कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
पञ्चमकाण्डे चतुर्थः प्रश्नः

कांड ५ प्रश्न ४
इष्टकात्रयाभिधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
दे॒वा॒सु॒राः सय्ँय॑त्ता आस॒न् ते न व्य॑जयन्त॒ स ए॒ता इन्द्र॑स्त॒नूर॑पश्य॒त् ता उपा॑धत्त॒ ताभि॒र् वै स त॒नुव॑मिन्द्रि॒यव्ँवी॒र्य॑मा॒त्मन्न॑धत्त॒ ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यदि॑न्द्रत॒नूरु॑प॒दधा॑ति त॒नुव॑मे॒व ताभि॑रिन्द्रि॒यव्ँवी॒र्य॑य्ँयज॑मान आ॒त्मन् ध॒त्तेऽथो॒ सेन्द्र॑मे॒वाग्निꣳ सत॑नुञ्चिनुते॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो [१] भवति य॒ज्ञो दे॒वेभ्योऽपा᳚क्राम॒त् तम॑व॒रुध॒न्नाश॑क्नुव॒न् त ए॒ता य॑ज्ञत॒नूर॑पश्य॒न् ता उपा॑दधत॒ ताभि॒र् वै ते य॒ज्ञमवा॑रुन्धत॒ यद्य॑ज्ञत॒नूरु॑प॒दधा॑ति य॒ज्ञमे॒व ताभि॒र् यज॑मा॒नोऽव॑ रुन्धे॒ त्रय॑स्त्रिꣳशत॒मुप॑ दधाति॒ त्रय॑स्त्रिꣳश॒ द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रु॒न्धेऽथो॒ सात्मा॑नमे॒वाग्निꣳ सत॑नुञ्चिनुते॒ सात्मा॒ऽमुष्मि॑ल्ँलो॒के [२] भ॑वति॒ य ए॒वव्ँवेद॒ ज्योति॑ष्मती॒रुप॑ दधाति॒ ज्योति॑रे॒वास्मि॑न् दधात्ये॒ताभि॒र् वा अ॒ग्निश्चि॒तो ज्व॑लति॒ ताभि॑रे॒वैन॒ꣳ॒ समि॑न्ध उ॒भयो॑रस्मै लो॒कयो॒र् ज्योति॑र् भवति नख्‍षत्रेष्ट॒का उप॑ दधात्ये॒तानि॒ वै दि॒वो ज्योती॑ꣳषि॒ तान्ये॒वाव॑ रुन्धे सु॒कृता॒व्ँवा ए॒तानि॒ ज्योती॑ꣳषि॒ यन्नख्‍ष॑त्राणि॒ तान्ये॒वाऽऽप्नो॒त्यथो॑ अनूका॒शमे॒वैतानि॒ [३] ज्योती॑ꣳषि कुरुते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ यथ् सꣴस्पृ॑ष्टा उपद॒द्ध्याद्वृष्ट्यै॑ लो॒कमपि॑ दद्ध्या॒दव॑र्‌षुकः प॒र्जन्यः॑ स्या॒दस॑ꣴस्पृष्टा॒ उप॑ दधाति॒ वृष्ट्या॑ ए॒व लो॒कङ्क॑रोति॒ वर्‌षु॑कः प॒र्जन्यो॑ भवति पु॒रस्ता॑द॒न्याः प्र॒तीची॒रुप॑ दधाति प॒श्चाद॒न्याः प्राची॒स्तस्मा᳚त् प्रा॒चीना॑नि च प्रती॒चीना॑नि च॒ नख्‍ष॑त्रा॒ण्या व॑र्तन्ते⁠ [४] (भ्रातृ॑व्योलो॒के॒वैतान्येक॑चत्वारिꣳशच्च) ॥१॥
ऋ॒त॒व्या॑ उप॑ दधात्यृतू॒नाङ्क्लृप्त्यै᳚ द्व॒न्द्वमुप॑ दधाति॒ तस्मा᳚द् द्व॒न्द्वमृ॒तवोऽधृ॑तेव॒ वा ए॒षा यन्म॑द्ध्य॒मा चिति॑र॒न्तरि॑ख्‍षमिव॒ वा ए॒षा द्व॒न्द्वम॒न्यासु॒ चिती॒षूप॑ दधाति॒ चत॑स्रो॒ मद्ध्ये॒ धृत्या॑ अन्तः॒श्लेष॑ण॒व्ँवा ए॒ताश्चिती॑ना॒य्ँयदृ॑त॒व्या॑ यदृ॑त॒व्या॑ उप॒दधा॑ति॒ चिती॑ना॒व्ँविधृ॑त्या॒ अव॑का॒मनूप॑ दधात्ये॒षा वा अ॒ग्नेर् योनिः॒ सयो॑नि [५] मे॒वाग्निञ्चि॑नुत उ॒वाच॑ ह वि॒श्वामि॒त्रोऽद॒दिथ् स ब्रह्म॒णाऽन्न॒य्ँयस्यै॒ता उ॑पधी॒यान्तै॒ य उ॑ चैना ए॒वव्ँवेद॒दिति॑ सव्ँवथ्स॒रो वा ए॒तम्प्र॑ति॒ष्ठायै॑ नुदते॒ यो᳚ऽग्निञ्चि॒त्वा न प्र॑ति॒तिष्ठ॑ति॒ पञ्च॒ पूर्वा॒श्चित॑यो भव॒न्त्यथ॑ ष॒ष्ठीञ्चिति॑ञ्चिनुते॒ षड् वा ऋ॒तवः॑ सव्ँवथ्स॒र ऋ॒तुष्वे॒व स॑व्ँवथ्स॒रे प्रति॑ तिष्ठत्ये॒ता वा [६] अधि॑पत्नी॒र् नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्तेऽधि॑पतिरे॒व स॑मा॒नाना᳚म्भवति॒ यन्द्वि॒ष्यात् तमु॑प॒दध॑द् ध्यायेदे॒ताभ्य॑ ए॒वैन॑न्दे॒वता᳚भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्यङ्गि॑रसः सुव॒र्गल्ँलो॒कय्ँयन्तो॒ या य॒ज्ञस्य॒ निष्कृ॑ति॒रासी॒त् तामृषि॑भ्यः॒ प्रत्यौ॑ह॒न् तद्धिर॑ण्यमभव॒द्यद्धि॑रण्यश॒ल्कैः प्रो॒ख्‍षति॑ य॒ज्ञस्य॒ निष्कृ॑त्या॒ अथो॑ भेष॒जमे॒वास्मै॑ करो॒त्य [७] थो॑ रू॒पेणै॒वैन॒ꣳ॒ सम॑र्द्धय॒त्यथो॒ हिर॑ण्यज्योतिषै॒व सु॑व॒र्गल्ँलो॒कमे॑ति साह॒स्रव॑ता॒ प्रोख्‍ष॑ति साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वित्या॑ह धे॒नूरे॒वैनाः᳚ कुरुते॒ ता ए॑नङ्काम॒दुघा॑ अ॒मुत्रा॒मुष्मि॑ल्ँलो॒क उप॑ तिष्ठन्ते⁠ [८] (सयो॑नि मे॒ता वै क॑रो॒त्ये का॒न्नच॑त्वारि॒ꣳ॒शच्च॑) ॥२॥
