कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
पञ्चमकाण्डे षष्ठः प्रश्नः

कांड ५ प्रश्न ६
उपानुवाक्याभिधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑⁠। अ॒ग्निय्ँया गर्भ॑न्दधि॒रे विरू॑पा॒स्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु⁠॥ यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नाम्⁠। म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु⁠॥ यासा᳚न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्‍षय्ँया अ॒न्तरि॑ख्‍षे बहु॒धा भव॑न्ति⁠। याः पृ॑थि॒वीम्पय॑सो॒न्दन्ति॑ [१] शु॒क्रास्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु⁠॥ शि॒वेन॑ मा॒ चख्‍षु॑षा पश्यताऽऽपः शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म्मे⁠। सर्वा॑ꣳ अ॒ग्नीꣳर॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त⁠॥ यद॒दः सं॑प्रय॒तीरहा॒वन॑दता ह॒ते⁠। तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः⁠॥ यत् प्रेषि॑ता॒ वरु॑णेन॒ ताः शीभ॑ꣳ स॒मव॑ल्गत⁠ [२] तदा᳚प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन⁠॥ अ॒प॒का॒मꣴ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक᳚म्⁠। इन्द्रो॑ वः॒ शक्ति॑भिर् देवी॒स्तस्मा॒द्वार् णाम॑ वो हि॒तम्⁠॥ एको॑ दे॒वो अप्य॑तिष्ठ॒थ् स्यन्द॑माना यथा व॒शम्⁠। उदा॑निषुर् म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते⁠॥ आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत् ताः⁠। ती॒व्रो रसो॑ मधु॒पृचा॑ [३] मरंग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न्⁠॥ आदित् प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ् न॑ आसाम्⁠। मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्‌हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँय॒दा वः॑⁠॥ आपो॒ हि ष्ठा म॑यो॒ भुव॒स्ता न॑ ऊ॒र्जे द॑धातन⁠। म॒हे रणा॑य॒ चख्‍ष॑से⁠॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑⁠। उ॒श॒तीरि॑व मा॒तरः॑⁠॥ तस्मा॒ अर॑ङ्गमाम वो॒ यस्य॒ ख्‍षया॑य॒ जिन्व॑थ⁠। आपो॑ ज॒नय॑था च नः⁠॥ दि॒वि श्र॑यस्वा॒न्तरि॑ख्‍षे यतस्व पृथि॒व्या सम्भ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑ त्वा⁠ [४] (उ॒न्दन्ति॑ स॒मव॑ल्गत मधु॒पृचां᳚ मा॒तरो॒ द्वावि॑ꣳशतिश्च) ॥१॥
अ॒पाङ्ग्रहा᳚न् गृह्णात्ये॒तद् वाव रा॑ज॒सूय॒य्ँयदे॒ते ग्रहाः᳚ स॒वो᳚ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑मग्निस॒वश्चित्य॒ स्ताभ्या॑मे॒व सू॑य॒तेऽथो॑ उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा᳚ऽग्नि॒चित॒ आपो॑ भव॒न्त्यापो॒ वा अ॒ग्नेर् भ्रातृ॑व्या॒ यद॒पो᳚ऽग्नेर॒धस्ता॑दुप॒ दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्य॒मृत॒ [५] व्ँवा आप॒स्तस्मा॑द॒द्भिरव॑तान्तम॒भि षि॑ञ्चन्ति॒ नाऽऽर्ति॒मार्च्छ॑ति॒ सर्व॒मायु॑रेति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँवेदान्न॒व्ँवा आपः॑ प॒शव॒ आपोऽन्न॑म्प॒शवो᳚ऽन्ना॒दः प॑शु॒मान् भ॑वति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँवेद॒ द्वाद॑श भवन्ति॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रेणै॒वास्मा॒ [६] अन्न॒मव॑ रुन्धे॒ पात्रा॑णि भवन्ति॒ पात्रे॒ वा अन्न॑मद्यते॒ सयो᳚न्ये॒वान्न॒मव॑ रुन्ध॒ आ द्वा॑द॒शात् पुरु॑षा॒दन्न॑ म॒त्त्यथो॒ पात्रा॒न्न छि॑द्यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वव्ँवेद॑ कुं॒भाश्च॑ कुं॒भीश्च॑ मिथु॒नानि॑ भवन्ति मिथु॒नस्य॒ प्रजा᳚त्यै॒ प्र प्र॒जया॑ प॒शुभि॑र् मिथु॒नैर् जा॑यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ [७] चैना ए॒वव्ँवेद॒ शुग् वा अ॒ग्निः सो᳚ऽद्ध्व॒र्युय्ँयज॑मानम्प्र॒जाः शु॒चाऽर्प॑यति॒ यद॒प उ॑प॒दधा॑ति॒ शुच॑मे॒वास्य॑ शमयति॒ नाऽऽर्ति॒मार्च्छ॑त्यद्ध्व॒र्युर् न यज॑मानः॒ शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒यन्ते॒ ऽपाव्ँवा ए॒तानि॒ हृद॑यानि॒ यदे॒ता आपो॒ यदे॒ता अ॒प उ॑प॒दधा॑ति दि॒व्याभि॑रे॒वैनाः॒ सꣳ सृ॑जति॒ वर्‌षु॑कः प॒र्जन्यो॑ [८] भवति॒ यो वा ए॒तासा॑मा॒यत॑न॒ङ्क्लृप्ति॒व्ँवेदा॒ऽऽयत॑नवान् भवति॒ कल्प॑तेऽस्मा अनुसी॒तमुप॑ दधात्ये॒तद्वा आ॑सामा॒यत॑नमे॒षा क्लृप्ति॒र् य ए॒वव्ँवेदा॒ऽऽयत॑नवान् भवति॒ कल्प॑तेऽस्मै द्व॒न्दम॒न्या उप॑ दधाति॒ चत॑स्रो॒ मद्ध्ये॒ धृत्या॒ अन्न॒व्ँवा इष्ट॑का ए॒तत् खलु॒ वै सा॒ख्‍षादन्न॒य्ँयदे॒ष च॒रुर् यदे॒तञ्च॒रुमु॑प॒ दधा॑ति सा॒ख्‍षा [९] दे॒वास्मा॒ अन्न॒मव॑ रुन्धे मद्ध्य॒त उप॑ दधाति मद्ध्य॒त ए॒वास्मा॒ अन्न॑न्दधाति॒ तस्मा᳚न् मद्ध्य॒तोऽन्न॑मद्यते बार्‌हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र् ब्रह्म॑णै॒वास्मा॒ अन्न॒मव॑ रुन्धे ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॒ त्वेत्या॑ह तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति॒ यस्यै॒ष उ॑पधी॒यते॒ य उ॑ चैनमे॒वव्ँवेद॑⁠ [१०] (अ॒मृत॑ मस्मै जायते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑प॒र्जन्य॑उप॒दधा॑ति सा॒ख्‍षाथ्स॒प्तच॑त्वारिꣳशच्च) ॥२॥
भू॒ते॒ष्ट॒का उप॑ दधा॒त्यत्रा᳚त्र॒ वै मृ॒त्युर् जा॑यते॒ यत्र॑यत्रै॒व मृ॒त्युर् जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते॒ तस्मा॑दग्नि॒चिथ् सर्व॒मायु॑रेति॒ सर्वे॒ ह्य॑स्य मृ॒त्यवोऽवे᳚ष्टा॒ स्तस्मा॑दग्नि॒चिन्नाभिच॑रित॒वै प्र॒त्यगे॑न मभिचा॒रः स्तृ॑णुते सू॒यते॒ वा ए॒ष यो᳚ऽग्निञ्चि॑नु॒ते दे॑वसु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्त्ये॒ताव॑न्तो॒ वै दे॒वाना॑ꣳ स॒वास्त ए॒वा [११] स्मै॑ स॒वान् प्र य॑च्छन्ति॒ त ए॑नꣳ सुवन्ते स॒वो᳚ऽग्निर् व॑रुणस॒वो रा॑ज॒सूय॑म्ब्रह्मस॒वश्चित्यो॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह सवि॒तृप्र॑सूत ए॒वैन॒म्ब्रह्म॑णा दे॒वता॑भिर॒भि षि॑ञ्च॒त्यन्न॑स्यान्नस्या॒भि षि॑ञ्च॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै पु॒रस्ता᳚त् प्र॒त्यञ्च॑म॒भि षि॑ञ्चति पु॒रस्ता॒द्धि प्र॑ती॒चीन॒ मन्न॑म॒द्यते॑ शीर्‌ष॒तो॑ऽभि षि॑ञ्चति शीर्‌ष॒तो ह्यन्न॑म॒द्यत॒ आ मुखा॑द॒न्वव॑स्रावयति [१२] मुख॒त ए॒वास्मा॑ अ॒न्नाद्य॑न्दधात्य॒ग्ने स्त्वा॒ साम्रा᳚ज्येना॒भि षि॑ञ्चा॒मीत्या॑है॒ष वा अ॒ग्नेः स॒वस्तेनै॒वैन॑म॒भि षि॑ञ्चति॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भि षि॑ञ्चा॒मीत्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र् ब्रह्म॑णै॒वैन॑म॒भि षि॑ञ्च॒तीन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भि षि॑ञ्चा॒मीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्नु॒परि॑ष्टाद् दधात्ये॒तद् [१३] वै