कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
तृतीयकाण्डे पञ्चमः प्रश्नः

कांड ३ प्रश्न ५
इष्टिशेषाभिधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॒दुन्म॑द्ध॒तः पौ᳚र्णमा॒सी जि॑गाय⁠। तस्या᳚न्दे॒वा अधि॑ स॒व्ँवस॑न्त उत्त॒मे नाक॑ इ॒ह मा॑दयन्ताम्⁠॥ यत्ते॑ दे॒वा अद॑धुर् भाग॒धेय॒ममा॑वास्ये स॒व्ँवस॑न्तो महि॒त्वा⁠। सा नो॑ य॒ज्ञम्पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीर᳚म्⁠॥ नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑ना॒व्ँविश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती⁠। स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒ सा न॒ आ ग॒न् वर्च॑सा [१] सव्ँविदा॒ना⁠॥ अग्नी॑षोमौ प्रथ॒मौ वी॒र्ये॑ण॒ वसू᳚न् रु॒द्राना॑दि॒त्यानि॒ह जि॑न्वतम्⁠। मा॒द्धꣳ हि पौ᳚र्णमा॒सञ्जु॒षेथा॒म्ब्रह्म॑णा वृ॒द्धौ सु॑कृ॒तेन॑ सा॒तावथा॒ऽस्मभ्य॑ꣳ स॒हवी॑राꣳ र॒यिन्नि य॑च्छतम्⁠॥ आ॒दि॒त्याश्चाऽङ्गि॑रसश्चा॒ग्नीनाऽद॑धत॒ ते द॑र्शपूर्णमा॒सौ प्रैफ्स॒न् तेषा॒मङ्गि॑रसा॒न्निरु॑प्तꣳ ह॒विरासी॒दथा॑ऽऽ*दि॒त्या ए॒तौ होमा॑वपश्य॒न् ताव॑जुहवु॒स्ततो॒ वै ते द॑र्‌शपूर्णमा॒सौ [२] पूर्व॒ आऽल॑भन्त दर्‌शपूर्णमा॒सावा॒लभ॑मान ए॒तौ होमौ॑ पु॒रस्ता᳚ज्जुहुयाथ् सा॒ख्‍षादे॒व द॑र्‌शपूर्ण मा॒सावा ल॑भते ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै द॑र्‌शपूर्णमा॒सावा ल॑भेत॒ य ए॑नयोरनुलो॒मञ्च॑ प्रतिलो॒मञ्च॑ वि॒द्यादित्य॑मावा॒स्या॑या ऊ॒र्द्धन्तद॑नुलो॒मम्पौ᳚र्णमा॒स्यै प्र॑ती॒चीन॒न्तत् प्र॑तिलो॒मय्ँयत् पौ᳚र्णमा॒सीम्पूर्वा॑मा॒लभे॑त प्रतिलो॒ममे॑ना॒वा ल॑भेता॒मुम॑प॒ख्‍षीय॑माण॒मन्वप॑ [३] ख्‍षीयेत सारस्व॒तौ होमौ॑ पु॒रस्ता᳚ज्जुहुयादमावा॒स्या॑ वै सर॑स्वत्यनुलो॒ममे॒वैना॒वा ल॑भते॒ ऽमुमा॒प्याय॑मान॒मन्वा प्या॑यत आग्नावैष्ण॒व मेका॑दशकपालम्पु॒रस्ता॒न्निर्व॑पे॒थ् सर॑स्वत्यै च॒रुꣳ सर॑स्वते॒ द्वाद॑शकपाल॒य्ँयदा᳚ग्ने॒यो भव॑त्य॒ग्निर् वै य॑ज्ञमु॒खय्ँय॑ज्ञमु॒खमे॒वर्द्धि॑म्पु॒रस्ता᳚द्धत्ते॒ यद्वै᳚ष्ण॒वो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वाऽऽ*रभ्य॒ प्र त॑नुते॒ सर॑स्वत्यै च॒रुर् भ॑वति॒ सर॑स्वते॒ द्वाद॑शकपालोऽमावा॒स्या॑ वै सर॑स्वती पू॒र्णमा॑सः॒ सर॑स्वा॒न् तावे॒व सा॒ख्‍षादा र॑भत ऋ॒द्धोत्या᳚भ्या॒न्द्वाद॑शकपालः॒ सर॑स्वते भवति मिथुन॒त्वाय॒ प्रजा᳚त्यै मिथु॒नौ गावौ॒ दख्‍षि॑णा॒ समृ॑द्ध्यै⁠ [४] (वर्च॑सा॒ वै ते द॑र्‌शपूर्णमा॒सा वप॑ तनुते॒ सर॑स्वत्यै॒ पञ्च॑विꣳशतिश्च) ॥१॥
