ तता᳚स्ततामहा इ॒ह मा॑ऽवत⁠। अ॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्याम्पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यान्दे॒वहू᳚त्याम्⁠ [१६] (अ॒व॒रे॒ स॒प्तद॑श च) ॥५॥
दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तान॑भ्याता॒नान॑पश्य॒न् तान॒भ्यात॑न्वत॒ यद् दे॒वाना॒ङ्कर्माऽऽ*सी॒दार्द्‌ध्य॑त॒ तद् यदसु॑राणा॒न्न तदा᳚र्द्‌ध्यत॒ येन॒ कर्म॒णेर्थ्से॒त् तत्र॑ होत॒व्या॑ ऋ॒द्ध्नोत्ये॒व तेन॒ कर्म॑णा॒ यद् विश्वे॑ दे॒वाः स॒मभ॑र॒न् तस्मा॑दभ्याता॒ना वै᳚श्वदे॒वा यत् प्र॒जाप॑ति॒र् जया॒न् प्राय॑च्छ॒त् तस्मा॒ज्जयाः᳚ प्राजाप॒त्या [१७] यद्रा᳚ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाऽद॑दत॒ तद्रा᳚ष्ट्र॒भृता॑ꣳ राष्ट्रभृ॒त्त्वन्ते दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ जयै॑रजयन् राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाऽद॑दत॒ यद्दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ तद॑भ्याता॒नाना॑ मभ्यातान॒त्वय्ँयज्जयै॒रज॑य॒न् तज्जया॑नाञ्जय॒त्वय्ँयद्रा᳚ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाऽद॑दत॒ तद्रा᳚ष्ट्र॒भृता॑ꣳ राष्ट्रभृ॒त्त्वन्ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स ए॒तान् जु॑हुयादभ्याता॒नैरे॒व भ्रातृ॑व्यान॒भ्यात॑नुते॒ जयै᳚र् जयति राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमा द॑त्ते॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति⁠ [१८] (प्रा॒जा॒प॒त्याः सो᳚ऽ ष्टा द॑श च) ॥६॥
ऋ॒ता॒षाड् ऋ॒तधा॑मा॒ऽग्निर् ग॑न्ध॒र्वस्तस्यौष॑धयोऽफ्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दम्ब्रह्म॑ ख्‍ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्‍ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॑ सꣳहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्व स्तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवः॑ सुषु॒म्नः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नख्‍ष॑त्राण्यफ्स॒रसो॑ बे॒कुर॑यो भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दख्‍षि॑णा अफ्स॒रसः॑ स्त॒वाः प्र॒जाप॑तिर् वि॒श्वक॑र्मा॒ मनो॑ [१९] गन्ध॒र्वस्तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑य इषि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्याऽऽ*पो᳚ऽफ्स॒रसो॑ मु॒दा भुव॑नस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑⁠। स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोष॑ꣳ सु॒वीर्य॑ꣳ सव्ँवथ्स॒रीणा॑ꣴ स्व॒स्तिम्⁠॥ प॒र॒मे॒ष्ठ्यधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वस्तस्य॒ विश्व॑मफ्स॒रसो॒ भुवः॑ सुख्‍षि॒तिः सुभू॑तिर् भद्र॒कृथ् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ रुचो॑ दू॒रेहे॑तिरमृड॒यो [२०] मृ॒त्युर् ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुव॒श्चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्व स्तस्या॒धयो᳚ऽफ्स॒रसः॑ शो॒चय॑न्ती॒र् नाम॒ स इ॒दम्ब्रह्म॑ ख्‍ष॒त्रम्पा॑तु॒ ता इ॒दम्ब्रह्म॑ ख्‍ष॒त्रम्पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहा॒ स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑⁠। उ॒रु ब्रह्म॑णे॒ऽस्मै ख्‍ष॒त्राय॒ महि॒ शर्म॑ यच्छ⁠ [२१] (मनो॑ ऽमृड॒यः षट्च॑त्वारिꣳशच्च) ॥७॥
रा॒ष्ट्रका॑माय होत॒व्या॑ रा॒ष्ट्रव्ँवै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रमव॑ रुन्धे रा॒ष्ट्रमे॒व भ॑वत्या॒त्मने॑ होत॒व्या॑ रा॒ष्ट्रव्ँवै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रम्प्र॒जा रा॒ष्ट्रम्प॒शवो॑ रा॒ष्ट्रय्ँयच्छ्रेष्ठो॒ भव॑ति रा॒ष्ट्रेणै॒व रा॒ष्ट्रमव॑ रुन्धे॒ वसि॑ष्ठः समा॒नाना᳚म्भवति॒ ग्राम॑कामाय होत॒व्या॑ रा॒ष्ट्रव्ँवै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रꣳ स॑जा॒ता रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रꣳ स॑जा॒तानव॑ रुन्धे ग्रा॒म्ये॑ [२२] व भ॑वत्यधि॒देव॑ने जुहोत्यधि॒देव॑न ए॒वास्मै॑ सजा॒तानव॑ रुन्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते रथमु॒ख ओज॑स्कामस्य होत॒व्या॑ ओजो॒ वै रा᳚ष्ट्र॒भृत॒ ओजो॒ रथ॒ ओज॑सै॒वास्मा॒ ओजोऽव॑ रुन्ध ओज॒स्व्ये॑व भ॑वति॒ यो रा॒ष्ट्रादप॑भूतः॒ स्यात् तस्मै॑ होत॒व्या॑ याव॑न्तोऽस्य॒ रथाः॒ स्युस्तान् ब्रू॑याद् यु॒ङ्ध्वमिति॑ रा॒ष्ट्रमे॒वास्मै॑ युन॒क्त्या [२३] हु॑तयो॒ वा ए॒तस्याक्लृ॑प्ता॒ यस्य॑ रा॒ष्ट्रन्न कल्प॑ते स्वर॒थस्य॒ दख्‍षि॑णञ्च॒क्रम्प्र॒वृह्य॑ ना॒डीम॒भि जु॑हुया॒दाहु॑तीरे॒वास्य॑ कल्पयति॒ ता अ॑स्य॒ कल्प॑माना