रा॑ज॒सूय॑स्य रू॒पय्ँय ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒त उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा᳚ग्नि॒चित॒ इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यव्ँवी॒र्य॑म्परा॑ऽपत॒त् तद्दे॒वाः सौ᳚त्राम॒ण्या सम॑भरन्थ् सू॒यते॒ वा ए॒ष यो᳚ऽग्निञ्चि॑नु॒ते᳚ऽग्निञ्चि॒त्वा सौ᳚त्राम॒ण्या य॑जेतेन्द्रि॒यमे॒व वी॒र्य॑ꣳ सं॒भृत्या॒ऽऽत्मन् ध॑त्ते⁠ [१४] (त ए॒वान्वव॑स्रावयत्ये॒तद॒ष्टाच॑त्वारिꣳशच्च) ॥३॥
स॒जूरब्दोऽया॑वभिः स॒जूरु॒षा अरु॑णीभिः स॒जूः सूर्य॒ एत॑शेन स॒जोषा॑व॒श्विना॒ दꣳसो॑भिः स॒जूर॒ग्निर् वै᳚श्वान॒र इडा॑भिर् घृ॒तेन॒ स्वाहा॑ सव्ँवथ्स॒रो वा अब्दो॒ मासा॒ अया॑वा उ॒षा अरु॑णी॒ सूर्य॒ एत॑श इ॒मे अ॒श्विना॑ सव्ँवथ्स॒रो᳚ऽग्निर् वै᳚श्वान॒रः प॒शव॒ इडा॑ प॒शवो॑ घृ॒तꣳ स॑व्ँवथ्स॒रम्प॒शवोऽनु॒ प्र जा॑यन्ते सव्ँवथ्स॒रेणै॒वास्मै॑ प॒शून् प्र ज॑नयति दर्भस्तं॒बे जु॑होति॒ यद् [१५] वा अ॒स्या अ॒मृत॒य्ँयद्वी॒र्य॑न्तद्द॒र्भा स्तस्मि॑न् जुहोति॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒ यस्यै॒वञ्जुह्व॑त्ये॒ता वै दे॒वता॑ अ॒ग्नेः पु॒रस्ता᳚द्भागा॒ स्ता ए॒व प्री॑णा॒त्यथो॒ चख्‍षु॑रे॒वाग्नेः पु॒रस्ता॒त् प्रति॑ दधा॒त्यन॑न्धो भवति॒ य ए॒वव्ँवेदाऽऽपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒थ् स प्र॒जाप॑तिः पुष्करप॒र्णे वातो॑ भू॒तो॑ऽलेलाय॒थ् स [१६] प्र॑ति॒ष्ठान्नावि॑न्दत॒ स ए॒तद॒पाङ्कु॒लाय॑मपश्य॒त् तस्मि॑न्न॒ग्निम॑चिनुत॒ तदि॒यम॑भव॒त् ततो॒ वै स प्रत्य॑तिष्ठ॒द्याम्पु॒रस्ता॑दु॒पाद॑धा॒त् तच्छिरो॑ऽभव॒थ् सा प्राची॒ दिग्यान्द॑ख्‍षिण॒त उ॒पाद॑धा॒थ् स दख्‍षि॑णः प॒ख्‍षो॑ऽभव॒थ् सा द॑ख्‍षि॒णा दिग्याम्प॒श्चादु॒पाद॑धा॒त् तत् पुच्छ॑मभव॒थ् सा प्र॒तीची॒ दिग्यामु॑त्तर॒त उ॒पाद॑धा॒थ् [१७] स उत्त॑रः प॒ख्‍षो॑ऽभव॒थ् सोदी॑ची॒ दिग्यामु॒परि॑ष्टादु॒पाद॑धा॒त् तत् पृ॒ष्ठम॑भव॒थ् सोर्द्ध्वा दिगि॒यव्ँवा अ॒ग्निः पञ्चे᳚ष्टक॒स्तस्मा॒द्यद॒स्याङ्खन॑न्त्य॒भीष्ट॑कान्तृ॒न्दन्त्य॒भि शर्क॑रा॒ꣳ॒ सर्वा॒ वा इ॒यव्ँवयो᳚भ्यो॒ नक्त॑न्दृ॒शे दी᳚प्यते॒ तस्मा॑दि॒माव्ँवया॑ꣳसि॒ नक्त॒न्नाद्ध्या॑सते॒ य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒ते प्रत्ये॒व [१८] ति॑ष्ठत्य॒भि दिशो॑ जयत्याग्ने॒यो वै ब्रा᳚ह्म॒णस्तस्मा᳚द् ब्राह्म॒णाय॒ सर्वा॑सु दि॒ख्‍ष्वर्द्धु॑क॒ꣴ॒ स्वामे॒व तद्दिश॒मन्वे᳚त्य॒पाव्ँवा अ॒ग्निः कु॒लाय॒न्तस्मा॒दापो॒ऽग्निꣳ हारु॑काः॒ स्वामे॒व तद्योनि॒म्प्र वि॑शन्ति⁠ [१९] (यद॑ लेलाय॒थ् सौ॑त्तर॒त उ॒पाद॑धादे॒वद्वात्रि॑ꣳशच्च) ॥४॥
स॒व्ँव॒थ्स॒रमुख्य॑म्भृ॒त्वा द्वि॒तीये॑ सव्ँवथ्स॒र आ᳚ग्ने॒यम॒ष्टाक॑पाल॒न्निर्व॑पेदै॒न्द्रमेका॑दशकपालव्ँवैश्वदे॒वन्द्वाद॑शकपालम्बार्‌हस्प॒त्यञ्च॒रुव्ँवै᳚ष्ण॒वन्त्रि॑कपा॒लन्तृ॒तीये॑ सव्ँवथ्स॒रे॑ऽभि॒जिता॑ यजेत॒ यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाख्‍ष॑रा गाय॒त्र्या᳚ग्ने॒यङ्गा॑य॒त्रम्प्रा॑तस्सव॒नम्प्रा॑तस्सव॒नमे॒व तेन॑ दाधार गाय॒त्रीञ्छन्दो॒ यदेका॑दशकपालो॒ भव॒त्येका॑शाख्‍षरा त्रि॒ष्टुगै॒न्द्रन्त्रैष्टु॑भ॒म्माद्ध्य॑न्दिन॒ꣳ॒ सव॑न॒म्माद्ध्य॑न्दिनमे॒व सव॑न॒न्तेन॑ दाधार त्रि॒ष्टुभं॒ [२०] छन्दो॒ यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाख्‍षरा॒ जग॑ती