ऋष॑यो॒ वा इन्द्र॑म्प्र॒त्यख्‍ष॒न्नाप॑श्य॒न् तव्ँवसि॑ष्ठः प्र॒त्यख्‍ष॑मपश्य॒थ् सो᳚ऽब्रवी॒द्ब्राह्म॑णन्ते वख्‍ष्यामि॒ यथा॒ त्वत्पु॑रोहिताः प्र॒जाः प्र॑जनि॒ष्यन्तेऽथ॒ मेत॑रेभ्य॒ ऋषि॑भ्यो॒ मा प्र वो॑च॒ इति॒ तस्मा॑ ए॒तान्थ्स्तोम॑भागानब्रवी॒त् ततो॒ वसि॑ष्ठपुरोहिताः प्र॒जाः प्राजा॑यन्त॒ तस्मा᳚द्वासि॒ष्ठो ब्र॒ह्मा का॒र्यः॑ प्रैव जा॑यते र॒श्मिर॑सि॒ ख्‍षया॑य त्वा॒ ख्‍षय॑ञ्जि॒न्वे [५] त्या॑ह दे॒वा वै ख्‍षयो॑ दे॒वेभ्य॑ ए॒व य॒ज्ञम्प्राऽऽ*ह॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्म॑ञ्जि॒न्वेत्या॑ह मनु॒ष्या॑ वै धर्मो॑ मनु॒ष्ये᳚भ्य ए॒व य॒ज्ञम्प्राऽऽ*हान्वि॑तिरसि दि॒वे त्वा॒ दिव॑ञ्जि॒न्वेत्या॑है॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञम्प्राऽऽ*ह॑ विष्टं॒भो॑ऽसि॒ वृष्ट्यै᳚ त्वा॒ वृष्टि॑ञ्जि॒न्वेत्या॑ह॒ वृष्टि॑मे॒वाव॑ [६] रुन्धे प्र॒वाऽस्य॑नु॒वाऽसीत्या॑ह मिथुन॒त्वायो॒शिग॑सि॒ वसु॑भ्यस्त्वा॒ वसू᳚ञ्जि॒न्वेत्या॑हा॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑शाऽऽ*दि॒त्या ए॒ताव॑न्तो॒ वै दे॒वास्तेभ्य॑ ए॒व य॒ज्ञम्प्राऽऽ*हौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तृन् जि॒न्वेत्या॑ह दे॒वाने॒व पि॒तृननु॒ सन्त॑नोति॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॒न्वे [७] त्या॑ह पि॒तृने॒व प्र॒जा अनु॒ सन्त॑नोति पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॒न्वेत्या॑ह प्र॒जा ए॒व प॒शूननु॒ सन्त॑नोति रे॒वद॒स्योष॑धीभ्य॒ स्त्वौष॑धीर् जि॒न्वेत्या॒हौष॑धीष्वे॒व प॒शून् प्रति॑ ष्ठापयत्यभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्र॑ञ्जि॒न्वेत्या॑हा॒भिजि॑त्या॒ अधि॑पतिरसि प्रा॒णाय॑ त्वा प्रा॒णं [८] जि॒न्वेत्या॑ह प्र॒जास्वे॒व प्रा॒णान् द॑धाति त्रि॒वृद॑सि प्र॒वृद॒सीत्या॑ह मिथुन॒त्वाय॑ सꣳरो॒हो॑ऽसि नीरो॒हो॑ऽसीत्या॑ह॒ प्रजा᳚त्यै वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्या॑ह॒ प्रति॑ष्ठित्यै⁠ [९] (जि॒न्वेत्यव॑ प्र॒जा जि॑न्व प्रा॒णन् त्रि॒ꣳ॒शच्च॑) ॥२॥