रु॒द्रो वा ए॒ष यद॒ग्निः स ए॒तर्‌हि॑ जा॒तो यर्‌हि॒ सर्व॑ श्चि॒तः स यथा॑ व॒थ्सो जा॒तः स्तन॑म्प्रे॒फ्सत्ये॒वव्ँवा ए॒ष ए॒तर्‌हि॑ भाग॒धेय॒म्प्रेफ्स॑ति॒ तस्मै॒ यदाहु॑ति॒न्न जु॑हु॒याद॑द्ध्व॒र्युञ्च॒ यज॑मानञ्च ध्यायेच्छतरु॒द्रीय॑ञ्जुहोति भाग॒धेये॑नै॒वैन॑ꣳ शमयति॒ नाऽऽ*र्ति॒मार्च्छ॑त्यद्ध्व॒र्युर् न यज॑मानो॒ यद् ग्रा॒म्याणा᳚म्पशू॒नां [९] पय॑सा जुहु॒याद् ग्रा॒म्यान् प॒शूञ्छु॒चाऽर्प॑ये॒द्यदा॑र॒ण्याना॑मार॒ण्यान् ज॑र्तिलयवा॒ग्वा॑ वा जुहु॒याद् ग॑वीधुकयवा॒ग्वा॑ वा॒ न ग्रा॒म्यान् प॒शून्‌हि॒नस्ति॒ नाऽऽर॒ण्यानथो॒ खल्वा॑हु॒रना॑हुति॒र् वै ज॒र्तिला᳚श्च ग॒वीधु॑का॒श्चेत्य॑जख्‍षी॒रेण॑ जुहोत्याग्ने॒यी वा ए॒षा यद॒जाऽऽहु॑त्यै॒व जु॑होति॒ न ग्रा॒म्यान् प॒शून्‌हि॒नस्ति॒ नाऽऽर॒ण्यानङ्गि॑रसः सुव॒र्गल्ँलो॒कय्ँयन्तो॒ [१०] ऽजाया᳚ङ्घ॒र्मम्प्रासि॑ञ्च॒न्थ् सा शोच॑न्ती प॒र्णम्परा॑ऽजिहीत॒ सो᳚(१॒)ऽर्को॑ऽभव॒त् तद॒र्कस्या᳚ऽर्क॒त्व म॑र्कप॒र्णेन॑ जुहोति सयोनि॒त्वायोद॒ङ् तिष्ठ॑न् जुहोत्ये॒षा वै रु॒द्रस्य॒ दिख् स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते चर॒माया॒मिष्ट॑कायाञ्जुहोत्यन्त॒त ए॒व रु॒द्रन्नि॒रव॑दयते त्रेधाविभ॒क्तञ्जु॑होति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान्थ् स॒माव॑द्वीर्यान् करो॒तीय॒त्यग्रे॑ जुहो॒त्य [११] थेय॒त्यथेय॑ति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒वैन॑ल्ँलो॒केभ्यः॑ शमयति ति॒स्र उत्त॑रा॒ आहु॑तीर् जुहोति॒ षट् थ्सम्प॑द्यन्ते॒ षड् वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑ꣳ शमयति॒ यद॑नुपरि॒क्राम॑ञ्जुहु॒याद॑न्तरवचा॒रिण॑ꣳ रु॒द्रङ्कु॑र्या॒दथो॒ खल्वा॑हुः॒ कस्या॒व्ँवाऽह॑ दि॒शि रु॒द्रः कस्या॒व्ँवेत्य॑नुपरि॒क्राम॑मे॒व हो॑त॒व्य॑ मप॑रिवर्गमे॒वैन॑ꣳ शमयत्ये॒ [१२] ता वै दे॒वताः᳚ सुव॒र्ग्या॑ या उ॑त्त॒मास्ता यज॑मानव्ँवाचयति॒ ताभि॑रे॒वैन॑ꣳ सुव॒र्गल्ँलो॒कङ्ग॑मयति॒ यन्द्वि॒ष्यात् तस्य॑ सञ्च॒रे प॑शू॒नान्न्य॑स्ये॒द् यः प्र॑थ॒मः प॒शुर॑भि॒तिष्ठ॑ति॒ स आर्ति॒मार्च्छ॑ति⁠ [१३] (प॒शू॒नां यन्तो ऽग्ने॑ जुहो॒त्य प॑रिवर्गमे॒वैन॑ꣳ शमयति त्रि॒ꣳ॒शच्च॑) ॥३॥
अश्म॒न्नूर्ज॒मिति॒ परि॑ षिञ्चति मा॒र्जय॑त्ये॒वैन॒मथो॑ त॒र्पय॑त्ये॒व स ए॑नन्तृ॒प्तोऽख्‍षु॑द्ध्य॒न्नशो॑च न्न॒मुष्मि॑ल्ँलो॒क उप॑ तिष्ठते॒ तृप्य॑ति प्र॒जया॑ प॒शुभि॒र् य ए॒वव्ँवेद॒ तान्न॒ इष॒मूर्ज॑न्धत्त मरुतः सꣳररा॒णा इत्या॒हान्न॒व्ँवा ऊर्गन्न॑म्म॒रुतोऽन्न॑मे॒वाव॑ रु॒न्धेऽश्म॑ꣴस्ते॒ ख्‍षुद॒मुन्ते॒ शु [१४] गृ॑च्छतु॒ यन्द्वि॒ष्म इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य ख्‍षु॒धा च॑ शु॒चा चा᳚र्पयति॒ त्रिः प॑रिषि॒ञ्चन् पर्ये॑ति त्रि॒वृद्वा अ॒ग्निर् यावा॑ने॒वाग्निस्तस्य॒ शुच॑ꣳ शमयति॒ त्रिः पुनः॒ पर्ये॑ति॒ षट् थ्सम्प॑द्यन्ते॒ षड् वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वास्य॒ शुच॑ꣳ शमयत्य॒पाव्ँवा ए॒तत् पुष्प॒य्ँयद्वे॑त॒सो॑ऽपाꣳ [१५] शरोऽव॑का वेतसशा॒खया॒ चाव॑काभिश्च॒ वि क॑र्‌ष॒त्यापो॒ वै शा॒न्ताः शा॒न्ताभि॑रे॒वास्य॒ शुच॑ꣳ शमयति॒ यो वा अ॒ग्निञ्चि॒तम्प्र॑थ॒मः प॒शुर॑धि॒क्राम॑ती श्व॒रो वै तꣳ शु॒चा प्र॒दहो॑ म॒ण्डूके॑न॒ वि क॑र्‌षत्ये॒ष वै प॑शू॒नाम॑नुपजीवनी॒यो न वा ए॒ष ग्रा॒म्येषु॑ प॒शुषु॑ हि॒तो