कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
सप्तमकाण्डे द्वितीयः प्रश्नः

कांड ७ प्रश्न २
षड् रात्राद्यानां निरूपणं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
सा॒द्ध्या वै दे॒वाः सु॑व॒र्गका॑मा ए॒तꣳ ष॑ड्रा॒त्रम॑पश्य॒न्तमाऽह॑र॒न्तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गल्ँलो॒कमा॑य॒न्, य ए॒वव्ँवि॒द्वाꣳस॑ष्षड्रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कय्ँय॑न्ति देवस॒त्रव्ँवै ष॑ड्रा॒त्रः प्र॒त्यख्‍ष॒ꣴ॒ ह्ये॑तानि॑ पृ॒ष्ठानि॒ य ए॒वव्ँवि॒द्वाꣳसः॑ षड्रा॒त्रमास॑ते सा॒ख्‍षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒ षड्रा॒त्रो भ॑वति॒ षड् वा ऋ॒तवः॒ षट् पृ॒ष्ठानि॑ [१] पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ सव्ँवथ्स॒रन्ते स॑व्ँवथ्स॒र ए॒व प्रति॑ तिष्ठन्ति बृहद्रथन्त॒राभ्या᳚य्ँयन्ती॒यव्ँवाव र॑थंत॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँलो॒कय्ँय॑न्ति त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्धते पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धते सप्तद॒शो [२] भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽत्मन् द॑धते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्यै सदोहविर्द्धा॒निन॑ ए॒तेन॑ षड्रा॒त्रेण॑ यजेर॒न्नाश्व॑त्थी हवि॒र्द्धान॒ञ्चाऽऽ*ग्नी᳚द्ध्रञ्च भवत॒स्तद्धि सु॑व॒र्ग्यं॑ च॒क्रीव॑ती भवतः सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या उ॒लूख॑लबुद्ध्नो॒ यूपो॑ भवति॒ प्रति॑ष्ठित्यै॒ प्राञ्चो॑ यान्ति॒ प्राङि॑व॒ हि सु॑व॒र्गो [३] लो॒कः सर॑स्वत्या यान्त्ये॒ष वै दे॑व॒यानः॒ पन्था॒स्तमे॒वान्वारो॑हन्त्या॒क्रोश॑न्तो या॒न्त्यव॑र्तिमे॒वान्यस्मि॑न् प्रति॒षज्य॑ प्रति॒ष्ठाङ्ग॑च्छन्ति य॒दा दश॑ श॒तङ्कु॒र्वन्त्यथैक॑मु॒त्थान॑ꣳ श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्ति य॒दा श॒तꣳ स॒हस्र॑ङ्कु॒र्वन्त्यथैक॑मु॒त्थान॑ꣳ स॒हस्र॑संमितो॒ वा अ॒सौ लो॒को॑ऽमुमे॒व लो॒कम॒भि ज॑यन्ति य॒दै षा᳚म्प्र॒मीये॑त य॒दा वा॒ जीये॑र॒न्नथैक॑मु॒त्थान॒न्तद्धि ती॒र्थम्⁠ [४] (पृ॒ष्ठानि॑सप्तद॒शःसु॑व॒र्गोज॑यन्ति य॒दै का॑दश च) ॥१॥
कु॒सु॒रु॒बिन्द॒ औद्दा॑लकिरकामयत पशु॒मान्थ् स्या॒मिति॒ स ए॒तꣳ स॑प्तरा॒त्रमाऽह॑र॒त् तेना॑यजत॒ तेन॒ वै स याव॑न्तो ग्रा॒म्याः प॒शव॒स्तानवा॑रुन्ध॒ य ए॒वव्ँवि॒द्वान्थ् स॑प्तरा॒त्रेण॒ यज॑ते॒ याव॑न्त ए॒व ग्रा॒म्याः प॒शव॒स्ताने॒वाव॑ रुन्धे सप्तरा॒त्रो भ॑वति स॒प्त ग्रा॒म्याः प॒शवः॑ स॒प्ताऽऽ*र॒ण्याः स॒प्त छन्दा॑ꣴस्यु॒भय॒स्याव॑रुद्ध्यै त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ [५] ए॒वाव॑ रुन्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्या व॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकवि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै पञ्चवि॒ꣳ॒शो᳚ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्या व॑रुद्ध्यै विश्व॒जिथ् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै॒ यत् प्र॒त्यख्‍ष॒म्पूर्वे॒ष्वह॑स्सु पृ॒ष्ठान्यु॑पे॒युः प्र॒त्यख्‍ष॑ [६] व्ँविश्व॒जिति॒ यथा॑ दु॒ग्धामु॑प॒सीद॑त्ये॒वमु॑त्त॒ममहः॑ स्या॒न्नैक॑रा॒त्रश्च॒न स्या᳚द् बृहद्रथन्त॒रे पूर्वे॒ष्वह॒स्सूप॑ यन्ती॒यव्ँवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व न य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्ति॒ यत् प्र॒त्यख्‍ष॑व्ँविश्व॒जिति॑ पृ॒ष्ठान्यु॑प॒यन्ति॒ यथा॒ प्रत्ता᳚न्दु॒हे ता॒दृगे॒व तत्⁠ [७] (तेज॑ उपे॒युः प्र॒त्यख्‍षं॒ द्विच॑त्वारिꣳशच्च) ॥२॥
बृह॒स्पति॑रकामयत ब्रह्मवर्च॒सी स्या॒मिति॒ स ए॒तम॑ष्टरा॒त्रम॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै स ब्र॑ह्मवर्च॒स्य॑भव॒द्य ए॒वव्ँवि॒द्वान॑ष्टरा॒त्रेण॒ यज॑ते ब्रह्मवर्च॒स्ये॑व भ॑वत्यष्टरा॒त्रो भ॑वत्य॒ष्टाख्‍ष॑रा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धेऽष्टरा॒त्रो भ॑वति॒ चत॑स्रो॒ वै दिश॒श्चत॑स्रोऽवान्तरदि॒शा दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे [८] त्रि॒वृद॑ग्निष्टो॒मो भ॑वति॒ तेज॑ ए॒वाव॑ रुन्धे पञ्चद॒शो भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धे सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत एकवि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् ध॑त्ते त्रिण॒वो भ॑वति॒ विजि॑त्यै त्रयस्त्रि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्यै पञ्चवि॒ꣳ॒शो᳚ऽग्निष्टो॒मो भ॑वति प्र॒जाप॑ते॒राप्त्यै॑ महाव्र॒तवा॑न॒न्नाद्य॒स्या व॑रुद्ध्यै विश्व॒जिथ् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै⁠ [९] (दि॒ग्भ्य ए॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे॒ ऽभिजि॑त्यै) ॥३॥
प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः सृ॒ष्टाः ख्‍षुध॒न्न्या॑य॒न्थ्स ए॒तन्न॑वरा॒त्रम॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै प्र॒जाभ्यो॑ऽकल्पत॒ यर्‌हि॑ प्र॒जाः ख्‍षुध॑न्नि॒गच्छे॑यु॒स्तर्‌हि॑ नवरा॒त्रेण॑ यजेते॒मे हि वा ए॒तासा᳚ल्ँलो॒का अक्लृ॑प्ता॒ अथै॒ताः ख्‍षुध॒न्नि ग॑च्छन्ती॒माने॒वाऽऽ*भ्यो॑ लो॒कान् क॑ल्पयति॒ तान् कल्प॑मानान् प्र॒जाभ्योऽनु॑ कल्पते॒ कल्प॑न्ते [१०] ऽस्मा इ॒मे लो॒का ऊर्ज॑म्प्र॒जासु॑ दधाति त्रिरा॒त्रेणै॒वेमल्ँलो॒कङ्क॑ल्पयति त्रिरा॒त्रेणा॒न्तरि॑ख्‍षन्त्रिरा॒त्रेणा॒मुल्ँलो॒कय्ँयथा॑ गु॒णे ग॒णम॒न्वस्य॑त्ये॒वमे॒व तल्लो॒के लो॒कमन्व॑स्यति॒ धृत्या॒ अशि॑थिलंभावाय॒ ज्योति॒र्गौरायु॒रिति॑ ज्ञा॒ताः स्तोमा॑ भवन्ती॒यव्ँवाव ज्योति॑र॒न्तरि॑ख्‍ष॒ङ्गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ ज्ञात्र॑म्प्र॒जानां᳚ [११] गच्छति नवरा॒त्रो भ॑वत्यभिपू॒र्वमे॒वाऽस्मि॒न् तेजो॑ दधाति॒ यो ज्योगा॑मयावी॒ स्याथ् स न॑वरा॒त्रेण॑ यजेत प्रा॒णा हि वा ए॒तस्या धृ॑ता॒ अथै॒तस्य॒ ज्योगा॑मयति प्रा॒णाने॒वास्मि॑न् दाधारो॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व⁠ [१२] (कल्प॑न्तेप्र॒जनां॒ त्रय॑स्त्रिꣳशच्च) ॥४॥
