कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
पञ्चमकाण्डे पञ्चमः प्रश्नः

कांड ५ प्रश्न ५
वायव्यपश्वाद्यानं निरूपणं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
यदेके॑न सꣴस्था॒पय॑ति य॒ज्ञस्य॒ सन्त॑त्या॒ अवि॑च्छेदायै॒न्द्राः प॒शवो॒ ये मु॑ष्क॒रा यदै॒न्द्राः सन्तो॒ऽग्निभ्य॑ आल॒भ्यन्ते॑ दे॒वता᳚भ्यः स॒मद॑न्दधात्या ग्ने॒यी स्त्रि॒ष्टुभो॑ याज्यानुवा॒क्याः᳚ कुर्या॒द् यदा᳚ग्ने॒यीस्तेना᳚ऽऽ*ग्ने॒या यत् त्रि॒ष्टुभ॒स्तेनै॒न्द्राः समृ॑द्ध्यै॒ न दे॒वता᳚भ्यः स॒मद॑न्दधाति वा॒यवे॑ नि॒युत्व॑ते तूप॒रमा ल॑भते॒ तेजो॒ऽग्नेर् वा॒यु स्तेज॑स ए॒ष आ ल॑भ्यते॒ तस्मा᳚द्य॒द्रिय॑ङ् वा॒युर् [१] वाति॑ त॒द्रिय॑ङ्ङ॒ग्निर् द॑हति॒ स्वमे॒व तत् तेजोऽन्वे॑ति॒ यन्न नि॒युत्व॑ते॒ स्यादुन्मा᳚द्ये॒द्यज॑मानो नि॒युत्व॑ते भवति॒ यज॑मान॒स्याऽनु॑न्मादाय वायु॒मती᳚ श्वे॒तव॑ती याज्यानुवा॒क्ये॑ भवतः सतेज॒स्त्वाय॑ हिरण्यग॒र्भः सम॑वर्त॒ताग्र॒ इत्या॑घा॒रमा घा॑रयति प्र॒जाप॑ति॒र् वै हि॑रण्यग॒र्भः प्र॒जाप॑तेरनुरूप॒त्वाय॒ सर्वा॑णि॒ वा ए॒ष रू॒पाणि॑ पशू॒नाम्प्रत्या ल॑भ्यते॒ यच्छ्म॑श्रु॒ण स्तत् [२] पुरु॑षाणाꣳ रू॒पय्ँयत् तू॑प॒र स्तदश्वा॑ना॒य्ँयद॒न्यतो॑द॒न् तद्गवा॒य्ँयदव्या॑ इव श॒फा स्तदवी॑ना॒य्ँयद॒ज स्तद॒जाना᳚व्ँवा॒युर् वै प॑शू॒नाम्प्रि॒यन्धाम॒ यद्वा॑य॒व्यो॑ भव॑त्ये॒तमे॒वैन॑म॒भि सं॑जाना॒नाः प॒शव॒ उप॑ तिष्ठन्ते वाय॒व्यः॑ का॒र्या(३)ः प्रा॑जाप॒त्या(३) इत्या॑हु॒र् यद्वा॑य॒व्य॑ङ्कु॒र्यात् प्र॒जाप॑तेरिया॒द् यत् प्रा॑जाप॒त्यङ्कु॒र्याद्वा॒यो [३] रि॑या॒द्यद्वा॑य॒व्यः॑ प॒शुर् भव॑ति॒ तेन॑ वा॒योर् नैति॒ यत् प्रा॑जाप॒त्यः पु॑रो॒डाशो॒ भव॑ति॒ तेन॑ प्र॒जाप॑ते॒र् नैति॒ यद् द्वाद॑शकपाल॒ स्तेन॑ वैश्वान॒रान्नैत्या᳚ग्नावैष्ण॒वमेका॑दशकपाल॒न्निर् व॑पति दीख्‍षि॒ष्यमा॑णो॒ऽग्निः सर्वा॑ दे॒वता॒ विष्णु॑र् य॒ज्ञो दे॒वता᳚श्चै॒व य॒ज्ञञ्चाऽऽ*र॑भते॒ऽग्निर॑व॒मो दे॒वता॑ना॒व्ँविष्णुः॑ पर॒मो यदा᳚ग्नावैष्ण॒वमेका॑दशकपालन्नि॒र्वप॑ति दे॒वता॑ [४] ए॒वोभ॒यतः॑ परि॒गृह्य॒ यज॑मा॒नोऽव॑ रुन्धे पुरो॒डाशे॑न॒ वै दे॒वा अ॒मुष्मि॑ल्ँलो॒क आ᳚र्द्ध्नुवन् च॒रुणा॒ऽस्मिन्‌यः का॒मये॑ता॒ऽमुष्मि॑ल्ँलो॒क ऋ॑द्ध्नुया॒मिति॒ स पु॑रो॒डाश॑ङ्कुर्वीता॒ऽमुष्मि॑न्ने॒व लो॒क ऋ॑द्ध्नोति॒ यद॒ष्टाक॑पाल॒ स्तेना᳚ऽऽग्ने॒यो यत् त्रि॑कपा॒लस्तेन॑ वैष्ण॒वः समृ॑द्ध्यै॒ यः का॒मये॑ता॒स्मिल्ँलो॒क ऋ॑द्ध्नुया॒मिति॒ स च॒रुङ्कु॑र्वीता॒ग्नेर् घृ॒तव्ँविष्णो᳚स्तण्डु॒लास्तस्मा᳚ [५] च्च॒रुः का॒र्यो᳚ऽस्मिन्ने॒व लो॒क ऋ॑द्ध्नोत्यादि॒त्यो भ॑वती॒यव्ँवा अदि॑तिर॒स्यामे॒व प्रति॑ तिष्ठ॒त्यथो॑ अ॒स्यामे॒वाधि॑ य॒ज्ञन्त॑नुते॒ यो वै स॑व्ँवथ्स॒रमुख्य॒मभृ॑त्वा॒ऽग्निञ्चि॑नु॒ते यथा॑ सा॒मि गर्भो॑ऽव॒पद्य॑ते ता॒दृगे॒व तदार्ति॒मार्च्छे᳚द्वैश्वान॒रन्द्वाद॑शकपालम्पु॒रस्ता॒न्निर् व॑पेथ् सव्ँवथ्स॒रो वा अ॒ग्निर् वै᳚श्वान॒रो यथा॑ सव्ँवथ्स॒रमा॒प्त्वा [६] का॒ल आग॑ते वि॒जाय॑त ए॒वमे॒व स॑व्ँवथ्स॒रमा॒प्त्वा का॒ल आग॑ते॒ऽग्निञ्चि॑नुते॒ नाऽऽर्ति॒मार्च्छ॑त्ये॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वै᳚श्वान॒रः प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुन्धे॒ त्रीण्ये॒तानि॑ ह॒वीꣳषि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षाल्ँलो॒काना॒ꣳ॒ रोहा॑य⁠ [७] (य॒द्रिय॑ङ् वा॒युर् यच्छ्म॑श्रु॒णस्तद् वा॒योर् नि॒र्वप॑ति दे॒वता॒स्तस्मा॑दा॒प्त्वा ष्टात्रि॑ꣳशच्च) ॥१॥