नाऽऽ*र॒ण्येषु॒ तमे॒व शु॒चाऽर्प॑यत्यष्टा॒भिर् वि क॑र्‌षत्य॒ [१६] ष्टाख्‍ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर् यावा॑ने॒वाऽग्नि स्तस्य॒ शुच॑ꣳ शमयति पाव॒कव॑तीभि॒रन्न॒व्ँवै पा॑व॒कोऽन्ने॑नै॒वास्य॒ शुच॑ꣳ शमयति मृ॒त्युर् वा ए॒ष यद॒ग्निर् ब्रह्म॑ण ए॒तद्रू॒पय्ँयत् कृ॑ष्णाजि॒नङ्कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ ब्रह्म॑णै॒व मृ॒त्योर॒न्तर् ध॑त्ते॒ऽन्तर् मृ॒त्योर् ध॑त्ते॒ऽन्तर॒न्नाद्या॒ दित्या॑हुर॒न्या मु॑पमु॒ञ्चते॒ऽन्यान्नान्त [१७] रे॒व मृ॒त्योर् ध॒त्तेऽवा॒न्नाद्य॑ꣳ रुन्धे॒ नम॑स्ते॒ हर॑से शो॒चिष॒ इत्या॑ह नम॒स्कृत्य॒ हि वसी॑याꣳसमुप॒चर॑न्त्य॒न्यन्ते॑ अ॒स्मत् त॑पन्तु हे॒तय॒ इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य शु॒चाऽर्प॑यति पाव॒को अ॒स्मभ्य॑ꣳ शि॒वो भ॒वेत्या॒हान्न॒व्ँवै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्धे॒ द्वाभ्या॒मधि॑ क्रामति॒ प्रति॑ष्ठित्या अप॒स्य॑वतीभ्या॒ꣳ॒ शान्त्यै᳚⁠ [१८] (शु ग्वे॑त॒सो॑ऽपा म॑ष्टा॒भिर् वि क॑र्षति॒ नान्त रेका॒न्नप॑ञ्चा॒शच्च॑) ॥४॥
नृ॒षदे॒ वडिति॒ व्याघा॑रयति प॒ङ्क्त्याऽऽहु॑त्या यज्ञमु॒खमा र॑भतेऽख्‍ष्ण॒या व्याघा॑रयति॒ तस्मा॑दख्‍ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यद्व॑षट्कु॒र्याद्या॒तया॑माऽस्य वषट्का॒रः स्या॒द्यन्न व॑षट्कु॒र्याद्रख्‍षा॑ꣳसि य॒ज्ञꣳ ह॑न्यु॒र् वडित्या॑ह प॒रोख्‍ष॑मे॒व वष॑ट् करोति॒ नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञꣳ रख्‍षा॑ꣳसि घ्नन्ति हु॒तादो॒ वा अ॒न्ये दे॒वा [१९] अ॑हु॒तादो॒ऽन्ये तान॑ग्नि॒चिदे॒वोभया᳚न् प्रीणाति॒ ये दे॒वा दे॒वाना॒मिति॑ द॒द्ध्ना म॑धुमि॒श्रेणावो᳚ख्‍षति हु॒ताद॑श्चै॒व दे॒वान॑हु॒ताद॑श्च॒ यज॑मानः प्रीणाति॒ ते यज॑मानम्प्रीणन्ति द॒द्ध्नैव हु॒तादः॑ प्री॒णाति॒ मधु॑षाऽहु॒तादो᳚ ग्रा॒म्यव्ँवा ए॒तदन्न॒य्ँयद्दद्ध्या॑र॒ण्यम्मधु॒ यद्द॒द्ध्ना म॑धुमि॒श्रेणा॒वोख्‍ष॑त्यु॒भय॒स्याव॑रुद्ध्यै ग्रुमु॒ष्टिनाऽवो᳚ख्‍षति प्राजाप॒त्यो [२०] वै ग्रु॑मु॒ष्टिः स॑योनि॒त्वाय॒ द्वाभ्या॒म्प्रति॑ष्ठित्या अनुपरि॒चार॒मवो᳚ख्‍ष॒त्यप॑रिवर्गमे॒वैना᳚न् प्रीणाति॒ वि वा ए॒ष प्रा॒णैः प्र॒जया॑ प॒शुभि॑र्‌ऋद्ध्यते॒ यो᳚ऽग्निञ्चि॒न्वन्न॑धि॒क्राम॑ति प्राण॒दा अ॑पान॒दा इत्या॑ह प्रा॒णाने॒वाऽऽत्मन् ध॑त्ते वर्चो॒दा व॑रिवो॒दा इत्या॑ह प्र॒जा वै वर्चः॑ प॒शवो॒ वरि॑वः प्र॒जामे॒व प॒शूना॒त्मन् ध॑त्त॒ इन्द्रो॑ वृ॒त्रम॑ह॒न् तव्ँवृ॒त्रो [२१] ह॒तः षो॑ड॒शभि॑र् भो॒गैर॑सिना॒थ् स ए॒ताम॒ग्नयेऽनी॑कवत॒ आहु॑तिमपश्य॒त् ताम॑जुहो॒त् तस्या॒ग्निरनी॑कवा॒न्थ् स्वेन॑ भाग॒धेये॑न प्री॒तः षो॑डश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहद्वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर॑मुच्यत॒ यद॒ग्नये ऽनी॑कवत॒ आहु॑तिञ्जु॒होत्य॒ग्निरे॒वा स्यानी॑कवा॒न्थ् स्वेन॑ भाग॒धेये॑न प्री॒तः पा॒प्मान॒मपि॑ दहति वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर् मु॑च्यते॒ यङ्का॒मये॑त चि॒रम्पा॒प्मनो॒ [२२] निर् मु॑च्ये॒तेत्येकै॑क॒न्तस्य॑ जुहुयाच्चि॒रमे॒व पा॒प्मनो॒ निर् मु॑च्यते॒ यङ्का॒मये॑त ता॒जक् पा॒प्मनो॒ निर् मु॑च्ये॒तेति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑ जुहुयात् ता॒जगे॒व पा॒प्मनो॒ निर् मु॑च्य॒तेऽथो॒ खलु॒ नानै॒व सू॒क्ताभ्या᳚ञ्जुहोति॒ नानै॒व सू॒क्तयो᳚र् वी॒र्य॑न्दधा॒त्यथो॒ प्रति॑ष्ठित्यै⁠ [२३] (दे॒वाः प्रा॑जाप॒त्यो वृ॒त्र श्चि॒रम्पा॒प्मन॑ श्चत्वारि॒ꣳ॒शच्च॑) ॥५॥