अ॒ग्निना॑ दे॒वेन॒ पृत॑ना जयामि गाय॒त्रेण॒ छन्द॑सा त्रि॒वृता॒ स्तोमे॑न रथन्त॒रेण॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण पूर्व॒जान् भ्रातृ॑व्या॒नध॑रान् पादया॒म्यवै॑नान् बाधे॒ प्रत्ये॑नान्नुदे॒ऽस्मिन् ख्‍षये॒ऽस्मिन् भू॑मिलो॒के यो᳚ऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मो विष्णोः॒ क्रमे॒णाऽत्ये॑नान् क्रामा॒मीन्द्रे॑ण दे॒वेन॒ पृत॑ना जयामि॒ त्रैष्टु॑भेन॒ छन्द॑सा पञ्चद॒शेन॒ स्तोमे॑न बृह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण [१०] सह॒जान्‌विश्वे॑भिर् दे॒वेभिः॒ पृत॑ना जयामि॒ जाग॑तेन॒ छन्द॑सा सप्तद॒शेन॒ स्तोमे॑न वामदे॒व्येन॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑णापर॒जानिन्द्रे॑ण स॒युजो॑ व॒यꣳ सा॑स॒ह्याम॑ पृतन्य॒तः⁠। घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति⁠। यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यास॒य्ँयत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑र्च॒स्वी भू॑यास॒य्ँयत्ते॑ अग्ने॒ हर॒स्तेना॒हꣳ ह॑र॒स्वी भू॑यासम्⁠ [११] (बृ॒ह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण॒ षट्च॑त्वारिꣳशच्च) ॥३॥
ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषः॑ पृथि॒व्यामद्धास॑ते⁠। अ॒ग्निर् मा॒ तेभ्यो॑ रख्‍षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम्⁠॥ आऽग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णाम्भा॒गो यु॒वयो॒र् यो अस्ति॑⁠। नाक॑ङ्गृह्णा॒नाः सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः⁠॥ ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॒ऽन्तरि॒ख्‍षेऽद्धास॑ते⁠। वा॒युर् मा॒ तेभ्यो॑ रख्‍षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम्⁠॥ यास्ते॒ रात्रीः᳚ सवितर् [१२] देव॒यानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑⁠। गृ॒हैश्च॒ सर्वैः᳚ प्र॒जया॒ न्वग्रे॒ सुवो॒ रुहा॑णास्तरता॒ रजा॑ꣳसि⁠॥ ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॑ दि॒व्यद्धास॑ते⁠। सूर्यो॑ मा॒ तेभ्यो॑ रख्‍षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम्⁠॥ येनेन्द्रा॑य स॒मभ॑रः॒ पया॑ꣴस्युत्त॒मेन॑ ह॒विषा॑ जातवेदः⁠। तेना᳚ऽग्ने॒ त्वमु॒त व॑र्द्धये॒मꣳ स॑जा॒ताना॒ꣴ॒ श्रैष्ठ्य॒ आ धे᳚ह्येनम्⁠॥ य॒ज्ञ॒हनो॒ वै दे॒वा य॑ज्ञ॒मुषः॑ [१३] सन्ति॒ त ए॒षु लो॒केष्वा॑सत आ॒ददा॑ना विमथ्ना॒ना यो ददा॑ति॒ यो यज॑ते॒ तस्य॑⁠। ये दे॒वा य॑ज्ञ॒हनः॑ पृथि॒व्यामद्धास॑ते॒ ये अ॒न्तरि॑ख्‍षे॒ ये दि॒वीत्या॑हे॒माने॒व लो॒काꣴस्ती॒र्त्वा सगृ॑हः॒ सप॑शुः सुव॒र्गल्ँलो॒कमे॒त्यप॒ वै सोमे॑नेजा॒नाद् दे॒वता᳚श्च य॒ज्ञश्च॑ क्रामन्त्याग्ने॒यं पञ्च॑कपालमुदवसा॒नीय॒न्निर्व॑पेद॒ग्निः सर्वा॑ दे॒वताः॒ [१४] पाङ्क्तो॑ य॒ज्ञो दे॒वता᳚श्चै॒व य॒ज्ञञ्चाव॑ रुन्धे गाय॒त्रो वा अ॒ग्निर् गा॑य॒त्रछ॑न्दा॒ स्तञ्छन्द॑सा॒ व्य॑र्द्धयति॒ यत् पञ्च॑कपालङ्क॒रोत्य॒ष्टाक॑पालः का॒र्यो᳚ऽष्टाख्‍ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर् गा॑य॒त्रछ॑न्दाः॒ स्वेनै॒वैन॒ञ्छन्द॑सा॒ सम॑र्द्धयति प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः॒ पाङ्क्तो॑ य॒ज्ञस्तेनै॒व य॒ज्ञान् नैति॑⁠ [१५] (स॒वि॒त॒र् दे॒वा य॑ज्ञ॒मुषः॒ सर्वा॑ दे॒वता॒ स्त्रिच॑त्वारिꣳशच्च) ॥४॥
सूर्यो॑ मा दे॒वो दे॒वेभ्यः॑ पातु वा॒युर॒न्तरि॑ख्‍षा॒द्यज॑मानो॒ऽग्निर् मा॑ पातु॒ चख्‍षु॑षः⁠। सख्‍ष॒ शूष॒ सवि॑त॒र् विश्व॑चर्‌षण ए॒तेभिः॑ सोम॒ नाम॑भिर् विधेम ते॒ तेभिः॑ सोम॒ नाम॑भिर् विधेम ते⁠॥ अ॒हम्प॒रस्ता॑द॒हम॒वस्ता॑द॒हञ्ज्योति॑षा॒ वि तमो॑ ववार⁠। यद॒न्तरि॑ख्‍ष॒न्तदु॑ मे पि॒ताऽभू॑द॒हꣳ सूर्य॑मुभ॒यतो॑ ददर्‌शा॒हम्भू॑यासमुत्त॒मः स॑मा॒नाना॒ [१६] मा स॑मु॒द्रादाऽन्तरि॑ख्‍षात् प्र॒जाप॑तिरुद॒धिञ्च्या॑वया॒तीन्द्रः॒ प्र स्नौ॑तु म॒रुतो॑ वर्‌षय॒न्तून्नं॑भय पृथि॒वीम्भि॒न्धीदन्दि॒व्यन्नभः॑⁠। उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति᳚म्⁠। प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निरोष॑धीः॒ प्रास्या॒ग्नावा॑दि॒त्यञ्जु॑होति रु॒द्रादे॒व प॒शून॒न्तर् द॑धा॒त्यथो॒ ओष॑धीष्वे॒व प॒शून् [१७] प्रति॑ ष्ठापयति क॒विर् य॒ज्ञस्य॒ वि त॑नोति॒ पन्था॒न्नाक॑स्य पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः⁠। येन॑ ह॒व्यव्ँवह॑सि॒ यासि॑ दू॒त इ॒तः प्रचे॑ता अ॒मुतः॒ सनी॑यान्⁠॥ यास्ते॒ विश्वाः᳚ स॒मिधः॒ सन्त्य॑ग्ने॒ याः पृ॑थि॒व्याम्ब॒र्॒‌हिषि॒ सूर्ये॒ याः⁠। तास्ते॑ गच्छ॒न्त्वाहु॑तिङ्घृ॒तस्य॑ देवाय॒ते यज॑मानाय॒ शर्म॑⁠॥ आ॒शासा॑नः सु॒वीर्य॑ꣳ रा॒यस्पोष॒ꣴ॒ स्वश्वि॑यम्⁠। बृह॒स्पति॑ना रा॒या स्व॒गाकृ॑तो॒ मह्य॒य्ँयज॑मानाय तिष्ठ⁠ [१८] (स॒मा॒नाना॒मोष॑धीष्वे॒व प॒शून्मह्य॒य्ँयज॑माना॒यैक॑ञ्च) ॥५॥