प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा प्रे॒णाऽनु॒ प्रावि॑श॒त् ताभ्यः॒ पुनः॒ संभ॑वितु॒न्नाश॑क्नो॒थ् सो᳚ऽब्रवीदृ॒द्ध्नव॒दिथ् स यो मे॒तः पुनः॑ संचि॒नव॒दिति॒ तन्दे॒वाः सम॑चिन्व॒न् ततो॒ वै त आ᳚र्द्ध्नुव॒न्॒‌यथ् स॒मचि॑न्व॒न् तच्चित्य॑स्य चित्य॒त्वय्ँय ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒त ऋ॒द्ध्नोत्ये॒व कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुरग्नि॒वा [८] न॑सा॒नीति॒ वा अ॒ग्निश्ची॑यतेऽग्नि॒वाने॒व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुर् दे॒वा मा॑ वेद॒न्निति॒ वा अ॒ग्निश्ची॑यते वि॒दुरे॑नन्दे॒वाः कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुर् गृ॒ह्य॑सा॒नीति॒ वा अ॒ग्निश्ची॑यते गृ॒ह्ये॑व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुः पशु॒मान॑सा॒नीति॒ वा अ॒ग्नि [९] श्ची॑यते पशु॒माने॒व भ॑वति॒ कस्मै॒ कम॒ग्निश्ची॑यत॒ इत्या॑हुः स॒प्त मा॒ पुरु॑षा॒ उप॑ जीवा॒निति॒ वा अ॒ग्निश्ची॑यते॒ त्रयः॒ प्राञ्च॒स्त्रयः॑ प्र॒त्यञ्च॑ आ॒त्मा स॑प्त॒म ए॒ताव॑न्त ए॒वैन॑म॒मुष्मि॑ल्ँलो॒क उप॑ जीवन्ति प्र॒जाप॑तिर॒ग्निम॑चिकीषत॒ तम्पृ॑थि॒व्य॑ब्रवी॒न्न मय्य॒ग्निञ्चे᳚ष्य॒सेऽति॑ मा धख्‍ष्यति॒ सा त्वा॑ऽतिद॒ह्यमा॑ना॒ वि ध॑विष्ये॒ [१०] स पापी॑यान् भविष्य॒सीति॒ सो᳚ऽब्रवी॒त् तथा॒ वा अ॒हङ्क॑रिष्यामि॒ यथा᳚ त्वा॒ नाति॑ध॒ख्‍ष्यतीति॒ स इ॒माम॒भ्य॑मृशत् प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॒देती॒मामे॒वेष्ट॑काङ्कृ॒त्वोपा॑ध॒त्तान॑तिदाहाय॒ यत् प्रत्य॒ग्निञ्चि॑न्वी॒त तद॒भि मृ॑शेत् प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॒दे [११] ती॒मामे॒वेष्ट॑काङ्कृ॒त्वोप॑ ध॒त्तेऽन॑तिदाहाय प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तमुख्य॑मपश्य॒त् तꣳ स॑व्ँवथ्स॒रम॑बिभ॒स्ततो॒ वै स प्राजा॑यत॒ तस्मा᳚थ् सव्ँवथ्स॒रम्भा॒र्यः॑ प्रैव जा॑यते॒ तव्ँवस॑वोऽब्रुव॒न् प्र त्वम॑जनिष्ठा व॒यम्प्रजा॑यामहा॒ इति॒ तव्ँवसु॑भ्यः॒ प्राय॑च्छ॒त् तन्त्रीण्यहा᳚न्यबिभरु॒स्तेन॒ [१२] त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिꣳशतञ्च॒ तस्मा᳚त् त्र्य॒हम्भा॒र्यः॑ प्रैव जा॑यते॒ तान् रु॒द्रा अ॑ब्रुव॒न् प्र यू॒यम॑जनिढ्वव्ँव॒यम्प्र जा॑यामहा॒ इति॒ तꣳ रु॒द्रेभ्यः॒ प्राय॑च्छ॒न् तꣳ षडहा᳚न्यबिभरु॒ स्तेन॒ त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिꣳशतञ्च॒ तस्मा᳚थ् षड॒हम्भा॒र्यः॑ प्रैव जा॑यते॒ ताना॑दि॒त्या अ॑ब्रुव॒न् प्र यू॒यम॑जनिढ्वव्ँव॒यं [१३] प्र जा॑यामहा॒ इति॒ तमा॑दि॒त्येभ्यः॒ प्राय॑च्छ॒न् तन्द्वाद॒शाहा᳚न्यबिभरु॒ स्तेन॒ त्रीणि॑ च श॒तान्यसृ॑जन्त॒ त्रय॑स्त्रिꣳशतञ्च॒ तस्मा᳚द् द्वादशा॒हम्भा॒र्यः॑ प्रैव जा॑यते॒ तेन॒ वै ते स॒हस्र॑मसृजन्तो॒खाꣳ स॑हस्रत॒मीय्ँय ए॒वमुख्य॑ꣳ साह॒स्रव्ँवेद॒ प्र स॒हस्र॑म्प॒शूना᳚प्नोति⁠ [१४] (अ॒ग्नि॒वान् प॑शु॒मान॑सा॒नीति॒ वा अ॒ग्निर् द्ध॑विष्ये मृशेत् प्र॒जाप॑तिस्त्वा सादयतु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑द॒ तेन॒ ताना॑दि॒त्या अ॑ब्रुव॒न् प्र यू॒यम॑जनिढ्वव्ँव॒यंच॑त्वारि॒ꣳ॒शच्च॑) ॥२॥