उदे॑नमुत्त॒रान्न॒येति॑ स॒मिध॒ आ द॑धाति॒ यथा॒ जन॑य्ँय॒ते॑ऽव॒सङ्क॒रोति॑ ता॒दृगे॒व तत् ति॒स्र आ द॑धाति त्रि॒वृद्वा अ॒ग्निर् यावा॑ने॒वाग्नि स्तस्मै॑ भाग॒धेय॑ङ्करो॒त्यौदुं॑बरीर् भव॒न्त्यूर्ग् वा उ॑दुं॒बर॒ ऊर्ज॑मे॒वास्मा॒ अपि॑ दधा॒त्युदु॑ त्वा॒ विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः प्रा॒णै [२४] रे॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैन॑ञ्चि॒त्तायो॒द्यच्छ॑ते॒ तेनै॒वैन॒ꣳ॒ सम॑र्द्धयति॒ पञ्च॒ दिशो॒ दैवी᳚र् य॒ज्ञम॑वन्तु दे॒वीरित्या॑ह॒ दिशो॒ ह्ये॑षोऽनु॑ प्र॒च्यव॒तेऽपाम॑तिन्दुर्म॒तिम्बाध॑माना॒ इत्या॑ह॒ रख्‍ष॑सा॒मप॑हत्यै रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती॒रित्या॑ह प॒शवो॒ वै रा॒यस्पोषः॑ [२५] प॒शूने॒वाव॑ रुन्धे ष॒ड्भिर्‌ह॑रति॒ षड् वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैन॑ꣳ हरति॒ द्वे प॑रि॒गृह्य॑वती भवतो॒ रख्‍ष॑सा॒मप॑हत्यै॒ सूर्य॑रश्मि॒र्॒‌हरि॑केशः पु॒रस्ता॒दित्या॑ह॒ प्रसू᳚त्यै॒ ततः॑ पाव॒का आ॒शिषो॑ नो जुषन्ता॒मित्या॒हान्न॒व्ँवै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्धे देवासु॒राः सय्ँय॑त्ता आस॒न् ते दे॒वा ए॒तदप्र॑तिरथमपश्य॒न् तेन॒ वै ते᳚ऽप्र॒त्य [२६] सु॑रानजय॒न् तदप्र॑तिरथस्याप्रतिरथ॒त्वय्ँयदप्र॑तिरथन्द्वि॒तीयो॒ होता॒ऽन्वाहा᳚प्र॒त्ये॑व तेन॒ यज॑मानो॒ भ्रातृ॑व्यान् जय॒त्यथो॒ अन॑भिजितमे॒वाभि ज॑यति दश॒र्चम्भ॑वति॒ दशा᳚ख्‍षरा वि॒राड् वि॒राजे॒मौ लो॒कौ विधृ॑ताव॒नयो᳚र् लो॒कयो॒र्विधृ॑त्या॒ अथो॒ दशा᳚ख्‍षरा वि॒राडन्न॑व्ँवि॒राड् वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठ॒त्यस॑दिव॒ वा अ॒न्तरि॑ख्‍षम॒न्तरि॑ख्‍षमि॒वाऽऽग्नी᳚ध्र॒माग्नी॒द्ध्रे [२७] ऽश्मा॑न॒न्नि द॑धाति स॒त्त्वाय॒ द्वाभ्या॒म्प्रति॑ष्ठित्यै वि॒मान॑ ए॒ष दि॒वो मद्ध्य॑ आस्त॒ इत्या॑ह॒ व्ये॑वैतया॑ मिमीते॒ मद्ध्ये॑ दि॒वो निहि॑तः॒ पृश्ञि॒रश्मेत्या॒हान्न॒व्ँवै पृश्ञन्न॑मे॒वाव॑ रुन्धे चत॒सृभि॒रा पुच्छा॑देति च॒त्वारि॒ छन्दा॑ꣳसि॒ छन्दो॑भिरे॒वेन्द्र॒व्ँविश्वा॑ अवीवृध॒न्नित्या॑ह॒ वृद्धि॑मे॒वोपाव॑र्तते॒ वाजा॑ना॒ꣳ॒ सत्प॑ति॒म्पति॒ [२८] मित्या॒हान्न॒व्ँवै वाजोऽन्न॑मे॒वाव॑ रुन्धे सुम्न॒हूर् य॒ज्ञो दे॒वाꣳ आ च॑ वख्‍ष॒दित्या॑ह प्र॒जा वै प॒शवः॑ सु॒म्नम्प्र॒जामे॒व प॒शूना॒त्मन् ध॑त्ते॒ यख्‍ष॑द॒ग्निर् दे॒वो दे॒वाꣳ आ च॑ वख्‍ष॒दित्या॑ह स्व॒गाकृ॑त्यै॒ वाज॑स्य मा प्रस॒वेनो᳚द्ग्रा॒भेणोद॑ग्रभी॒दित्या॑हा॒सौ वा आ॑दि॒त्य उ॒द्यन्नु॑द्ग्रा॒भ ए॒ष नि॒म्रोच॑न् निग्रा॒भो ब्रह्म॑णै॒वाऽऽत्मान॑मुद्गृ॒ह्णाति॒ ब्रह्म॑णा॒भ्रातृ॑व्य॒न्नि गृ॑ह्णाति⁠ [२९] (प्रा॒णैः पोषो᳚ ऽप्र॒त्या ग्नी᳚द्ध्रे॒ पति॑ मे॒ष दश॑ च) ॥६॥
प्राची॒मनु॑ प्र॒दिश॒म्प्रेहि॑ वि॒द्वानित्या॑ह देवलो॒कमे॒वैतयो॒पाव॑र्तते॒ क्रम॑द्ध्वम॒ग्निना॒ नाक॒मित्या॑हे॒माने॒वैतया॑ लो॒कान् क्र॑मते पृथि॒व्या अ॒हमुद॒न्तरि॑ख्‍ष॒माऽरु॑ह॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्थ् स॒मारो॑हति॒ सुव॒र् यन्तो॒ नापे᳚ख्‍षन्त॒ इत्या॑ह सुव॒र्गमे॒वैतया॑ लो॒कमे॒त्यग्ने॒ प्रेहि॑ [३०] प्रथ॒मो दे॑वय॒तामित्या॑हो॒भये᳚ष्वे॒वैतया॑ देवमनु॒ष्येषु॒ चख्‍षु॑र् दधाति प॒ञ्चभि॒रधि॑ क्रामति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञ स्तेन॑ स॒ह सु॑व॒र्गल्ँलो॒कमे॑ति॒ नक्तो॒षासेति॑ पुरोनुवा॒क्या॑मन्वा॑ह॒ प्रत्या॒ अग्ने॑ सहस्रा॒ख्‍षेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहेत्या॒हान्न॒व्ँवै