रा॒ष्ट्रमनु॑ कल्पते संग्रा॒मे सय्ँय॑त्ते होत॒व्या॑ रा॒ष्ट्रव्ँवै रा᳚ष्ट्र॒भृतो॑ रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते॒ ये स॑ङ्ग्रा॒मꣳ स॒य्ँयन्ति॒ यस्य॒ पूर्व॑स्य॒ जुह्व॑ति॒ स ए॒व भ॑वति॒ जय॑ति॒ तꣳ सं॑ग्रा॒मम्मा᳚न्धु॒क इ॒द्ध्मो [२४] भ॑व॒त्यङ्गा॑रा ए॒व प्र॑ति॒वेष्ट॑माना अ॒मित्रा॑णामस्य॒ सेना॒म्प्रति॑ वेष्टयन्ति॒ य उ॒न्माद्ये॒त् तस्मै॑ होत॒व्या॑ गन्धर्वाफ्स॒रसो॒ वा ए॒तमुन्मा॑दयन्ति॒ य उ॒न्माद्य॑त्ये॒ते खलु॒ वै ग॑न्धर्वाफ्स॒रसो॒ यद्रा᳚ष्ट्र॒भृत॒स्तस्मै॒ स्वाहा॒ ताभ्यः॒ स्वाहेति॑ जुहोति॒ तेनै॒वैना᳚ञ्छमयति॒ नैय॑ग्रोध॒ औदुं॑बर॒ आश्व॑त्थः॒ प्लाख्‍ष॒ इती॒द्ध्मो भ॑वत्ये॒ते वै ग॑न्धर्वाफ्स॒रसा᳚ङ्गृ॒हाः स्व ए॒वैना॑ [२५] ना॒यत॑ने शमयत्यभि॒चर॑ता प्रतिलो॒मꣳ हो॑त॒व्याः᳚ प्रा॒णाने॒वास्य॑ प्र॒तीचः॒ प्रति॑ यौति॒ तन्ततो॒ येन॒ केन॑ च स्तृणुते॒ स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वै॒तद्वा अ॒स्यै निर्‌ऋ॑तिगृहीत॒न्निर्‌ऋ॑तिगृहीत ए॒वैन॒न्निर्‌ऋ॑त्या ग्राहयति॒ यद्वा॒चः क्रू॒रन्तेन॒ वष॑ट् करोति वा॒च ए॒वैन॑ङ्क्रू॒रेण॒ प्र वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ यस्य॑ का॒मये॑ता॒न्नाद्य॒ [२६] मा द॑दी॒येति॒ तस्य॑ स॒भाया॑मुत्ता॒नो नि॒पद्य॒ भुव॑नस्य पत॒ इति॒ तृणा॑नि॒ सङ्गृ॑ह्णीयात् प्र॒जाप॑ति॒र् वै भुव॑नस्य॒ पतिः॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॒मा द॑त्त इ॒दम॒हम॒मुष्या॑ऽऽ*मुष्याय॒णस्या॒न्नाद्य॑ꣳ हरा॒मीत्या॑हा॒न्नाद्य॑मे॒वास्य॑ हरति ष॒ड्भिर्‌ह॑रति॒ षड्वा ऋ॒तवः॑ प्र॒जाप॑तिनै॒वास्या॒ न्नाद्य॑मा॒दाय॒र्तवो᳚ऽस्मा॒ अनु॒ प्र य॑च्छन्ति॒ [२७] यो ज्ये॒ष्ठब॑न्धु॒रप॑ भूतः॒ स्यात् तꣴ स्थले॑ऽव॒साय्य॑ ब्रह्मौद॒नञ्चतु॑श्शरावम्प॒क्त्वा तस्मै॑ होत॒व्या॑ वर्ष्म॒ वै रा᳚ष्ट्र॒भृतो॒ वर्ष्म॒ स्थल॒व्ँवर्ष्म॑णै॒वैन॒व्ँवर्ष्म॑ समा॒नाना᳚ङ्गमयति॒ चतु॑श्शरावो भवति दि॒ख्‍ष्वे॑व प्रति॑ तिष्ठति ख्‍षी॒रे भ॑वति॒ रुच॑मे॒वास्मि॑न् दधा॒त्युद्ध॑रति शृत॒त्वाय॑ स॒र्पिष्वा᳚न् भवति मेद्ध्य॒त्वाय॑ च॒त्वार॑ आर्‌षे॒याः प्राश्ञ॑न्ति दि॒शामे॒व ज्योति॑षि जुहोति⁠ [२८] (ग्रा॒मी यु॑नक्ती॒ द्ध्मः स्व ए॒वैना॑न॒न्नाद्यं॑यच्छ॒न्त्येका॒न्नप॑ञ्चा॒शच्च॑) ॥८॥