वैश्वदे॒वञ्जाग॑तन्तृतीयसव॒नन्तृ॑तीयसव॒नमे॒व तेन॑ दाधार॒ जग॑ती॒ञ्छन्दो॒ यद्बा॑र्‌हस्प॒त्यश्च॒रुर् भव॑ति॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒र् ब्रह्मै॒व तेन॑ दाधार॒ यद्वै᳚ष्ण॒व स्त्रि॑कपा॒लो भव॑ति य॒ज्ञो वै विष्णु॑र् य॒ज्ञमे॒व तेन॑ दाधार॒ यत् तृ॒तीये॑ सव्ँवथ्स॒रे॑ऽभि॒जिता॒ यज॑ते॒ऽभिजि॑त्यै॒ यथ् स॑व्ँवथ्स॒रमुख्य॑म्बि॒भर्ती॒ममे॒व [२१] तेन॑ लो॒कꣴ स्पृ॑णोति॒ यद् द्वि॒तीये॑ सव्ँवथ्स॒रे᳚ऽग्निञ्चि॑नु॒ते᳚ऽन्तरि॑ख्‍षमे॒व तेन॑ स्पृणोति॒ यत् तृ॒तीये॑ सव्ँवथ्स॒रे यज॑ते॒ऽमुमे॒व तेन॑ लो॒कꣴ स्पृ॑णोत्ये॒तव्ँवै पर॑ आट्णा॒रः क॒ख्‍षीवा॑ꣳ औशि॒जो वी॒तह॑व्यः श्राय॒सस्त्र॒सद॑स्युः पौरुकु॒थ्स्यः प्र॒जाका॑मा अचिन्वत॒ ततो॒ वै ते स॒हस्र॑ꣳसहस्रम्पु॒त्रान॑विन्दन्त॒ प्रथ॑ते प्र॒जया॑ प॒शुभि॒स्ताम्मात्रा॑माप्नोति॒ यान्तेऽग॑च्छ॒न्॒‌य ए॒वव्ँवि॒द्वाने॒तम॒ग्निञ्चि॑नु॒ते⁠ [२२] (दा॒धा॒र॒ त्रि॒ष्टुभ॑ मि॒ममे॒वै वं च॒त्वारि॑ च) ॥५॥
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स ख्‍षु॒रप॑विर् भू॒त्वाऽति॑ष्ठ॒त् तन्दे॒वा बिभ्य॑तो॒ नोपा॑ऽऽय॒न् ते छन्दो॑भिरा॒त्मान॑ञ्छादयि॒त्वोपा॑ऽऽय॒न् तच्छन्द॑साञ्छन्द॒स्त्वम्ब्रह्म॒ वै छन्दा॑ꣳसि॒ ब्रह्म॑ण ए॒तद्रू॒पय्ँयत् कृ॑ष्णाजि॒नं कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ छन्दो॑भिरे॒वाऽऽत्मान॑ञ्छादयि॒त्वाऽग्निमुप॑ चरत्या॒त्मनोऽहि॑ꣳसायै देवनि॒धिर् वा ए॒ष नि धी॑यते॒ यद॒ग्नि [२३] र॒न्ये वा॒ वै नि॒धिमगु॑प्तव्ँवि॒न्दन्ति॒ न वा॒ प्रति॒ प्र जा॑नात्यु॒खामा क्रा॑मत्या॒त्मान॑मे॒वाधि॒पाङ्कु॑रुते॒ गुप्त्या॒ अथो॒ खल्वा॑हु॒र् नाऽऽक्रम्येति॑ नैर्‌ऋ॒त्यु॑खा यदा॒क्रामे॒न्निर्‌ऋ॑त्या आ॒त्मान॒मपि॑ दद्ध्या॒त् तस्मा॒न्नाऽऽक्रम्या॑ पुरुषशी॒र्॒‌षमुप॑ दधाति॒ गुप्त्या॒ अथो॒ यथा᳚ ब्रू॒यादे॒तन्मे॑ गोपा॒येति॑ ता॒दृगे॒व तत् [२४] प्र॒जाप॑ति॒र्वा अथ॑र्वा॒ऽग्निरे॒व द॒द्ध्यङ्ङा॑थर्व॒ण स्तस्येष्ट॑का अ॒स्थान्ये॒तꣳ ह॒ वाव तदृषि॑र॒भ्यनू॑वा॒चेन्द्रो॑ दधी॒चो अ॒स्थभि॒रिति॒ यदिष्ट॑काभिर॒ग्निञ्चि॒नोति॒ सात्मा॑नमे॒वाग्निञ्चि॑नुते॒ सात्मा॒मुष्मि॑ल्ँलो॒के भ॑वति॒ य ए॒वव्ँवेद॒ शरी॑र॒व्ँवा ए॒तद॒ग्नेर् यच्चित्य॑ आ॒त्मा वै᳚श्वान॒रो यच्चि॒ते वै᳚श्वान॒रञ्जु॒होति॒ शरी॑रमे॒व स॒ꣴ॒स्कृत्या॒ [२५] भ्यारो॑हति॒ शरी॑र॒व्ँवा ए॒तद्यज॑मानः॒ सꣴ स्कु॑रुते॒ यद॒ग्निञ्चि॑नु॒ते यच्चि॒ते वै᳚श्वान॒रञ्जु॒होति॒ शरी॑रमे॒व स॒ꣴ॒स्कृत्या॒ऽऽत्मना॒ऽभ्यारो॑हति॒ तस्मा॒त् तस्य॒ नाव॑ द्यन्ति॒ जीव॑न्ने॒व दे॒वानप्ये॑ति वैश्वान॒र्यर्चा पुरी॑ष॒मुप॑ दधाती॒यव्ँवा अ॒ग्निर् वै᳚श्वान॒र स्तस्यै॒षा चिति॒र् यत् पुरी॑षम॒ग्निमे॒व वै᳚श्वान॒रञ्चि॑नुत ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूर् यद्वै᳚श्वान॒रः प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुन्धे⁠ [२६] (अ॒ग्निस्तथ्स॒ꣴ॒स्कृत्या॒ग्नेर्दश॑ च) ॥६॥