सन्त्वा॑ नह्यामि॒ पय॑सा घृ॒तेन॒ सन्त्वा॑ नह्याम्य॒प ओष॑धीभिः⁠। सन्त्वा॑ नह्यामि प्र॒जया॒ऽहम॒द्य सा दी᳚ख्‍षि॒ता स॑नवो॒ वाज॑म॒स्मे⁠॥ प्रैतु॒ ब्रह्म॑ण॒स्पत्नी॒ वेदि॒व्ँवर्णे॑न सीदतु⁠। अथा॒हम॑नुका॒मिनी॒ स्वे लो॒के वि॒शा इ॒ह⁠॥ सु॒प्र॒जस॑ स्त्वा व॒यꣳ सु॒पत्नी॒रुप॑ सेदिम⁠। अग्ने॑ सपत्न॒दंभ॑न॒मद॑ब्धासो॒ अदा᳚भ्यम्⁠॥ इ॒मव्ँविष्या॑मि॒ वरु॑णस्य॒ पाश॒ [१९] य्ँयमब॑द्ध्नीत सवि॒ता सु॒केतः॑⁠। धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम्मे॑ स॒ह पत्या॑ करोमि⁠॥ प्रेह्यु॒देह्यृ॒तस्य॑ वा॒मीरन्व॒ग्नि स्तेऽग्र॑न्नय॒त्वदि॑ति॒र् मद्ध॑न्ददताꣳ रु॒द्राव॑सृष्टाऽसि यु॒वा नाम॒ मा मा॑ हिꣳसी॒र् वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे᳚भ्यो वो दे॒वेभ्यः॑ प॒न्नेज॑नीर् गृह्णामि य॒ज्ञाय॑ वः प॒न्नेज॑नीः सादयामि॒ विश्व॑स्य ते॒ विश्वा॑वतो॒ वृष्णि॑यावत॒ [२०] स्तवा᳚ग्ने वा॒मीरनु॑ स॒न्दृशि॒ विश्वा॒ रेता॑ꣳसि धिषी॒याऽग॑न् दे॒वान् य॒ज्ञो नि दे॒वीर्दे॒वेभ्यो॑ य॒ज्ञम॑शिषन्न॒स्मिन्थ् सु॑न्व॒ति यज॑मान आ॒शिषः॒ स्वाहा॑कृताः समुद्रे॒ष्ठा ग॑न्ध॒र्वमा ति॑ष्ठ॒तानु॑⁠। वात॑स्य॒ पत्म॑न्नि॒ड ई॑डि॒ताः⁠ [२१] (पाशं॒ वृष्णि॑यावत स्त्रि॒ꣳ॒शच्च॑) ॥६॥
व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚ऽच्छिन॒त् तस्यै॒ रसः॒ परा॑ऽपत॒थ् स पृ॑थि॒वीम्प्रावि॑श॒थ् स ख॑दि॒रो॑ऽभव॒द् यस्य॑ खादि॒रः स्रु॒वो भव॑ति॒ छन्द॑सामे॒व रसे॒नाव॑ द्यति॒ सर॑सा अ॒स्याऽऽ*हु॑तयो भवन्ति तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसी॒त् तङ्गा॑य॒त्र्याऽह॑र॒त् तस्य॑ प॒र्णम॑च्छिद्यत॒ तत् प॒र्णो॑ऽभव॒त् तत् प॒र्णस्य॑ पर्ण॒त्वय्ँयस्य॑ पर्ण॒मयी॑ जु॒हूर् [२२] भव॑ति सौ॒म्या अ॒स्याऽऽ*हु॑तयो भवन्ति जु॒षन्ते᳚ऽस्य दे॒वा आहु॑तीर्दे॒वा वै ब्रह्म॑न्नवदन्त॒ तत् प॒र्ण उपा॑ऽ*शृणोथ् सु॒श्रवा॒ वै नाम॒ यस्य॑ पर्ण॒मयी॑ जु॒हूर् भव॑ति॒ न पा॒पꣴ श्लोक॑ꣳ शृणोति॒ ब्रह्म॒ वै प॒र्णो विण् म॒रुतोऽन्न॒व्ँविण् मा॑रु॒तो᳚ऽश्व॒त्थो यस्य॑ पर्ण॒मयी॑ जु॒हूर् भव॒त्याश्व॑त्थ्युप॒भृद् ब्रह्म॑णै॒वान्न॒मव॑ रु॒न्धेऽथो॒ ब्रह्मै॒ [२३] व वि॒श्यध्यू॑हति रा॒ष्ट्रव्ँवै प॒र्णो विड॑श्व॒त्थो यत् प॑र्ण॒मयी॑ जु॒हूर् भव॒त्याश्व॑त्थ्युप॒भृद्रा॒ष्ट्रमे॒व वि॒श्यध्यू॑हति प्र॒जाप॑ति॒र् वा अ॑जुहो॒थ् सा यत्राऽऽहु॑तिः प्र॒त्यति॑ष्ठ॒त् ततो॒ विक॑ङ्कत॒ उद॑तिष्ठ॒त् ततः॑ प्र॒जा अ॑सृजत॒ यस्य॒ वैक॑ङ्कती ध्रु॒वा भव॑ति॒ प्रत्ये॒वास्याऽऽ*हु॑तय स्तिष्ठ॒न्त्यथो॒ प्रैव जा॑यत ए॒तद्वै स्रु॒चाꣳ रू॒पय्ँयस्यै॒वꣳ रू॑पाः॒ स्रुचो॒ भव॑न्ति॒ सर्वा᳚ण्ये॒वैन॑ꣳ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ते॒ नास्याप॑रूपमा॒त्मञ्जा॑यते⁠ [२४] (जु॒हू रथो॒ ब्रह्म॑ स्रु॒चाꣳ स॒प्तद॑श च) ॥७॥
