कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
सप्तमकाण्डे प्रथमः प्रश्नः

कांड ७ प्रश्न १
अश्वमेधगतमन्त्राणामभिधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
प्र॒जन॑न॒ञ्ज्योति॑र॒ग्निर्दे॒वता॑ना॒ञ्ज्योति॑र्वि॒राट् छन्द॑सा॒ञ्ज्योति॑र्वि॒राड् वा॒चो᳚ऽग्नौ सन्ति॑ष्ठते वि॒राज॑म॒भि संप॑द्यते॒ तस्मा॒त् तज्ज्योति॑रुच्यते॒ द्वौ स्तोमौ᳚ प्रातस्सव॒नव्ँव॑हतो॒ यथा᳚ प्रा॒णश्चा॑ऽपा॒नश्च॒ द्वौ माद्ध्य॑दिंन॒ꣳ॒ सव॑न॒य्ँयथा॒ चख्‍षु॑श्च॒ श्रोत्र॑ञ्च॒ द्वौ तृ॑तीयसव॒नय्ँयथा॒ वाक् च॑ प्रति॒ष्ठा च॒ पुरु॑षसंमितो॒ वा ए॒ष य॒ज्ञोऽस्थू॑रि॒ [१] र्यङ्काम॑ङ्का॒मय॑ते॒ तमे॒तेना॒भ्य॑श्नुते॒ सर्व॒ꣴ॒ ह्यस्थू॑रिणाऽभ्यश्नु॒ते᳚ऽग्निष्टो॒मेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑ग्निष्टो॒मेनै॒व पर्य॑गृह्णा॒त् तासा॒म्परि॑गृहीतानामश्वत॒रोऽत्य॑प्रवत॒ तस्या॑नु॒हाय॒रेत॒ आऽद॑त्त॒ तद्ग॑र्द॒भे न्य॑मा॒र्ट् तस्मा᳚द्गर्द॒भो द्वि॒रेता॒ अथो॑ आहु॒र्वड॑बाया॒न्न्य॑मा॒र्डिति॒ तस्मा॒द्वड॑बा द्वि॒रेता॒ अथो॑ आहु॒रोष॑धीषु॒ [२] न्य॑मा॒र्डिति॒ तस्मा॒दोष॑ध॒योऽन॑भ्यक्ता रेभ॒न्त्यथो॑ आहुः प्र॒जासु॒ न्य॑मा॒र्डिति॒ तस्मा᳚द्य॒मौ जा॑येते॒ तस्मा॑दश्वत॒रो न प्र जा॑यत॒ आत्त॑रेता॒ हि तस्मा᳚द् ब॒र्॒‌हिष्यन॑वक्लृप्तः सर्ववेद॒से वा॑ स॒हस्रे॒ वाऽव॑ क्लृ॒प्तोऽति॒ ह्यप्र॑वत॒ य ए॒वव्ँवि॒द्वान॑ग्निष्टो॒मेन॒ यज॑ते॒ प्राजा॑ताः प्र॒जा ज॒नय॑ति॒ परि॒ प्रजा॑ता गृह्णाति॒ तस्मा॑दाहुर्ज्येष्ठय॒ज्ञ इति॑ [३] प्र॒जाप॑ति॒र्वाव ज्येष्ठः॒ स ह्ये॑तेनाग्रेऽय॑जत प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स मु॑ख॒तस्त्रि॒वृत॒न्निर॑मिमीत॒ तम॒ग्निर्दे॒वताऽन्व॑सृज्यत गाय॒त्री छन्दो॑ रथन्त॒रꣳ साम॑ ब्राह्म॒णो म॑नु॒ष्या॑णाम॒जः प॑शू॒नान्तस्मा॒त् ते मुख्या॑ मुख॒तो ह्यसृ॑ज्य॒न्तोर॑सो बा॒हुभ्या᳚म्पञ्चद॒शन्निर॑मिमीत॒ तमिन्द्रो॑ दे॒वताऽन्व॑सृज्यत त्रि॒ष्टुप् छन्दो॑ बृ॒हथ् [४] साम॑ राज॒न्यो॑ मनु॒ष्या॑णा॒मविः॑ पशू॒नान्तस्मा॒त् ते वी॒र्या॑वन्तो वी॒र्या᳚द्ध्यसृ॑ज्यन्त मद्ध्य॒तः स॑प्तद॒शन्निर॑मिमीत॒ तव्ँविश्वे॑ दे॒वा दे॒वता॒ अन्व॑सृज्यन्त॒ जग॑ती॒ छन्दो॑ वै रू॒पꣳ साम॒ वैश्यो॑ मनु॒ष्या॑णा॒ङ्गावः॑ पशू॒नान्तस्मा॒त् त आ॒द्या॑ अन्न॒धाना॒द्ध्य सृ॑ज्यन्त॒ तस्मा॒द् भूया॑ꣳसो॒ऽन्येभ्यो॒ भूयि॑ष्ठा॒ हि दे॒वता॒ अन्वसृ॑ज्यन्त प॒त्त ए॑कवि॒ꣳ॒ शन्निर॑मिमीत॒ तम॑नु॒ष्टुप् छन्दो [५] ऽन्व॑सृज्यत वैरा॒जꣳ साम॑ शू॒द्रो म॑नु॒ष्या॑णा॒मश्वः॑ पशू॒नान्तस्मा॒त् तौ भू॑तसङ्क्रा॒मिणा॒वश्व॑श्च शू॒द्रश्च॒ तस्मा᳚च्छू॒द्रो य॒ज्ञेऽन॑वक्लृप्तो॒ न हि दे॒वता॒ अन्वसृ॑ज्यत॒ तस्मा॒त् पादा॒वुप॑ जीवतः प॒त्तो ह्यसृ॑ज्येताम्प्रा॒णा वै त्रि॒वृद॑द्‌र्धमा॒साः प॑ञ्चद॒शः प्र॒जाप॑तिः सप्तद॒शस्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कवि॒ꣳ॒श ए॒तस्मि॒न् वा ए॒ते श्रि॒ता ए॒तस्मि॒न् प्रति॑ष्ठिता॒ य ए॒वव्ँवेदै॒तस्मि॑न्ने॒व श्र॑यत ए॒तस्मि॒न् प्रति॑ तिष्ठति⁠ [६] (अस्थू॑रि॒ रोष॑धीषु ज्येष्ठय॒ज्ञ इति॑ बृ॒ह द॑नु॒ष्टुप् छन्दः॒ प्रति॑ष्ठिता॒ नव॑ च) ॥१॥