देवि॑का॒ निर्व॑पेत् प्र॒जाका॑म॒श्छन्दा॑ꣳसि॒ वै देवि॑का॒श्छन्दा॑ꣳसीव॒ खलु॒ वै प्र॒जाश्छन्दो॑भिरे॒वास्मै᳚ प्र॒जाः प्र ज॑नयति प्रथ॒मन्धा॒तार॑ङ्करोति मिथु॒नी ए॒व तेन॑ करो॒त्यन्वे॒वास्मा॒ अनु॑मतिर् मन्यते रा॒ते रा॒का प्र सि॑नीवा॒ली ज॑नयति प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाच॑न्दधात्ये॒ता ए॒व निर्व॑पेत् प॒शुका॑म॒श्छन्दा॑ꣳसि॒ वै देवि॑का॒श्छन्दा॑ꣳसी [२९] व॒ खलु॒ वै प॒शव॒श्छन्दो॑भिरे॒वास्मै॑ प॒शून् प्र ज॑नयति प्रथ॒मन्धा॒तार॑ङ्करोति॒ प्रैव तेन॑ वापय॒त्यन्वे॒वास्मा॒ अनु॑मतिर्मन्यते रा॒ते रा॒का प्र सि॑नीवा॒ली ज॑नयति प॒शूने॒व प्रजा॑तान् कु॒ह्वा᳚ प्रति॑ ष्ठापयत्ये॒ता ए॒व निर्व॑पे॒द्ग्राम॑काम॒श्छन्दा॑ꣳसि॒ वै देवि॑का॒श्छन्दा॑ꣳसीव॒ खलु॒ वै ग्राम॒श्छन्दो॑भिरे॒वास्मै॒ ग्राम॒ [३०] मव॑ रुन्धे मद्ध्य॒तो धा॒तार॑ङ्करोति मद्ध्य॒त ए॒वैन॒ङ्ग्राम॑स्य दधात्ये॒ता ए॒व निर्व॑पे॒ज्ज्योगा॑मयावी॒ छन्दा॑ꣳसि॒ वै देवि॑का॒श्छन्दा॑ꣳसि॒ खलु॒ वा ए॒तम॒भि म॑न्यन्ते॒ यस्य॒ ज्योगा॒मय॑ति॒ छन्दो॑भिरे॒वैन॑मग॒दङ्क॑रोति मद्ध्य॒तो धा॒तार॑ङ्करोति मद्ध्य॒तो वा ए॒तस्याक्लृ॑प्त॒य्ँयस्य॒ ज्योगा॒मय॑ति मद्ध्य॒त ए॒वास्य॒ तेन॑ कल्पयत्ये॒ता ए॒व निर् [३१] व॑पे॒द्यय्ँय॒ज्ञो नोप॒नमे॒च्छन्दा॑ꣳसि॒ वै देवि॑का॒श्छन्दा॑ꣳसि॒ खलु॒ वा ए॒तन्नोप॑ नमन्ति॒ यय्ँय॒ज्ञो नोप॒नम॑ति प्रथ॒मन्धा॒तार॑ङ्करोति मुख॒त ए॒वास्मै॒ छन्दा॑ꣳसि दधा॒त्युपै॑नय्ँय॒ज्ञो न॑मत्ये॒ता ए॒व निर्व॑पेदीजा॒नश्छन्दा॑ꣳसि॒ वै देवि॑का या॒तया॑मानीव॒ खलु॒ वा ए॒तस्य॒ छन्दा॑ꣳसि॒ य ई॑जा॒न उ॑त्त॒मन्धा॒तार॑ङ्करो [३२] त्यु॒परि॑ष्टादे॒वास्मै॒ छन्दा॒ꣴ॒स्यया॑तयामा॒न्यव॑ रुन्ध॒ उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्ये॒ता ए॒व निर्व॑पे॒द्यम्मे॒धा नोप॒नमे॒च्छन्दा॑ꣳसि॒ वै देवि॑का॒श्छन्दा॑ꣳसि॒ खलु॒ वा ए॒तन्नोप॑ नमन्ति॒ यम्मे॒धा नोप॒नम॑ति प्रथ॒मन्धा॒तार॑ङ्करोति मुख॒त ए॒वास्मै॒ छन्दा॑ꣳसि दधा॒त्युपै॑नम्मे॒धा न॑मत्ये॒ता ए॒व निर्व॑पे॒ [३३] द्रुक्का॑म॒श्छन्दा॑ꣳसि॒ वै देवि॑का॒श्छन्दा॑ꣳसीव॒ खलु॒ वै रुक् छन्दो॑भिरे॒वास्मि॒न् रुच॑न्दधाति ख्‍षी॒रे भ॑वन्ति॒ रुच॑मे॒वास्मि॑न् दधति मद्ध्य॒तो धा॒तार॑ङ्करोति मद्ध्य॒त ए॒वैन॑ꣳ रु॒चो द॑धाति गाय॒त्री वा अनु॑मतिस्त्रि॒ष्टुग्रा॒का जग॑ती सिनीवा॒ल्य॑नु॒ष्टुप् कु॒हूर् धा॒ता व॑षट्का॒रः पू᳚र्वप॒ख्‍षो