यजु॑षा॒ वा ए॒षा क्रि॑यते॒ यजु॑षा पच्यते॒ यजु॑षा॒ वि मु॑च्यते॒ यदु॒खा सा वा ए॒षैतर्‌हि॑ या॒तया᳚म्नी॒ सा न पुनः॑ प्र॒युज्येत्या॑हु॒रग्ने॑ यु॒ख्‍ष्वा हि ये तव॑ यु॒ख्‍ष्वा हि दे॑व॒हूत॑मा॒ꣳ॒ इत्यु॒खाया᳚ञ्जुहोति॒ तेनै॒वैना॒म्पुनः॒ प्र यु॑ङ्क्ते॒ तेनाया॑तयाम्नी॒ यो वा अ॒ग्निय्ँयोग॒ आग॑ते यु॒नक्ति॑ यु॒ङ्क्ते यु॑ञ्जा॒नेष्वग्ने॑ [१५] यु॒ख्‍ष्वा हि ये तव॑ यु॒ख्‍ष्वा हि दे॑व॒हूत॑मा॒ꣳ॒ इत्या॑है॒ष वा अ॒ग्नेर् योग॒स्तेनै॒वैन॑य्ँयुनक्ति यु॒ङ्क्ते यु॑ञ्जा॒नेषु॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ न्य॑ङ्ङ॒ग्निश्चे॑त॒व्या(३) उ॑त्ता॒ना(३) इति॒ वय॑सा॒व्ँवा ए॒ष प्र॑ति॒मया॑ चीयते॒ यद॒ग्निर्यन्न्य॑ञ्चञ्चिनु॒यात् पृ॑ष्टि॒त ए॑न॒माहु॑तय ऋच्छेयु॒र् यदु॑त्ता॒नन्न पति॑तुꣳ शक्नुया॒दसु॑वर्ग्योऽस्य स्यात् प्रा॒चीन॑मुत्ता॒नं [१६] पु॑रुषशी॒र्॒‌षमुप॑ दधाति मुख॒त ए॒वैन॒माहु॑तय ऋच्छन्ति॒ नोत्ता॒नञ्चि॑नुते सुव॒र्ग्यो᳚ऽस्य भवति सौ॒र्या जु॑होति॒ चख्‍षु॑रे॒वास्मि॒न् प्रति॑ दधाति॒ द्विर् जु॑होति॒ द्वे हि चख्‍षु॑षी समा॒न्या जु॑होति समा॒नꣳ हि चख्‍षुः॒ समृ॑द्ध्यै देवासु॒राः सय्ँय॑त्ता आस॒न् ते वा॒मव्ँवसु॒ सन्न्य॑दधत॒ तद् दे॒वा वा॑म॒भृता॑ऽवृञ्जत॒ तद्वा॑म॒भृतो॑ वामभृ॒त्त्वय्ँयद्वा॑म॒भृत मुप॒दधा॑ति वा॒ममे॒व तया॒ वसु॒ यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ हिर॑ण्यमूर्द्ध्नी भवति॒ ज्योति॒र् वै हिर॑ण्य॒ञ्ज्योति॑र् वा॒मञ्ज्योति॑षै॒वास्य॒ ज्योति॑र् वा॒मव्ँवृ॑ङ्क्ते द्विय॒जुर् भ॑वति॒ प्रति॑ष्ठित्यै⁠ [१७] (यु॒ञ्जा॒नेष्वग्ने᳚ प्रा॒चीन॑मुत्ता॒नं वा॑म॒भृतं॒ चतु॑र्विꣳशतिश्च) ॥३॥
आपो॒ वरु॑णस्य॒ पत्न॑य आस॒न् ता अ॒ग्निर॒भ्य॑द्ध्याय॒त् ताः सम॑भव॒त् तस्य॒ रेतः॒ परा॑ऽपत॒त् तदि॒यम॑भव॒द्यद् द्वि॒तीय॑म्प॒राप॑त॒त् तद॒साव॑भवदि॒यव्ँवै वि॒राड॒सौ स्व॒राड् यद्वि॒राजा॑वुप॒दधा॑ती॒मे ए॒वोप॑ धत्ते॒ यद्वा अ॒सौ रेतः॑ सि॒ञ्चति॒ तद॒स्याम्प्रति॑ तिष्ठति॒ तत् प्र जा॑यते॒ ता ओष॑धयो [१८] वी॒रुधो॑ भवन्ति॒ ता अ॒ग्निर॑त्ति॒ य ए॒वव्ँवेद॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒ यो रे॑त॒स्वी स्यात् प्र॑थ॒माया॒न्तस्य॒ चित्या॑मु॒भे उप॑ दद्ध्यादि॒मे ए॒वास्मै॑ स॒मीची॒ रेतः॑ सिञ्चतो॒ यः सि॒क्तरे॑ताः॒ स्यात् प्र॑थ॒माया॒न्तस्य॒ चित्या॑म॒न्यामुप॑ दद्ध्यादुत्त॒माया॑म॒न्याꣳ रेत॑ ए॒वास्य॑ सि॒क्तमा॒भ्यामु॑भ॒यतः॒ परि॑ गृह्णाति सव्ँवथ्स॒रन्न क [१९] ञ्च॒न प्र॒त्यव॑रोहे॒न्न हीमे कञ्च॒न प्र॑त्यव॒रोह॑त॒स्तदे॑नयोर् व्र॒तय्ँयो वा अप॑शीर्‌षाणम॒ग्निञ्चि॑नु॒तेऽप॑शीर्‌षा॒ऽमुष्मि॑ल्ँलो॒के भ॑वति॒ यः सशी॑र्‌षाणञ्चिनु॒ते सशी॑र्‌षा॒ऽमुष्मि॑ल्ँलो॒के भ॑वति॒ चित्ति॑ञ्जुहोमि॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वा इ॒हाऽऽ*गम॑न् वी॒तिहो᳚त्रा ऋता॒वृधः॑ समु॒द्रस्य॑ व॒युन॑स्य॒ पत्म॑न् जु॒होमि॑ वि॒श्वक॑र्मणे॒ विश्वाऽहाऽम॑र्त्यꣳ ह॒विरिति॑ स्वयमातृ॒ण्णामु॑प॒धाय॑ जुहोत्ये॒ [२०] तद्वा अ॒ग्नेः शिरः॒ सशी॑र्‌षाणमे॒वाग्निञ्चि॑नुते॒ सशी॑र्‌षा॒ऽमुष्मि॑ल्ँलो॒के भ॑वति॒ य ए॒वव्ँवेद॑ सुव॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तस्य॒ यदय॑थापूर्वङ्क्रि॒यतेऽसु॑वर्ग्यमस्य॒ तथ् सु॑व॒र्ग्यो᳚ऽग्नि श्चिति॑मुप॒धाया॒भि मृ॑शे॒च्चित्ति॒मचि॑त्तिञ्चिनव॒द्वि वि॒द्वान् पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता᳚न् रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दिति॑ञ्च॒ रास्वादि॑तिमुरु॒ष्येति॑ यथापू॒र्वमे॒वैना॒मुप॑ धत्ते॒ प्राञ्च॑मेनञ्चिनुते सुव॒र्ग्यो᳚ऽस्य भवति⁠ [२१] (ओष॑धयः॒कंजु॑होतिस्वप॒त्याया॒ष्टाद॑श च) ॥४॥