प्रा॒त॒स्स॒व॒ने वै गा॑य॒त्रेण॒ छन्द॑सा त्रि॒वृते॒ स्तोमा॑य॒ ज्योति॒र्दध॑देति त्रि॒वृता᳚ ब्रह्मवर्च॒सेन॑ पञ्चद॒शाय॒ ज्योति॒र्दध॑देति पञ्चद॒शेनौज॑सा वी॒र्ये॑ण सप्तद॒शाय॒ ज्योति॒र्दध॑देति सप्तद॒शेन॑ प्राजाप॒त्येन॑ प्र॒जन॑नेनैकवि॒ꣳ॒शाय॒ ज्योति॒र्दध॑देति॒ स्तोम॑ ए॒व तथ् स्तोमा॑य॒ ज्योति॒र्दध॑दे॒त्यथो॒ स्तोम॑ ए॒व स्तोम॑म॒भि प्र ण॑यति॒ याव॑न्तो॒ वै स्तोमा॒स्ताव॑न्तः॒ कामा॒स्ताव॑न्तो लो॒का स्ताव॑न्ति॒ ज्योती॑ꣴष्ये॒ताव॑त ए॒व स्तोमा॑ने॒ताव॑तः॒ कामा॑ने॒ताव॑तो लो॒काने॒ताव॑न्ति॒ ज्योती॒ꣴ॒ष्यव॑ रुन्धे⁠ [७] (ताव॑न्तो लो॒का स्त्रयो॑दश च) ॥२॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ स त्वै य॑जेत॒ यो᳚ऽग्निष्टो॒मेन॒ यज॑मा॒नोऽथ॒ सर्व॑स्तोमेन॒ यजे॒तेति॒ यस्य॑ त्रि॒वृत॑मन्त॒र्यन्ति॑ प्रा॒णाꣴस्तस्या॒न्तर्य॑न्ति प्रा॒णेषु॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ पञ्चद॒शम॑न्त॒र्यन्ति॑ वी॒र्य॑न्तस्या॒न्तर्य॑न्ति वी॒र्ये॑ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ सप्तद॒शम॑न्त॒र्यन्ति॑ [८] प्र॒जान्तस्या॒न्तर्य॑न्ति प्र॒जाया॒म्मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्यै॑कवि॒ꣳ॒शम॑न्त॒र्यन्ति॑ प्रति॒ष्ठान्तस्या॒न्तर्य॑न्ति प्रति॒ष्ठाया॒म्मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ त्रिण॒वम॑न्त॒र्यन्त्यृ॒तूꣴश्च॒ तस्य॑ नख्‍ष॒त्रिया᳚ञ्च वि॒राज॑म॒न्तर्य॑न्त्यृ॒तुषु॒ मेऽप्य॑सन्नख्‍ष॒त्रिया॑याञ्च वि॒राजीति॒ [९] खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ त्रयस्त्रि॒ꣳ॒शम॑न्त॒र्यन्ति॑ दे॒वता॒स्तस्या॒न्तर्य॑न्ति दे॒वता॑सु॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यो वै स्तोमा॑नामव॒मम्प॑र॒मता॒ङ्गच्छ॑न्त॒व्ँवेद॑ पर॒मता॑मे॒व ग॑च्छति त्रि॒वृद्वै स्तोमा॑नामव॒मस्त्रि॒वृत् प॑र॒मो य ए॒वव्ँवेद॑ पर॒मता॑मे॒व ग॑च्छति⁠ [१०] (स॒प्त॒द॒शम॑न्त॒र्यन्ति॑ वि॒राजीति॒ चतु॑श्चत्वारिꣳशच्च) ॥३॥
अङ्गि॑रसो॒ वै स॒त्रमा॑सत॒ ते सु॑व॒र्गल्ँलो॒कमा॑य॒न् तेषा॑ꣳ ह॒विष्मा॑ꣴश्च हवि॒ष्कृच्चा॑ऽहीयेता॒न्ताव॑कामयेताꣳ सुव॒र्गल्ँलो॒कमि॑या॒वेति॒ तावे॒तन्द्वि॑रा॒त्रम॑पश्यता॒न्तमाऽह॑रता॒न्तेना॑यजेता॒न्ततो॒ वै तौ सु॑व॒र्गल्ँलो॒कमै॑ता॒य्ँय ए॒वव्ँवि॒द्वान् द्वि॑रा॒त्रेण॒ यज॑ते सुव॒र्गमे॒व लो॒कमे॑ति॒ तावैता॒म्पूर्वे॒णाह्नाऽग॑च्छता॒मुत्त॑रेणा [११] भिप्ल॒वः पूर्व॒मह॑र्भवति॒ गति॒रुत्त॑र॒ञ्ज्योति॑ष्टोमोऽग्निष्टो॒मः पूर्व॒मह॑र्भवति॒ तेज॒स्तेनाव॑ रुन्धे॒ सर्व॑स्तोमोऽतिरा॒त्र उत्त॑र॒ꣳ॒ सर्व॒स्याऽऽ*प्त्यै॒ सर्व॒स्याऽव॑रुद्ध्यै गाय॒त्रम्पूर्वेऽह॒न्थ्साम॑ भवति॒ तेजो॒ वै गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सन्तेज॑ ए॒व ब्र॑ह्मवर्च॒समा॒त्मन् ध॑त्ते॒ त्रैष्टु॑भ॒मुत्त॑र॒ ओजो॒ वै वी॒र्य॑न्त्रि॒ष्टुगोज॑ ए॒व वी॒र्य॑मा॒त्मन् ध॑त्ते रथंत॒रम्पूर्वे [१२] ऽह॒न्थ् साम॑ भवती॒यव्ँवै र॑थन्त॒रम॒स्यामे॒व प्रति॑ तिष्ठति बृ॒हदुत्त॑रे॒ऽसौ वै बृ॒हद॒मुष्या॑मे॒व प्रति॑ तिष्ठति॒ तदा॑हुः॒ क्व॑ जग॑ती चाऽनु॒ष्टुप् चेति॑ वैखान॒सम्पूर्वेऽह॒न्थ् साम॑ भवति॒ तेन॒ जग॑त्यै॒ नैति॑ षोड॒श्युत्त॑रे॒ तेना॑नु॒ष्टुभोऽथा॑ऽऽ*हु॒र्यथ् स॑मा॒ने᳚ऽद्‌र्धमा॒से स्याता॑मन्यत॒रस्याह्नो॑ वी॒र्य॑मनु॑ पद्ये॒तेत्य॑मावा॒स्या॑या॒म्पूर्व॒मह॑र्भव॒त्युत्त॑रस्मि॒न्नुत्त॑रं॒ नानै॒वाऽद्‌र्ध॑मा॒सयो᳚र्भवतो॒ नाना॑वीर्ये भवतो ह॒विष्म॑न्निधन॒म्पूर्व॒मह॑र्भवति हवि॒ष्कृन्नि॑धन॒मुत्त॑र॒म्प्रति॑ष्ठित्यै⁠ [१३] (उत्त॑रेण रथन्त॒रम्पूर्वे ऽन्वे क॑विꣳशतिश्च) ॥४॥
आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त् तस्मि॑न् प्र॒जाप॑तिर्वा॒युर्भू॒त्वाऽच॑र॒थ् स इ॒माम॑पश्य॒त् ताव्ँव॑रा॒हो भू॒त्वाऽह॑र॒त् ताव्ँवि॒श्वक॑र्मा भू॒त्वा व्य॑मा॒ट्‌र्थ् साऽप्र॑थत॒ सा पृ॑थि॒व्य॑भव॒त् तत् पृ॑थि॒व्यै पृ॑थिवि॒त्वन्तस्या॑मश्राम्यत् प्र॒जाप॑तिः॒ स दे॒वान॑सृजत॒ वसू᳚न् रु॒द्राना॑दि॒त्यान् ते दे॒वाः प्र॒जाप॑तिमब्रुव॒न् प्रजा॑यामहा॒ इति॒ सो᳚ऽब्रवी॒द् [१४] यथा॒ऽहय्ँयु॒ष्माꣴस्तप॒साऽसृ॑ख्‍ष्ये॒वन्तप॑सि प्र॒जन॑नमिच्छद्ध्व॒मिति॒ तेभ्यो॒ऽग्निमा॒यत॑न॒म्प्राऽय॑च्छदे॒तेना॒ऽऽ*यत॑नेन श्राम्य॒तेति॒ ते᳚ऽग्निना॒ऽऽ*यत॑नेनाऽश्राम्य॒न् ते स॑व्ँवथ्स॒र एका॒ङ्गाम॑सृजन्त॒ ताव्ँवसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राऽय॑च्छन्ने॒ताꣳ र॑ख्‍षद्ध्व॒मिति॒ ताव्ँवस॑वो रु॒द्रा आ॑दि॒त्या अ॑रख्‍षन्त॒ सा वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यः॒ प्राजा॑यत॒ त्रीणि॑ च [१५] श॒तानि॒ त्रय॑स्त्रिꣳशत॒ञ्चाथ॒ सैव स॑हस्रत॒म्य॑भव॒त् ते दे॒वाः प्र॒जाप॑तिमब्रुवन्थ् स॒हस्रे॑ण नो याज॒येति॒ सो᳚ऽग्निष्टो॒मेन॒ वसू॑नयाजय॒त् त इ॒मल्ँलो॒कम॑जय॒न् तच्चा॑ददुः॒ स उ॒क्थ्ये॑न रु॒द्रान॑याजय॒त् ते᳚ऽन्तरि॑ख्‍षमजय॒न् तच्चा॑ददुः॒ सो॑ऽतिरा॒त्रेणा॑ऽऽ*दि॒त्यान॑याजय॒त् ते॑ऽमुल्ँलो॒कम॑जय॒न् तच्चा॑ददु॒ स्तद॒न्तरि॑ख्‍ष॒ [१६] व्ँव्यवै᳚र्यत॒ तस्मा᳚द्रु॒द्रा घातु॑का अनायत॒ना हि तस्मा॑दाहुः शिथि॒लव्ँवै म॑द्ध्य॒ममह॑स्त्रिरा॒त्रस्य॒ वि हि तद॒वैर्य॒तेति॒ त्रैष्टु॑भम्मद्ध्य॒मस्याह्न॒ आज्य॑म्भवति स॒य्ँयाना॑नि सू॒क्तानि॑ शꣳसति षोड॒शिन॑ꣳ शꣳस॒त्यह्नो॒ धृत्या॒ अशि॑थिलंभावाय॒ तस्मा᳚त् त्रिरा॒त्रस्या᳚ग्निष्टो॒म ए॒व प्र॑थ॒ममहः॑ स्या॒दथो॒क्थ्योऽथा॑ऽतिरा॒त्र ए॒षाल्ँलो॒काना॒व्ँविधृ॑त्यै॒ त्रीणि॑त्रीणि श॒तान्य॑नूचीना॒हमव्य॑वच्छिन्नानि ददा [१७] त्ये॒षाल्ँलो॒काना॒मनु॒ सन्त॑त्यै द॒शत॒न्न विच्छि॑न्द्याद्वि॒राज॒न्नेद्वि॑च्छि॒नदा॒नीत्यथ॒ या स॑हस्रत॒म्यासी॒त् तस्या॒मिन्द्र॑श्च॒ विष्णु॑श्च॒ व्याय॑च्छेता॒ꣳ॒ स इन्द्रो॑ऽमन्यता॒नया॒ वा इ॒दव्ँविष्णुः॑ स॒हस्र॑व्ँवर्ख्‍ष्यत॒ इति॒ तस्या॑मकल्पेता॒न्द्विभा॑ग॒ इन्द्र॒स्तृती॑ये॒ विष्णु॒स्तद्वा ए॒षाऽभ्यनू᳚च्यत उ॒भा जि॑ग्यथु॒रिति॒ ताव्ँवा ए॒ताम॑च्छावा॒क [१८] ए॒व श॑ꣳस॒त्यथ॒ या स॑हस्रत॒मी सा होत्रे॒ देयेति॒ होता॑र॒व्ँवा अ॒भ्यति॑रिच्यते॒ यद॑ति॒रिच्य॑ते॒ होताऽना᳚प्तस्याऽऽ*पयि॒ताऽथा॑ऽ*हुरुन्ने॒त्रे देयेत्यति॑रिक्ता॒ वा ए॒षा स॒हस्र॒स्याति॑रिक्त उन्ने॒तर्त्विजा॒मथा॑ऽऽ*हुः॒ सर्वे᳚भ्यः सद॒स्ये᳚भ्यो॒ देयेत्यथा॑ऽऽहुरुदा॒ कृत्या॒ सा वश॑ञ्चरे॒दित्यथा॑ऽऽ*हुर्ब्र॒ह्मणे॑ चा॒ग्नीधे॑ च॒ देयेति॒ [१९] द्विभा॑गम्ब्र॒ह्मणे॒ तृती॑यम॒ग्नीध॑ ऐ॒न्द्रो वै ब्र॒ह्मा वै᳚ष्ण॒वो᳚ऽग्नीद्यथै॒व तावक॑ल्पेता॒मित्यथा॑ऽऽ*हु॒र्या क॑ल्या॒णी ब॑हुरू॒पा सा देयेत्यथा॑ऽऽ*हु॒र्या द्वि॑रू॒पोभ॒यत॑एनी॒ सा देयेति॑ स॒हस्र॑स्य॒ परि॑गृहीत्यै॒ तद्वा ए॒तथ् स॒हस्र॒स्याऽय॑नꣳ स॒हस्र॑ꣴ स्तो॒त्रीयाः᳚ स॒हस्र॒न्दख्‍षि॑णाः स॒हस्र॑सम्मितः सुव॒र्गो लो॒कः सु॑व॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै⁠ [२०] (अ॒ब्र॒वी॒ च्च॒ तद॒न्तरि॑ख्‍षं ददात्य च्छावा॒क श्च॒ देयेति॑ स॒प्तच॑त्वारिꣳशच्च) ॥५॥