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तन्दश॑होतारमपश्य॒त् तम॑जुहो॒त् तेन॑ दशरा॒त्रम॑सृजत॒ तेन॑ दशरा॒त्रेण॒ प्रा जा॑यत दशरा॒त्राय॑ दीख्‍षि॒ष्यमा॑णो॒ दश॑होतारञ्जुहुया॒द्दश॑होत्रै॒व द॑शरा॒त्रꣳ सृ॑जते॒ तेन॑ दशरा॒त्रेण॒ प्र जा॑यते वैरा॒जो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रो य ए॒वव्ँवि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते वि॒राज॑मे॒व ग॑च्छति प्राजाप॒त्यो वा ए॒ष य॒ज्ञो यद्द॑शरा॒त्रो [१३] य ए॒वव्ँवि॒द्वान्द॑शरा॒त्रेण॒ यज॑ते॒ प्रैव जा॑यत॒ इन्द्रो॒ वै स॒दृङ् दे॒वता॑भिरासी॒थ् स न व्या॒वृत॑मगच्छ॒थ् स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑ ए॒तन्द॑शरा॒त्रम्प्राय॑च्छ॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै सो᳚ऽन्याभि॑र्दे॒वता॑भिर्व्या॒वृत॑मगच्छ॒द्य ए॒वव्ँवि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छति त्रिक॒कुद्वा [१४] ए॒ष य॒ज्ञो यद्द॑शरा॒त्रः क॒कुत् प॑ञ्चद॒शः क॒कुदे॑कवि॒ꣳ॒शः क॒कुत् त्र॑यस्त्रि॒ꣳ॒शो य ए॒वव्ँवि॒द्वान् द॑शरा॒त्रेण॒ यज॑ते त्रिक॒कुदे॒व स॑मा॒नाना᳚म्भवति॒ यज॑मानः पञ्चद॒शो यज॑मान एकवि॒ꣳ॒शो यज॑मानस्त्रयस्त्रि॒ꣳ॒शः पुर॒ इत॑रा अभिच॒र्यमा॑णो दशरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति॒ नैन॑मभि॒चर᳚न्थ् स्तृणुते देवासु॒राः सय्ँय॑त्ता आस॒न् ते दे॒वा ए॒ता [१५] दे॑वपु॒रा अ॑पश्य॒न्॒ यद्द॑शरा॒त्रस्ताः पर्यौ॑हन्त॒ तेषा॒न्न कुत॑श्च॒नोपा᳚व्या॒धो॑ऽभव॒त् ततो॑ दे॒वा अभ॑व॒न् पराऽसु॑रा॒ यो भ्रातृ॑व्यवा॒न्थ् स्याथ् स द॑शरा॒त्रेण॑ यजेत देवपु॒रा ए॒व पर्यू॑हते॒ तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति॒ स्तोमः॒ स्तोम॒स्योप॑स्तिर्भवति॒ भ्रातृ॑व्यमे॒वोप॑स्तिङ्कुरुते जा॒मि वा [१६] ए॒तत् कु॑र्वन्ति॒ यज्ज्याया॑ꣳस॒ꣴ॒ स्तोम॑मु॒पेत्य॒ कनी॑याꣳसमुप॒यन्ति॒ यद॑ग्निष्टोमसा॒मान्य॒वस्ता᳚च्च प॒रस्ता᳚च्च॒ भव॒न्त्यजा॑मित्वाय त्रि॒वृद॑ग्निष्टो॒मो᳚ऽग्नि॒ष्टुदा᳚ग्ने॒यीषु॑ भवति॒ तेज॑ ए॒वाव॑ रुन्धे पञ्चद॒श उ॒क्थ्य॑ ऐ॒न्द्रीष्वि॑न्द्रि॒यमे॒वाव॑ रुन्धे त्रि॒वृद॑ग्निष्टो॒मो वै᳚श्वदे॒वीषु॒ पुष्टि॑मे॒वाव॑ रुन्धे सप्तद॒शो᳚ऽग्निष्टो॒मः प्रा॑जाप॒त्यासु॑ तीव्रसो॒मो᳚ऽन्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायत [१७] एकवि॒ꣳ॒श उ॒क्थ्यः॑ सौ॒रीषु॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् ध॑त्ते सप्तद॒शो᳚ऽग्निष्टो॒मः प्रा॑जाप॒त्यासू॑पह॒व्य॑ उपह॒वमे॒व ग॑च्छति त्रिण॒वाव॑ग्निष्टो॒माव॒भित॑ ऐ॒न्द्रीषु॒ विजि॑त्यै त्रयस्त्रि॒ꣳ॒श उ॒क्थ्यो॑ वैश्वदे॒वीषु॒ प्रति॑ष्ठित्यै विश्व॒जिथ् सर्व॑पृष्ठोऽतिरा॒त्रो भ॑वति॒ सर्व॑स्या॒भिजि॑त्यै⁠ [१८] (प्रा॒जा॒प॒त्यो वा ए॒ष य॒ज्ञो यद् द॑शरा॒त्र स्त्रि॑क॒कुद् वा ए॒ता वै जा॑यत॒ एक॑त्रिꣳशच्च) ॥५॥