वि॒श्वक॑र्मा दि॒शाम्पतिः॒ स नः॑ प॒शून् पा॑तु॒ सो᳚ऽस्मान् पा॑तु॒ तस्मै॒ नमः॑ प्र॒जाप॑ती रु॒द्रो वरु॑णो॒ऽग्निर् दि॒शाम्पतिः॒ स नः॑ प॒शून् पा॑तु॒ सो᳚ऽस्मान् पा॑तु॒ तस्मै॒ नम॑ ए॒ता वै दे॒वता॑ ए॒तेषा᳚म्पशू॒नामधि॑पतय॒ स्ताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यः प॑शुशी॒र्॒‌षाण्यु॑प॒दधा॑ति हिरण्येष्ट॒का उप॑ दधात्ये॒ताभ्य॑ ए॒व दे॒वता᳚भ्यो॒ नम॑स्करोति ब्रह्मवा॒दिनो॑ [२२] वदन्त्य॒ग्नौ ग्रा॒म्यान् प॒शून् प्र द॑धाति शु॒चाऽऽर॒ण्यान॑र्पयति॒ किन्तत॒ उच्छि॑ꣳष॒तीति॒ यद्धि॑रण्येष्ट॒का उ॑प॒दधा᳚त्य॒मृत॒व्ँवै हिर॑ण्यम॒मृते॑नै॒व ग्रा॒म्येभ्यः॑ प॒शुभ्यो॑ भेष॒जङ्क॑रोति॒ नैना॑न् हिनस्ति प्रा॒णो वै प्र॑थ॒मा स्व॑यमातृ॒ण्णा व्या॒नो द्वि॒तीया॑ऽपा॒न स्तृ॒तीयाऽनु॒ प्राऽण्या᳚त् प्रथ॒माꣴ स्व॑यमातृ॒ण्णामु॑प॒धाय॑ प्रा॒णेनै॒व प्रा॒णꣳ सम॑र्द्धयति॒ व्य॑न्याद् [२३] द्वि॒तीया॑मुप॒धाय॑ व्या॒नेनै॒व व्या॒नꣳ सम॑र्द्धय॒त्यपा᳚न्यात् तृ॒तीया॑मुप॒धाया॑पा॒नेनै॒वापा॒नꣳ सम॑र्द्धय॒त्यथो᳚ प्रा॒णैरे॒वैन॒ꣳ॒ समि॑न्धे॒ भूर् भुवः॒ सुव॒रिति॑ स्वयमातृ॒ण्णा उप॑ दधाती॒मे वै लो॒काः स्व॑यमातृ॒ण्णा ए॒ताभिः॒ खलु॒ वै व्याहृ॑तीभिः प्र॒जाप॑तिः॒ प्राजा॑यत॒ यदे॒ताभि॒र् व्याहृ॑तीभिः स्वयमातृ॒ण्णा उ॑प॒दधा॑ती॒माने॒व लो॒कानु॑प॒धायै॒षु [२४] लो॒केष्वधि॒ प्र जा॑यते प्रा॒णाय॑ व्या॒नाया॑पा॒नाय॑ वा॒चे त्वा॒ चख्‍षु॑षे त्वा॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॑दा॒ग्निना॒ वै दे॒वाः सु॑व॒र्गल्ँलो॒कम॑जिगाꣳस॒न् तेन॒ पति॑तु॒न्नाश॑क्नुव॒न् त ए॒ताश्चत॑स्रः स्वयमातृ॒ण्णा अ॑पश्य॒न् ता दि॒ख्‍षूपा॑दधत॒ तेन॑ स॒र्वत॑श्चख्‍षुषा सुव॒र्गल्ँलो॒कमा॑य॒न्॒‌यच्चत॑स्रः स्वयमातृ॒ण्णा दि॒ख्‍षू॑प॒दधा॑ति स॒र्वत॑श्चख्‍षुषै॒व तद॒ग्निना॒ यज॑मानः सुव॒र्गल्ँलो॒कमे॑ति⁠ [२५] (ब्र॒ह्म॒वा॒दिनो॒व्य॑न्यादे॒षुयज॑मान॒ स्त्रीणि॑ च) ॥५॥
अग्न॒ आ या॑हि वी॒तय॒ इत्या॒हाह्व॑तै॒वैन॑म॒ग्निन्दू॒तव्ँवृ॑णीमह॒ इत्या॑ह हू॒त्वैवैन॑व्ँवृणीते॒ऽग्निना॒ऽग्निः समि॑द्ध्यत॒ इत्या॑ह॒ समि॑न्ध ए॒वैन॑म॒ग्निर् वृ॒त्राणि॑ जङ्घन॒दित्या॑ह॒ समि॑द्ध ए॒वास्मि॑न्निन्द्रि॒यन्द॑धात्य॒ग्नेः स्तोम॑म्मनामह॒ इत्या॑ह मनु॒त ए॒वैन॑मे॒तानि॒ वा अह्ना॑ꣳ रू॒पाण्य॑ [२६] न्व॒हमे॒वैन॑ञ्चिनु॒तेऽवाह्ना॑ꣳ रू॒पाणि॑ रुन्धे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ् स॒त्याद्या॒तया᳚म्नीर॒न्या इष्ट॑का॒ अया॑तयाम्नी लोकंपृ॒णेत्यै᳚न्द्रा॒ग्नी हि बा॑र्‌हस्प॒त्येति॑ ब्रूयादिन्द्रा॒ग्नी च॒ हि दे॒वाना॒म्बृह॒स्पति॒श्चाया॑तयामानोऽनुच॒रव॑ती भव॒त्यजा॑मित्वायानु॒ष्टुभाऽनु॑ चरत्या॒त्मा वै लो॑कम्पृ॒णा प्रा॒णो॑ऽनु॒ष्टुप् तस्मा᳚त् प्रा॒णः सर्वा॒ण्यङ्गा॒न्यनु॑ चरति॒ ता अ॑स्य॒ सूद॑दोहस॒ [२७] इत्या॑ह॒ तस्मा॒त् परु॑षिपरुषि॒ रसः॒ सोम॑ꣴ श्रीणन्ति॒ पृश्ञ॑य॒ इत्या॒हान्न॒व्ँवै पृश्ञन्न॑मे॒वाव॑ रुन्धे॒ऽर्को वा अ॒ग्निर॒र्कोऽन्न॒मन्न॑मे॒वाव॑ रुन्धे॒ जन्म॑न् दे॒वाना॒व्ँविश॑ स्त्रि॒ष्वा रो॑च॒ने दि॒व इत्या॑हे॒माने॒वास्मै॑ लो॒कान् ज्योति॑ष्मतः करोति॒ यो वा इष्ट॑कानाम्प्रति॒ष्ठाव्ँवेद॒ प्रत्ये॒व ति॑ष्ठति॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सी॒देत्या॑है॒षा वा इष्ट॑कानाम्प्रति॒ष्ठा य ए॒वव्ँवेद॒ प्रत्ये॒व ति॑ष्ठति⁠ [२८] (रू॒पाणि॒ सूद॑दोहस॒ स्तया॒ षोड॑श च) ॥६॥