सोमो॒ वै स॒हस्र॑मविन्द॒त् तमिन्द्रोऽन्व॑विन्द॒त् तौ य॒मो न्याग॑च्छ॒त् ताव॑ब्रवी॒दस्तु॒ मेऽत्राऽपीत्यस्तु॒ ही(३) इत्य॑ब्रूता॒ꣳ॒ स य॒म एक॑स्याव्ँवी॒र्य॑म्पर्य॑पश्यदि॒यव्ँवा अ॒स्य स॒हस्र॑स्य वी॒र्य॑म्बिभ॒र्तीति॒ ताव॑ब्रवीदि॒यम्ममास्त्वे॒तद्यु॒वयो॒रिति॒ ताव॑ब्रूता॒ꣳ॒ सर्वे॒ वा ए॒तदे॒तस्या᳚व्ँवी॒र्यं॑ [२१] परि॑ पश्या॒मोऽꣳश॒मा ह॑रामहा॒ इति॒ तस्या॒मꣳश॒माऽह॑रन्त॒ ताम॒फ्सु प्राऽवे॑शय॒न्थ् सोमा॑यो॒देहीति॒ सा रोहि॑णी पिङ्ग॒लैक॑हायनी रू॒पङ्कृ॒त्वा त्रय॑स्त्रिꣳशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत् तस्मा॒द्रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोम॑ङ्क्रीणीया॒द्य ए॒वव्ँवि॒द्वान् रोहि॑ण्या पिङ्ग॒लयैक॑हायन्या॒ सोम॑ङ्क्री॒णाति॒ त्रय॑स्त्रिꣳशता चै॒वास्य॑ त्रि॒भिश्च॑ [२२] श॒तैः सोमः॑ क्री॒तो भ॑वति॒ सुक्री॑तेन यजते॒ ताम॒फ्सु प्रावे॑शय॒न्निन्द्रा॑यो॒देहीति॒ सा रोहि॑णी लख्‍ष्म॒णा प॑ष्ठौ॒ही वार्त्र॑घ्नी रू॒पङ्कृ॒त्वा त्रय॑स्त्रिꣳशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत् तस्मा॒द् रोहि॑णील्ँलख्‍ष्म॒णाम्प॑ष्ठौ॒हीव्ँवार्त्र॑घ्नीन्दद्या॒द्य ए॒वव्ँवि॒द्वान् रोहि॑णील्ँलख्‍ष्म॒णाम्प॑ष्ठौ॒हीव्ँवार्त्र॑घ्नी॒न्ददा॑ति॒ त्रय॑स्त्रिꣳशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ सा द॒त्ता [२३] भ॑वति॒ ताम॒फ्सु प्रावे॑शयन् य॒मायो॒देहीति॒ सा जर॑ती मू॒र्खा त॑ज्जघ॒न्या रू॒पङ्कृ॒त्वा त्रय॑स्त्रिꣳशता च त्रि॒भिश्च॑ श॒तैः स॒होदैत् तस्मा॒ज्जर॑तीम्मू॒र्खान्त॑ज्जघ॒न्याम॑नु॒स्तर॑णीङ्कुर्वीत॒ य ए॒वव्ँवि॒द्वाञ्जर॑तीम्मू॒र्खान्त॑ज्जघ॒न्याम॑नु॒स्तर॑णीङ्कुरु॒ते त्रय॑स्त्रिꣳशच्चै॒वास्य॒ त्रीणि॑ च श॒तानि॒ साऽमुष्मि॑ल्लोँ॒के भ॑वति॒ वागे॒व स॑हस्रत॒मी तस्मा॒ [२४] द्वरो॒ देयः॒ सा हि वरः॑ स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति॒ तस्मा॒द् वरो॒ न प्र॑ति॒गृह्यः॒ सा हि वरः॑ स॒हस्र॑मस्य॒ प्रति॑गृहीतम्भवती॒यव्ँवर॒ इति॑ ब्रूया॒दथा॒न्याम्ब्रू॑यादि॒यम्ममेति॒ तथा᳚ऽस्य॒ तथ् स॒हस्र॒मप्र॑तिगृहीतम्भवत्युभयत‌ए॒नी स्या॒त् तदा॑हुरन्यत ए॒नी स्या᳚थ् स॒हस्र॑म्प॒रस्ता॒देत॒मिति॒ यैव वरः॑ [२५] कल्या॒णी रू॒पस॑मृद्धा॒ सा स्या॒थ् सा हि वरः॒ समृ॑द्ध्यै॒ तामुत्त॑रे॒णाऽऽ*ग्नी᳚द्ध्रम्पर्या॒णीया॑ऽऽ*हव॒नीय॒स्यान्ते᳚ द्रोणकल॒शमव॑ घ्रापये॒दा जि॑घ्र क॒लश॑म्मह्यु॒रुधा॑रा॒ पय॑स्व॒त्या त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः॒ सा मा॑ स॒हस्र॒ आ भ॑ज प्र॒जया॑ प॒शुभिः॑ स॒ह पुन॒र्माऽऽ*वि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैन॑म्प॒शुभी॑ र॒य्या स [२६] म॑द्‌र्धयति प्र॒जावा᳚न् पशु॒मान् र॑यि॒मान् भ॑वति॒ य ए॒वव्ँवेद॒ तया॑ स॒हाऽऽ*ग्नी᳚द्ध्रम्प॒रेत्य॑ पु॒रस्ता᳚त् प्र॒तीच्या॒न्तिष्ठ॑न्त्याञ्जुहुयादु॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः᳚⁠। इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथान्त्रे॒धा स॒हस्र॒व्ँवि तदै॑रयेथा॒मिति॑, त्रेधाविभ॒क्तव्ँवै त्रि॑रा॒त्रे स॒हस्र॑ꣳ साह॒स्रीमे॒वैना᳚ङ्करोति स॒हस्र॑स्यै॒वैना॒म्मात्रां᳚ [२७] करोति रू॒पाणि॑ जुहोति रू॒पैरे॒वैना॒ꣳ॒ सम॑द्‌र्धयति॒ तस्या॑ उपो॒त्थाय॒ कर्ण॒मा ज॑पे॒दिडे॒ रन्तेऽदि॑ते॒ सर॑स्वति॒ प्रिये॒ प्रेय॑सि॒ महि॒ विश्रु॑त्ये॒तानि॑ ते अघ्निये॒ नामा॑नि सु॒कृत॑म्मा दे॒वेषु॑ ब्रूता॒दिति॑ दे॒वेभ्य॑ ए॒वैन॒मा वे॑दय॒त्यन्वे॑नन्दे॒वा बु॑द्ध्यन्ते⁠ [२८] (मेका॒न्नच॑त्वारि॒ꣳ॒शच्च॑) ॥६॥
