कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
चतुर्थकाण्डे तृतीयः प्रश्नः

कांड ४ प्रश्न ३
चितिवर्णनं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
अ॒पान्त्वेम᳚न्थ् सादयाम्य॒पान्त्वोद्म᳚न्थ् सादयाम्य॒पान्त्वा॒ भस्म᳚न्थ् सादयाम्य॒पान्त्वा॒ ज्योति॑षि सादयाम्य॒पान्त्वाऽय॑ने सादयाम्यर्ण॒वे सद॑ने सीद समु॒द्रे सद॑ने सीद सलि॒ले सद॑ने सीदा॒पाङ्ख्‍षये॑ सीदा॒पाꣳ सधि॑षि सीदा॒पान्त्वा॒ सद॑ने सादयाम्य॒पान्त्वा॑ स॒धस्थे॑ सादयाम्य॒पान्त्वा॒ पुरी॑षे सादयाम्य॒पान्त्वा॒ योनौ॑ सादयाम्य॒पान्त्वा॒ पाथ॑सि सादयामि गाय॒त्री छन्द॑स्त्रि॒ष्टुप् छन्दो॒ जग॑ती॒ छन्दो॑ऽनु॒ष्टुप् छन्दः॑ प॒ङ्क्ति श्छन्दः॑⁠ [१] (योनौ॒ पञ्च॑दश च) ॥१॥
अ॒यम्पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती गा॑यत्रि॒यै गा॑य॒त्रङ्गा॑य॒त्रादु॑पा॒ꣳ॒शुरु॑पा॒ꣳ॒शोस्त्रि॒वृत् त्रि॒वृतो॑ रथन्त॒रꣳ र॑थन्त॒राद्वसि॑ष्ठ॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया᳚ प्रा॒णङ्गृ॑ह्णामि प्र॒जाभ्यो॒ऽयन्द॑ख्‍षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णङ्ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुग्ग्रै॒ष्मी त्रि॒ष्टुभ॑ ऐ॒डमै॒डाद॑न्तर्या॒मो᳚ऽन्तर्या॒मात् प॑ञ्चद॒शः प॑ञ्चद॒शाद्बृ॒हद्बृ॑ह॒तो भ॒रद्वा॑ज॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनो॑ [२] गृह्णामि प्र॒जाभ्यो॒ऽयम्प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ चख्‍षु॑र् वैश्वव्यच॒सं व॒र्॒‌षाणि॑ चाख्‍षु॒षाणि॒ जग॑ती वा॒र्॒‌षी जग॑त्या॒ ऋख्‍ष॑म॒मृख्‍ष॑माच्छु॒क्रः शु॒क्राथ् स॑प्तद॒शः स॑प्तद॒शाद्वै॑रू॒पव्ँवै॑रू॒पाद्वि॒श्वामि॑त्र॒ ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ चख्‍षु॑र् गृह्णामि प्र॒जाभ्य॑ इ॒दमु॑त्त॒राथ् सुव॒स्तस्य॒ श्रोत्र॑ꣳ सौ॒वꣳ श॒रच्छ्रौ॒त्य्र॑नु॒ष्टुप्छा॑र॒द्य॑नु॒ष्टुभः॑ स्वा॒रꣴ स्वा॒रान्म॒न्थी म॒न्थिन॑ एकवि॒ꣳ॒श ए॑कवि॒ꣳ॒शाद् वै॑रा॒जव्ँवै॑रा॒जाज्ज॒मद॑ग्नि॒र्॒‌ऋषिः॑ प्र॒जाप॑तिगृहीतया॒ [३] त्वया॒ श्रोत्र॑ङ्गृह्णामि प्र॒जाभ्य॑ इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ् मा॒ती हे॑म॒न्तो वा᳚च्याय॒नः प॒ङ्क्तिर् है॑म॒न्ती पं॒क्त्यै नि॒धन॑वन्नि॒धन॑वत आग्रय॒ण आ᳚ग्रय॒णात् त्रि॑णवत्रयस्त्रि॒ꣳ॒शौ त्रि॑णवत्रयस्त्रि॒ꣳ॒शाभ्या॑ꣳ शाक्वररैव॒ते शा᳚क्वररैव॒ताभ्या᳚व्ँवि॒श्वक॒र्मर्षिः॑ प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाच॑ङ्गृह्णामि प्र॒जाभ्यः॑⁠ [४] (त्वया॒ मनो॑ ज॒मद॑ग्नि॒र्॒‌ऋषिः॑ प्र॒जाप॑तिगृहीतया त्रि॒ꣳ॒शच्च॑) ॥२॥