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निर् वज्र॑ एकाद॒शिनी॒ यद॒ग्नावे॑काद॒शिनी᳚म्मिनु॒याद्वज्रे॑णैनꣳ सुव॒र्गाल्लो॒काद॒न्तर् द॑द्ध्या॒द्यन्न मि॑नु॒याथ् स्वरु॑भिः प॒शून् व्य॑र्द्धयेदेकयू॒पम्मि॑नोति॒ नैन॒व्ँवज्रे॑ण सुव॒र्गा ल्लो॒काद॑न्त॒र्दधा॑ति॒ न स्वरु॑भिः प॒शून् व्य॑र्द्धयति॒ वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्द्ध्यते॒ यो᳚ऽग्निञ्चि॒न्व न्न॑धि॒क्राम॑त्यैन्द्रि॒य [२९] र्चाऽऽक्रम॑ण॒म्प्रतीष्ट॑का॒मुप॑ दद्ध्या॒न्नेन्द्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑द्ध्यते रु॒द्रो वा ए॒ष यद॒ग्नि स्तस्य॑ ति॒स्रः श॑र॒व्याः᳚ प्र॒तीची॑ ति॒रश्च्य॒नूची॒ ताभ्यो॒ वा ए॒ष आ वृ॑श्च्यते॒ यो᳚ऽग्निञ्चि॑नु॒ते᳚ऽग्निञ्चि॒त्वा ति॑सृध॒न्वमया॑चितम्ब्राह्म॒णाय॑ दद्या॒त् ताभ्य॑ ए॒व नम॑स्करो॒त्यथो॒ ताभ्य॑ ए॒वाऽऽत्मान॒न्नि ष्क्री॑णीते॒ यत् ते॑ रुद्र पु॒रो [३०] धनु॒ स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र सव्ँवथ्स॒रेण॒ नम॑ स्करोमि॒ यत् ते॑ रुद्र दख्‍षि॒णा धनु॒ स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र परिवथ्स॒रेण॒ नम॑ स्करोमि॒ यत् ते॑ रुद्र प॒श्चाद्धनु॒ स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्रेदावथ्स॒रेण॒ नम॑ स्करोमि॒ यत् ते॑ रुद्रोत्त॒राद्धनु॒ स्तद् [३१] वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्रेदुवथ्स॒रेण॒ नम॑ स्करोमि॒ यत् ते॑ रुद्रो॒परि॒ धनु॒ स्तद्वातो॒ अनु॑ वातु ते॒ तस्मै॑ ते रुद्र वथ्स॒रेण॒ नम॑ स्करोमि रु॒द्रो वा ए॒ष यद॒ग्निः स यथा᳚ व्या॒घ्रः क्रु॒द्ध स्तिष्ठ॑त्ये॒वव्ँवा ए॒ष ए॒तर्‌हि॒ सञ्चि॑तमे॒तैरुप॑ तिष्ठते नमस्का॒रैरे॒वैन॑ꣳ शमयति॒ ये᳚ऽग्नयः॑ [३२] पुरी॒ष्याः᳚ प्रवि॑ष्टाः पृथि॒वीमनु॑⁠। तेषा॒न्त्वम॑स्युत्त॒मः प्र णो॑ जी॒वात॑वे सुव⁠॥ आप॑न्त्वाऽग्ने॒ मन॒साऽऽप॑न्त्वाऽग्ने॒ तप॒साऽऽप॑न्त्वाऽग्ने दी॒ख्‍षयाऽऽप॑न्त्वाऽग्न उप॒सद्भि॒रापं॑ त्वाऽग्ने सु॒त्ययाऽऽप॑न्त्वाऽग्ने॒ दख्‍षि॑णाभि॒राप॑न्त्वाऽग्नेऽवभृ॒थेनाप॑न्त्वाऽग्ने व॒शयाऽऽपं॑ त्वाऽग्ने स्वगाका॒रेणेत्या॑है॒ षा वा अ॒ग्नेराप्ति॒ स्तयै॒वैन॑माप्नोति⁠ [३३] (ऐ॒न्द्रि॒या पु॒र उ॑त्त॒राद्धनु॒स्त द॒ग्नय॑ आहा॒ ष्टौ च॑) ॥७॥
गा॒य॒त्रेण॑ पु॒रस्ता॒दुप॑ तिष्ठते प्रा॒णमे॒वास्मि॑न् दधाति बृहद्रथन्त॒राभ्या᳚म्प॒ख्‍षावोज॑ ए॒वास्मि॑न् दधात्यृतु॒स्थाय॑ज्ञाय॒ज्ञिये॑न॒ पुच्छ॑मृ॒तुष्वे॒व प्रति॑ तिष्ठति पृ॒ष्ठैरुप॑ तिष्ठते॒ तेजो॒ वै पृ॒ष्ठानि॒ तेज॑ ए॒वास्मि॑न् दधाति प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ् सृ॒ष्टः परा॑ङै॒त् तव्ँवा॑रव॒न्तीये॑नावारयत॒ तद्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वꣴ श्यै॒तेन॑ श्ये॒ती अ॑कुरुत॒ तच्छ्यै॒तस्य॑ शैत॒त्व [३४] य्ँयद्वा॑रव॒न्तीये॑नोप॒तिष्ठ॑ते वा॒रय॑त ए॒वैन॑ꣴ श्यै॒तेन॑ श्ये॒ती कु॑रुते प्र॒जाप॑ते॒र्॒‌हृद॑येना पिप॒ख्‍षम्प्रत्युप॑ तिष्ठते प्रे॒माण॑मे॒वास्य॑ गच्छति॒ प्राच्या᳚ त्वा दि॒शा सा॑दयामि गाय॒त्रेण॒ छन्द॑सा॒ऽग्निना॑ दे॒वत॑या॒ऽग्नेः