स॒ह॒स्र॒त॒म्या॑ वै यज॑मानः सुव॒र्गल्ँलो॒कमे॑ति॒ सैन॑ꣳ सुव॒र्गल्ँलो॒कङ्ग॑मयति॒ सा मा॑ सुव॒र्गल्ँलो॒कङ्ग॑म॒येत्या॑ह सुव॒र्गमे॒वैन॑ल्ँलो॒कङ्ग॑मयति॒ सा मा॒ ज्योति॑ष्मन्तल्ँलो॒कङ्ग॑म॒येत्या॑ह॒ ज्योति॑ष्मन्तमे॒वैन॑ल्ँलो॒कङ्ग॑मयति॒ सा मा॒ सर्वा॒न् पुण्या᳚ल्ँलो॒कान् ग॑म॒येत्या॑ह॒ सर्वा॑ने॒वैन॒म्पुण्या᳚ल्ँलो॒कान् ग॑मयति॒ सा [२९] मा᳚ प्रति॒ष्ठाङ्ग॑मय प्र॒जया॑ प॒शुभिः॑ स॒ह पुन॒र्माऽऽवि॑शताद्र॒यिरिति॑ प्र॒जयै॒वैन॑म्प॒शुभी॑ र॒य्याम्प्रति॑ ष्ठापयति प्र॒जावा᳚न् पशु॒मान् र॑यि॒मान् भ॑वति॒ य ए॒वव्ँवेद॒ ताम॒ग्नीधे॑ वा ब्र॒ह्मणे॑ वा॒ होत्रे॑ वोद्गा॒त्रे वा᳚ऽद्ध्व॒र्यवे॑ वा दद्याथ् स॒हस्र॑मस्य॒ सा द॒त्ता भ॑वति स॒हस्र॑मस्य॒ प्रति॑गृहीतम्भवति॒ यस्तामवि॑द्वान् [३०] प्रतिगृ॒ह्णाति॒ ताम्प्रति॑गृह्णीया॒देका॑ऽसि॒ न स॒हस्र॒मेका᳚न्त्वा भू॒ताम्प्रति॑ गृह्णामि॒ न स॒हस्र॒मेका॑ मा भू॒ताऽऽवि॑श॒ मा स॒हस्र॒मित्येका॑मे॒वैना᳚म्भू॒ताम्प्रति॑गृह्णाति॒ न स॒हस्र॒य्ँय ए॒वव्ँवेद॑ स्यो॒नाऽसि॑ सु॒षदा॑ सु॒शेवा᳚ स्यो॒ना माऽऽवि॑श सु॒षदा॒ माऽऽवि॑श सु॒शेवा॒ माऽऽवि॒शे [३१] त्या॑ह स्यो॒नैवैन॑ꣳ सु॒षदा॑ सु॒शेवा॑ भू॒ताऽऽवि॑शति॒ नैन॑ꣳ हिनस्ति ब्रह्मवा॒दिनो॑ वदन्ति स॒हस्र॑ꣳ सहस्रत॒म्यन्वे॒ती(३) स॑हस्रत॒मीꣳ स॒हस्रा(३)मिति॒ यत् प्राची॑मुथ् सृ॒जेथ् स॒हस्र॑ꣳ सहस्रत॒म्यन्वि॑या॒त् तथ् स॒हस्र॑मप्रज्ञा॒त्रꣳ सु॑व॒र्गल्ँलो॒कन्न प्र जा॑नीयात् प्र॒तीची॒मुथ् सृ॑जति॒ ताꣳ स॒हस्र॒मनु॑ प॒र्याव॑र्तते॒ सा प्र॑जान॒ती सु॑व॒र्गल्ँलो॒कमे॑ति॒ यज॑मान म॒भ्युथ् सृ॑जति ख्‍षि॒प्रे स॒हस्र॒म्प्र जा॑यत उत्त॒मा नी॒यते᳚ प्रथ॒मा दे॒वान् ग॑च्छति⁠ [३२] (लो॒कान् ग॑मयति॒ सा ऽवि॑द्वान्थ् सु॒शेवा॒ माऽऽवि॑श॒ यज॑मानं॒ द्वाद॑श च) ॥७॥
अत्रि॑रददा॒दौर्वा॑य प्र॒जाम्पु॒त्रका॑माय॒ स रि॑रिचा॒नो॑ऽमन्यत॒ निर्वी᳚र्यः शिथि॒लो या॒तया॑मा॒ स ए॒तञ्च॑तूरा॒त्रम॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै तस्य॑ च॒त्वारो॑ वी॒रा आऽजा॑यन्त॒ सुहो॑ता॒ सू᳚द्गाता॒ स्व॑द्ध्वर्युः॒ सुस॑भेयो॒ य ए॒वव्ँवि॒द्वाꣴश्च॑तूरा॒त्रेण॒ यज॑त॒ आऽस्य॑ च॒त्वारो॑ वी॒रा जा॑यन्ते॒ सुहो॑ता॒ सू᳚द्गाता॒ स्व॑द्ध्वर्युः॒ सुस॑भेयो॒ ये च॑तुर्वि॒ꣳ॒शाः पव॑माना ब्रह्मवर्च॒सन्त [३३] द्य उ॒द्यन्तः॒ स्तोमाः॒ श्रीः साऽत्रि॑ꣴ श्र॒द्धादे॑व॒य्ँयज॑मानञ्च॒त्वारि॑ वी॒र्या॑णि॒ नोपा॑ऽनम॒न् तेज॑ इन्द्रि॒यम्ब्र॑ह्मवर्च॒सम॒न्नाद्य॒ꣳ॒ स ए॒ताꣴश्च॒तुर॒श्चतु॑ष्टोमा॒न्थ् सोमा॑नपश्य॒त् तानाऽह॑र॒त् तैर॑यजत॒ तेज॑ ए॒व प्र॑थ॒मेनाऽवा॑रुन्धेन्द्रि॒यन्द्वि॒तीये॑न ब्रह्मवर्च॒सन्तृ॒तीये॑ना॒न्नाद्य॑ञ्चतु॒र्थेन॒ य ए॒वव्ँवि॒द्वाꣴश्च॒तुर॒श्चतु॑ष्टोमा॒न्थ् सोमा॑ना॒हर॑ति॒ तैर्यज॑ते॒ तेज॑ ए॒व प्र॑थ॒मेनाव॑ रुन्ध इन्द्रि॒यन्द्वि॒तीये॑न ब्रह्मवर्च॒सन्तृ॒तीये॑ना॒ऽन्नाद्य॑ञ्चतु॒र्थेन॒ यामे॒वात्रि॒र्॒‌ऋद्धि॒माद्‌र्ध्नो॒त् तामे॒व यज॑मान ऋद्ध्नोति⁠ [३४] (तत्तेज॑ ए॒वाष्टाद॑श च) ॥८॥
ज॒मद॑ग्निः॒ पुष्टि॑कामश्चतूरा॒त्रेणा॑यजत॒ स ए॒तान् पोषा॑ꣳ अपुष्य॒त् तस्मा᳚त् पलि॒तौ जाम॑दग्नियौ॒ न सञ्जा॑नाते ए॒ताने॒व पोषा᳚न् पुष्यति॒ य ए॒वव्ँवि॒द्वाꣴश्च॑तूरा॒त्रेण॒ यज॑ते पुरोडा॒शिन्य॑ उप॒सदो॑ भवन्ति प॒शवो॒ वै पु॑रो॒डाशः॑ प॒शूने॒वाव॑ रु॒न्धेऽन्न॒व्ँवै पु॑रो॒डाशोऽन्न॑मे॒वाव॑ रुन्धे ऽन्ना॒दः प॑शु॒मान् भ॑वति॒ य ए॒वव्ँवि॒द्वाꣴश्च॑तूरा॒त्रेण॒ यज॑ते⁠ [३५] (ज॒मद॑ग्नि र॒ष्टाच॑त्वारिꣳशत्) ॥९॥