प्राची॑ दि॒शाव्ँव॑स॒न्त ऋ॑तू॒नाम॒ग्निर् दे॒वता॒ ब्रह्म॒ द्रवि॑णन्त्रि॒वृथ् स्तोमः॒ स उ॑ पञ्चद॒शव॑र्तनि॒ स्त्य्रवि॒र् वयः॑ कृ॒तमया॑नाम्पुरोवा॒तो वातः॒ सान॑ग॒ ऋषि॑र् दख्‍षि॒णा दि॒शाङ्ग्री॒ष्म ऋ॑तू॒नामिन्द्रो॑ दे॒वता᳚ ख्‍ष॒त्रन्द्रवि॑णम्पञ्चद॒शः स्तोमः॒ स उ॑ सप्तद॒शव॑र्तनिर् दि॑त्य॒वाड्वय॒स्त्रेताऽया॑नान्दख्‍षिणाद्वा॒तो वातः॑ सना॒तन॒ ऋषिः॑ प्र॒तीची॑ दि॒शाव्ँव॒र्॒‌षा ऋ॑तू॒नाव्ँविश्वे॑ दे॒वा दे॒वता॒ विड् [५] द्रवि॑णꣳ सप्तद॒शः स्तोमः॒ स उ॑वेकवि॒ꣳ॒शव॑र्तनिस्त्रिव॒थ्सो वयो᳚ द्वाप॒रोऽया॑नाम्पश्चाद्वा॒तो वातो॑ऽह॒भून॒ ऋषि॒रुदी॑ची दि॒शाꣳ श॒रदृ॑तू॒नाम्मि॒त्रावरु॑णौ दे॒वता॑ पु॒ष्टन्द्रवि॑णमेकवि॒ꣳ॒शः स्तोमः॒ स उ॑ त्रिण॒वव॑र्तनिस्तुर्य॒वाड् वय॑ आस्क॒न्दोऽया॑नामुत्तराद्वा॒तो वातः॑ प्र॒त्न ऋषि॑रू॒र्द्ध्वा दि॒शाꣳ हे॑मन्तशिशि॒रावृ॑तू॒नाम्बृह॒स्पति॑र् दे॒वता॒ वर्चो॒ द्रवि॑णन्त्रिण॒वः स्तोमः॒ स उ॑ त्रयस्त्रि॒ꣳ॒शव॑र्तनिः पष्ठ॒वाद् वयो॑ ऽभि॒भूरया॑नाव्ँविष्वग्वा॒तो वातः॑ सुप॒र्ण ऋषिः॑ पि॒तरः॑ पिताम॒हाः परेऽव॑रे॒ ते नः॑ पान्तु॒ ते नो॑ऽवन्त्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यान्दे॒वहू᳚त्याम्⁠ [६] (विट् प॑ष्ठ॒वाद् वयो॒ ऽष्टावि॑ꣳशतिश्च) ॥३॥
ध्रु॒वख्‍षि॑तिर् ध्रु॒वयो॑निर् ध्रु॒वाऽसि॑ ध्रु॒वाय्ँयोनि॒मा सी॑द सा॒द्ध्या⁠। उख्य॑स्य के॒तुम्प्र॑थ॒मम्पु॒रस्ता॑द॒श्विना᳚ऽद्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚⁠॥ स्वे दख्‍षे॒ दख्‍ष॑पिते॒ह सी॑द देव॒त्रा पृ॑थि॒वी बृ॑ह॒ती ररा॑णा⁠। स्वा॒स॒स्था त॒नुवा॒ सव्ँवि॑शस्व पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवा॒ऽश्विना᳚ऽद्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚⁠॥ कु॒ला॒यिनी॒ वसु॑मती वयो॒धा र॒यिन्नो॑ वर्द्ध बहु॒लꣳ सु॒वीर᳚म्⁠ [७] अपाम॑तिन्दुर्म॒तिम्बाध॑माना रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒ सुव॑र् धेहि॒ यज॑मानाय॒ पोष॑म॒श्विना᳚ऽद्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚⁠॥ अ॒ग्नेः पुरी॑षमसि देव॒यानी॒ तान्त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः⁠। स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णाऽऽ*य॑जस्वा॒श्विना᳚ऽद्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚⁠॥ दि॒वो मू॒र्द्धाऽसि॑ पृथि॒व्या नाभि॑र् वि॒ष्टंभ॑नी दि॒शामधि॑पत्नी॒ भुव॑नानाम्⁠ [८] ऊ॒र्मिर् द्र॒फ्सो अ॒पाम॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र॒श्विना᳚ऽद्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚⁠॥ स॒जूर्‌ऋ॒तुभिः॑ स॒जूर् वि॒धाभिः॑ स॒जूर् वसु॑भिः स॒जू रु॒द्रैः स॒जूरा॑दि॒त्यैः स॒जूर् विश्वै᳚र् दे॒वैः स॒जूर् दे॒वैः स॒जूर् दे॒वैर् व॑योना॒धैर॒ग्नये᳚ त्वा वैश्वान॒राया॒श्विना᳚ऽद्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚⁠॥ प्रा॒णम्मे॑ पाह्यपा॒नम्मे॑ पाहि व्या॒नम्मे॑ पाहि॒ चख्‍षु॑र् म उ॒र्व्या वि भा॑हि॒ श्रोत्र॑म्मे श्लोकया॒पस्पि॒न्वौष॑धीर् जिन्व द्वि॒पात् पा॑हि॒ चतु॑ष्पादव दि॒वो वृष्टि॒मेर॑य⁠ [९] (सु॒वीरं॒ भुव॑नाना मु॒र्व्या स॒प्तद॑श च) ॥४॥
त्य्रवि॒र्वय॑ स्त्रि॒ष्टुप् छन्दो॑ दित्य॒वाड् वयो॑ वि॒राट् छन्दः॒ पञ्चा॑वि॒र् वयो॑ गाय॒त्री छन्द॑स्त्रिव॒थ्सो वय॑ उ॒ष्णिहा॒ छन्द॑ स्तुर्य॒वाड् वयो॑ऽनु॒ष्टुप् छन्दः॑ पष्ठ॒वाद्वयो॑ बृह॒ती छन्द॑ उ॒ख्‍षा वयः॑ स॒तोबृ॑हती॒ छन्द॑ ऋष॒भो वयः॑ क॒कुच्छन्दो॑ धे॒नुर् वयो॒ जग॑ती॒ छन्दो॑ऽन॒ड्वान्‌वयः॑ प॒ङ्क्ति श्छन्दो॑ ब॒स्तो वयो॑ विव॒लञ्छन्दो॑ वृ॒ष्णिर् वयो॑ विशा॒लञ्छन्दः॒ पुरु॑षो॒ वय॑ स्त॒न्द्रञ्छन्दो᳚ व्या॒घ्रो वयोऽना॑धृष्ट॒ञ्छन्दः॑ सि॒ꣳ॒हो वय॑ श्छ॒दि श्छन्दो॑ विष्टं॒भो वयोऽधि॑पति॒ श्छन्दः॑ ख्‍ष॒त्रं वयो॒ मय॑न्द॒ञ्छन्दो॑ वि॒श्वक॑र्मा॒ वयः॑ परमे॒ष्ठी छन्दो॑ मू॒र्द्धा वयः॑ प्र॒जाप॑ति॒ श्छन्दः॑⁠ [१०] (पुरु॑षो॒ वयः॒षड्वि॑ꣳशतिश्च) ॥५॥
इन्द्रा᳚ग्नी॒ अव्य॑थमाना॒मिष्ट॑कान्दृꣳहतय्ँयु॒वम्⁠। पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑ख्‍षञ्च॒ वि बा॑धताम्⁠॥ वि॒श्वक॑र्मा त्वा सादयत्व॒न्तरि॑ख्‍षस्य पृ॒ष्ठे व्यच॑स्वती॒म्प्रथ॑स्वती॒म्भास्व॑तीꣳ सूरि॒मती॒मा या द्याम्भास्या पृ॑थि॒वीमोर्व॑न्तरि॑ख्‍षम॒न्तरि॑ख्‍षय्ँयच्छा॒न्तरि॑ख्‍षन्दृꣳहा॒न्तरि॑ख्‍ष॒म्मा हि॑ꣳसी॒र् विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य वा॒युस्त्वा॒ऽभि पा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ [११] शन्त॑मेन॒ तया॑ दे॒व॑तयाऽङ्गिर॒स्वद्ध्रु॒वा सी॑द⁠॥ राज्ञ्य॑सि॒ प्राची॒ दिग्वि॒राड॑सि दख्‍षि॒णा दिख् स॒म्राड॑सि प्र॒तीची॒ दिख्स्व॒राड॒स्युदी॑ची॒ दिगधि॑पत्न्यसि बृह॒ती दिगायु॑र् मे पाहि प्रा॒णम्मे॑ पाह्यपा॒नम्मे॑ पाहि व्या॒नम्मे॑ पाहि॒ चख्‍षु॑र् मे पाहि॒ श्रोत्र॑म्मे पाहि॒ मनो॑ मे जिन्व॒ वाच॑म्मे पिन्वा॒ ऽऽत्मान॑म्मे पाहि॒ ज्योति॑र् मे यच्छ⁠ [१२] (छ॒र्दिषा॑ पिन्व॒ षट्च॑) ॥६॥