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तङ्गृह्णामि॒ दख्‍षा॑य दख्‍ष॒वृधे॑ रा॒तं दे॒वेभ्यो᳚ऽग्नि जि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यः प॒र्जन्या᳚त्मभ्यो दि॒वे त्वा॒ऽन्तरि॑ख्‍षाय त्वा पृथि॒व्यै त्वाऽपे᳚न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो ज॒ह्यप॒ यो नो॑ऽराती॒यति॒ तञ्ज॑हि प्रा॒णाय॑ त्वाऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा स॒ते त्वाऽस॑ते त्वा॒ऽद्भ्यस्त्वौष॑धीभ्यो॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्यो॒ यतः॑ प्र॒जा अक्खि॑द्रा॒ अजा॑यन्त॒ तस्मै᳚ त्वा प्र॒जाप॑तये विभू॒दाव्‌न्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तञ्जुहोमि⁠ [२५] (ओष॑धीभ्य॒ श्चतु॑र्दश च) ॥८॥
याव्ँवा अ॑द्ध॒र्युश्च॒ यज॑मानश्च दे॒वता॑मन्तरि॒तस्तस्या॒ आ वृ॑श्च्येते प्राजाप॒त्यन्द॑धिग्र॒हङ्गृ॑ह्णीयात् प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता᳚भ्य ए॒व नि ह्नु॑वाते ज्ये॒ष्ठो वा ए॒ष ग्रहा॑णा॒य्ँयस्यै॒ष गृ॒ह्यते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छति॒ सर्वा॑सा॒व्ँवा ए॒तद् दे॒वता॑नाꣳ रू॒पय्ँयदे॒ष ग्रहो॒ यस्यै॒ष गृ॒ह्यते॒ सर्वा᳚ण्ये॒वैन॑ꣳ रू॒पाणि॑ पशू॒नामुप॑तिष्ठन्त उपया॒मगृ॑हीतो [२६] ऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तङ्गृह्णा॒मीत्या॑ह॒ ज्योति॑रे॒वैन॑ꣳ समा॒नानां᳚ करोत्यग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इत्या॑है॒ताव॑ती॒र् वै दे॒वता॒स्ताभ्य॑ ए॒वैन॒ꣳ॒ सर्वा᳚भ्यो गृह्णा॒त्यपे᳚न्द्र द्विष॒तो मन॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्त्यै प्रा॒णाय॑ त्वाऽपा॒नाय॒ त्वेत्या॑ह प्रा॒णाने॒व यज॑माने दधाति॒ तस्मै᳚ त्वा प्र॒जाप॑तये विभू॒दाव्‌न्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तञ्जुहो॒मी [२७] त्या॑ह प्र॒जाप॑तिः॒ सर्वा॑ दे॒वताः॒ सर्वा᳚भ्य ए॒वैन॑न्दे॒वता᳚भ्यो जुहोत्याज्यग्र॒हङ्गृ॑ह्णीया॒त् तेज॑स्कामस्य॒ तेजो॒ वा आज्य॑न्तेज॒स्व्ये॑व भ॑वति सोमग्र॒हङ्गृ॑ह्णीयाद्ब्रह्मवर्च॒सका॑मस्य ब्रह्मवर्च॒सव्ँवै सोमो᳚ ब्रह्मवर्च॒स्ये॑व भ॑वति दधिग्र॒हङ्गृ॑ह्णीयात् प॒शुका॑म॒स्योर्ग्वै दद्धर्क् प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्धे⁠ [२८] (उ॒प॒या॒मगृ॑हीतो जुहोमि॒ त्रिच॑त्वारिꣳशच्च) ॥९॥