स॒व्ँव॒थ्स॒रो वा इ॒दमेक॑ आसी॒थ् सो॑ऽकामयत॒र्तून्थ् सृ॑जे॒येति॒ स ए॒तम्प॑ञ्चरा॒त्रम॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै स ऋ॒तून॑सृजत॒ य ए॒वव्ँवि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यते॒ त ऋ॒तवः॑ सृ॒ष्टा न व्याव॑र्तन्त॒ त ए॒तम्प॑ञ्चरा॒त्रम॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै ते व्याव॑र्तन्त॒ [३६] य ए॒वव्ँवि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाऽऽ* व॑र्तते॒ सार्व॑सेनिः शौचे॒यो॑ऽकामयत पशु॒मान्थ् स्या॒मिति॒ स ए॒तम्प॑ञ्चरा॒त्रमाऽह॑र॒त् तेना॑ऽयजत॒ ततो॒ वै स स॒हस्र॑म्प॒शून् प्राऽऽ*प्नो॒द्य ए॒वव्ँवि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते॒ प्र स॒हस्र॑म्प॒शूना᳚प्नोति बब॒रः प्रावा॑हणिरकामयत वा॒चः प्र॑वदि॒ता स्या॒मिति॒ स ए॒तम्प॑ञ्चरा॒त्रमा [३७] ऽह॑र॒त् तेना॑यजत॒ ततो॒ वै स वा॒चः प्र॑वदि॒ताऽभ॑व॒द्य ए॒वव्ँवि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते प्रवदि॒तैव वा॒चो भ॑व॒त्यथो॑ एनव्ँवा॒चस्पति॒रित्या॑हु॒रना᳚प्तश्चतूरा॒त्रोऽति॑रिक्तः षड्रा॒त्रोऽथ॒ वा ए॒ष स॑प्रं॒ति य॒ज्ञो यत् प॑ञ्चरा॒त्रो य ए॒वव्ँवि॒द्वान् प॑ञ्चरा॒त्रेण॒ यज॑ते संप्र॒त्ये॑व य॒ज्ञेन॑ यजते पञ्चरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ सव्ँवथ्स॒र [३८] ऋ॒तुष्वे॒व स॑व्ँवथ्स॒रे प्रति॑ तिष्ठ॒त्यथो॒ पञ्चा᳚ख्‍षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्धे त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायते पञ्चवि॒ꣳ॒शो᳚ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्याव॑रुद्ध्यै विश्व॒जिथ् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै⁠ [३९] (ते व्याव॑र्तन्त प्रवदि॒ता स्या॒मिति॒ स ए॒तम्प॑ञ्चरा॒त्रमा स॑व्ँवथ्स॒रो॑ भिजि॑त्यै) ॥१०॥
दे॒वस्य॑त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्या᳚म्पू॒ष्णो हस्ता᳚भ्या॒मा द॑द इ॒माम॑गृभ्णन् रश॒नामृ॒तस्य॒ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्या⁠। तया॑ दे॒वाः सु॒तमा ब॑भूवुर् ऋ॒तस्य॒ साम᳚न्थस॒रमा॒रप॑न्ती⁠॥ अ॒भि॒धा अ॑सि॒ भुव॑नमसि य॒न्ताऽसि॑ ध॒र्ताऽसि॒ सो᳚ऽग्निव्ँवै᳚श्वान॒रꣳ सप्र॑थसङ्गच्छ॒ स्वाहा॑कृतः पृथि॒व्याय्ँय॒न्ता राड् य॒न्ताऽसि॒ यम॑नो ध॒र्ताऽसि॑ ध॒रुणः॑ कृ॒ष्यै त्वा॒ ख्‍षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य त्वा पृथि॒व्यै त्वा॒ऽन्तरि॑ख्‍षाय त्वा दि॒वे त्वा॑ स॒ते त्वाऽस॑ते त्वा॒द्भ्यस्त्वौष॑धीभ्यस्त्वा॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्यः॑⁠ [४०] (ध॒रुणः॒ पञ्च॑विꣳशतिश्च) ॥११॥
वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्राश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑ऽसि नृ॒मणा॑ असि॒ ययु॒र्नामा᳚स्यादि॒त्याना॒म्पत्वान्वि॑ह्य॒ग्नये॒ स्वाहा॒ स्वाहे᳚न्द्रा॒ग्निभ्या॒ꣴ॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा॒ विश्वे᳚भ्यो दे॒वेभ्यः॒ स्वाहा॒ सर्वा᳚भ्यो दे॒वेता᳚भ्य इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ ह रम॑तिः॒ स्वाहा॒ भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वा॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्यो॒ देवा॑ आशापाला ए॒तन्दे॒वेभ्योऽश्व॒म्मेधा॑य॒ प्रोख्‍षि॑तङ्गोपायत⁠ [४१] (रन्तिः॒ स्वाहा॒ द्वावि॑ꣳशतिश्च) ॥१२॥
आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहो᳚द्द्रा॒वाय॒ स्वाहोद्द्रु॑ताय॒ स्वाहा॑ शूका॒राय॒ स्वाहा॒ शूकृ॑ताय॒ स्वाहा॒ पला॑यिताय॒ स्वाहा॒ऽऽपला॑यिताय॒ स्वाहा॒ऽऽवल्ग॑ते॒ स्वाहा॑ परा॒वल्ग॑ते॒ स्वाहा॑ऽऽय॒ते स्वाहा᳚ प्रय॒ते स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४२] (आय॑ना॒योत्त॑रमा॒पला॑यिताय॒ षड्वि॑ꣳशतिः) ॥१३॥
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒ऽपाम्मोदा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४३] (अ॒ग्नये॑ वा॒यवे॒ऽपाम्मोदा॒येन्द्रा॑य॒ त्रयो॑विꣳशतिः) ॥१४॥
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑ख्‍षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहा॒ नख्‍ष॑त्रेभ्यः॒ स्वाहा॒ प्राच्यै॑ दि॒शे स्वाहा॒ दख्‍षि॑णायै दि॒शे स्वाहा᳚ प्र॒तीच्यै॑ दि॒शे स्वाहोदी᳚च्यै दि॒शे स्वाहो॒द्‌र्ध्वायै॑ दि॒शे स्वाहा॑ दि॒ग्भ्यः स्वाहा॑ऽवान्तरदि॒शाभ्यः॒ स्वाहा॒ समा᳚भ्यः॒ स्वाहा॑ श॒रद्भ्यः॒ स्वाहा॑ऽहोरा॒त्रेभ्यः॒ स्वाहा᳚ऽद्‌र्धमा॒सेभ्यः॒ स्वाहा॒ मासे᳚भ्यः॒ स्वाह॒र्तुभ्यः॒ स्वाहा॑ सव्ँवथ्स॒राय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४४] (पृ॒थि॒व्यै सूर्या॑य॒ नख्‍ष॑त्रेभ्यः॒ प्राच्यै॑ स॒प्तच॑त्वारिꣳशत्) ॥१५॥
अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑ पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहा॒ऽपाम्मोदा॑य॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑ मि॒त्राय॒ स्वाहा॒ वरु॑णाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४५] (अ॒ग्नये॑ सवि॒त्रे पू॒ष्णे॑ऽपाम्मोदा॑य वा॒यवे॒ त्रयो॑विꣳशतिः) ॥१६॥
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑ख्‍षाय॒ स्वाहा॑ दि॒वे स्वाहा॒ऽग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॒ सूर्या॑य॒ स्वाहा॑ च॒न्द्रम॑से॒ स्वाहाऽह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाह॒र्जवे॒ स्वाहा॑ सा॒धवे॒ स्वाहा॑ सुख्‍षि॒त्यै स्वाहा᳚ ख्‍षु॒धे स्वाहा॑ऽऽशिति॒म्ने स्वाहा॒ रोगा॑य॒ स्वाहा॑ हि॒माय॒ स्वाहा॑ शी॒ताय॒ स्वाहा॑ऽऽत॒पाय॒ स्वाहाऽर॑ण्याय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४६] (पृ॒थि॒व्या अ॒ग्नयेऽह्ने॒ रात्रि॑यै॒ चतु॑श्चत्वारिꣳशत्) ॥१७॥
भुवो॑ दे॒वाना॒ङ्कर्म॑णा॒ऽपस॒र्तस्य॑ प॒थ्या॑ऽसि॒ वसु॑भिर्दे॒वेभि॑र्दे॒वत॑या गाय॒त्रेण॑ त्वा॒ छन्द॑सा युनज्मि वस॒न्तेन॑ त्व॒र्तुना॑ ह॒विषा॑ दीख्‍षयामि रु॒द्रेभि॑र्दे॒वेभि॑र्दे॒वत॑या॒ त्रैष्टु॑भेन त्वा॒ छन्द॑सा युनज्मि ग्री॒ष्मेण॑ त्व॒र्तुना॑ ह॒विषा॑ दीख्‍षयाम्यादि॒त्येभि॑र्दे॒वेभि॑र्दे॒वत॑या॒ जाग॑तेन त्वा॒ छन्द॑सा युनज्मि व॒र्॒‌षाभि॑स्त्व॒र्तुना॑ ह॒विषा॑ दीख्‍षयामि॒ विश्वे॑भिर्दे॒वेभि॑र्दे॒वत॒याऽऽनु॑ष्टुभेन त्वा॒ छन्द॑सा युनज्मि [४७] श॒रदा᳚ त्व॒र्तुना॑ ह॒विषा॑ दीख्‍षया॒म्यङ्गि॑रोभिर्दे॒वेभि॑र्दे॒वत॑या॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा युनज्मि हेमन्तशिशि॒राभ्या᳚न्त्व॒र्तुना॑ ह॒विषा॑ दीख्‍षया॒म्याऽहन्दी॒ख्‍षाम॑रुहमृ॒तस्य॒ पत्नी᳚ङ्गाय॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च॒र्तꣳ स॒त्ये॑ऽधाꣳ स॒त्यमृ॒ते॑ऽधाम्⁠॥ म॒ही मू॒ षु >१सु॒त्रामा॑ण >२मि॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा᳚⁠ [४८] (आनु॑ष्टुभेन त्वा॒ छन्द॑सा युन॒ज्म्ये का॒न्न प॑ञ्चा॒शच्च॑) ॥१८॥