शी॒र्ष्णाग्नेः शिर॒ उप॑ दधामि॒ दख्‍षि॑णया त्वा दि॒शा सा॑दयामि॒ त्रैष्टु॑भेन॒ छन्द॒सेन्द्रे॑ण दे॒वत॑या॒ऽग्नेः प॒ख्‍षेणा॒ग्नेः प॒ख्‍षमुप॑ दधामि प्र॒तीच्या᳚ त्वा दि॒शा सा॑दयामि॒ [३५] जाग॑तेन॒ छन्द॑सा सवि॒त्रा दे॒वत॑या॒ऽग्नेः पुच्छे॑ना॒ग्नेः पुच्छ॒मुप॑ दधा॒म्युदी᳚च्या त्वा दि॒शा सा॑दया॒म्यानु॑ष्टुभेन॒ छन्द॑सा मि॒त्रावरु॑णाभ्यान्दे॒वत॑या॒ऽग्नेः प॒ख्‍षेणा॒ग्नेः प॒ख्‍षमुप॑ दधाम्यू॒र्द्ध्वया᳚ त्वा दि॒शा सा॑दयामि॒ पाङ्क्ते॑न॒ छन्द॑सा॒ बृह॒स्पति॑ना दे॒वत॑या॒ऽग्नेः पृ॒ष्ठेना॒ग्नेः पृ॒ष्ठमुप॑ दधामि॒ यो वा अपा᳚त्मानम॒ग्निञ्चि॑नु॒तेऽपा᳚त्मा॒ऽमुष्मि॑ल्ँलो॒के भ॑वति॒ यः सात्मा॑नञ्चिनु॒ते सात्मा॒ऽमुष्मि॑ल्ँलो॒के भ॑वत्यात्मेष्ट॒का उप॑ दधात्ये॒ष वा अ॒ग्नेरा॒त्मा सात्मा॑नमे॒वाग्निञ्चि॑नुते॒ सात्मा॒ऽमुष्मि॑ल्ँलो॒के भ॑वति॒ य ए॒वव्ँवेद॑⁠ [३६] (श्यै॒त॒त्वंप्र॒तीच्या᳚ त्वा दि॒शा सा॑दयामि॒ यः सात्मा॑नञ्चिनु॒ते द्वावि॑ꣳशतिश्च) ॥८॥
अग्न॑ उदधे॒ या त॒ इषु॑र् यु॒वा नाम॒ तया॑ नो मृड॒ तस्या᳚ स्ते॒ नम॒ स्तस्या᳚ स्त॒ उप॒ जीव॑न्तो भूया॒स्माग्ने॑ दुध्र गह्य किꣳशिल वन्य॒ या त॒ इषु॑र् यु॒वा नाम॒ तया॑ नो मृड॒ तस्या᳚ स्ते॒ नम॒ स्तस्या᳚ स्त॒ उप॒ जीव॑न्तो भूयास्म॒ पञ्च॒ वा ए॒ते᳚ऽग्नयो॒ यच्चित॑य उद॒धिरे॒व नाम॑ प्रथ॒मो दु॒ध्रो [३७] द्वि॒तीयो॒ गह्य॑ स्तृ॒तीयः॑ किꣳशि॒ल श्च॑तु॒र्थो वन्यः॑ पञ्च॒म स्तेभ्यो॒ यदाहु॑ती॒र् न जु॑हु॒याद॑द्ध्व॒र्युञ्च॒ यज॑मानञ्च॒ प्र द॑हेयु॒र्यदे॒ता आहु॑तीर् जु॒होति॑ भाग॒धेये॑नै॒वैना᳚ञ्छमयति॒ नाऽऽर्ति॒मार्च्छ॑त्यद्ध्व॒र्युर् न यज॑मानो॒ वाङ्म॑ आ॒सन् न॒सोः प्रा॒णो᳚ऽख्‍ष्यो श्चख्‍षुः॒ कर्ण॑योः॒ श्रोत्र॑म्बाहु॒वोर् बल॑मूरु॒वोरोजोऽरि॑ष्टा॒ विश्वा॒न्यङ्गा॑नि त॒नू [३८] स्त॒नुवा॑ मे स॒ह नम॑स्ते अस्तु॒ मा मा॑ हिꣳसी॒रप॒ वा ए॒तस्मा᳚त् प्रा॒णाः क्रा॑मन्ति॒ यो᳚ऽग्निञ्चि॒न्व न्न॑धि॒क्राम॑ति॒ वाङ् म॑ आ॒सन् न॒सोः प्रा॒ण इत्या॑ह प्रा॒णाने॒वाऽऽत्मन् ध॑त्ते॒ यो रु॒द्रो अ॒ग्नौ यो अ॒फ्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अ॒स्त्वाहु॑तिभागा॒ वा अ॒न्ये रु॒द्रा ह॒विर्भा॑गा [३९] अ॒न्ये श॑तरु॒द्रीय॑ꣳ हु॒त्वा गा॑वीधु॒कञ्च॒रुमे॒तेन॒ यजु॑षा चर॒माया॒मिष्ट॑काया॒न्नि द॑द्ध्याद् भाग॒धेये॑नै॒वैन॑ꣳ शमयति॒ तस्य॒ त्वै श॑तरु॒द्रीय॑ꣳ हु॒तमित्या॑हु॒र् यस्यै॒तद॒ग्नौ क्रि॒यत॒ इति॒ वस॑वस्त्वा रु॒द्रैः पु॒रस्ता᳚त् पान्तु पि॒तर॑स्त्वा य॒मरा॑जानः पि॒तृभि॑र् दख्‍षिण॒तः पा᳚न्त्वादि॒त्यास्त्वा॒ विश्वै᳚र् दे॒वैः प॒श्चात् पा᳚न्तु द्युता॒न स्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तः पा॑तु [४०] दे॒वास्त्वेन्द्र॑ज्येष्ठा॒ वरु॑णराजानो॒ऽधस्ता᳚च्चो॒परि॑ष्टाच्च पान्तु॒ न वा ए॒तेन॑ पू॒तो न मेद्ध्यो॒ न प्रोख्‍षि॑तो॒ यदे॑न॒मतः॑ प्रा॒चीन॑म्प्रो॒ख्‍षति॒ यथ् सञ्चि॑त॒माज्ये॑न प्रो॒ख्‍षति॒ तेन॑ पू॒तस्तेन॒ मेद्ध्य॒स्तेन॒ प्रोख्‍षि॑तः⁠ [४१] (दु॒ध्रस्त॒नूर्‌ह॒विर्भा॑गाःपातु॒द्वात्रि॑ꣳशच्च) ॥९॥