वाजोऽन्न॑मे॒वाव॑ [३१] रुन्धे द॒द्ध्नः पू॒र्णामौदुं॑बरीꣴ स्वयमातृ॒ण्णाया᳚ञ्जुहो॒त्यूर्ग् वै दद्ध्यूर्गु॑दुं॒बरो॒ऽसौ स्व॑यमातृ॒ण्णाऽमुष्या॑मे॒वोर्ज॑न्दधाति॒ तस्मा॑द॒मुतो॒ऽर्वाची॒मूर्ज॒मुप॑ जीवाम स्ति॒सृभिः॑ सादयति त्रि॒वृद् वा अ॒ग्निर् यावा॑ने॒वाग्नि स्तम्प्र॑ति॒ष्ठाङ्ग॑मयति॒ प्रेद्धो॑ अग्ने दीदिहि पु॒रो न॒ इत्यौदुं॑बरी॒मा द॑धात्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒ [३२] वै दे॒वा असु॑राणाꣳ शतत॒र्॒‌हाꣴ स्तृ॑ꣳहन्ति॒ यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीय्ँयज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अछं॑बट्कारव्ँवि॒धेम॑ ते पर॒मे जन्म॑न्नग्न॒ इति॒ वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्धे॒ ताꣳ स॑वि॒तुर् वरे᳚ण्यस्य चि॒त्रामिति॑ शमी॒मयी॒ꣳ॒ शान्त्या॑ अ॒ग्निर् वा॑ ह॒ वा अ॑ग्नि॒चित॑न्दु॒हे᳚ऽग्नि॒चिद् वा॒ऽग्निन्दु॑हे॒ ता [३३] स॑वि॒तुर् वरे᳚ण्यस्य चि॒त्रामित्या॑है॒ष वा अ॒ग्नेर् दोह॒ स्तम॑स्य॒ कण्व॑ ए॒व श्रा॑य॒सो॑ऽवे॒त् तेन॑ ह स्मैन॒ꣳ॒ स दु॑हे॒ यदे॒तया॑ स॒मिध॑मा॒दधा᳚त्यग्नि॒चिदे॒व तद॒ग्निन्दु॑हे स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्या॑ह स॒प्तैवास्य॒ साप्ता॑नि प्रीणाति पू॒र्णया॑ जुहोति पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः प्र॒जाप॑ते॒ [३४] राप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जाना॒ꣳ॒ सृष्ट्या॑ अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स दिशोऽनु॒ प्रावि॑श॒ज्जुह्व॒न्मन॑सा॒ दिशो᳚ ध्यायेद्दि॒ग्भ्य ए॒वैन॒मव॑ रुन्धे द॒द्ध्ना पु॒रस्ता᳚ ज्जुहो॒त्याज्ये॑नो॒परि॑ष्टा॒त् तेज॑श्चै॒वास्मा॑ इन्द्रि॒यञ्च॑ स॒मीची॑ दधाति॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रो᳚ऽग्निर् वै᳚श्वान॒रः सा॒ख्‍षा [३५] दे॒व वै᳚श्वान॒रमव॑ रुन्धे॒ यत् प्र॑याजानूया॒जान् कु॒र्याद्विक॑स्तिः॒ सा य॒ज्ञस्य॑ दर्विहो॒मङ्क॑रोति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै रा॒ष्ट्रव्ँवै वै᳚श्वान॒रो विण् म॒रुतो॑ वैश्वान॒रꣳ हु॒त्वा मा॑रु॒तान् जु॑होति रा॒ष्ट्र ए॒व विश॒मनु॑ बद्ध्नात्यु॒च्चैर् वै᳚श्वान॒रस्याऽऽश्रा॑वयत्युपा॒ꣳ॒शु मा॑रु॒तान् जु॑होति॒ तस्मा᳚द्रा॒ष्ट्रव्ँविश॒मति॑ वदति मारु॒ता भ॑वन्ति म॒रुतो॒ वै दे॒वाना॒व्ँविशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒श मव॑ रुन्धे स॒प्त भ॑वन्ति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑ रुन्धे ग॒णेन॑ ग॒णम॑नु॒द्रुत्य॑ जुहोति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानङ्करोति⁠ [३६] (अग्ने॒ प्रेह्य व॑ स्म दुहे॒ तां प्र॒जाप॑तेः सा॒ख्‍षान् म॑नुष्यवि॒श मेक॑विꣳशतिश्च) ॥७॥
वसो॒र् धारा᳚ञ्जुहोति॒ वसो᳚र् मे॒ धारा॑ऽस॒दिति॒ वा ए॒षा हू॑यते घृ॒तस्य॒ वा ए॑नमे॒षा धारा॒ऽमुष्मि॑ल्ँलो॒के पिन्व॑मा॒नोप॑ तिष्ठत॒ आज्ये॑न जुहोति॒ तेजो॒ वा आज्य॒न्तेजो॒ वसो॒र् धारा॒ तेज॑सै॒वास्मै॒ तेजोऽव॑ रु॒न्धेऽथो॒ कामा॒ वै वसो॒र् धारा॒ कामा॑ने॒वाव॑ रुन्धे॒ यङ्का॒मये॑त प्रा॒णान॑स्या॒न्नाद्य॒व्ँवि [३७] च्छि॑न्द्या॒मिति॑ वि॒ग्राह॒न्तस्य॑ जुहुयात् प्रा॒णाने॒वास्या॒न्नाद्य॒व्ँवि च्छि॑नत्ति॒ यङ्का॒मये॑त प्रा॒णान॑स्या॒न्नाद्य॒ꣳ॒ सन्त॑नुया॒मिति॒ सन्त॑ता॒न्तस्य॑ जुहुयात् प्रा॒णाने॒वास्या॒न्नाद्य॒ꣳ॒ सन्त॑नोति॒ द्वाद॑श द्वाद॒शानि॑ जुहोति॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रु॒न्धेऽन्न॑ञ्च॒ मेऽख्‍षु॑च्च