अ॒ग्नेर् वै दी॒ख्‍षया॑ दे॒वा वि॒राज॑माप्नुवन् ति॒स्रो रात्री᳚र् दीख्‍षि॒तः स्या᳚त् त्रि॒पदा॑ वि॒राड् वि॒राज॑माप्नोति॒ षड्रात्री᳚र् दीख्‍षि॒तः स्या॒थ् षड् वा ऋ॒तवः॑ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति॒ दश॒ रात्री᳚र् दीख्‍षि॒तः स्या॒द्दशा᳚ख्‍षरा वि॒राड् वि॒राज॑माप्नोति॒ द्वाद॑श॒ रात्री᳚र् दीख्‍षि॒तः स्या॒द् द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति॒ त्रयो॑दश॒ रात्री᳚र् दीख्‍षि॒तः स्या॒त् त्रयो॑दश॒ [२७] मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति॒ पञ्च॑दश॒ रात्री᳚र् दीख्‍षि॒तः स्या॒त् पञ्च॑दश॒ वा अ॑र्द्धमा॒सस्य॒ रात्र॑योऽर्द्धमास॒शः स॑व्ँवथ्स॒र आ᳚प्यते सव्ँवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति स॒प्तद॑श॒ रात्री᳚र् दीख्‍षि॒तः स्या॒द् द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स स॑व्ँवथ्स॒रः स॑व्ँवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति॒ चतु॑र्विꣳशति॒ꣳ॒ रात्री᳚र् दीख्‍षि॒तः स्या॒च्चतु॑र्विꣳशतिरर्द्धमा॒साः स॑व्ँवथ्स॒रः स॑व्ँवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति त्रि॒ꣳ॒शत॒ꣳ॒ रात्री᳚र् दीख्‍षि॒तः स्या᳚त् [२८] त्रि॒ꣳ॒शद॑ख्‍षरा वि॒राड् वि॒राज॑माप्नोति॒ मास॑न्दीख्‍षि॒तः स्या॒द्यो मासः॒ स स॑व्ँवथ्स॒रः स॑व्ँवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति च॒तुरो॑ मा॒सो दी᳚ख्‍षि॒तः स्या᳚च्च॒तुरो॒ वा ए॒तम्मा॒सो वस॑वोऽबिभरु॒स्ते पृ॑थि॒वीमाऽज॑यन् गाय॒त्रीञ्छन्दो॒ऽष्टौ रु॒द्रास्ते᳚ऽन्तरि॑ख्‍ष॒माऽज॑यन् त्रि॒ष्टुभ॒ञ्छन्दो॒ द्वाद॑शाऽऽदि॒त्या स्ते दिव॒माऽज॑य॒न् जग॑ती॒ञ्छन्द॒स्ततो॒ वै ते व्या॒वृत॑ मगच्छ॒ञ्छ्रैष्ठ्य॑न्दे॒वाना॒न्तस्मा॒द् द्वाद॑श मा॒सो भृ॒त्वाऽग्निञ्चि॑न्वीत॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रो᳚ऽग्नि श्चित्य॒ स्तस्या॑होरा॒त्राणीष्ट॑का आ॒प्तेष्ट॑कमेनञ्चिनु॒तेऽथो᳚ व्या॒वृत॑मे॒व ग॑च्छति॒ श्रैष्ठ्य॑ꣳ समा॒नाना᳚म्⁠ [२९] (स्या॒त् त्रयो॑दश त्रि॒ꣳ॒शत॒ꣳ॒ रात्री᳚र् दीख्‍षि॒तः स्या॒द् वै ते᳚ ऽष्टावि॑ꣳशतिश्च) ॥७॥
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तय्ँयन्नान्वा॒रोहे᳚थ् सुव॒र्गाल्लो॒काद्यज॑मानो हीयेत पृथि॒वीमाऽक्र॑मिषम्प्रा॒णो मा॒ मा हा॑सीद॒न्तरि॑ख्‍ष॒माऽक्र॑मिषम्प्र॒जा मा॒ मा हा॑सी॒द्दिव॒माऽक्र॑मिष॒ꣳ॒ सुव॑रग॒न्मेत्या॑है॒ष वा अ॒ग्नेर॑न्वारो॒हस्तेनै॒वैन॑म॒न्वारो॑हति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ यत् प॒ख्‍षसं॑मिताम्मिनु॒यात् [३०] कनी॑याꣳसय्ँयज्ञक्र॒तुमुपे॑या॒त् पापी॑यस्यस्या॒ऽऽत्मनः॑ प्र॒जा स्या॒द्वेदि॑सम्मिताम्मिनोति॒ ज्याया॑ꣳसमे॒व य॑ज्ञक्र॒तुमुपै॑ति॒ नास्या॒ऽऽत्मनः॒ पापी॑यसी प्र॒जा भ॑वति साह॒स्रञ्चि॑न्वीत प्रथ॒मं चि॑न्वा॒नः स॒हस्र॑सम्मितो॒ वा अ॒यल्ँलो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ द्विषा॑हस्रञ्चिन्वीत द्वि॒तीयं॑ चिन्वा॒नो द्विषा॑हस्र॒व्ँवा अ॒न्तरि॑ख्‍षम॒न्तरि॑ख्‍षमे॒वाभि ज॑यति॒ त्रिषा॑हस्रञ्चिन्वीत तृ॒तीय॑ञ्चिन्वा॒न [३१] स्त्रिषा॑हस्रो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यति जानुद॒घ्नञ्चि॑न्वीत प्रथ॒मञ्चि॑न्वा॒नो गा॑यत्रि॒यैवेमल्ँलो॒कम॒भ्यारो॑हति नाभिद॒घ्नञ्चि॑न्वीत द्वि॒तीय॑ञ्चिन्वा॒न स्त्रि॒ष्टुभै॒वान्तरि॑ख्‍षम॒भ्यारो॑हति ग्रीवद॒घ्नञ्चि॑न्वीत तृ॒तीय॑ञ्चिन्वा॒नो जग॑त्यै॒वामुल्ँलो॒कम॒भ्यारो॑हति॒ नाग्निञ्चि॒त्वा रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्या॒मीति॒ न द्वि॒तीय॑ञ्चि॒त्वाऽन्यस्य॒ स्त्रिय॒ [३२] मुपे॑या॒न्न तृ॒तीय॑ञ्चि॒त्वा काञ्च॒नोपे॑या॒द्रेतो॒ वा ए॒तन्नि ध॑त्ते॒ यद॒ग्निञ्चि॑नु॒ते यदु॑पे॒याद् रेत॑सा॒ व्यृ॑द्ध्ये॒ताथो॒ खल्वा॑हुर प्रज॒स्यन्तद्यन्नोपे॒यादिति॒ यद्रे॑त॒स्सिचा॑वुप॒दधा॑ति॒ ते ए॒व यज॑मानस्य॒ रेतो॑ बिभृत॒ स्तस्मा॒दुपे॑या॒द्रेत॒सोऽस्क॑न्दाय॒ त्रीणि॒ वाव रेता॑ꣳसि पि॒ता पु॒त्रः पौत्रो॒ [३३] यद् द्वे रे॑त॒स्सिचा॑वुपद॒द्ध्याद्रेतो᳚ऽस्य॒ वि च्छि॑न्द्यात् ति॒स्र उप॑ दधाति॒ रेत॑सः॒ सन्त॑त्या इ॒यव्ँवाव प्र॑थ॒मा रे॑त॒स्सिग् वाग् वा इ॒यन्तस्मा॒त् पश्य॑न्ती॒माम्पश्य॑न्ति॒ वाच॒व्ँवद॑न्तीम॒न्तरि॑ख्‍षन्द्वि॒तीया᳚ प्रा॒णो वा अ॒न्तरि॑ख्‍ष॒न्तस्मा॒न्नान्तरि॑ख्‍ष॒म्पश्य॑न्ति॒ न प्रा॒णम॒सौ तृ॒तीया॒ चख्‍षु॒र् वा अ॒सौ तस्मा॒त् पश्य॑न्त्य॒मूं पश्य॑न्ति॒ चख्‍षु॒र् यजु॑षे॒माञ्चा॒ [३४] मूञ्चोप॑ दधाति॒ मन॑सा मद्ध्य॒मामे॒षाल्ँलो॒काना॒ङ्क्लृप्त्या॒ अथो᳚ प्रा॒णाना॑मि॒ष्टो य॒ज्ञो भृगु॑भि राशी॒र्दा वसु॑भि॒स्तस्य॑ त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह भ॑ख्‍षी॒येत्या॑ह स्तुतश॒स्त्रे ए॒वैतेन॑ दुहे पि॒ता मा॑त॒रिश्वाऽच्छि॑द्रा प॒दा धा॒ अच्छि॑द्रा उ॒शिजः॑ प॒दाऽनु॑ तख्‍षुः॒ सोमो॑ विश्व॒विन् ने॒ता ने॑ष॒द् बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒दित्या॑है॒तद्वा अ॒ग्नेरु॒क्थन्तेनै॒वैन॒मनु॑ शꣳसति⁠ [३५] (मि॒नु॒यात्तृ॒तीय॑ञ्चिन्वा॒नःस्त्रियं॒पौत्र॑ श्च॒वैस॒प्त च॑) ॥८॥
सू॒यते॒ वा ए॒षो᳚ऽग्नी॒नाय्ँय उ॒खाया᳚म्भ्रि॒यते॒ यद॒धः सा॒दये॒द्गर्भाः᳚ प्र॒पादु॑काः स्यु॒रथो॒ यथा॑ स॒वात् प्र॑त्यव॒रोह॑ति ता॒दृगे॒व तदा॑स॒न्दी सा॑दयति॒ गर्भा॑णा॒न्धृत्या॒ अप्र॑पादा॒याथो॑ स॒वमे॒वैन॑ङ्करोति॒ गर्भो॒ वा ए॒ष यदुख्यो॒ योनिः॑ शि॒क्य॑य्ँयच्छि॒क्या॑दु॒खान्नि॒रूहे॒द्योने॒र् गर्भ॒न्निर्‌ह॑ण्या॒थ् षडु॑द्यामꣳ शि॒क्य॑म्भवति षोढाविहि॒तो वै [३६] पुरु॑ष आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा᳚न्या॒त्मन्ने॒वैन॑म्बिभर्ति प्र॒जाप॑ति॒र् वा ए॒ष यद॒ग्निस्तस्यो॒खा चो॒लूख॑लञ्च॒ स्तनौ॒ ताव॑स्य प्र॒जा उप॑ जीवन्ति॒ यदु॒खाञ्चो॒लूख॑लञ्चोप॒दधा॑ति॒ ताभ्या॑मे॒व यज॑मानो॒ऽमुष्मि॑ल्ँलो॒के᳚ऽग्निन्दु॑हे सव्ँवथ्स॒रो वा ए॒ष यद॒ग्निस्तस्य॑ त्रेधाविहि॒ता इष्ट॑काः प्राजाप॒त्या वै᳚ष्ण॒वीर् [३७] वै᳚श्वकर्म॒णीर॑होरा॒त्राण्ये॒वास्य॑ प्राजाप॒त्या यदुख्य॑म्बि॒भर्ति॑ प्राजाप॒त्या ए॒व तदुप॑ धत्ते॒ यथ् स॒मिध॑ आ॒दधा॑ति वैष्ण॒वा वै वन॒स्पत॑यो वैष्ण॒वीरे॒व तदुप॑ धत्ते॒ यदिष्ट॑काभिर॒ग्निञ्चि॒नोती॒यव्ँवै वि॒श्वक॑र्मा वैश्वकर्म॒णीरे॒व तदुप॑ धत्ते॒ तस्मा॑दाहुस्त्रि॒वृद॒ग्निरिति॒ तव्ँवा ए॒तय्ँयज॑मान ए॒व चि॑न्वीत॒ यद॑स्या॒न्य श्चि॑नु॒याद्यत् तन्दख्‍षि॑णाभि॒र् न रा॒धये॑द॒ग्निम॑स्य वृञ्जीत॒ यो᳚ऽस्या॒ग्निञ्चि॑नु॒यात् तन्दख्‍षि॑णाभी राधयेद॒ग्निमे॒व तथ् स्पृ॑णोति⁠ [३८] (षो॒ढा॒वि॒हि॒तो वै वै᳚ष्ण॒वी र॒न्यो वि॑ꣳश॒तिश्च॑) ॥९॥