स॒मीची॒ नामा॑सि॒ प्राची॒ दिक् तस्या᳚ स्ते॒ऽग्निरधि॑पतिरसि॒तो र॑ख्‍षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्या॒न्नम॒ स्तौ नो॑ मृडयता॒न्ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवा॒ञ्जंभे॑ दधाम्योज॒स्विनी॒ नामा॑सि दख्‍षि॒णा दिक् तस्या᳚ स्त॒ इन्द्रोऽधि॑पतिः॒ पृदा॑कुः॒ प्राची॒ नामा॑सि प्र॒तीची॒ दिक् तस्या᳚ स्ते॒ [४२] सोमोऽधि॑पतिः स्व॒जो॑ऽव॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक् तस्या᳚ स्ते॒ वरु॒णोऽधि॑पतिस्ति॒रश्च॑राजि॒रधि॑पत्नी॒ नामा॑सि बृह॒ती दिक् तस्या᳚ स्ते॒ बृह॒स्पति॒रधि॑पतिः श्वि॒त्रो व॒शिनी॒ नामा॑सी॒यन्दिक् तस्या᳚ स्ते य॒मोऽधि॑पतिः क॒ल्माष॑ग्रीवो रख्‍षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्या॒न्नम॒स्तौ नो॑ मृडयता॒न्ते यन्द्वि॒ष्मो यश्च॑ [४३] नो॒ द्वेष्टि॒ तव्ँवा॒ञ्जंभे॑ दधाम्ये॒ता वै दे॒वता॑ अ॒ग्निञ्चि॒तꣳ र॑ख्‍षन्ति॒ ताभ्यो॒ यदाहु॑ती॒र् न जु॑हु॒याद॑द्ध्व॒र्युञ्च॒ यज॑मानञ्च ध्यायेयु॒र् यदे॒ता आहु॑तीर् जु॒होति॑ भाग॒धेये॑नै॒वैना᳚ञ्छमयति॒ नाऽऽर्ति॒मार्च्छ॑त्यद्ध्व॒र्युर् न यज॑मानो हे॒तयो॒ नाम॑ स्थ॒ तेषा᳚व्ँवः पु॒रो गृ॒हा अ॒ग्निर् व॒ इष॑वः सलि॒लो नि॑लिं॒पा नाम॑ [४४] स्थ॒ तेषा᳚व्ँवो दख्‍षि॒णा गृ॒हाः पि॒तरो॑ व॒ इष॑वः॒ सग॑रो व॒ज्रिणो॒ नाम॑ स्थ॒ तेषा᳚व्ँवः प॒श्चाद् गृ॒हाः स्वप्नो॑ व॒ इष॑वो॒ गह्व॑रोऽव॒स्थावा॑नो॒ नाम॑ स्थ॒ तेषा᳚व्ँव उत्त॒राद् गृ॒हा आपो॑ व॒ इष॑वः समु॒द्रोऽधि॑पतयो॒ नाम॑ स्थ॒ तेषा᳚व्ँव उ॒परि॑ गृ॒हा व॒र्॒‌षव्ँव॒ इष॒वोऽव॑स्वान् क्र॒व्या नाम॑ स्थ॒ पार्थि॑वा॒स्तेषा᳚व्ँव इ॒ह गृ॒हा [४५] अन्न॑व्ँव॒ इष॑वोऽनिमि॒षो वा॑तना॒मन्तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यन्द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि हु॒तादो॒ वा अ॒न्ये दे॒वा अ॑हु॒तादो॒ऽन्ये तान॑ग्नि॒चिदे॒वोभया᳚न् प्रीणाति द॒द्ध्ना म॑धुमि॒श्रेणै॒ता आहु॑तीर् जुहोति भाग॒धेये॑नै॒वैना᳚न् प्रीणा॒त्यथो॒ खल्वा॑हु॒रिष्ट॑का॒ वै दे॒वा अ॑हु॒ताद॒ इत्य॑ [४६] नुपरि॒क्राम॑ञ्जुहो॒त्यप॑रिवर्गमे॒वैना᳚न् प्रीणाती॒मꣴ स्तन॒मूर्ज॑स्वन्तन्धया॒पाम्प्रप्या॑तमग्ने सरि॒रस्य॒ मद्ध्ये᳚⁠। उथ्स॑ञ्जुषस्व॒ मधु॑मन्तमूर्व समु॒द्रिय॒ꣳ॒ सद॑न॒मा वि॑शस्व⁠॥ यो वा अ॒ग्निम्प्र॒युज्य॒ न वि॑मु॒ञ्चति॒ यथाऽश्वो॑ यु॒क्तोऽवि॑मुच्यमानः॒ ख्‍षुध्य॑न् परा॒भव॑त्ये॒वम॑स्या॒ग्निः परा॑ भवति॒ तम्प॑रा॒भव॑न्त॒य्ँयज॑मा॒नोऽनु॒ परा॑ भवति॒ सो᳚ऽग्निञ्चि॒त्वा लू॒ख्‍षो [४७] भ॑वती॒मꣴ स्तन॒मूर्ज॑स्वन्तन्धया॒पामित्याज्य॑स्य पू॒र्णाꣴ स्रुच॑ञ्जुहोत्ये॒ष वा अ॒ग्नेर् वि॑मो॒को वि॒मुच्यै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ तस्मा॑दाहु॒र् यश्चै॒वव्ँवेद॒ यश्च॒ न सु॒धाय॑ꣳ ह॒ वै वा॒जी सुहि॑तो दधा॒तीत्य॒ग्निर्वाव वा॒जी तमे॒व तत् प्री॑णाति॒ स ए॑नम्प्री॒तः प्री॑णाति॒ वसी॑यान् भवति⁠ [४८] (प्र॒तीची॒ दिक्तस्या᳚स्ते द्वि॒ष्मो यश्च॑ निलिं॒पा ना मे॒ ह गृ॒हाइति॑लू॒ख्‍षोवसी॑यान् भवति) ॥१०॥
इन्द्रा॑य॒ राज्ञे॑ सूक॒रो वरु॑णाय॒ राज्ञे॒ कृष्णो॑ य॒माय॒ राज्ञ॒ ऋश्य॑ ऋष॒भाय॒ राज्ञे॑ गव॒यः शा᳚र्दू॒लाय॒ राज्ञे॑ गौ॒रः पु॑रुषरा॒जाय॑ म॒र्कटः॑ ख्‍षिप्रश्ये॒नस्य॒ वर्ति॑का॒ नील॑ङ्गोः॒ क्रिमिः॒ सोम॑स्य॒ राज्ञः॑ कुलु॒ङ्गः सिन्धोः᳚ शिꣳशु॒मारो॑ हि॒मव॑तो ह॒स्ती⁠ [४९] (इन्द्रा॑य॒ राज्ञे॒ऽष्टावि॑ꣳशतिः) ॥११॥
म॒युः प्रा॑जाप॒त्य ऊ॒लो हली᳚ख्‍ष्णो वृषद॒ꣳ॒श स्ते धा॒तुः सर॑स्वत्यै॒ शारिः॑ श्ये॒ता पु॑रुष॒वाख् सर॑स्वते॒ शुकः॑ श्ये॒तः पु॑रुष॒वागा॑र॒ण्यो॑ऽजो न॑कु॒लः शका॒ ते पौ॒ष्णा वा॒चे क्रौ॒ञ्चः⁠ [५०] (म॒युस्त्रयो॑विꣳशतिः) ॥१२॥