ऋ॒तवो॒ वै प्र॒जाका॑माः प्र॒जान्नाऽवि॑न्दन्त॒ ते॑ऽकामयन्त प्र॒जाꣳ सृ॑जेमहि प्र॒जामव॑ रुन्धीमहि प्र॒जाव्ँवि॑न्देमहि प्र॒जाव॑न्तः स्या॒मेति॒ त ए॒तमे॑कादशरा॒त्रम॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै ते प्र॒जाम॑सृजन्त प्र॒जामवा॑रुन्धत प्र॒जाम॑विन्दन्त प्र॒जाव॑न्तोऽभव॒न्त ऋ॒तवो॑ऽभव॒न् तदा᳚र्त॒वाना॑मार्तव॒त्वमृ॑तू॒नाव्ँवा ए॒ते पु॒त्रास्तस्मा॑ [१९] दार्त॒वा उ॑च्यन्ते॒ य ए॒वव्ँवि॒द्वाꣳस॑ एकादशरा॒त्रमास॑ते प्र॒जामे॒व सृ॑जन्ते प्र॒जामव॑ रुन्धते प्र॒जाव्ँवि॑न्दन्ते प्र॒जाव॑न्तो भवन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड् वा ऋ॒तवः॒ षट् पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ सव्ँवथ्स॒रन्ते स॑व्ँवथ्स॒र ए॒व प्रति॑ तिष्ठन्ति चतुर्वि॒ꣳ॒शो भ॑वति॒ चतु॑र्विꣳशत्यख्‍षरा गाय॒त्री [२०] गा॑य॒त्रम्ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यामे॒व ब्र॑ह्मवर्च॒से प्रति॑ तिष्ठन्ति चतुश्चत्वारि॒ꣳ॒शो भ॑वति॒ चतु॑ष्चत्वारिꣳशदख्‍षरा त्रि॒ष्टुगि॑न्द्रि॒यन्त्रि॒ष्टुप् त्रि॒ष्टुभ्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्यष्टाचत्वारि॒ꣳ॒शो भ॑वत्य॒ष्टाच॑त्वारिꣳशदख्‍षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यामे॒व प॒शुषु॒ प्रति॑ तिष्ठन्त्येकादशरा॒त्रो भ॑वति॒ पञ्च॒ वा ऋ॒तव॑ आर्त॒वाः पञ्च॒र्तुष्वे॒वाऽऽ*र्त॒वेषु॑ सव्ँवथ्स॒रे प्र॑ति॒ष्ठाय॑ प्र॒जामव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतः प्र॒जायै॒ परि॑गृहीत्यै⁠ [२१] (तस्मा᳚द् गाय॒त्र्ये का॒न्नप॑ञ्चा॒शच्च॑) ॥६॥
ऐ॒न्द्र॒वा॒य॒वाग्रा᳚न् गृह्णीया॒द्यः का॒मये॑त यथा पू॒र्वम्प्र॒जाः क॑ल्पेर॒न्निति॑ य॒ज्ञस्य॒ वै क्लृप्ति॒मनु॑ प्र॒जाः क॑ल्पन्ते य॒ज्ञस्याक्लृ॑प्ति॒मनु॒ न क॑ल्पन्ते यथा पू॒र्वमे॒व प्र॒जाः क॑ल्पयति॒ न ज्याया॑ꣳस॒ङ्कनी॑या॒नति॑ क्रामत्यैन्द्रवाय॒वाग्रा᳚न् गृह्णीयादामया॒विनः॑ प्रा॒णेन॒ वा ए॒ष व्यृ॑द्ध्यते॒ यस्या॒ऽऽ*मय॑ति प्रा॒ण ऐ᳚न्द्रवाय॒वः प्रा॒णेनै॒वैन॒ꣳ॒ सम॑द्‌र्धयति मैत्रावरु॒णाग्रा᳚न् गृह्णीर॒न्॒‌येषा᳚न्दीख्‍षि॒ताना᳚म्प्र॒मीये॑त [२२] प्राणापा॒नाभ्या॒व्ँवा ए॒ते व्यृ॑द्ध्यन्ते॒ येषा᳚न्दीख्‍षि॒ताना᳚म्प्र॒मीय॑ते प्राणापा॒नौ मि॒त्रावरु॑णौ प्राणापा॒नावे॒व मु॑ख॒तः परि॑ हरन्त आश्वि॒नाग्रा᳚न् गृह्णीताऽऽ*नुजाव॒रो᳚ऽश्विनौ॒ वै दे॒वाना॑मानुजाव॒रौ प॒श्चेवाग्र॒म्पर्यै॑ताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ य आ॑नुजाव॒रस्तावे॒वैन॒मग्र॒म्परि॑ णयतः शु॒क्राग्रा᳚न् गृह्णीत ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मो॒ऽसौ वा आ॑दि॒त्यः शु॒क्र ए॒षोऽन्तोऽन्तं॑ मनु॒ष्यः॑ [२३] श्रि॒यै ग॒त्वा नि व॑र्त॒तेऽन्ता॑दे॒वाऽन्त॒मा र॑भते॒ न ततः॒ पापी॑यान् भवति म॒न्थ्य॑ग्रान् गृह्णीताभि॒चर॑न्नार्तपा॒त्रव्ँवा ए॒तद्यन्म॑न्थिपा॒त्रम्मृ॒त्युनै॒वैन॑ङ्ग्राहयति ता॒जगार्ति॒मार्च्छ॑त्याग्रय॒णाग्रा᳚न् गृह्णीत॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यः॒ स्यादथ॒ तन्न प्रा᳚प्नु॒याद्वा॒चा वा ए॒ष इ॑न्द्रि॒येण॒ व्यृ॑द्ध्यते॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यो॒ [२४] भ॒वत्यथ॒ तन्न प्रा॒प्नोत्युर॑ इवै॒तद्य॒ज्ञस्य॒ वागि॑व॒ यदा᳚ग्रय॒णो वा॒चैवैन॑मिन्द्रि॒येण॒ सम॑द्‌र्धयति॒ न ततः॒ पापी॑यान् भवत्यु॒क्थ्या᳚ग्रान् गृह्णीताभिच॒र्यमा॑णः॒ सर्वे॑षा॒व्ँवा ए॒तत् पात्रा॑णामिन्द्रि॒यय्ँयदु॑क्थ्यपा॒त्रꣳ सर्वे॑णै॒वैन॑मिन्द्रि॒येणाति॒ प्रयु॑ङ्क्ते॒ सर॑स्वत्य॒भि नो॑ नेषि॒ वस्य॒ इति॑ पुरो॒रुच॑ङ्कुर्या॒द्वाग्वै [२५] सर॑स्वती वा॒चैवैन॒मति॒ प्रयु॑ङ्क्ते॒ मा त्वत् ख्‍षेत्रा॒ण्यर॑णानि ग॒न्मेत्या॑ह मृ॒त्योर्वै ख्‍षेत्रा॒ण्यर॑णानि॒ तेनै॒व मृ॒त्योः ख्‍षेत्रा॑णि॒ न ग॑च्छति पू॒र्णान् ग्रहा᳚न् गृह्णीयादामया॒विनः॑ प्रा॒णान् वा ए॒तस्य॒ शुगृ॑च्छति॒ यस्या॒ऽऽ*मय॑ति प्रा॒णा ग्रहाः᳚ प्रा॒णाने॒वास्य॑ शु॒चो मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व पू॒र्णान् ग्रहा᳚न् गृह्णीया॒द्यर्‌हि॑ प॒र्जन्यो॒ न वर्‌षे᳚त् प्रा॒णान् वा ए॒तर्‌हि॑ प्र॒जाना॒ꣳ॒ शुगृ॑च्छति॒ यर्‌हि॑ प॒र्जन्यो॒ न वर्‌ष॑ति प्रा॒णा ग्रहाः᳚ प्रा॒णाने॒व प्र॒जाना॑ꣳ शु॒चो मु॑ञ्चति ता॒जक् प्र व॑र्‌षति⁠ [२६] (प्र॒मीये॑त मनु॒ष्य॑ ऋद्ध्यते॒ यस्य॑ पि॒ता पि॑ताम॒हः पुण्यो॒वाग्वाए॒व पू॒र्णान् ग्रहा॒न्पञ्च॑विꣳशतिश्च) ॥७॥
गा॒य॒त्रो वा ऐ᳚न्द्रवाय॒वो गा॑य॒त्रम्प्रा॑य॒णीय॒मह॒स्तस्मा᳚त् प्राय॒णीयेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ त्रैष्टु॑भो॒ वै शु॒क्रस्त्रैष्टु॑भन्द्वि॒तीय॒मह॒स्तस्मा᳚द् द्वि॒तीयेऽह॑ञ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ जाग॑तो॒ वा आ᳚ग्रय॒णो जाग॑तन्तृ॒तीय॒मह॒स्तस्मा᳚त् तृ॒तीयेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद्वै [२७] य॒ज्ञमा॑प॒द्यच्छन्दा॑ꣴस्या॒प्नोति॒ यदा᳚ग्रय॒णः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न् तत॑ ए॒वैन॒म्पुनः॒ प्रयु॑ङ्क्ते॒ जग॑न्मुखो॒ वै द्वि॒तीय॑स्त्रिरा॒त्रो जाग॑त आग्रय॒णो यच्च॑तु॒र्थेऽह॑न्नाग्रय॒णो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒ राथ॑न्तरो॒ वा ऐ᳚न्द्रवाय॒वो राथ॑न्तरम्पञ्च॒ममह॒स्तस्मा᳚त् पञ्च॒मेऽह॑ [२८] न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति॒ बार्‌ह॑तो॒ वै शु॒क्रो बार्‌ह॑तꣳ ष॒ष्ठमह॒स्तस्मा᳚थ् ष॒ष्ठेऽह॑ञ्छु॒क्रो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒तद्वै द्वि॒तीय॑य्ँय॒ज्ञमा॑प॒द्यच्छन्दा॑ꣴस्या॒प्नोति॒ यच्छु॒क्रः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न् तत॑ ए॒वैन॒म्पुनः॒ प्रयु॑ङ्क्ते त्रि॒ष्टुङ्मु॑खो॒ वै तृ॒तीय॑स्त्रिरा॒त्रस्त्रैष्टु॑भः [२९] शु॒क्रो यथ् स॑प्त॒मेऽह॑ञ्छु॒क्रो गृ॒ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णा॒त्यथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते॒ वाग्वा आ᳚ग्रय॒णो वाग॑ष्ट॒ममह॒स्तस्मा॑दष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णाति प्रा॒णो वा ऐ᳚न्द्रवाय॒वः प्रा॒णो न॑व॒ममह॒स्तस्मा᳚न्नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ स्व ए॒वैन॑मा॒यत॑ने गृह्णात्ये॒त [३०] द्वै तृ॒तीय॑य्ँय॒ज्ञमा॑प॒द्यच्छन्दा॑ꣴस्या॒प्नोति॒ यदै᳚न्द्रवाय॒वः श्वो गृ॒ह्यते॒ यत्रै॒व य॒ज्ञमदृ॑श॒न् तत॑ ए॒वैन॒म्पुनः॒ प्रयु॒ङ्क्तेऽथो॒ स्वमे॒व छन्दोऽनु॑ प॒र्याव॑र्तन्ते प॒थो वा ए॒तेऽद्ध्यप॑थेन यन्ति॒ ये᳚ऽन्येनै᳚न्द्रवाय॒वात् प्र॑ति॒पद्य॒न्तेऽन्तः॒ खलु॒ वा ए॒ष य॒ज्ञस्य॒ यद्द॑श॒ममह॑र्दश॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते य॒ज्ञस्यै॒ [३१] वान्त॑ङ्ग॒त्वाऽप॑था॒त् पन्था॒मपि॑ य॒न्त्यथो॒ यथा॒ वही॑यसा प्रति॒सार॒व्ँवह॑न्ति ता॒दृगे॒व तच्छन्दा॑ꣴस्य॒न्यो᳚ऽन्यस्य॑ लो॒कम॒भ्य॑द्ध्याय॒न् तान्ये॒तेनै॒व दे॒वा व्य॑वाहयन्नैन्द्रवाय॒वस्य॒ वा ए॒तदा॒यत॑न॒य्ँयच्च॑तु॒र्थमह॒स्तस्मि॑न्नाग्रय॒णो गृ॑ह्यते॒ तस्मा॑दाग्रय॒णस्या॒ऽऽ*यत॑ने नव॒मेऽह॑न्नैन्द्रवाय॒वो गृ॑ह्यते शु॒क्रस्य॒ वा ए॒तदा॒यत॑न॒य्ँयत् प॑ञ्च॒म [३२] मह॒स्तस्मि॑न्नैन्द्रवाय॒वो गृ॑ह्यते॒ तस्मा॑दैन्द्रवाय॒वस्या॒ऽऽ*यत॑ने सप्त॒मेऽह॑ञ्छु॒क्रो गृ॑ह्यत आग्रय॒णस्य॒ वा ए॒तदा॒यत॑न॒य्ँयथ् ष॒ष्ठमह॒स्तस्मि॑ञ्छु॒क्रो गृ॑ह्यते॒ तस्मा᳚च्छु॒क्रस्या॒ऽऽ*यत॑नेऽष्ट॒मेऽह॑न्नाग्रय॒णो गृ॑ह्यते॒ छन्दा॑ꣴस्ये॒व तद्वि वा॑हयति॒ प्र वस्य॑सो विवा॒हमा᳚प्नोति॒ य ए॒वव्ँवेदाथो॑ दे॒वता᳚भ्य ए॒व य॒ज्ञे स॒व्ँविद॑न्दधाति॒ तस्मा॑दि॒दम॒न्यो᳚ऽन्यस्मै॑ ददाति⁠ [३३] (ए॒तद्वै प॑ञ्च॒मेऽह॒न् त्रैष्टु॑भ ए॒तद् गृ॑ह्यते य॒ज्ञस्य॑ पञ्च॒म म॒न्यस्मा॒ एक॑ञ्च) ॥८॥
प्र॒जाप॑तिरकामयत॒ प्र जा॑ये॒येति॒ स ए॒तन्द्वा॑दशरा॒त्रम॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै स प्राजा॑यत॒ यः का॒मये॑त॒ प्र जा॑ये॒येति॒ स द्वा॑दशरा॒त्रेण॑ यजेत॒ प्रैव जा॑यते ब्रह्मवा॒दिनो॑ वदन्त्यग्निष्टो॒मप्रा॑यणा य॒ज्ञा अथ॒ कस्मा॑दतिरा॒त्रः पूर्वः॒ प्र यु॑ज्यत॒ इति॒ चख्‍षु॑षी॒ वा ए॒ते य॒ज्ञस्य॒ यद॑तिरा॒त्रौ क॒नीनि॑के अग्निष्टो॒मौ य [३४] द॑ग्निष्टो॒मम्पूर्व॑म्प्रयुञ्जी॒रन् ब॑हि॒द्‌र्धा क॒नीनि॑के दद्ध्यु॒स्तस्मा॑दतिरा॒त्रः पूर्वः॒ प्र यु॑ज्यते॒ चख्‍षु॑षी ए॒व य॒ज्ञे धि॒त्वा म॑द्ध्य॒तः क॒नीनि॑के॒ प्रति॑ दधति॒ यो वै गा॑य॒त्रीञ्ज्योतिः॑पख्‍षा॒व्ँवेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गल्ँलो॒कमे॑ति॒ याव॑ग्निष्टो॒मौ तौ प॒ख्‍षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः᳚ स आ॒त्मैषा वै गा॑य॒त्री ज्योतिः॑पख्‍षा॒ य ए॒वव्ँवेद॒ ज्योति॑षा भा॒सा सु॑व॒र्गल्ँलो॒क [३५] मे॑ति प्र॒जाप॑ति॒र्वा ए॒ष द्वा॑दश॒धा विहि॑तो॒ यद् द्वा॑दशरा॒त्रो याव॑तिरा॒त्रौ तौ प॒ख्‍षौ येऽन्त॑रे॒ऽष्टावु॒क्थ्याः᳚ स आ॒त्मा प्र॒जाप॑ति॒र्वावैष सन्थ्सद्ध॒ वै स॒त्रेण॑ स्पृणोति प्रा॒णा वै सत् प्रा॒णाने॒व स्पृ॑णोति॒ सर्वा॑सा॒व्ँवा ए॒ते प्र॒जाना᳚म्प्रा॒णैरा॑सते॒ ये स॒त्रमास॑ते॒ तस्मा᳚त् पृच्छन्ति॒ किमे॒ते स॒त्रिण॒ इति॑ प्रि॒यः प्र॒जाना॒ मुत्थि॑तो भवति॒ य ए॒वव्ँवेद॑⁠ [३६] (अ॒ग्नि॒ष्टो॒मौ यथ् सु॑व॒र्गल्ँलो॒कं प्रि॒यः प्र॒जानां॒ पञ्च॑ च) ॥९॥
न वा ए॒षो᳚ऽन्यतो॑वैश्वानरः सुव॒र्गाय॑ लो॒काय॒ प्राभ॑वदू॒द्‌र्ध्वो ह॒ वा ए॒ष आत॑त आसी॒त् ते दे॒वा ए॒तव्ँवै᳚श्वान॒रम्पर्यौ॑हन्थ् सुव॒र्गस्य॑ लो॒कस्य॒ प्रभू᳚त्या ऋ॒तवो॒ वा ए॒तेन॑ प्र॒जाप॑तिमयाजय॒न् तेष्वा᳚द्‌र्ध्नो॒दधि॒ तदृ॒द्ध्नोति॑ ह॒ वा ऋ॒त्विख्‍षु॒ य ए॒वव्ँवि॒द्वान् द्वा॑दशा॒हेन॒ यज॑ते॒ ते᳚ऽस्मिन्नैच्छन्त॒ स रस॒मह॑ वस॒न्ताय॒ प्राय॑च्छ॒ [३७] द्यव॑ङ्ग्री॒ष्मायौष॑धीर्व॒र्॒‌षाभ्यो᳚ व्री॒हीञ्छ॒रदे॑ माषति॒लौ हे॑मन्तशिशि॒राभ्या॒न्तेनेन्द्र॑म्प्र॒जाप॑तिरयाजय॒त् ततो॒ वा इन्द्र॒ इन्द्रो॑ऽभव॒त् तस्मा॑दाहुरानुजाव॒रस्य॑ य॒ज्ञ इति॒ स ह्ये॑तेनाऽग्रेऽय॑जतै॒ष ह॒ वै कु॒णप॑मत्ति॒ यः स॒त्रे प्र॑तिगृ॒ह्णाति॑ पुरुषकुण॒पम॑श्वकुण॒पङ्गौर्वा अन्न॒य्ँयेन॒ पात्रे॒णान्न॒म्बिभ्र॑ति॒ यत् तन्न नि॒र्णेनि॑जति॒ ततोऽधि॒ [३८] मल॑ञ्जायत॒ एक॑ ए॒व य॑जे॒तैको॒ हि प्र॒जाप॑ति॒राद्‌र्ध्नो॒द् द्वाद॑श॒ रात्री᳚र्दीख्‍षि॒तः स्या॒द् द्वाद॑श॒ मासाः᳚ सव्ँवथ्स॒रः स॑व्ँवथ्स॒रः प्र॒जाप॑तिः प्र॒जाप॑ति॒र्वावैष ए॒ष ह॒ त्वै जा॑यते॒ यस्तप॒सोऽधि॒ जाय॑ते चतु॒द्‌र्धा वा ए॒तास्ति॒स्रस्ति॑स्रो॒ रात्र॑यो॒ यद् द्वाद॑शोप॒सदो॒ याः प्र॑थ॒मा य॒ज्ञन्ताभिः॒ सम्भ॑रति॒ या द्वि॒तीया॑ य॒ज्ञन्ताभि॒रा र॑भते॒ [३९] यास्तृ॒तीयाः॒ पात्रा॑णि॒ ताभि॒र्निर्णे॑निक्ते॒ याश्च॑तु॒र्थीरपि॒ ताभि॑रा॒त्मान॑मन्तर॒तः शु॑न्धते॒ यो वा अ॑स्य प॒शुमत्ति॑ मा॒ꣳ॒सꣳ सो᳚ऽत्ति॒ यः पु॑रो॒डाश॑म्म॒स्तिष्क॒ꣳ॒ स यः प॑रिवा॒पम्पुरी॑ष॒ꣳ॒ स य आज्य॑म्म॒ज्जान॒ꣳ॒ स यः सोम॒ꣴ॒ स्वेद॒ꣳ॒ सोऽपि॑ ह॒ वा अ॑स्य शीर्‌ष॒ण्या॑ नि॒ष्पदः॒ प्रति॑ गृह्णाति॒ यो द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॒ तस्मा᳚द् द्वादशा॒हेन॒ न याज्य॑म्पा॒प्मनो॒ व्यावृ॑त्त्यै⁠ [४०] (अय॑च्छ॒ दधि॑ रभते द्वादशा॒हेन॑ च॒त्वारि॑ च) ॥१०॥
एक॑स्मै॒ स्वाहा॒ द्वाभ्या॒ꣴ॒ स्वाहा᳚ त्रि॒भ्यः स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहा॑ स॒प्तभ्यः॒ स्वाहा᳚ऽष्टा॒भ्यः स्वाहा॑ न॒वभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहै॑ काद॒शभ्यः॒ स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा᳚ त्रयोद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहा᳚ऽष्टाद॒शभ्यः॒ स्वाहैका॒न्न वि॑ꣳश॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒ स्वाहैका॒न्न च॑त्वारि॒ꣳ॒शते॒ स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहै का॒न्नाशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्या॑ꣳ श॒ताभ्या॒ꣴ॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४१] (नव॑चत्वारिꣳशते॒ स्वाहैका॒न्नैक॑विꣳशतिश्च) ॥११॥
एक॑स्मै॒ स्वाहा᳚ त्रि॒भ्यः स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ स॒प्तभ्यः॒ स्वाहा॑ न॒वभ्यः॒ स्वाहै॑ काद॒शभ्यः॒ स्वाहा᳚ त्रयोद॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहैका॒न्न वि॑ꣳश॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒ स्वाहैका॒न्न च॑त्वारि॒ꣳ॒शते॒ स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्ना शी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४२] (एक॑स्मै त्रि॒भ्यः प॑ञ्चा॒शत्) ॥१२॥
द्वाभ्या॒ꣴ॒ स्वाहा॑ च॒तुर्भ्यः॒ स्वाहा॑ ष॒ड्भ्यः स्वाहा᳚ऽष्टा॒भ्यः स्वाहा॑ द॒शभ्यः॒ स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा॑ चतुर्द॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा᳚ऽष्टाद॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा॒ऽष्टान॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४३] (द्वाभ्या॑म॒ष्टान॑वत्यै॒ षड्वि॑ꣳशतिः) ॥१३॥