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒र्तुभिः॑ सव्ँवथ्स॒रव्ँव॑स॒न्तेनै॒वास्य॑ पूर्वा॒र्द्धम॑चिनुत ग्री॒ष्मेण॒ दख्‍षि॑णम्प॒ख्‍षव्ँव॒र्॒‌षाभिः॒ पुच्छ॑ꣳ श॒रदोत्त॑रम्प॒ख्‍षꣳ हे॑म॒न्तेन॒ मद्ध्य॒म्ब्रह्म॑णा॒ वा अ॑स्य॒ तत् पू᳚र्वा॒र्द्धम॑चिनुत ख्‍ष॒त्रेण॒ दख्‍षि॑णम्प॒ख्‍षम्प॒शुभिः॒ पुच्छ॑व्ँवि॒शोत्त॑रम्प॒ख्‍षमा॒शया॒ मद्ध्य॒य्ँय ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒त ऋ॒तुभि॑रे॒वैन॑ञ्चिनु॒तेऽथो॑ ए॒तदे॒व सर्व॒मव॑ [३९] रुन्धे शृ॒ण्वन्त्ये॑नम॒ग्निञ्चि॑क्या॒नमत्त्यन्न॒ꣳ॒ रोच॑त इ॒यव्ँवाव प्र॑थ॒मा चिति॒रोष॑धयो॒ वन॒स्पत॑यः॒ पुरी॑षम॒न्तरि॑ख्‍षन्द्वि॒तीया॒ वया॑ꣳसि॒ पुरी॑षम॒सौ तृ॒तीया॒ नख्‍ष॑त्राणि॒ पुरी॑षय्ँय॒ज्ञश्च॑तु॒र्थी दख्‍षि॑णा॒ पुरी॑ष॒य्ँयज॑मानः पञ्च॒मी प्र॒जा पुरी॑ष॒य्ँयत् त्रिचि॑तीकञ्चिन्वी॒त य॒ज्ञन्दख्‍षि॑णामा॒त्मानं॑ प्र॒जाम॒न्तरि॑या॒त् तस्मा॒त् पञ्च॑चितीकश्चेत॒व्य॑ ए॒तदे॒व सर्व॑ꣴ स्पृणोति॒ यत् ति॒स्र श्चित॑य [४०] स्त्रि॒वृद्ध्य॑ग्निर् यद् द्वे द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒ पञ्च॒ चित॑यो भवन्ति॒ पाङ्क्तः॒ पुरु॑ष आ॒त्मान॑मे॒व स्पृ॑णोति॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सम्प॑द्यन्ते॒ दशा᳚ख्‍षरो॒ वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तꣴ स्पृ॑णो॒त्यथो॒ दशा᳚ख्‍षरा वि॒राडन्न॑व्ँवि॒राड् वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति सव्ँवथ्स॒रो वै ष॒ष्ठी चिति॑र् ऋ॒तवः॒ पुरी॑ष॒ꣳ॒ षट् चित॑यो भवन्ति॒ षट् पुरी॑षाणि॒ द्वाद॑श॒ सम्प॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒र ए॒व प्रति॑ तिष्ठति⁠ [४१] (अव॒ चित॑यः॒ पुरी॑षं॒ पञ्च॑दश च) ॥१०॥
रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते प्रा॑जाप॒त्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते रौ॒द्राः श्येतः॑ श्येता॒ख्‍षः श्येत॑ग्रीव॒स्ते पि॑तृदेव॒त्या᳚स्ति॒स्रः कृ॒ष्णा व॒शा वा॑रु॒ण्य॑स्ति॒स्रः श्वे॒ता व॒शाः सौ॒र्यो॑ मैत्राबार्‌हस्प॒त्या धू॒म्रल॑लामास्तूप॒राः⁠ [४२] (रोहि॑तः॒ षड्वि॑ꣳशतिः) ॥११॥
पृश्ञि॑स्तिर॒श्चीन॑पृश्ञिरू॒र्द्ध्वपृ॑श्ञि॒स्ते मा॑रु॒ताः फ॒ल्गूर् लो॑हितो॒र्णी ब॑ल॒ख्‍षी ताः सा॑रस्व॒त्यः॑ पृष॑ती स्थू॒लपृ॑षती ख्‍षु॒द्रपृ॑षती॒ ता वै᳚श्वदे॒व्य॑स्ति॒स्रः श्या॒मा व॒शाः पौ॒ष्णिय॑स्ति॒स्रो रोहि॑णीर् व॒शा मै॒त्रिय॑ ऐन्द्राबार्‌हस्प॒त्या अ॑रु॒णल॑लामा स्तूप॒राः⁠ [४३] (पृश्ञिः॒ षड्वि॑ꣳशतिः) ॥१२॥
शि॒ति॒बा॒हुर॒न्यत॑श्शितिबाहुः सम॒न्तशि॑तिबाहु॒स्त ऐ᳚न्द्रवाय॒वाः शि॑ति॒रन्ध्रो॒ऽ न्यत॑श्शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते मै᳚त्रावरु॒णाः शु॒द्धवा॑लः स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आ᳚श्वि॒नास्ति॒स्रः शि॒ल्पा व॒शा वै᳚श्वदे॒व्य॑स्ति॒स्रः श्येनीः᳚ परमे॒ष्ठिने॑ सोमापौ॒ष्णाः श्या॒मल॑लामा स्तूप॒राः⁠ [४४] (शि॒ति॒बा॒हुः पञ्च॑विꣳशतिः) ॥१३॥
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ᳚न्द्रावरु॒णाः शिति॑ककुच्छितिपृ॒ष्ठः शिति॑भस॒त् त ऐ᳚न्द्राबार्‌हस्प॒त्याः शि॑ति॒पाच्छि॒त्योष्ठः॑ शिति॒भ्रुस्त ऐ᳚न्द्रावैष्ण॒वास्ति॒स्रः सि॒द्ध्मा व॒शा वै᳚श्वकर्म॒ण्य॑स्ति॒स्रो धा॒त्रे पृ॑षोद॒रा ऐ᳚न्द्रापौ॒ष्णाः श्येत॑ललामा स्तूप॒राः⁠ [४५] (उ॒न्न॒तःपञ्च॑विꣳशतिः) ॥१४॥
क॒र्णा स्त्रयो॑ या॒माः सौ॒म्या स्त्रयः॑ श्विति॒ङ्गा अ॒ग्नये॒ यवि॑ष्ठाय॒ त्रयो॑ नकु॒ला स्ति॒स्रो रोहि॑णी॒ स्त्र्यव्य॒ स्ता वसू॑नान्ति॒स्रो॑ऽरु॒णा दि॑त्यौ॒ह्य॑ स्ता रु॒द्राणा॑ꣳ सोमै॒न्द्रा ब॒भ्रुल॑लामा स्तूप॒राः⁠ [४६] (क॒र्णा स्त्रयो॑विꣳशतिः) ॥१५॥