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर् यदे॒ते त्रिर् भव॒न्त्यूमाः᳚⁠। स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ समत॑ ऊ॒ षु मधु॒ मधु॑ना॒ऽभि यो॑धि⁠। उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ्गृह्णाम्ये॒ष ते॒ योनिः॑ प्र॒जाप॑तये त्वा⁠॥ प्रा॒ण॒ग्र॒हान् गृ॑ह्णात्ये॒ताव॒द् व्वा अ॑स्ति॒ याव॑दे॒ते ग्रहाः॒ स्तोमा॒श्छन्दा॑ꣳसि पृ॒ष्ठानि॒ दिशो॒ याव॑दे॒वास्ति॒ त [२९] दव॑ रुन्धे ज्ये॒ष्ठा वा ए॒तान् ब्रा᳚ह्म॒णाः पु॒रा वि॒दाम॑क्र॒न् तस्मा॒त् तेषा॒ꣳ॒ सर्वा॒ दिशो॒ऽभिजि॑ता अभूव॒न्॒‌यस्यै॒ते गृ॒ह्यन्ते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छत्य॒भि दिशो॑ जयति॒ पञ्च॑ गृह्यन्ते॒ पञ्च॒ दिशः॒ सर्वा᳚स्वे॒व दि॒ख्‍ष्वृ॑द्धवन्ति॒ नव॑नव गृह्यन्ते॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति प्राय॒णीये॑ चोदय॒नीये॑ च गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः [३०] प्रा॒णैरे॒व प्र॒यन्ति॑ प्रा॒णैरुद् य॑न्ति दश॒मेऽह॑न् गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः प्रा॒णेभ्यः॒ खलु॒ वा ए॒तत् प्र॒जा य॑न्ति॒ यद् वा॑मदे॒व्यय्ँयोने॒श्च्यव॑ते दश॒मेऽह॑न् वामदे॒व्यय्ँयोने᳚श्च्यवते॒ यद्द॑श॒मेऽह॑न् गृ॒ह्यन्ते᳚ प्रा॒णेभ्य॑ ए॒व तत् प्र॒जा न य॑न्ति⁠ [३१] (तत् प्रा॑णग्र॒हाः स॒प्तवि॑ꣳशच्च) ॥१०॥
प्र दे॒वन्दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम्⁠। ह॒व्या नो॑ वख्‍षदानु॒षक्⁠॥ अ॒यमु॒ ष्य प्रदे॑व॒युर्‌होता॑ य॒ज्ञाय॑ नीयते⁠। रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वान् चेतति॒ त्मना᳚⁠॥ अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः⁠। सह॑सश्चि॒थ् सही॑यान् दे॒वो जी॒वात॑वे कृ॒तः⁠॥ इडा॑यास्त्वा प॒दे व॒यन्नाभा॑ पृथि॒व्या अधि॑⁠। जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे⁠ [३२] अग्ने॒ विश्वे॑भिः स्वनीक दे॒वैरूर्णा॑वन्तम्प्रथ॒मः सी॑द॒ योनि᳚म्⁠। कु॒ला॒यिन॑ङ्घृ॒तव॑न्तꣳ सवि॒त्रे य॒ज्ञन्न॑य॒ यज॑मानाय सा॒धु⁠॥ सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्थ् सा॒दया॑ य॒ज्ञꣳ सु॑कृ॒तस्य॒ योनौ᳚⁠। दे॒वा॒वीर् दे॒वान्‌ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः⁠॥ नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाꣳ अ॑सदथ् सु॒दख्‍षः॑⁠। अद॑ब्धव्रतप्रमति॒र् वसि॑ष्ठः सहस्रंभ॒रः शुचि॑जिह्वो अ॒ग्निः⁠॥ त्वन्दू॒तस्त्व [३३] मु॑ नः पर॒स्पास्त्वव्ँवस्य॒ आ वृ॑षभ प्रणे॒ता⁠। अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न् दीद्य॑द् बोधि गो॒पाः⁠॥ अ॒भि त्वा॑ देव सवित॒रीशा॑न॒व्ँवार्या॑णाम्⁠। सदा॑ऽवन् भा॒गमी॑महे⁠॥ म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मय्ँय॒ज्ञम्मि॑मिख्‍षताम्⁠। पि॒पृ॒तान्नो॒ भरी॑मभिः⁠॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दद्धथ॑र्वा॒ निर॑मन्थत⁠। मू॒र्द्‌ध्नो विश्व॑स्य वा॒घतः॑⁠॥ तमु॑ [३४] त्वा द॒द्धङ् ऋषिः॑ पु॒त्र ई॑धे॒ अथ॑र्वणः⁠। वृ॒त्र॒हण॑म्पुरन्द॒रम्⁠॥ तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम्⁠। ध॒न॒ञ्ज॒यꣳ रणे॑रणे⁠॥ उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर् वृ॑त्र॒हाऽज॑नि⁠। ध॒न॒ञ्ज॒यो रणे॑रणे⁠॥ आ यꣳ हस्ते॒ न खा॒दिन॒ꣳ॒ शिशु॑ञ्जा॒तन्न बिभ्र॑ति⁠। वि॒शाम॒ग्निꣴ स्व॑द्ध॒रम्⁠॥ प्र दे॒वन्दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम्⁠। आ स्वे योनौ॒ नि षी॑दतु⁠॥ आ [३५] जा॒तञ्जा॒तवे॑दसि प्रि॒यꣳ शि॑शी॒ताऽति॑थिम्⁠। स्यो॒न आ गृ॒हप॑तिम्⁠॥ अ॒ग्निना॒ऽग्निः समि॑द्धते क॒विर् गृ॒हप॑ति॒र् युवा᳚⁠। ह॒व्य॒वाड् जु॒ह्वा᳚स्यः⁠॥ त्वꣴ ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्थ् स॒ता⁠। सखा॒ सख्या॑ समि॒द्धसे᳚⁠॥ तम्म॑र्जयन्त सु॒क्रतु॑म्पुरो॒यावा॑नमा॒जिषु॑⁠। स्वेषु॒ ख्‍षये॑षु वा॒जिन᳚म्⁠॥ य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्⁠। ते ह॒ नाक॑म्महि॒मानः॑ सचन्ते॒ यत्र॒ पूर्वे॑ सा॒द्धाः सन्ति॑ दे॒वाः⁠ [३६] (वोढ॑वे दू॒तस्त्वं तमु॑ सीद॒त्वा यत्र॑ च॒त्वारि॑ च) ॥११॥
(पू॒र्ण र्‌ष॑यो॒ ऽग्निना॒ ये दे॒वाः सूर्यो॑ मा॒ सन्त्वा॑ नह्यामि वषट्का॒रः स ख॑दि॒र उ॑पया॒मगृ॑हीतोऽसि॒ याव्ँवै त्वे क्रतुं॒ प्रदे॒व मेका॑दश)
(पू॒र्णा स॑ह॒जान् तवा᳚ऽग्ने प्रा॒णैरे॒व षट्त्रि॑ꣳशत्)
(पू॒र्णा सन्ति॑ दे॒वाः)
(प्र॒जाप॑ति॒र्यो॑ वाअग्ने॒वि वैपू॒र्णा पञ्च॑)
अनुवाकाः पञ्चशती
११ ३६