त्रि॒भ्यः स्वाहा॑ प॒ञ्चभ्यः॒ स्वाहा॑ स॒प्तभ्यः॒ स्वाहा॑ न॒वभ्यः॒ स्वाहै॑काद॒शभ्यः॒ स्वाहा᳚ त्रयोद॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ सप्तद॒शभ्यः॒ स्वाहैका॒न्न वि॑ꣳश॒त्यै स्वाहा॒ नव॑विꣳशत्यै॒ स्वाहैका॒न्न च॑त्वारि॒ꣳ॒शते॒ स्वाहा॒ नव॑चत्वारिꣳशते॒ स्वाहैका॒न्न ष॒ष्ट्यै स्वाहा॒ नव॑षष्ट्यै॒ स्वाहैका॒न्नाऽशी॒त्यै स्वाहा॒ नवा॑शीत्यै॒ स्वाहैका॒न्न श॒ताय॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४४] (त्रि॒भ्यो᳚ ऽष्टाचत्वारि॒ꣳ॒शत्) ॥१४॥
च॒तुर्भ्यः॒ स्वाहा᳚ऽष्टा॒भ्यः स्वाहा᳚ द्वाद॒शभ्यः॒ स्वाहा॑ षोड॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा॒ षण्ण॑वत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४५] (च॒तुर्भ्यः॒ षण्ण॑वत्यै॒ षोड॑श) ॥१५॥
प॒ञ्चभ्यः॒ स्वाहा॑ द॒शभ्यः॒ स्वाहा॑ पञ्चद॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा॒ पञ्च॑नवत्यै॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४६] (प॒ञ्चभ्यः॒ पञ्च॑नवत्यै॒ चतु॑र्दश) ॥१६॥
द॒शभ्यः॒ स्वाहा॑ विꣳश॒त्यै स्वाहा᳚ त्रि॒ꣳ॒शते॒ स्वाहा॑ चत्वारि॒ꣳ॒शते॒ स्वाहा॑ पञ्चा॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑ सप्त॒त्यै स्वाहा॑ऽशी॒त्यै स्वाहा॑ नव॒त्यै स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४७] (द॒शभ्यो॒ द्वावि॑ꣳशतिः) ॥१७॥
वि॒ꣳ॒श॒त्यै स्वाहा॑ चत्वारि॒ꣳ॒शते॒ स्वाहा॑ ष॒ष्ट्यै स्वाहा॑ऽशी॒त्यै स्वाहा॑ श॒ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४८] (वि॒ꣳ॒श॒त्यै द्वाद॑श) ॥१८॥
प॒ञ्चा॒शते॒ स्वाहा॑ श॒ताय॒ स्वाहा॒ द्वाभ्या॑ꣳ श॒ताभ्या॒ꣴ॒ स्वाहा᳚ त्रि॒भ्यः श॒तेभ्यः॒ स्वाहा॑ च॒तुर्भ्यः॑ श॒तेभ्यः॒ स्वाहा॑ प॒ञ्चभ्यः॑ श॒तेभ्यः॒ स्वाहा॑ ष॒ड्भ्यः श॒तेभ्यः॒ स्वाहा॑ स॒प्तभ्यः॑ श॒तेभ्यः॒ स्वाहा᳚ऽष्टा॒भ्यः श॒तेभ्यः॒ स्वाहा॑ न॒वभ्यः॑ श॒तेभ्यः॒ स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४९] (प॒ञ्चा॒शते॒ द्वात्रि॑ꣳशत्) ॥१९॥
श॒ताय॒ स्वाहा॑ स॒हस्रा॑य॒ स्वाहा॒ऽयुता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा᳚ प्र॒युता॑य॒ स्वाहाऽर्बु॑दाय॒ स्वाहा॒ न्य॑र्बुदाय॒ स्वाहा॑ समु॒द्राय॒ स्वाहा॒ मद्ध्या॑य॒ स्वाहाऽन्ता॑य॒ स्वाहा॑ परा॒द्‌र्धाय॒ स्वाहो॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहो᳚द्य॒ते स्वाहोदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [५०] (श॒ताया॒ऽष्टात्रि॑ꣳशत्) ॥२०॥
(सा॒ध्याः ष॑ड् रा॒त्रं कु॑सुरु॒बिन्दः॑ सप्तरा॒त्रं बृह॒स्पति॑रष्टरा॒त्रं प्र॒जाप॑ति॒स्ताः ख्‍षुध॑न्नवरा॒त्रं प्र॒जाप॑तिरकामयत॒ दश॑होतारात्र मृ॒तव॑ ऐन्द्रवाय॒वाग्रा᳚न् गाय॒त्रो वै प्र॒जाप॑तिः॒ स द्वा॑दशरा॒त्रं न वा एक॑स्मा॒ एक॑स्मै॒ द्वाभ्यां᳚ त्रि॒भ्यः च॒तुर्भ्यः॑ प॒ञ्चभ्यो॑ द॒शभ्यो॑ विꣳश॒त्यै प॑ञ्चा॒शते॑ श॒ताय॑ विꣳश॒तिः)
(सा॒ध्या अ॑स्मा इ॒मे लो॒का गा॑य॒त्रं वै तृ॒तीय॒ मेक॑स्मै पञ्चा॒शत्)
(सा॒ध्याः सर्व॑स्मै॒ स्वाहा᳚)
अनुवाकाः पञ्चशती
२० ५०