शु॒ण्ठा स्त्रयो॑ वैष्ण॒वा अ॑धीलोध॒कर्णा॒ स्त्रयो॒ विष्ण॑व उरुक्र॒माय॑ लफ्सु॒दिन॒ स्त्रयो॒ विष्ण॑व उरुगा॒याय॒ पञ्चा॑वी स्ति॒स्र आ॑दि॒त्याना᳚न्त्रिव॒थ्सा स्ति॒स्रोऽङ्गि॑रसामैन्द्रावैष्ण॒वा गौ॒रल॑लामा स्तूप॒राः⁠ [४७] (शु॒ण्ठा वि॑ꣳश॒तिः) ॥१६॥
इन्द्रा॑य॒ राज्ञे॒ त्रयः॑ शितिपृ॒ष्ठा इन्द्रा॑याधिरा॒जाय॒ त्रयः॒ शिति॑ककुद॒ इन्द्रा॑य स्व॒राज्ञे॒ त्रयः॒ शिति॑भसदस्ति॒स्र स्तु॑र्यौ॒ह्यः॑ सा॒द्ध्याना᳚न्ति॒स्रः प॑ष्ठौ॒ह्यो॑ विश्वे॑षान्दे॒वाना॑माग्ने॒न्द्राः कृ॒ष्णल॑लामा स्तूप॒राः⁠ [४८] (इन्द्रा॑य॒ राज्ञे॒ द्वावि॑ꣳशतिः) ॥१७॥
अदि॑त्यै॒ त्रयो॑ रोहितै॒ता इ॑न्द्रा॒ण्यै त्रयः॑ कृष्णै॒ताः कु॒ह्वै᳚ त्रयो॑ऽरुणै॒ता स्ति॒स्रो धे॒नवो॑ रा॒कायै॒ त्रयो॑ऽन॒ड्वाहः॑ सिनीवा॒ल्या आ᳚ग्नावैष्ण॒वा रोहि॑तललामास्तूप॒राः⁠ [४९] (अदि॑त्या अ॒ष्टाद॑श) ॥१८॥
सौ॒म्या स्त्रयः॑ पि॒शंगाः॒ सोमा॑य॒ राज्ञे॒ त्रयः॑ सा॒रङ्गाः᳚ पार्ज॒न्या नभो॑रूपा स्ति॒स्रो॑ऽजा म॒ल्॒‌हा इ॑न्द्रा॒ण्यै ति॒स्रो मे॒ष्य॑ आदि॒त्या द्या॑वापृथि॒व्या॑ मा॒लङ्गा᳚ स्तूप॒राः⁠ [५०] (सौ॒म्याएका॒न्नवि॑ꣳश॒तिः) ॥१९॥
वा॒रु॒णा स्त्रयः॑ कृ॒ष्णल॑लामा॒ वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तललामा॒ वरु॑णाय रि॒शाद॑से॒ त्रयो॑ऽरु॒णल॑लामाः शि॒ल्पा स्त्रयो॑ वैश्वदे॒वा स्त्रयः॒ पृश्ञ॑यः सर्वदेव॒त्या॑ ऐन्द्रासू॒राः श्येत॑ललामा स्तूप॒राः⁠ [५१] (वा॒रु॒णा वि॑ꣳश॒तिः) ॥२०॥
सोमा॑य स्व॒राज्ञे॑ऽनोवा॒हाव॑न॒ड्वाहा॑विन्द्रा॒ग्निभ्या॑मोजो॒दाभ्या॒मुष्टा॑राविन्द्रा॒ग्निभ्यां᳚ बल॒दाभ्या॑ꣳ सीरवा॒हाववी॒ द्वे धे॒नू भौ॒मी दि॒ग्भ्यो वड॑बे॒ द्वे धे॒नू भौ॒मी वै॑रा॒जी पु॑रु॒षी द्वे धे॒नू भौ॒मी वा॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑ वारु॒णी कृ॒ष्णे व॒शे अ॑रा॒ड्यौ॑ दि॒व्यावृ॑ष॒भौ प॑रिम॒रौ⁠ [५२] (सोमा॑य स्व॒राज्ञे॒ चतु॑स्त्रिꣳशत्) ॥२१॥
एका॑दश प्रा॒तर् ग॒व्याः प॒शव॒ आ ल॑भ्यन्ते छग॒लः क॒ल्माषः॑ किकिदी॒विर् वि॑दी॒गय॒ स्ते त्वा॒ष्ट्राः सौ॒रीर् नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्त्याग्ने॒य ऐ᳚न्द्रा॒ग्न आ᳚श्वि॒न स्ते वि॑शालयू॒प आ ल॑भ्यन्ते⁠ [५३] (एका॑दश प्रा॒तःपञ्च॑विꣳशतिः) ॥२२॥
पि॒शङ्गा॒ स्त्रयो॑ वास॒न्ताः सा॒रङ्गा॒ स्त्रयो॒ ग्रैष्माः॒ पृष॑न्त॒ स्त्रयो॒ वार्‌षि॑काः॒ पृश्ञ॑य॒ स्त्रयः॑ शार॒दाः पृ॑श्ञिस॒क्था स्त्रयो॒ हैम॑न्तिका अवलि॒प्ता स्त्रयः॑ शैशि॒राः स॑व्ँवथ्स॒राय॒ निव॑ख्‍षसः⁠ [५४] (पि॒शङ्गा॑ विꣳश॒तिः) ॥२३॥
(रोहि॑तः कृ॒ष्णा धू॒म्रल॑लामाः॒ पृश्ञिः॑ श्या॒मा अ॑रु॒णल॑लामाः शितिबा॒हुः शि॒ल्पाः श्येनीः᳚ श्या॒मल॑लामा उन्न॒तः सि॒द्ध्मा धा॒त्रे पौ॒ष्णाः श्येत॑ललामाः क॒र्णा ब॒भ्रुल॑लामाः शु॒ण्ठा गौ॒रल॑लामा॒ इन्द्रा॑य कृ॒ष्णाल॑लामा॒ अदि॑त्यै॒ रोहि॑तललामाः सौ॒म्या मा॒लङ्गा॑ वारु॒णाः सू॒राः श्येत॑ललामा॒ दश॑⁠।)
(हिर॑ण्यवर्णा अ॒पाङ्ग्रहा᳚न् भूतेष्ट॒काः स॒जूः स॑व्ँवथ्स॒रं प्र॒जाप॑तिः॒ स ख्‍षु॒रप॑वि र॒ग्नेर् वै दी॒ख्‍षया॑ सुव॒र्गाय॒ तय्ँयन्न सू॒यते᳚ प्र॒जाप॑तिर्‌ऋ॒तुभी॒ रोहि॑तः॒ पृश्ञिः॑ शितिबा॒हु रु॑न्न॒तः क॒र्णाः शु॒ण्ठा इन्द्रा॒या दि॑त्यै सौ॒म्या वा॑रु॒णाः सोमा॒यै का॑दश पि॒शङ्गा॒ स्त्रयो॑विꣳशतिः)
(हिर॑ण्यवर्णा भूतेष्ट॒का श्छन्दो॒ यत् कनी॑याꣳसन्त्रि॒वृद्ध्य॑ग्निर्वा॑रु॒णा श्चतु॑ष्पञ्चा॒शत्)
(हिर॑ण्यवर्णा॒ निव॑ख्‍षसः)
अनुवाकाः पञ्चशती
२३ ५४