म॒ इत्या॑है॒तद् वा [३८] अन्न॑स्य रू॒पꣳ रू॒पेणै॒वान्न॒मव॑ रुन्धे॒ऽग्निश्च॑ म॒ आप॑श्च म॒ इत्या॑है॒षा वा अन्न॑स्य॒ योनिः॒ सयो᳚न्ये॒वान्न॒मव॑ रुन्धेऽर्द्धे॒न्द्राणि॑ जुहोति दे॒वता॑ ए॒वाव॑ रुन्धे॒ यथ् सर्वे॑षाम॒र्द्धमिन्द्रः॒ प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑नाम्भूयिष्ठ॒भाक्त॑म॒ इन्द्र॒मुत्त॑रमाहेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद् दधाति यज्ञायु॒धानि॑ जुहोति य॒ज्ञो [३९] वै य॑ज्ञायु॒धानि॑ य॒ज्ञमे॒वाव॑ रु॒न्धेऽथो॑ ए॒तद्वै य॒ज्ञस्य॑ रू॒पꣳ रू॒पेणै॒व य॒ज्ञमव॑ रुन्धेऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒ इत्या॑ह स्व॒गाकृ॑त्या अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑है॒तद् वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पꣳ रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्ध॒ ऋक् च॑ मे॒ साम॑ च म॒ इत्या॑है॒ [४०] तद् वै छन्द॑साꣳ रू॒पꣳ रू॒पेणै॒व छन्दा॒ꣴ॒स्यव॑ रुन्धे॒ गर्भा᳚श्च मे व॒थ्साश्च॑ म॒ इत्या॑है॒तद् वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒व प॒शूनव॑ रुन्धे॒ कल्पा᳚न् जुहो॒त्यक्लृ॑प्तस्य॒ क्लृप्त्यै॑ युग्मदयु॒जे जु॑होति मिथुन॒त्वायो᳚त्त॒राव॑ती भवतो॒ऽभिक्रा᳚न्त्या॒ एका॑ च मे ति॒स्रश्च॑ म॒ इत्या॑ह देवछन्द॒सव्ँवा एका॑ च ति॒स्रश्च॑ [४१] मनुष्यछन्द॒सञ्चत॑स्रश्चा॒ष्टौ च॑ देवछन्द॒सञ्चै॒व म॑नुष्यछन्द॒सञ्चाव॑ रुन्ध॒ आ त्रय॑स्त्रिꣳशतो जुहोति॒ त्रय॑स्त्रिꣳश॒द् वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रुन्ध॒ आऽष्टाच॑त्वारिꣳशतो जुहोत्य॒ष्टाच॑त्वारिꣳशदख्‍षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ वाज॑श्च प्रस॒वश्चेति॑ द्वाद॒शञ्जु॑होति॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒र ए॒व प्रति॑ तिष्ठति⁠ [४२] (वि वै य॒ज्ञः साम॑ च म॒ इत्या॑ह च ति॒स्र श्चैका॒न्नप॑ञ्चा॒शच्च॑) ॥८॥
अ॒ग्निर् दे॒वेभ्योऽपा᳚क्रामद्भाग॒धेय॑मि॒च्छमा॑न॒स्तन्दे॒वा अ॑ब्रुव॒न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यन्नो॑ व॒हेति॒ सो᳚ऽब्रवी॒द्वर॑व्ँवृणै॒ मह्य॑मे॒व वा॑जप्रस॒वीय॑ञ्जुहव॒न्निति॒ तस्मा॑द॒ग्नये॑ वाजप्रस॒वीय॑ञ्जुह्वति॒ यद्वा॑जप्रस॒वीय॑ञ्जु॒होत्य॒ग्निमे॒व तद्भा॑ग॒धेये॑न॒ सम॑र्द्धय॒त्यथो॑ अभिषे॒क ए॒वास्य॒ स च॑तुर्द॒शभि॑र् जुहोति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्ता [४३] ऽऽर॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या॒ अन्न॑स्यान्नस्य जुहो॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्या॒ औदुं॑बरेण स्रु॒वेण॑ जुहो॒त्यूर्ग् वा उ॑दुं॒बर॒ ऊर्गन्न॑मू॒र्जैवास्मा॒ ऊर्ज॒मन्न॒मव॑ रुन्धे॒ऽग्निर् वै दे॒वाना॑म॒भिषि॑क्तोऽग्नि॒चिन्म॑नु॒ष्या॑णा॒न्तस्मा॑दग्नि॒चिद्वर्‌ष॑ति॒ न धा॑वे॒दव॑रुद्ध॒ꣴ॒ ह्य॑स्यान्न॒मन्न॑मिव॒ खलु॒ वै व॒र्॒‌षं यद्धावे॑द॒न्नाद्या᳚द्धवेदु॒पाव॑र्तेता॒न्नाद्य॑मे॒वाभ्यु॑ [४४] पाव॑र्तते॒ नक्तो॒षासेति॑ कृ॒ष्णायै᳚ श्वे॒तव॑थ्सायै॒ पय॑सा जुहो॒त्यह्नै॒वास्मै॒ रात्रि॒म्प्र दा॑पयति॒ रात्रि॒याऽह॑रहोरा॒त्रे ए॒वास्मै॒ प्रत्ते॒ काम॑म॒न्नाद्य॑न्दुहाते राष्ट्र॒भृतो॑ जुहोति रा॒ष्ट्रमे॒वाव॑ रुन्धे ष॒ड्भिर् जु॑होति॒ षड् वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठति॒ भुव॑नस्य पत॒ इति॑ रथमु॒खे पञ्चाऽऽहु॑तीर् जुहोति॒ वज्रो॒ वै रथो॒ वज्रे॑णै॒व दिशो॒ [४५] ऽभि ज॑यत्यग्नि॒चित॑ꣳ ह॒ वा अ॒मुष्मि॑ल्ँलो॒के वातो॒ऽभि प॑वते वातना॒मानि॑ जुहोत्य॒भ्ये॑वैन॑म॒मुष्मि॑ल्ँलो॒के वातः॑ पवते॒ त्रीणि॑ जुहोति॒ त्रय॑ इ॒मे लो॒का ए॒भ्य ए॒व लो॒केभ्यो॒ वात॒मव॑ रुन्धे समु॒द्रो॑ऽसि॒ नभ॑स्वा॒नित्या॑है॒तद् व वात॑स्य रू॒पꣳ रू॒पेणै॒व वात॒मव॑ रुन्धेऽञ्ज॒लिना॑ जुहोति॒ न ह्ये॑तेषा॑म॒न्यथा ऽऽहु॑तिरव॒कल्प॑ते⁠ [४६] (ओष॑धयः स॒प्ता भि दिशो॒ ऽन्यथा॒ द्वे च॑) ॥९॥