मा छन्दः॑ प्र॒मा छन्दः॑ प्रति॒मा छन्दो᳚ऽस्री॒वि श्छन्दः॑ प॒ङ्क्ति श्छन्द॑ उ॒ष्णिहा॒ छन्दो॑ बृह॒ती छन्दो॑ऽनु॒ष्टुप् छन्दो॑ वि॒राट् छन्दो॑ गाय॒त्री छन्द॑स्त्रि॒ष्टुप् छन्दो॒ जग॑ती॒ छन्दः॑ पृथि॒वी छन्दो॒ऽन्तरि॑ख्‍ष॒ञ्छन्दो॒ द्यौ श्छन्दः॒ समा॒ श्छन्दो॒ नख्‍ष॑त्राणि॒ छन्दो॒ मन॒ श्छन्दो॒ वाक् छन्दः॑ कृ॒षि श्छन्दो॒ हिर॑ण्य॒ञ्छन्दो॒ गौ श्छन्दो॒ऽजा छन्दोऽश्व॒ श्छन्दः॑⁠। अ॒ग्निर् दे॒वता॒ [१३] वातो॑ दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑ऽऽदि॒त्या दे॒वता॒ विश्वे॑ दे॒वा दे॒वता॑ म॒रुतो॑ दे॒वता॒ बृह॒स्पति॑र् दे॒वतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ मू॒र्द्धाऽसि॒ राड् ध्रु॒वाऽसि॑ ध॒रुणा॑ य॒न्त्य्र॑सि॒ यमि॑त्री॒षे त्वो॒र्जे त्वा॑ कृ॒ष्यै त्वा॒ ख्‍षेमा॑य त्वा॒ यन्त्री॒ राड् ध्रु॒वाऽसि॒ धर॑णी ध॒र्त्य्र॑सि॒ धरि॒त्य्रायु॑षे त्वा॒ वर्च॑से॒ त्वौज॑से त्वा॒ बला॑य त्वा⁠ [१४] (दे॒वता ऽऽयु॑षे त्वा॒ षट्च॑) ॥७॥
आ॒शुस्त्रि॒वृद्भा॒न्तः प॑ञ्चद॒शो व्यो॑म सप्तद॒शः प्रतू᳚र्तिरष्टाद॒श स्तपो॑ नवद॒शो॑ऽभिव॒र्तः स॑वि॒ꣳ॒शो ध॒रुण॑ एकवि॒ꣳ॒शो वर्चो᳚ द्वावि॒ꣳ॒शः सं॒भर॑णस्त्रयोवि॒ꣳ॒शो योनि॑श्चतुर्वि॒ꣳ॒शो गर्भाः᳚ पञ्चवि॒ꣳ॒श ओज॑स्त्रिण॒वः क्रतु॑रेकत्रि॒ꣳ॒शः प्र॑ति॒ष्ठा त्र॑यस्त्रि॒ꣳ॒शो ब्र॒द्ध्नस्य॑ वि॒ष्टप॑ञ्चतुस्त्रि॒ꣳ॒शो नाकः॑ षट्त्रि॒ꣳ॒शो वि॑व॒र्तो᳚ऽष्टाचत्वारि॒ꣳ॒शो ध॒र्त्रश्च॑तुष्टो॒मः⁠ [१५] (आ॒शुः स॒प्तत्रि॑ꣳशत्) ॥८॥
अ॒ग्नेर् भा॒गो॑ऽसि दी॒ख्‍षाया॒ आधि॑पत्य॒म्ब्रह्म॑ स्पृ॒तन्त्रि॒वृथ् स्तोम॒ इन्द्र॑स्य भा॒गो॑ऽसि॒ विष्णो॒राधि॑पत्यङ्ख्‍ष॒त्रꣴ स्पृ॒तम्प॑ञ्चद॒शः स्तोमो॑ नृ॒चख्‍ष॑साम्भा॒गो॑ऽसि धा॒तुराधि॑पत्यञ्ज॒नित्र॑ꣴ स्पृ॒तꣳ स॑प्तद॒शः स्तोमो॑ मि॒त्रस्य॑ भा॒गो॑ऽसि॒ वरु॑ण॒स्याऽऽधि॑पत्यन्दि॒वो वृ॒ष्टिर् वाताः᳚ स्पृ॒ता ए॑कवि॒ꣳ॒शः स्तोमोऽदि॑त्यै भा॒गो॑ऽसि पू॒ष्ण आधि॑पत्य॒मोजः॑ स्पृ॒तन्त्रि॑ण॒वः स्तोमो॒ वसू॑नां भा॒गो॑ऽसि [१६] रु॒द्राणा॒माधि॑पत्य॒ञ्चतु॑ष्पाथ् स्पृ॒तञ्च॑तुर्वि॒ꣳ॒शः स्तोम॑ आदि॒त्याना᳚म्भा॒गो॑ऽसि म॒रुता॒माधि॑पत्य॒ङ्गर्भाः᳚ स्पृ॒ताः प॑ञ्चवि॒ꣳ॒शः स्तोमो॑ दे॒वस्य॑ सवि॒तुर् भा॒गो॑ऽसि॒ बृह॒स्पते॒राधि॑पत्यꣳ स॒मीची॒र् दिशः॑ स्पृ॒ताश्च॑तुष्टो॒मः स्तोमो॒ यावा॑नां भा॒गो᳚ऽस्यया॑वाना॒माधि॑पत्यम्प्र॒जाः स्पृ॒ताश्च॑तुश्चत्वारि॒ꣳ॒शः स्तोम॑ ऋभू॒णाम्भा॒गो॑ऽसि॒ विश्वे॑षान्दे॒वाना॒माधि॑पत्यम्भू॒तन्निशा᳚न्तꣴ स्पृ॒तन्त्र॑यस्त्रि॒ꣳ॒शः स्तोमः॑⁠ [१७] (वसू॑नाम्भा॒गो॑ऽसि॒ षट्च॑त्वारिꣳशच्च) ॥९॥
