कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
सप्तमकाण्डे चतुर्थः प्रश्नः

कांड ७ प्रश्न ४
सत्रकर्मनिरूपणं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
बृह॒स्पति॑रकामयत॒ श्रन्मे॑ दे॒वा दधी॑र॒न् गच्छे॑यम्पुरो॒धामिति॒ स ए॒तञ्च॑तुर्विꣳशतिरा॒त्रम॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑ध॒ताग॑च्छत् पुरो॒धाय्ँय ए॒वव्ँवि॒द्वाꣳस॑ श्चतुर्विꣳशतिरा॒त्रमास॑ते॒ श्रदे᳚भ्यो मनु॒ष्या॑ दधते॒ गच्छ॑न्ति पुरो॒धाञ्ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यव्ँवाव ज्योति॑र॒न्तरि॑ख्‍ष॒ङ्गौर॒सावायु॑ [१] रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभि पू॒र्वन्त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गल्ँलो॒कम॒भ्यारो॑ह॒न्त्यस॑त्र॒व्ँवा ए॒तद्यद॑छन्दो॒मय्ँयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति बृहद्रथन्त॒राभ्या᳚य्ँयन्ती॒यव्ँवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व [२] य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँलो॒कय्ँय॑न्ति चतुर्विꣳशतिरा॒त्रो भ॑वति॒ चतु॑र्विꣳशतिरद्‌र्धमा॒साः स॑व्ँवथ्स॒रः स॑व्ँवथ्स॒रः सु॑व॒र्गो लो॒कः स॑व्ँवथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विꣳशत्यख्‍षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै⁠ [३] (अ॒सावायु॑ रा॒भ्यामे॒व पञ्च॑चत्वारिꣳशच्च) ॥१॥
यथा॒ वै म॑नु॒ष्या॑ ए॒वन्दे॒वा अग्र॑ आस॒न् ते॑ऽकामय॒न्ताव॑र्तिम्पा॒प्मान॑म्मृ॒त्युम॑प॒हत्य॒ दैवी॑ꣳ स॒ꣳ॒सद॑ङ्गच्छे॒मेति॒ त ए॒तञ्च॑तुर्विꣳशतिरा॒त्रम॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै तेऽव॑र्तिम्पा॒प्मान॑म्मृ॒त्युम॑प॒हत्य॒ दैवी॑ꣳ स॒ꣳ॒सद॑मगच्छ॒न्॒‌य ए॒वव्ँवि॒द्वाꣳस॑श्चतुर्विꣳशतिरा॒त्रमास॒तेऽव॑र्तिमे॒व पा॒प्मान॑मप॒हत्य॒ श्रिय॑ङ्गच्छन्ति॒ श्रीर्‌हि म॑नु॒ष्य॑स्य॒ [४] दैवी॑ स॒ꣳ॒सज्ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड् वा ऋ॒तवः॑ सव्ँवथ्स॒रस्तम्मासा॑ अद्‌र्धमा॒सा ऋ॒तवः॑ प्र॒विश्य॒ दैवी॑ꣳ स॒ꣳ॒सद॑मगच्छ॒न्॒‌य ए॒वव्ँवि॒द्वाꣳस॑श्चतुर्विꣳशतिरा॒त्रमास॑ते सव्ँवथ्स॒रमे॒व प्र॒विश्य॒ वस्य॑सीꣳ स॒ꣳ॒सद॑ङ्गच्छन्ति॒ त्रय॑स्त्रयस्त्रि॒ꣳ॒शा अ॒वस्ता᳚द्भवन्ति॒ त्रय॑स्त्रयस्त्रि॒ꣳ॒शाः प॒रस्ता᳚त् त्रयस्त्रि॒ꣳ॒शैरे॒वोभ॒यतोऽव॑र्तिम्पा॒प्मान॑मप॒हत्य॒ दैवी॑ꣳ स॒ꣳ॒सद॑म्मद्ध्य॒तो [५] ग॑च्छन्ति पृ॒ष्ठानि॒ हि दैवी॑ स॒ꣳ॒सज्जा॒मि वा ए॒तत् कु॑र्वन्ति॒ यत् त्रय॑स्त्रयस्त्रि॒ꣳ॒शा अ॒न्वञ्चो॒ मद्ध्येऽनि॑रुक्तो भवति॒ तेनाजा᳚म्यू॒द्‌र्ध्वानि॑ पृ॒ष्ठानि॑ भवन्त्यू॒द्‌र्ध्वाः छ॑न्दो॒मा उ॒भाभ्या॑ꣳ रू॒पाभ्या॑ꣳ सुव॒र्गल्ँलो॒कय्ँय॒न्त्यस॑त्र॒व्ँवा ए॒तद्यद॑छन्दो॒मय्ँयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शवः॑ [६] छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति॒ त्रय॑स्त्रयस्त्रि॒ꣳ॒शा अ॒वस्ता᳚द्भवन्ति॒ त्रय॑स्त्रयस्त्रि॒ꣳ॒शाः प॒रस्ता॒न्मद्ध्ये॑ पृ॒ष्ठान्युरो॒ वै त्र॑यस्त्रि॒ꣳ॒शा आ॒त्मा पृ॒ष्ठान्या॒त्मन॑ ए॒व तद्यज॑मानाः॒ शर्म॑ नह्य॒न्तेऽना᳚र्त्यै बृहद्रथन्त॒राभ्या᳚य्ँयन्ती॒यव्ँवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व [७] सु॑व॒र्गल्ँलो॒कय्ँय॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँलो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ् ख्‍ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर॑ ऋ॒द्ध्वोत् ति॑ष्ठन्ति त्रि॒वृतोऽधि॑ त्रि॒वृत॒मुप॑ यन्ति॒ स्तोमा॑ना॒ꣳ॒ संप॑त्त्यै प्रभ॒वाय॒ ज्योति॑रग्निष्टो॒मो भ॑वत्य॒यव्ँवाव स ख्‍षयो॒ऽस्मादे॒व तेन॒ ख्‍षया॒न्न य॑न्ति चतुर्विꣳशतिरा॒त्रो भ॑वति॒ चतु॑र्विꣳशतिरद्‌र्धमा॒साः स॑व्ँवथ्स॒रः स॑व्ँवथ्स॒रः सु॑व॒र्गो लो॒कः स॑व्ँवथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विꣳशत्यख्‍षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सङ्गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै⁠ [८] (म॒नु॒ष्य॑स्य मध्य॒तः प॒शव॒ स्ताभ्या॑मे॒व स॑व्ँवथ्स॒र श्चतु॑र्विꣳशतिश्च) ॥२॥
ऋ॒ख्‍षा वा इ॒यम॑लो॒मका॑ऽऽसी॒थ् साऽका॑मय॒तौष॑धीभि॒र्वन॒स्पति॑भिः॒ प्र जा॑ये॒येति॒ सैतास्त्रि॒ꣳ॒शत॒ꣳ॒ रात्री॑रपश्य॒त् ततो॒ वा इ॒यमोष॑धीभि॒र्वन॒स्पति॑भिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीर॒न् प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑रि॒यव्ँवा अ॑ख्‍षुद्ध्य॒थ् सैताव्ँवि॒राज॑मपश्य॒त् तामा॒त्मन् धि॒त्वाऽन्नाद्य॒मवा॑ रु॒न्धौष॑धी॒ [९] र्वन॒स्पती᳚न् प्र॒जाम्प॒शून् तेना॑वद्‌र्धत॒ सा जे॒मान॑म्महि॒मान॑मगच्छ॒द्य ए॒वव्ँवि॒द्वाꣳस॑ ए॒ता आस॑ते वि॒राज॑मे॒वाऽऽ*त्मन् धि॒त्वाऽन्नाद्य॒मव॑ रुन्धते॒ वद्‌र्ध॑न्ते प्र॒जया॑ प॒शुभि॑र्जे॒मान॑म्महि॒मान॑ङ्गच्छन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड् वा ऋ॒तवः॒ षट् पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तुभिः॑ सव्ँवथ्स॒रन्ते स॑व्ँवथ्स॒र ए॒व [१०] प्रति॑ तिष्ठन्ति त्रयस्त्रि॒ꣳ॒शात् त्र॑यस्त्रि॒ꣳ॒शमुप॑ यन्ति य॒ज्ञस्य॒ संत॑त्या॒ अथो᳚ प्र॒जाप॑ति॒र्वै त्र॑यस्त्रि॒ꣳ॒शः प्र॒जाप॑तिमे॒वाऽऽ*र॑भन्ते॒ प्रति॑ष्ठित्यै त्रिण॒वो भ॑वति॒ विजि॑त्या एकवि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् द॑धते त्रि॒वृद॑ग्नि॒ष्टुद्भ॑वति पा॒प्मान॑मे॒व तेन॒ निर्द॑ह॒न्तेऽथो॒ तेजो॒ वै त्रि॒वृत् तेज॑ ए॒वाऽऽत्मन् द॑धते पञ्चद॒श इ॑न्द्रस्तो॒मो भ॑वतीन्द्रि॒यमे॒वाव॑ [११] रुन्धते सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्या व॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒ꣳ॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् द॑धते चतुर्वि॒ꣳ॒शो भ॑वति॒ चतु॑र्विꣳशतिरद्‌र्धमा॒साः स॑व्ँवथ्स॒रः स॑व्ँवथ्स॒रः सु॑व॒र्गो लो॒कः स॑व्ँवथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॑ ए॒ष वै वि॑षू॒वान् वि॑षू॒वन्तो॑ भवन्ति॒ य ए॒वव्ँवि॒द्वाꣳस॑ ए॒ता आस॑ते चतुर्वि॒ꣳ॒शात् पृ॒ष्ठान्युप॑ यन्ति सव्ँवथ्स॒र ए॒व प्र॑ति॒ष्ठाय॑ [१२] दे॒वता॑ अ॒भ्यारो॑हन्ति त्रयस्त्रि॒ꣳ॒शात् त्र॑यस्त्रि॒ꣳ॒शमुप॑ यन्ति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑ तिष्ठन्ति त्रिण॒वो भ॑वती॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ द्वावे॑कवि॒ꣳ॒शौ भ॑वतः॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् द॑धते ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ तस्मा᳚द्ब॒हवः॑ प्र॒जासु॒ वृषा॑णो॒ यदे॒ते स्तोमा॒ व्यति॑षक्ता॒ भव॑न्ति॒ तस्मा॑दि॒य मोष॑धीभि॒र्वन॒स्पति॑भि॒र्व्यति॑षक्ता॒ [१३] व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र्य ए॒वव्ँवि॒द्वाꣳस॑ ए॒ता आस॒तेऽक्लृ॑प्ता॒ वा ए॒ते सु॑व॒र्गल्ँलो॒कय्ँय॑न्त्युच्चाव॒चान् हि स्तोमा॑नुप॒यन्ति॒ यदे॒त ऊ॒द्‌र्ध्वाः क्लृ॒प्ताः स्तोमा॒ भव॑न्ति क्लृ॒प्ता ए॒व सु॑व॒र्गल्ँलो॒कय्ँय॑न्त्यु॒भयो॑रे॒भ्यो लो॒कयोः᳚ कल्पते त्रि॒ꣳ॒शदे॒तास्त्रि॒ꣳ॒शद॑ख्‍षरा वि॒राडन्नं॑ वि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्धतेऽतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै⁠ [१४] (ओष॑धीः सव्ँवथ्स॒र ए॒वा ऽव॑ प्रति॒ष्ठाय॒ व्यति॑ष॒क्त्यै का॒न्नप॑ञ्चा॒शच्च॑) ॥३॥
प्र॒जाप॑तिः सुव॒र्गल्ँलो॒कमै॒त् तन्दे॒वा येन॑येन॒ छन्द॒साऽनु॒ प्रायु॑ञ्जत॒ तेन॒ नाऽऽ*प्नु॑व॒न् त ए॒ता द्वात्रि॑ꣳशत॒ꣳ॒ रात्री॑रपश्य॒न् द्वात्रि॑ꣳशदख्‍षराऽनु॒ष्टुगानु॑ष्टुभः प्र॒जाप॑तिः॒ स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वाऽभ्या॒रुह्य॑ सुव॒र्गल्ँलो॒कमा॑य॒न्॒‌य ए॒वव्ँवि॒द्वाꣳस॑ ए॒ता आस॑ते॒ द्वात्रि॑ꣳशदे॒ता द्वात्रि॑ꣳशदख्‍षराऽनु॒ष्टुगानु॑ष्टुभः प्र॒जाप॑तिः॒ स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वा