ई॒कां॒राय॒ स्वाहेङ्कृ॑ताय॒ स्वाहा॒ क्रन्द॑ते॒ स्वाहा॑ऽव॒क्रन्द॑ते॒ स्वाहा॒ प्रोथ॑ते॒ स्वाहा᳚ प्र॒प्रोथ॑ते॒ स्वाहा॑ ग॒न्धाय॒ स्वाहा᳚ घ्रा॒ताय॒ स्वाहा᳚ प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॑ सन्दी॒यमा॑नाय॒ स्वाहा॒ सन्दि॑ताय॒ स्वाहा॑ विचृ॒त्यमा॑नाय॒ स्वाहा॒ विचृ॑त्ताय॒ स्वाहा॑ पलायि॒ष्यमा॑णाय॒ स्वाहा॒ पला॑यिताय॒ स्वाहो॑परꣴस्य॒ते स्वाहोप॑रताय॒ स्वाहा॑ निवेख्‍ष्य॒ते स्वाहा॑ निवि॒शमा॑नाय॒ स्वाहा॒ निवि॑ष्टाय॒ स्वाहा॑ निषथ्स्य॒ते स्वाहा॑ नि॒षीद॑ते॒ स्वाहा॒ निष॑ण्णाय॒ स्वाहा॑ [४९] ऽऽसिष्य॒ते स्वाहाऽऽसी॑नाय॒ स्वाहा॑ऽऽसि॒ताय॒ स्वाहा॑ निपथ्स्य॒ते स्वाहा॑ नि॒पद्य॑मानाय॒ स्वाहा॒ निप॑न्नाय॒ स्वाहा॑ शयिष्य॒ते स्वाहा॒ शया॑नाय॒ स्वाहा॑ शयि॒ताय॒ स्वाहा॑ संमीलिष्य॒ते स्वाहा॑ स॒मींल॑ते॒ स्वाहा॒ संमी॑लिताय॒ स्वाहा᳚ स्वफ्स्य॒ते स्वाहा᳚ स्वप॒ते स्वाहा॑ सु॒प्ताय॒ स्वाहा᳚ प्रभोथ्स्य॒ते स्वाहा᳚ प्र॒बुद्ध्य॑मानाय॒ स्वाहा॒ प्रबु॑द्धाय॒ स्वाहा॑ जागरिष्य॒ते स्वाहा॒ जाग्र॑ते॒ स्वाहा॑ जागरि॒ताय॒ स्वाहा॒ शुश्रू॑षमाणाय॒ स्वाहा॑ शृण्व॒ते स्वाहा᳚ श्रु॒ताय॒ स्वाहा॑ वीख्‍षिष्य॒ते स्वाहा॒ [५०] वीख्‍ष॑माणाय॒ स्वाहा॒ वीख्‍षि॑ताय॒ स्वाहा॑ सꣳहास्य॒ते स्वाहा॑ स॒जिंहा॑नाय॒ स्वाहो॒ज्जिहा॑नाय॒ स्वाहा॑ विवर्थ्स्य॒ते स्वाहा॑ वि॒वर्त॑मानाय॒ स्वाहा॒ विवृ॑त्ताय॒ स्वाहो᳚त्थास्य॒ते स्वाहो॒त्तिष्ठ॑ते॒ स्वाहोत्थि॑ताय॒ स्वाहा॑ विधविष्य॒ते स्वाहा॑ विधून्वा॒नाय॒ स्वाहा॒ विधू॑ताय॒ स्वाहो᳚त्क्रꣴस्य॒ते स्वाहो॒त्क्राम॑ते॒ स्वाहोत्क्रा᳚न्ताय॒ स्वाहा॑ चङ्क्रमिष्य॒ते स्वाहा॑ चङ्क्र॒म्यमा॑णाय॒ स्वाहा॑ चङ्क्रमि॒ताय॒ स्वाहा॑ कण्डूयिष्य॒ते स्वाहा॑ कण्डू॒यमा॑नाय॒ स्वाहा॑ कण्डूयि॒ताय॒ स्वाहा॑ निकषिष्य॒ते स्वाहा॑ नि॒कष॑माणाय॒ स्वाहा॒ निक॑षिताय॒ स्वाहा॒ यदत्ति॒ तस्मै॒ स्वाहा॒ यत् पिब॑ति॒ तस्मै॒ स्वाहा॒ यन्मेह॑ति॒ तस्मै॒ स्वाहा॒ यच्छकृ॑त् क॒रोति॒ तस्मै॒ स्वाहा॒ रेत॑से॒ स्वाहा᳚ प्र॒जाभ्यः॒ स्वाहा᳚ प्र॒जन॑नाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [५१] (निष॑ण्णाय॒ स्वाहा॑ वीख्‍षिष्य॒ते स्वाहा॑ नि॒कष॑माणाय॒ स्वाहा॑ स॒प्तवि॑ꣳशतिश्च) ॥१९॥
अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहा॒ सूर्या॑य॒ स्वाह॒र्तम॑स्यृ॒तस्य॒र्तम॑सि स॒त्यम॑सि स॒त्यस्य॑ स॒त्यम॑स्यृ॒तस्य॒ पन्था॑ असि दे॒वाना᳚ञ्छा॒याऽमृत॑स्य॒ नाम॒ तथ् स॒त्यय्ँयत् त्वम्प्र॒जाप॑ति॒रस्यधि॒ यद॑स्मिन् वा॒जिनी॑व॒ शुभः॒ स्पर्द्ध॑न्ते॒ दिवः॒ सूर्ये॑ण॒ विशो॒ऽपो वृ॑णा॒नः प॑वते क॒व्यन् प॒शुन्न गो॒पा इर्यः॒ परि॑ज्मा⁠ [५२] (अ॒ग्नये॑ वा॒यवे॒ सूर्या॑या॒ ऽष्टाच॑त्वारिꣳशत्) ॥२०॥
(प्र॒जन॑नं प्रातस्सव॒ने वै ब्र॑ह्मवा॒दिनः॒ स त्वा अङ्गि॑रस॒ आपो॒ वै सोमो॒ वै स॑हस्रत॒म्या त्रि॑ र्ज॒मद॑ग्निः सव्ँवथ्स॒रो दे॒वस्य॑ वि॒भू राय॑नाया॒ऽग्नये॑ पृथि॒व्या अ॒ग्नये॑ पृथि॒व्यै भुव॑ ईकां॒राया॒ ग्नये॑ वा॒यवे॒ सूर्या॑य विꣳश॒तिः)
(प्र॒जन॑न॒ मङ्गि॑रसः॒ सोमो॒ वै प्र॑तिगृ॒ह्णाति॑ वि॒भू र्वीख्‍ष॑माणाय॒ द्विप॑ञ्चा॒शत्)
(प्र॒जन॑नं॒ परि॑ज्मा)
अनुवाकाः पञ्चशती
२० ५२