सु॒व॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्राकू॒ताय॑ मनुष्यर॒थ ए॒ष खलु॒ वै दे॑वर॒थो यद॒ग्निर॒ग्निय्ँयु॑नज्मि॒ शव॑सा घृ॒तेनेत्या॑ह यु॒नक्त्ये॒वैन॒ꣳ॒ स ए॑नय्ँयु॒क्तः सु॑व॒र्गल्ँलो॒कम॒भि व॑हति॒ यथ् सर्वा॑भिः प॒ञ्चभि॑र् यु॒ञ्ज्याद्यु॒क्तो᳚ऽस्या॒ऽग्निः प्रच्यु॑तः स्या॒दप्र॑तिष्ठिता॒ आहु॑तयः॒ स्युरप्र॑तिष्ठिताः॒ स्तोमा॒ अप्र॑तिष्ठितान्यु॒क्थानि॑ ति॒सृभिः॑ प्रातस्सव॒ने॑ऽभि मृ॑शति त्रि॒वृ [४७] द्वा अ॒ग्निर् यावा॑ने॒वाग्नि स्तय्ँयु॑नक्ति॒ यथाऽन॑सि यु॒क्त आ॑धी॒यत॑ ए॒वमे॒व तत् प्रत्याहु॑तय॒ स्तिष्ठ॑न्ति॒ प्रति॒ स्तोमाः॒ प्रत्यु॒क्थानि॑ यज्ञाय॒ज्ञिय॑स्य स्तो॒त्रे द्वाभ्या॑म॒भि मृ॑शत्ये॒तावा॒न्॒‌वै य॒ज्ञो यावा॑नग्निष्टो॒मो भू॒मा त्वा अ॒स्यात॑ ऊ॒र्द्ध्वः क्रि॑यते॒ यावा॑ने॒व य॒ज्ञस्तम॑न्त॒तो᳚ऽन्वारो॑हति॒ द्वाभ्या॒म्प्रति॑ष्ठित्या॒ एक॒याऽप्र॑स्तुत॒म्भव॒त्यथा॒ [४८] भि मृ॑श॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑म॒त्यथो॒ सन्त॑त्यै॒ प्र वा ए॒षो᳚ऽस्मा ल्लो॒काच्च्य॑वते॒ यो᳚ऽग्निञ्चि॑नु॒ते न वा ए॒तस्या॑निष्ट॒क आहु॑ति॒रव॑ कल्पते॒ याव्ँवा ए॒षो॑ऽनिष्ट॒क आहु॑तिञ्जु॒होति॒ स्रव॑ति॒ वै सा ताꣴ स्रव॑न्तीय्ँय॒ज्ञोऽनु॒ परा॑ भवति य॒ज्ञय्ँयज॑मानो॒ यत् पु॑नश्चि॒तिञ्चि॑नु॒त आहु॑तीना॒म्प्रति॑ष्ठित्यै॒ प्रत्याहु॑तय॒ स्तिष्ठ॑न्ति॒ [४९] न य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानो॒ऽष्टावुप॑ दधात्य॒ष्टाख्‍ष॑रा गाय॒त्री गा॑य॒त्रेणै॒वैन॒ञ्छन्द॑सा चिनुते॒ यदेका॑दश॒ त्रैष्टु॑भेन॒ यद् द्वाद॑श॒ जाग॑तेन॒ छन्दो॑भिरे॒वैन॑ञ्चिनुते नपा॒त्को वै नामै॒षो᳚ऽग्निर् यत् पु॑नश्चि॒तिर् य ए॒वव्ँवि॒द्वान् पु॑नश्चि॒तिञ्चि॑नु॒त आ तृ॒तीया॒त् पुरु॑षा॒दन्न॑मत्ति॒ यथा॒ वै पु॑नरा॒धेय॑ ए॒वं पु॑नश्चि॒तिर् यो᳚ऽग्न्या॒धेये॑न॒ न [५०] र्द्ध्नोति॒ स पु॑नरा॒धेय॒मा ध॑त्ते॒ यो᳚ऽग्निञ्चि॒त्वा न र्द्ध्नोति॒ स पु॑नश्चि॒तिञ्चि॑नुते॒ यत् पु॑नश्चि॒तिञ्चि॑नु॒त ऋद्ध्या॒ अथो॒ खल्वा॑हु॒र् न चे॑त॒व्येति॑ रु॒द्रो वा ए॒ष यद॒ग्निर् यथा᳚ व्या॒घ्रꣳ सु॒प्तम्बो॒धय॑ति ता॒दृगे॒व तदथो॒ खल्वा॑हुश्चेत॒व्येति॒ यथा॒ वसी॑याꣳसम्भाग॒धेये॑न बो॒धय॑ति ता॒दृगे॒व तन्मनु॑र॒ग्निम॑चिनुत॒ तेन॒ नाऽऽर्द्ध्नो॒थ् स ए॒ताम्पु॑नश्चि॒तिम॑पश्य॒त् ताम॑चिनुत॒ तया॒ वै स आ᳚र्द्ध्नो॒द्यत् पु॑नश्चि॒तिञ्चि॑नु॒त ऋद्ध्यै᳚⁠ [५१] (त्रि॒वृ दथ॒ तिष्ठ॑ न्त्यग्न्या॒धेये॑न॒ ना चि॑नुत स॒प्तद॑श च) ॥१०॥
छ॒न्द॒श्चित॑ञ्चिन्वीत प॒शुका॑मः प॒शवो॒ वै छन्दा॑ꣳसि पशु॒माने॒व भ॑वति श्येन॒चित॑ञ्चिन्वीत सुव॒र्गका॑मः श्ये॒नो वै वय॑सा॒म्पति॑ष्ठः श्ये॒न ए॒व भू॒त्वा सु॑व॒र्गल्ँलो॒कम्प॑तति कङ्क॒चित॑ञ्चिन्वीत॒ यः का॒मये॑त शीर्‌ष॒ण्वान॒मुष्मि॑ल्ँलो॒के स्या॒मिति॑ शीर्‌ष॒ण्वाने॒वामुष्मि॑ल्ँलो॒के भ॑वत्यलज॒चित॑ञ्चिन्वीत॒ चतु॑स्सीतम्प्रति॒ष्ठाका॑म॒ श्चत॑स्रो॒ दिशो॑ दि॒ख्‍ष्वे॑व प्रति॑ तिष्ठति प्रौग॒चित॑ञ्चिन्वीत॒ भ्रातृ॑व्यवा॒न् प्रै [५२] व भ्रातृ॑व्यान् नुदत उभ॒यतः॑प्रौगञ्चिन्वीत॒यः का॒मये॑त॒ प्र जा॒तान् भ्रातृ॑व्यान् नु॒देय॒ प्रति॑ जनि॒ष्यमा॑णा॒निति॒ प्रैव जा॒तान् भ्रातृ॑व्यान् नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णान् रथचक्र॒चित॑ञ्चिन्वीत॒ भ्रातृ॑व्यवा॒न्॒‌वज्रो॒ वै रथो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति द्रोण॒चित॑ञ्चिन्वी॒तान्न॑कामो॒ द्रोणे॒ वा अन्न॑म्भ्रियते॒ सयो᳚न्ये॒वान्न॒मव॑ रुन्धे समू॒ह्य॑ञ्चिन्वीत प॒शुका॑मः पशु॒माने॒व भ॑वति [५३] परिचा॒य्य॑ञ्चिन्वीत॒ ग्राम॑कामो ग्रा॒म्ये॑व भ॑वति श्मशान॒चित॑ञ्चिन्वीत॒ यः का॒मये॑त पितृलो॒क ऋ॑द्ध्नुया॒मिति॑ पितृलो॒क ए॒वर्द्ध्नो॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनाऽस्पर्द्धेता॒ꣳ॒ स ए॒ता ज॒मद॑ग्निर् विह॒व्या॑ अपश्य॒त् ता उपा॑धत्त॒ ताभि॒र् वै स वसि॑ष्ठस्येन्द्रि॒यव्ँवी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्या॑ उप॒दधा॑तीन्द्रि॒यमे॒व ताभि॑र् वी॒र्य॑य्ँयज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ होतु॒र् धिष्णि॑य॒ उप॑ दधाति यजमानायत॒नव्ँवै [५४] होता॒ स्व ए॒वास्मा॑ आ॒यत॑न इन्द्रि॒यव्ँवी॒र्य॑मव॑ रुन्धे॒ द्वाद॒शोप॑ दधाति॒ द्वाद॑शाख्‍षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ऽष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॑फाः प॒शवः॑ प॒शूने॒वाव॑ रुन्धे॒ षण् मा᳚र्जा॒लीये॒ षड् वा ऋ॒तव॑ ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तर॑ ऋ॒तूने॒व दे॒वान् पि॒तृन् प्री॑णाति⁠ [५५] (प्र भ॑वति यजमानायत॒नव्ँवा अ॒ष्टाच॑त्वारिꣳशच्च) ॥११॥
पव॑स्व॒ वाज॑सातय॒ इत्य॑नु॒ष्टुक् प्र॑ति॒पद् भ॑वति ति॒स्रो॑ऽनु॒ष्टुभ॒ श्चत॑स्रो गाय॒त्रियो॒ यत् ति॒स्रो॑ऽनु॒ष्टुभ॒ स्तस्मा॒दश्व॑स्त्रि॒भिस्तिष्ठ॑ꣴ स्तिष्ठति॒ यच्चत॑स्रो गाय॒त्रिय॒ स्तस्मा॒थ् सर्वा॑ꣴ श्च॒तुरः॑ प॒दः प्र॑ति॒दध॒त् पला॑यते पर॒मा वा ए॒षा छन्द॑सा॒य्ँयद॑नु॒ष्टुक् प॑र॒मश्च॑तुष्टो॒मः स्तोमा॑नाम्पर॒मस्त्रि॑रा॒त्रो य॒ज्ञाना᳚म्पर॒मोऽश्वः॑ पशू॒नाम्प॑र॒मेणै॒वैनं॑पर॒मता᳚ङ्गमयत्येकवि॒ꣳ॒शमह॑र् भवति॒ [५६] यस्मि॒न्नश्व॑ आल॒भ्यते॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒श ए॒ष प्र॒जाप॑तिः प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒ख्‍षादृ॑द्ध्नोति॒ शक्व॑रयः पृ॒ष्ठम्भ॑वन्त्य॒न्यद॑न्य॒च्छन्दो॒ऽन्ये᳚न्ये॒ वा ए॒ते प॒शव॒ आ ल॑भ्यन्त उ॒तेव॑ ग्रा॒म्या उ॒तेवा॑ऽऽ*र॒ण्या यच्छक्व॑रयः पृ॒ष्ठम्भव॒न्त्यश्व॑स्य सर्व॒त्वाय॑ पार्थुर॒श्मम्ब्र॑ह्मसा॒मम्भ॑वति र॒श्मिना॒ वा अश्वो॑ [५७] य॒त ई᳚श्व॒रो वा अश्वोऽय॒तोऽप्र॑तिष्ठितः॒ परा᳚म्परा॒वत॒ङ्गन्तो॒र् यत् पा᳚र्थुर॒श्मम्ब्र॑ह्मसा॒मं भव॒त्यश्व॑स्य॒ यत्यै॒ धृत्यै॒ संकृ॑त्यच्छावाकसा॒मम्भ॑वत्युथ्सन्नय॒ज्ञो वा ए॒ष यद॑श्वमे॒धः क स्तद्वे॒देत्या॑हु॒र् यदि॒ सर्वो॑ वा क्रि॒यते॒ न वा॒ सर्व॒ इति॒ यथ् संकृ॑त्यच्छावाकसा॒मम्भव॒त्यश्व॑स्य सर्व॒त्वाय॒ पर्या᳚प्त्या॒ अन॑न्तरायाय॒सर्व॑स्तोमोऽतिरा॒त्र उ॑त्त॒ममह॑र् भवति॒ सर्व॒स्याऽऽप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेना᳚ऽऽप्नोति॒ सर्व॑ञ्जयति⁠ [५८] (अह॑र्भवति॒वा अश्वो ऽह॑र् भवति॒ दश॑ च) ॥१२॥
(दे॒वा॒सु॒रास्तेन र्त॒व्या॑ रु॒द्रो ऽश्म॑ न्नृ॒षदे॒ व डुदे॑नं॒ प्राची॒मिति॒ वसो॒र्द्धारा॑ म॒ग्निर् दे॒वेभ्यः॑ सुव॒र्गाय॑ यत्राकू॒ताय॑ छन्द॒श्चितं॒ पव॑स्व॒ द्वाद॑श)
(दे॒वा॒सु॒रा अ॒जायां॒ वै ग्रु॑मु॒ष्टिः प्र॑थ॒मो दे॑वय॒तामे॒ तद्वै छन्द॑सा मृ॒द्ध्नो त्य॒ष्टौ प॑ञ्चा॒शत्)
(दे॒वा॒सु॒राः सर्व॑ञ्जयति)
अनुवाकाः पञ्चशती
१२ ५८