एक॑याऽस्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत् ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत् प॒ञ्चभि॑रस्तुवत भू॒तान्य॑सृज्यन्त भू॒ताना॒म्पति॒रधि॑पतिरासीथ् स॒प्तभि॑रस्तुवत सप्त॒र्॒‌षयो॑ऽसृज्यन्त धा॒ताऽधि॑पतिरासीन्न॒वभि॑रस्तुवत पि॒तरो॑ ऽसृज्य॒न्ताऽ*दि॑ति॒रधि॑पत्न्यासीदेकाद॒शभि॑रस्तुवत॒र्तवो॑ऽसृज्यन्ताऽऽर्त॒वोऽधि॑पतिरासीत् त्रयोद॒शभि॑रस्तुवत॒ मासा॑ असृज्यन्त सव्ँवथ्स॒रोऽधि॑पति [१८] रासीत् पञ्चद॒शभि॑रस्तुवत ख्‍ष॒त्रम॑सृज्य॒तेन्द्रोऽधि॑पतिरासीथ् सप्तद॒शभि॑रस्तुवत प॒शवो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीन्नवद॒शभि॑रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरा॒त्रे अधि॑पत्नी आस्ता॒मेक॑विꣳशत्याऽस्तुव॒तैक॑शफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधि॑पतिरासी॒त् त्रयो॑विꣳशत्याऽस्तुवत ख्‍षु॒द्राः प॒शवो॑ऽसृज्यन्त पू॒षाऽधि॑पतिरासी॒त् पञ्च॑विꣳशत्या ऽस्तुवताऽऽर॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑पतिरासीथ् स॒प्तवि॑ꣳशत्याऽस्तुवत॒ द्यावा॑पृथि॒वी व्यै॑ [१९] ता॒व्ँवस॑वो रु॒द्रा आ॑दि॒त्या अनु॒ व्या॑य॒न् तेषा॒माधि॑पत्यमासी॒न्नव॑विꣳशत्याऽस्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिरासी॒देक॑त्रिꣳशताऽस्तुवत प्र॒जा अ॑सृज्यन्त॒ यावा॑नां॒ चाया॑वाना॒ञ्चाऽऽधि॑पत्यमासी॒त् त्रय॑स्तिꣳशताऽस्तुवत भू॒तान्य॑शाम्यन् प्र॒जाप॑तिः परमे॒ष्ठ्यधि॑पतिरासीत्⁠ [२०] (स॒व्ँव॒थ्स॒रोऽधि॑पति॒र्वि पञ्च॑त्रिꣳशच्च) ॥१०॥
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑द॒न्तर॒स्याञ्च॑रति॒ प्रवि॑ष्टा⁠। व॒धूर् ज॑जान नव॒गज्जनि॑त्री॒ त्रय॑ एनाम्महि॒मानः॑ सचन्ते⁠॥ छन्द॑स्वती उ॒षसा॒ पेपि॑शाने समा॒नय्ँयोनि॒मनु॑ स॒ञ्चर॑न्ती⁠। सूर्य॑पत्नी॒ वि च॑रतः प्रजान॒ती के॒तुङ्कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा⁠॥ ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आऽगु॒स्त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षाऽऽ*गुः॑⁠। प्र॒जामेका॒ रख्‍ष॒त्यूर्ज॒मेका᳚ [२१] व्र॒तमेका॑ रख्‍षति देवयू॒नाम्⁠॥ च॒तु॒ष्टो॒मो अ॑भव॒द् या तु॒रीया॑ य॒ज्ञस्य॑ प॒ख्‍षावृ॑षयो॒ भव॑न्ती⁠। गा॒य॒त्रीन्त्रि॒ष्टुभ॒ञ्जग॑तीमनु॒ष्टुभ॑म्बृ॒हद॒र्कय्ँयु॑ञ्जा॒नाः सुव॒राऽभ॑रन्नि॒दम्⁠॥ प॒ञ्चभि॑र् धा॒ता वि द॑धावि॒दय्ँयत् तासा॒ꣴ॒ स्वसृ॑रज॒नयत् पञ्च॑पञ्च⁠। तासा॑मु यन्ति प्रय॒वेण॒ पञ्च॒ नाना॑ रू॒पाणि॒ क्रत॑वो॒ वसा॑नाः⁠॥ त्रि॒ꣳ॒शथ् स्वसा॑र॒ उप॑ यन्ति निष्कृ॒तꣳ स॑मा॒नङ्के॒तुम्प्र॑तिमु॒ञ्चमा॑नाः⁠ [२२] ऋ॒तूꣴस्त॑न्वते क॒वयः॑ प्रजान॒तीर् मद्ध्ये॑छन्दसः॒ परि॑ यन्ति॒ भास्व॑तीः⁠॥ ज्योति॑ष्मती॒ प्रति॑ मुञ्चते॒ नभो॒ रात्री॑ दे॒वी सूर्य॑स्य व्र॒तानि॑⁠। वि प॑श्यन्ति प॒शवो॒ जाय॑माना॒ नाना॑रूपा मा॒तुर॒स्या उ॒पस्थे᳚⁠॥ ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना ज॒जान॒ गर्भ॑म्महि॒मान॒मिन्द्र᳚म्⁠। तेन॒ दस्यू॒न् व्य॑सहन्त दे॒वा ह॒न्ताऽसु॑राणामभव॒च्छची॑भिः⁠॥ अना॑नुजामनु॒जाम्माम॑कर्त स॒त्यव्ँवद॒न्त्यन्वि॑च्छ ए॒तत्⁠। भू॒यास॑ [२३] मस्य सुम॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त⁠॥ अभू॒न्मम॑ सुम॒तौ वि॒श्ववे॑दा॒ आष्ट॑ प्रति॒ष्ठामवि॑द॒द्धि गा॒धम्⁠। भू॒यास॑मस्य सुम॒तौ यथा॑ यू॒यम॒न्या वो॑ अ॒न्यामति॒ मा प्र यु॑क्त⁠॥ पञ्च॒ व्यु॑ष्टी॒रनु॒ पञ्च॒ दोहा॒ गाम्पञ्च॑नाम्नीमृ॒तवोऽनु॒ पञ्च॑⁠। पञ्च॒ दिशः॑ पञ्चद॒शेन॑ क्लृ॒प्ताः स॑मा॒नमू᳚र्द्ध्नीर॒भि लो॒कमेक᳚म्⁠ [२४] ऋ॒तस्य॒ गर्भः॑ प्रथ॒मा व्यू॒षुष्य॒पामेका॑ महि॒मान॑म्बिभर्ति⁠। सूर्य॒स्यैका॒ चर॑ति निष्कृ॒तेषु॑ घ॒र्मस्यैका॑ सवि॒तैका॒न्नि य॑च्छति⁠॥ या प्र॑थ॒मा व्यौच्छ॒थ् सा धे॒नुर॑भवद्य॒मे⁠। सा नः॒ पय॑स्वती धु॒ख्‍ष्वोत्त॑रामुत्तरा॒ꣳ॒ समा᳚म्⁠॥ शु॒क्रर्‌ष॑भा॒ नभ॑सा॒ ज्योति॒षाऽऽ* गा᳚द्वि॒श्वरू॑पा शब॒लीर॒ग्निके॑तुः⁠। स॒मा॒नमर्थ॑ꣴ स्वप॒स्यमा॑ना॒ बिभ्र॑ती ज॒राम॑जर उष॒ आऽगाः᳚⁠॥ ऋ॒तू॒नाम्पत्नी᳚ प्रथ॒मेयमाऽगा॒दह्ना᳚न्ने॒त्री ज॑नि॒त्री प्र॒जाना᳚म्⁠। एका॑ स॒ती ब॑हु॒धोषो॒ व्यु॑च्छ॒स्यजी᳚र्णा॒ त्वञ्ज॑रयसि॒ सर्व॑म॒न्यत्⁠ [२५] (ऊर्ज॒मेका᳚ प्रतिमु॒ञ्चमा॑ना भू॒यास॒ मेकं॒ पत्न्ये का॒न्नवि॑ꣳश॒तिश्च॑) ॥११॥
अग्ने॑ जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ता ञ्जातवेदो नुदस्व⁠। अ॒स्मे दी॑दिहि सु॒मना॒ अहे॑ड॒न् तव॑ स्या॒ꣳ॒ शर्म॑न् त्रि॒वरू॑थ उ॒द्भित्⁠॥ सह॑सा जा॒तान् प्र णु॑दा नः स॒पत्ना॒न् प्रत्यजा॑ता ञ्जातवेदो नुदस्व⁠। अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒यꣴ स्या॑म॒ प्र णु॑दा नः स॒पत्ना॑न्⁠॥ च॒तु॒श्च॒त्वा॒रि॒ꣳ॒शः स्तोमो॒ वर्चो॒ द्रवि॑णꣳ षोड॒शः स्तोम॒ ओजो॒ द्रवि॑णम्पृथि॒व्याः पुरी॑षम॒स्य [२६] फ्सो॒ नाम॑⁠। एव॒ श्छन्दो॒ वरि॑व॒ श्छन्दः॑ शं॒भू श्छन्दः॑ परि॒भू श्छन्द॑ आ॒च्छच्छन्दो॒ मन॒ श्छन्दो॒ व्यच॒ श्छन्दः॒ सिन्धु॒ श्छन्दः॑ समु॒द्रञ्छन्दः॑ सलि॒लञ्छन्दः॑ स॒य्ँयच्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथन्त॒रञ्छन्दो॑ निका॒य श्छन्दो॑ विव॒ध श्छन्दो॒ गिर॒ श्छन्दो॒ भ्रज॒ श्छन्दः॑ स॒ष्टुप् छन्दो॑ ऽनु॒ष्टुप् छन्दः॑ क॒कुच्छन्द॑ स्त्रिक॒कुच्छन्दः॑ का॒व्यञ्छन्दो᳚ऽङ्कु॒पञ्छन्दः॑ [२७] प॒दप॑ङ्क्ति॒ श्छन्दो॒ऽख्‍षर॑पङ्क्ति॒ श्छन्दो॑ विष्टा॒रप॑ङ्क्ति॒श्छन्दः॑ ख्‍षु॒रो भृज्वा॒ञ्छन्दः॑ प्र॒च्छच्छन्दः॑ प॒ख्‍ष श्छन्द॒ एव॒ श्छन्दो॒ वरि॑व॒ श्छन्दो॒ वय॒ श्छन्दो॑ वय॒स्कृच्छन्दो॑ विशा॒लञ्छन्दो॒ विष्प॑र्द्धा॒ श्छन्द॑ श्छ॒दि श्छन्दो॑ दूरोह॒णञ्छन्द॑ स्त॒न्द्रञ्छन्दो᳚ऽङ्का॒ङ्कञ्छन्दः॑⁠ [२८] (अ॒स्य॒ ङ्कु॒पञ्छन्द॒ स्त्रय॑स्त्रिꣳशच्च) ॥१२॥
अ॒ग्निर् वृ॒त्राणि॑ जङ्घनद् द्रविण॒स्युर् वि॑प॒न्यया᳚⁠। समि॑द्धः शु॒क्र आहु॑तः⁠॥ त्वꣳ सो॑मासि॒ सत्प॑ति॒स्त्वꣳ राजो॒त वृ॑त्र॒हा⁠। त्वम्भ॒द्रो अ॑सि॒ क्रतुः॑⁠॥ भ॒द्रा ते॑ अग्ने स्वनीक स॒न्दृग् घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑⁠। न यत् ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑ स्त॒नुवि॒ रेप॒ आ धुः॑⁠॥ भ॒द्रन्ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य⁠ [२९] रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू᳚ख्‍षितन्दृ॒श आ रू॒पे अन्न᳚म्⁠॥ सैनाऽनी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाꣳ आय॑जिष्ठः स्व॒स्ति⁠। अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद् दि॑दीहि⁠॥ स्व॒स्ति नो॑ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र् धेहि य॒जथा॑य देव⁠। यथ् सी॒महि॑ दिविजात॒ प्रश॑स्त॒न्तद॒स्मासु॒ द्रवि॑णन्धेहि चि॒त्रम्⁠॥ यथा॑ होत॒र् मनु॑षो [३०] दे॒वता॑ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा॑सि⁠। ए॒वा नो॑ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑ख्‍षि दे॒वान्⁠॥ अ॒ग्निमी॑डे पु॒रोहि॑तय्ँय॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म्⁠। होता॑रꣳ रत्न॒धात॑मम्⁠॥ वृषा॑ सोम द्यु॒माꣳ अ॑सि॒ वृषा॑ देव॒ वृष॑व्रतः⁠। वृषा॒ धर्मा॑णि दधिषे⁠॥ सान्त॑पना इ॒दꣳ ह॒विर् मरु॑त॒स्तज्जु॑जुष्टन⁠। यु॒ष्माको॒ती रि॑शादसः⁠॥ यो नो॒ मर्तो॑ वसवो दुर्‌हृणा॒यु स्ति॒रः स॒त्यानि॑ मरुतो॒ [३१] जिघा॑ꣳसात्⁠। द्रु॒हः पाश॒म्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम्⁠॥ स॒व्ँव॒थ्स॒रीणा॑ म॒रुतः॑ स्व॒र्का उ॑रु॒ख्‍षयाः॒ सग॑णा॒ मानु॑षेषु⁠। ते᳚ऽस्मत् पाशा॒न् प्र मु॑ञ्च॒न्त्वꣳह॑सः सान्तप॒ना म॑दि॒रा मा॑दयि॒ष्णवः॑⁠॥ पि॒प्री॒हि दे॒वाꣳ उ॑श॒तो य॑विष्ठ वि॒द्वाꣳ ऋ॒तूꣳर्‌ऋ॑तुपते यजे॒ह⁠। ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वꣳ होतृ॑णाम॒स्याय॑जिष्ठः⁠॥ अग्ने॒ यद॒द्य वि॒शो अ॑द्ध्वरस्य होतः॒ पाव॑क [३२] शोचे॒ वेष्ट्वꣳ हि यज्वा᳚⁠। ऋ॒ता य॑जासि महि॒ना वि यद् भूर्‌ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य⁠॥ अ॒ग्निना॑ र॒यिम॑श्ञव॒त् पोष॑मे॒व दि॒वेदि॑वे⁠। य॒शस॑व्ँवी॒रव॑त्तमम्⁠॥ ग॒य॒स्फानो॑ अमीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्द्ध॑नः⁠। सु॒मि॒त्रः सो॑म नो भव⁠॥ गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माऽप॑ भूतन⁠। प्र॒मु॒ञ्चन्तो॑ नो॒ अꣳह॑सः⁠॥ पू॒र्वीभि॒र्॒‌हि द॑दाशि॒म श॒रद्भि॑र् मरुतो व॒यम्⁠। महो॑भि [३३] श्चर्‌षणी॒नाम्⁠॥ प्र बु॒द्ध्निया॑** ईरते वो॒ महा॑ꣳसि॒ प्र णामा॑नि प्रयज्यव स्तिरद्ध्वम्⁠। स॒ह॒स्रिय॒न्दम्य॑म्भा॒गमे॒तङ्गृ॑हमे॒धीय॑म्मरुतो जुषद्ध्वम्⁠॥ उप॒ यमेति॑ युव॒तिः सु॒दख्‍ष॑न्दो॒षा वस्तो॑र्‌ह॒विष्म॑ती घृ॒ताची᳚⁠। उप॒ स्वैन॑म॒रम॑तिर् वसू॒युः⁠॥ इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याऽज॑स्रो वख्‍षि दे॒वता॑ति॒मच्छ॑⁠। प्रति॑ न ईꣳ सुर॒भीणि॑ वियन्तु⁠॥ क्रि॒डं वः॒ शर्द्धो॒ मारु॑तमन॒र्वाण॑ꣳ रथे॒शुभ᳚म्⁠ [३४] कण्वा॑ अ॒भि प्र गा॑यत⁠॥ अत्या॑सो॒ न ये म॒रुतः॒ स्वञ्चो॑ यख्‍ष॒दृशो॒ न शु॒भय॑न्त॒ मर्याः᳚⁠। ते ह॑र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒थ्सासो॒ न प्र॑क्री॒डिनः॑ पयो॒धाः⁠॥ प्रैषा॒मज्मे॑षु विथु॒रेव॑ रेजते॒ भूमि॒र् यामे॑षु॒ यद्ध॑ यु॒ञ्जते॑ शु॒भे⁠। ते क्री॒डयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यम्म॑हि॒त्वम्प॑नयन्त॒ धूत॑यः⁠॥ उ॒प॒ह्व॒रेषु॒ यदचि॑द्ध्वय्ँय॒यिव्ँवय॑ इव मरुतः॒ केन॑ [३५] चित् प॒था⁠। श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑ख्‍षता॒ मधु॑वर्ण॒मर्च॑ते⁠॥ अ॒ग्निम॑ग्नि॒ꣳ॒ हवी॑मभिः॒ सदा॑ हवन्त वि॒श्पति᳚म्⁠। ह॒व्य॒वाह॑म्पुरुप्रि॒यम्⁠॥ तꣳ हि शश्व॑न्त॒ ईड॑ते स्रु॒चा दे॒वङ्घृ॑त॒श्चुता᳚⁠। अ॒ग्निꣳ ह॒व्याय॒ वोढ॑वे⁠॥ इन्द्रा᳚ग्नी रोच॒ना दि॒वः > १, श्ञथ॑द् वृ॒त्र >२, मिन्द्र॑व्ँवो वि॒श्वत॒स्परी>३, न्द्र॒न्नरो॒ >४, विश्व॑कर्मन्‌ह॒विषा॑ वावृधा॒नो>५, विश्व॑कर्मन्‌ह॒विषा॒ वर्द्ध॑नेन > ६⁠ [३६] (सूर्य॑स्य॒ मनु॑षो मरुतः॒ पाव॑क॒ महो॑भी रथे॒शुभ॒ ङ्केन॒ षड्च॑त्वारिꣳशच्च) ॥१३॥
(अ॒पान्त्वेम॑ न्न॒यम्पु॒रो भुवः॒ प्राची᳚ ध्रु॒वख्‍षि॑ति स्त्य्रवि॒ रिन्द्रा᳚ग्नी॒ मा छन्द॑ आ॒शुस्त्रि॒वृ द॒ग्नेर्भा॒गो᳚ ऽस्येक॑ ये॒यमे॒व सा या ऽग्ने॑ जा॒ता न॒ग्निर् वृ॒त्राणि॒ त्रयो॑दश)
(अ॒पान्त्वे न्द्रा᳚ग्नी इ॒यमे॒व दे॒वता॑ता॒ षट्त्रि॑ꣳशत्)
(अ॒पान्त्वेम॑न् ह॒विषा॒ वर्द्ध॑नेन)
अनुवाकाः पञ्चशती
१३ ३६