अ॒पान्नप्त्रे॑ ज॒षो ना॒क्रो मक॑रः कुली॒कय॒स्तेऽकू॑पारस्य वा॒चे पै᳚ङ्गरा॒जो भगा॑य कु॒षीत॑क आ॒ती वा॑ह॒सो दर्वि॑दा॒ ते वा॑य॒व्या॑ दि॒ग्भ्यश्च॑क्रवा॒कः⁠ [५१] (अ॒पा मेका॒न्नवि॑ꣳश॒तिः) ॥१३॥
बला॑याजग॒र आ॒खुः सृ॑ज॒या श॒यण्ड॑क॒स्ते मै॒त्रा मृ॒त्यवे॑ऽसि॒तो म॒न्यवे᳚ स्व॒जः कुं॑भी॒नसः॑ पुष्करसा॒दो लो॑हिता॒हिस्ते त्वा॒ष्ट्राः प्र॑ति॒श्रुत्का॑यै वाह॒सः⁠ [५२] (बला॑या॒ष्टाद॑श) ॥१४॥
पु॒रु॒ष॒मृ॒गश्च॒न्द्रम॑से गो॒धा काल॑का दार्वाघा॒टस्ते वन॒स्पती॑नामे॒ण्यह्ने॒ कृष्णो॒ रात्रि॑यै पि॒कः ख्‍ष्विङ्का॒ नील॑शीर्ष्णी॒ ते᳚ऽर्यं॒णे धा॒तुः क॑त्क॒टः⁠ [५३] (पु॒रु॒ष॒मृ॒गो᳚ ऽष्टाद॑श) ॥१५॥
सौ॒री ब॒लाकर्श्यो॑ म॒यूरः॑ श्ये॒नस्ते ग॑न्ध॒र्वाणा॒व्ँवसू॑नाङ्क॒पिञ्ज॑लो रु॒द्राणा᳚न्तित्ति॒री रो॒हित् कु॑ण्डृ॒णाची॑ गो॒लत्ति॑का॒ ता अ॑फ्स॒रसा॒मर॑ण्याय सृम॒रः⁠ [५४] (सौ॒र्य॑ष्टाद॑श) ॥१६॥
पृ॒ष॒तो वै᳚श्वदे॒वः पि॒त्वो न्यङ्कुः॒ कश॒ स्तेऽनु॑मत्या अन्यवा॒पो᳚ऽर्द्धमा॒साना᳚म्मा॒साङ्क॒श्यपः॒ क्वयिः॑ कु॒टरु॑र् दात्यौ॒हस्ते सि॑नीवा॒ल्यै बृह॒स्पत॑ये शित्पु॒टः⁠ [५५] (पृ॒षतो᳚ऽष्टाद॑श) ॥१७॥
शका॑ भौ॒मी पा॒न्त्रः कशो॑ मान्थी॒लव॒स्ते पि॑तृ॒णामृ॑तू॒नाञ्जह॑का सव्ँवथ्स॒राय॒ लोपा॑ क॒पोत॒ उलू॑कः श॒शस्ते नै॑र्‌ऋ॒ताः कृ॑क॒वाकुः॑ सावि॒त्रः⁠ [५६] (शका॒ ऽष्टाद॑श) ॥१८॥
रुरू॑ रौ॒द्रः कृ॑कला॒सः श॒कुनिः॒ पिप्प॑का॒ ते श॑र॒व्या॑यै हरि॒णो मा॑रु॒तो ब्रह्म॑णे शा॒र्गस्त॒रख्‍षुः॑ कृ॒ष्णः श्वा च॑तुर॒ख्‍षो ग॑र्द॒भस्त इ॑तरज॒नाना॑म॒ग्नये॒ धूङ्ख्‍ष्णा᳚⁠ [५७] (रुरु॑र्विꣳश॒तिः) ॥१९॥
अ॒ल॒ज आ᳚न्तरि॒ख्‍ष उ॒द्रो म॒द्गुः प्ल॒व स्ते॑ऽपामदि॑त्यै हꣳस॒साचि॑रिन्द्रा॒ण्यै कीर्‌शा॒ गृध्रः॑ शितिक॒ख्‍षी वा᳚र्द्ध्राण॒सस्ते दि॒व्या द्या॑वापृथि॒व्या᳚ श्वा॒वित्⁠ [५८] (अ॒ल॒जो᳚ ऽष्टाद॑श) ॥२०॥
सु॒प॒र्णः पा᳚र्ज॒न्यो ह॒ꣳ॒सो वृको॑ वृषद॒ꣳ॒शस्त ऐ॒न्द्रा अ॒पामु॒द्रो᳚ऽर्यं॒णे लो॑पा॒शः सि॒ꣳ॒हो न॑कु॒लो व्या॒घ्रस्ते म॑हे॒न्द्राय॒ कामा॑य॒ पर॑स्वान्⁠ [५९] (सु॒प॒र्णो᳚ ऽष्टाद॑श) ॥२१॥
आ॒ग्ने॒यः कृ॒ष्णग्री॑वः सारस्व॒ती मे॒षी ब॒भ्रुः सौ॒म्यः पौ॒ष्णः श्या॒मः शि॑तिपृ॒ष्ठो बा॑र्‌हस्प॒त्यः शि॒ल्पो वै᳚श्वदे॒व ऐ॒न्द्रो॑ऽरु॒णो मा॑रु॒तः क॒ल्माष॑ ऐन्द्रा॒ग्नः स॑ꣳहि॒तो॑ऽधोरा॑मः सावि॒त्रो वा॑रु॒णः पेत्वः॑⁠ [६०] (आ॒ग्ने॒यो द्वावि॑ꣳशतिः) ॥२२॥
अश्व॑स्तूप॒रो गो॑मृ॒गस्ते प्रा॑जाप॒त्या आ᳚ग्ने॒यौ कृ॒ष्णग्री॑वौ त्वा॒ष्ट्रौ लो॑मशस॒क्थौ शि॑तिपृ॒ष्ठौ बा॑र्‌हस्प॒त्यौ धा॒त्रे पृ॑षोद॒रः सौ॒र्यो ब॒लख्‍षः॒ पेत्वः॑⁠ [६१] (अश्वः॒ षोड॑श) ॥२३॥
अ॒ग्नयेऽनी॑कवते॒ रोहि॑ताञ्जिरन॒ड्वान॒धोरा॑मौ सावि॒त्रौ पौ॒ष्णौ र॑ज॒तना॑भी वैश्वदे॒वौ पि॒शङ्गौ॑ तूप॒रौ मा॑रु॒तः क॒ल्माष॑ आग्ने॒यः कृ॒ष्णो॑ऽजः सा॑रस्व॒ती मे॒षी वा॑रु॒णः कृ॒ष्ण एक॑शितिपा॒त् पेत्वः॑⁠ [६२] (अ॒ग्नये॒ द्वावि॑ꣳशतिः) ॥२४॥
(यदेके॑न प्र॒जाप॑तिः प्रे॒णाऽनु॒ यजु॒षा ऽऽपो॑ वि॒श्वक॒र्मा ऽग्न॒ आ या॑हि सुव॒र्गाय॒ वज्रो॑ गाय॒त्रेणा ग्न॑ उदधे स॒मीची न्द्रा॑य म॒यु र॒पां बला॑य पुरुषमृ॒गः सौ॒री पृ॑ष॒तः शका॒ रुरु॑ रल॒जः सु॑प॒र्ण आ᳚ग्ने॒यो ऽश्वो॒ ऽग्नयेऽनी॑कवते॒ चतु॑र्विꣳशतिः)
(यदेके॑न॒ स पापी॑याने॒तद्वा अ॒ग्नेर् धनु॒स्तद् दे॒वास्त्वेन्द्र॑ज्येष्ठाअ॒पान्नप्त्रेऽश्व॑स्तूप॒रो द्विष॑ष्टिः)
(यदेके॒ नैक॑शितिपा॒त् पेत्वः॑)
अनुवाकाः पञ्चशती
२४ ६२