रा॒काऽप॑रप॒ख्‍षः कु॒हूर॑मावा॒स्या॑ सिनीवा॒ली पौ᳚र्णमा॒स्यनु॑मति श्च॒न्द्रमा॑धा॒ताऽष्टौ [३४] वस॑वो॒ऽष्टाख्‍ष॑रा गाय॒त्य्रेका॑दश रु॒द्रा एका॑दशाख्‍षरा त्रि॒ष्टुब् द्वाद॑शाऽऽ*दि॒त्या द्वाद॑शाख्‍षरा॒ जग॑ती प्र॒जाप॑तिरनु॒ष्टुब् धा॒ता व॑षट्का॒र ए॒तद्वै देवि॑काः॒ सर्वा॑णि च॒ छन्दा॑ꣳसि॒ सर्वा᳚श्च दे॒वता॑ वषट्का॒रस्ता यथ् स॒ह सर्वा॑ नि॒र्वपे॑दीश्व॒रा ए॑नम्प्र॒दहो॒ द्वे प्र॑थ॒मे नि॒रुप्य॑ धा॒तुस्तृ॒तीय॒न्निर्व॑पे॒त् तथो॑ ए॒वोत्त॑रे॒ निर्व॑पे॒त् तथै॑न॒न्न प्र द॑ह॒न्त्य थो॒ यस्मै॒ कामा॑य निरु॒प्यन्ते॒ तमे॒वाऽऽ*भि॒रुपा᳚ऽऽ*प्नोति⁠ [३५] (प॒शुका॑म॒श्छन्दा॑ꣳसि॒ वै देवि॑का॒श्छन्दा॑ꣳसि॒ ग्रामं॑ कल्पयत्ये॒ता ए॒व नि रु॑त्त॒मन्धा॒तार॑ङ्करोति मे॒धा न॑मत्ये॒ता ए॒व निर्व॑पे द॒ष्टौ द॑हन्ति॒ नव॑ च) ॥९॥
अनुवाक ९ विशेष: (देवि॑काः प्र॒जाका॑मो मिथु॒नी प॒शुका॑मः॒ प्रैव ग्राम॑कामो॒ ज्योगा॑मयावी॒ यय्ँय॒ज्ञो य ई॑जा॒नो यं मे॒धा रुक्का॑मो॒ऽष्टौ⁠॥ देवि॑का भवन्ति दधति रा॒ष्ट्रका॑माय भवति दधाति⁠॥)
वास्तो᳚ष्पते॒ प्रति॑ जानी ह्य॒स्मान्थ् स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः⁠। यत् त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे⁠॥ वास्तो᳚ष्पते श॒ग्मया॑ स॒ꣳ॒सदा॑ ते सख्‍षी॒महि॑ र॒ण्वया॑ गातु॒मत्या᳚⁠। आवः॒ ख्‍षेम॑ उ॒त योगे॒ वर॑न्नो यू॒यम्पा॑त स्व॒स्तिभिः॒ सदा॑ नः⁠॥ यथ् सा॒यंप्रा॑तरग्निहो॒त्रञ्जु॒होत्या॑हुतीष्ट॒का ए॒व ता उप॑ धत्ते॒ [३६] यज॑मानोऽहोरा॒त्राणि॒ वा ए॒तस्येष्ट॑का॒ य आहि॑ताग्नि॒र् यथ् सा॒यंप्रा॑तर् जु॒होत्य॑होरा॒त्राण्ये॒वाऽऽप्त्वेष्ट॑काः कृ॒त्वोप॑ धत्ते॒ दश॑ समा॒नत्र॑ जुहोति॒ दशा᳚ख्‍षरा वि॒राड् वि॒राज॑मे॒वाऽऽप्त्वेष्ट॑काङ्कृ॒त्वोप॑ ध॒त्तेऽथो॑ वि॒राज्ये॒व य॒ज्ञमा᳚प्नोति॒ चित्य॑श्चित्योऽस्य भवति॒ तस्मा॒द् यत्र॒ दशो॑षि॒त्वा प्र॒याति॒ तद्य॑ज्ञवा॒स्त्ववा᳚स्त्वे॒व तद् यत् ततो᳚ऽर्वा॒चीन॑ꣳ [३७] रु॒द्रः खलु॒ वै वा᳚स्तोष्प॒तिर् यदहु॑त्वा वास्तोष्प॒तीय॑म्प्रया॒याद् रु॒द्र ए॑नम्भू॒त्वाऽग्निर॑नू॒त्थाय॑ हन्याद् वास्तोष्प॒तीय॑ञ्जुहोति भाग॒धेये॑नै॒वैन॑ꣳ शमयति॒ नाऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानो॒ यद्यु॒क्ते जु॑हु॒याद् यथा॒ प्रया॑ते॒ वास्ता॒वाहु॑तिञ्जु॒होति॑ ता॒दृगे॒व तद् यदयु॑क्ते जुहु॒याद् यथा॒ ख्‍षेम॒ आहु॑तिञ्जु॒होति॑ ता॒दृगे॒व तदहु॑तमस्य वास्तोष्प॒तीय॑ꣴ स्या॒द् [३८] दख्‍षि॑णो यु॒क्तो भव॑ति स॒व्योऽयु॒क्तोऽथ॑ वास्तोष्प॒तीय॑ञ्जुहोत्यु॒भय॑मे॒वाऽ क॒रप॑रिवर्गमे॒ वैन॑ꣳ शमयति॒ यदेक॑या जुहु॒याद् द॑र्विहो॒मङ्कु॑र्यात् पुरोनुवा॒क्या॑म॒नूच्य॑ या॒ज्य॑या जुहोति सदेव॒त्वाय॒ यद्धु॒त आ॑द॒द्ध्याद् रु॒द्रङ्गृ॒हान॒न्वारो॑हये॒द्यद॑व॒ख्‍षाणा॒न्यसं॑प्रख्‍षाप्य प्रया॒याद् यथा॑ यज्ञवेश॒सव्ँवा॒ऽऽदह॑नव्ँवा ता॒दृगे॒व तद॒यन्ते॒ योनि॑र्‌ऋ॒त्विय॒ इत्य॒रण्योः᳚ स॒मारो॑हय [३९] त्ये॒ष वा अ॒ग्नेर् योनिः॒ स्व ए॒वैन॒य्ँयोनौ॑ स॒मारो॑हय॒त्यथो॒ खल्वा॑हु॒र् यद॒रण्योः᳚ स॒मारू॑ढो॒ नश्ये॒दुद॑स्या॒ग्निः सी॑देत् पुनरा॒धेयः॑ स्या॒दिति॒ या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्या रो॒हेत्या॒त्मन्थ् स॒मारो॑हयते॒ यज॑मानो॒ वा अ॒ग्नेर् योनिः॒ स्वाया॑मे॒वैन॒य्ँयोन्या॑ꣳ स॒मारो॑हयते⁠ [४०] (ध॒त्ते॒ ऽर्वा॒चीन॑ꣴ स्याथ् स॒मारो॑हयति॒ पञ्च॑चत्वारिꣳशच्च) ॥१०॥
त्वम॑ग्ने बृ॒हद् वयो॒ दधा॑सि देव दा॒शुषे᳚⁠। क॒विर् गृ॒हप॑ति॒र् युवा᳚⁠॥ ह॒व्य॒वाड॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे⁠। सु॒गा॒र्॒‌ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्रिय॒ख् सम्मि॑मीहि॒ श्रवा॑ꣳसि⁠॥ त्वञ्च॑ सोम नो॒ वशो॑ जी॒वातु॒न्न म॑रामहे⁠। प्रि॒यस्तो᳚त्रो॒ वन॒स्पतिः॑⁠॥ ब्र॒ह्मा दे॒वाना᳚म्पद॒वीः क॑वी॒नामृषि॒र् विप्रा॑णाम्महि॒षो मृ॒गाणा᳚म्⁠। श्ये॒नो गृध्रा॑णा॒ꣴ॒ स्वधि॑ति॒र् वना॑ना॒ꣳ॒ सोमः॑ [४१] प॒वित्र॒मत्ये॑ति॒ रेभ॑न्न्⁠॥ आ वि॒श्वदे॑व॒ꣳ॒ सत्प॑तिꣳ सू॒क्तैर॒द्या वृ॑णीमहे⁠। स॒त्यस॑वꣳ सवि॒तार᳚म्⁠॥ आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृत॒म्मर्त्य॑ञ्च⁠। हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्य॑न्न्⁠॥ यथा॑ नो॒ अदि॑तिः॒ कर॒त् पश्वे॒ नृभ्यो॒ यथा॒ गवे᳚⁠। यथा॑ तो॒काय॑ रु॒द्रिय᳚म्⁠॥ मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा [४२] नो॒ अश्वे॑षु रीरिषः⁠। वी॒रान् मा नो॑ रुद्र भामि॒तो व॑धीर्‌ह॒विष्म॑न्तो॒ नम॑सा विधेम ते⁠॥ उ॒द॒प्रुतो॒ न वयो॒ रख्‍ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः᳚⁠। गि॒रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॑र्का अ॑नावन्न्⁠॥ ह॒ꣳ॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया॑नि॒ नह॑ना॒ व्यस्य॑न्न्⁠। बृह॒स्पति॑रभि॒कनि॑क्रद॒द् गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाꣳ अ॑गायत्⁠॥ एन्द्र॑ सान॒सिꣳ र॒यिꣳ [४३] स॒जित्वा॑नꣳ सदा॒सह᳚म्⁠। वर्‌षि॑ष्ठमू॒तये॑ भर⁠॥ प्र स॑साहिषे पुरुहूत॒ शत्रू॒न् ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु⁠। इन्द्राऽऽभ॑र॒ दख्‍षि॑णेना॒ वसू॑नि॒ पतिः॒ सिन्धू॑नामसि रे॒वती॑नाम्⁠॥ त्वꣳ सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः⁠। इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो⁠॥ भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान् भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञियः॑⁠। भुवो॒नृꣴश्च॒त्नो विश्व॑स्मि॒न् भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो॑ [४४] विश्वचर्‌षणे⁠॥ मि॒त्रस्य॑ चर्‌षणी॒धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम्⁠। स॒त्यञ्चि॒त्रश्र॑वस्तमम्⁠॥ मि॒त्रो जना॑न् यातयति प्रजा॒नन् मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम्⁠। मि॒त्रः कृ॒ष्टीरनि॑मिषा॒ऽभि च॑ष्टे स॒त्याय॑ ह॒व्यङ्घृ॒तव॑द् विधेम⁠॥ प्रसमि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्॒‌यस्त॑ आदित्य॒ शिख्‍ष॑ति व्र॒तेन॑⁠। न ह॑न्यते॒ न जी॑यते॒ त्वातो॒ नैन॒मꣳहो॑ अश्ञो॒त्यन्ति॑तो॒ न दू॒रात्⁠॥ य [४५] च्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तम्⁠। मि॒नी॒मसि॒ द्यवि॑द्यवि⁠॥ यत् किञ्चे॒दव्ँव॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हम्म॑नु॒ष्या᳚श्चरा॑मसि⁠। अचि॑त्ती॒ यत् तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः⁠॥ कि॒त॒वासो॒ यद् रि॑रि॒पुर् न दी॒वि यद् वा॑ घा स॒त्यमु॒तयन्न वि॒द्म⁠। सर्वा॒ ता वि ष्य॑ शिथि॒रे व॑ द॒वाऽथा॑ ते स्याम वरुण प्रि॒यासः॑⁠ [४६] (सोमो॒ गोषु॒ मा र॒यिं मन्त्रो॒ य च्छि॑थि॒रा स॒प्त च॑) ॥११॥
(वि वा ए॒तस्या वा॑यो इ॒मे वै चि॒त्तञ्चा॒ ऽग्निर् भू॒तानां᳚ दे॒वा वा अ॑भ्याता॒ना नृ॑ता॒षाड्रा॒ष्ट्रका॑माय॒ देवि॑का॒ वास्तो᳚ष्पते॒ त्वम॑ग्ने बृ॒ह देका॑दश)
(वि वा ए॒तस्येत्या॑ह मृ॒त्युर्ग॑न्ध॒र्वो ऽव॑ रुन्धे मद्ध्य॒त स्त्वम॑ग्ने बृ॒हथ् षट्च॑त्वारिꣳशत्)
(वि वा ए॒तस्य॑ प्रि॒यासः॑)
अनुवाकाः पञ्चशती
११ ४६