श्रिय॑ङ्गच्छन्ति॒ [१५] श्रीर्‌हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒को द्वात्रि॑ꣳशदे॒ता द्वात्रि॑ꣳशदख्‍षराऽनु॒ष्टुग्वाग॑नु॒ष्टुफ् सर्वा॑मे॒व वाच॑माप्नुवन्ति॒ सर्वे॑ वा॒चो व॑दि॒तारो॑ भवन्ति॒ सर्वे॒ हि श्रिय॒ङ्गच्छ॑न्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यव्ँवाव ज्योति॑र॒न्तरि॑ख्‍ष॒ङ्गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वन्त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गल्ँलो॒कम॒भ्यारो॑हन्ति बृहद्रथन्त॒राभ्या᳚य्ँयन्ती॒ [१६] यव्ँवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञस्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गल्ँलो॒कय्ँय॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गल्ँलो॒कम॒भ्यारो॑हन्ति॒ ये परा॑चस्त्र्य॒हानु॑प॒यन्ति॑ प्र॒त्यङ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयो॑र् ऋ॒द्ध्वोत् ति॑ष्ठन्ति॒ द्वात्रि॑ꣳशदे॒तास्तासा॒य्ँया स्त्रि॒ꣳ॒शत् त्रि॒ꣳ॒शद॑ख्‍षरा वि॒राडन्न॑व्ँवि॒राड् वि॒राजै॒वाऽन्नाद्य॒मव॑ रुन्धते॒ ये द्वे अ॑होरा॒त्रे ए॒व ते उ॒भाभ्या॑ꣳ रू॒पाभ्या॑ꣳ सुव॒र्गल्ँलो॒कय्ँय॑न्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै⁠ [१७] (ग॒च्छ॒न्ति॒ य॒न्ति॒ त्रि॒ꣳ॒शद॑ख्‍षरा॒ द्वावि॑ꣳशतिश्च) ॥४॥
द्वे वाव दे॑वस॒त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिꣳशद॒हश्च॒ य ए॒वव्ँवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते सा॒ख्‍षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विद्ध्य॑ति॒ पापी॑यान् भवति॒ यदि॒ नाव॒विद्ध्य॑ति स॒दृङ् य ए॒वव्ँवि॒द्वाꣳस॑स्त्रयस्त्रिꣳ शद॒हमास॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाऽऽ* व॑र्तन्तेऽह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आऽह॑र॒ [१८] न्नह॒रेकोऽभ॑ज॒ताह॒रेक॒स्ताभि॒र्वैते प्र॒बाहु॑गाद्‌र्ध्नुव॒न्॒‌य ए॒वव्ँवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑गृद्ध्नुवन्ति॒ सर्वे॒ ग्राम॑णीय॒म्प्राप्नु॑वन्ति पञ्चा॒हा भ॑वन्ति॒ पञ्च॒ वा ऋ॒तवः॑ सव्ँवथ्स॒र ऋ॒तुष्वे॒व स॑व्ँवथ्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा᳚ख्‍षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञमे॒वाव॑ रुन्धते॒ त्रीण्या᳚श्वि॒नानि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒ [१९] ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यथो॒ त्रीणि॒ वै य॒ज्ञस्ये᳚न्द्रि॒याणि॒ तान्ये॒वाव॑ रुन्धते विश्व॒जिद्भ॑वत्य॒न्नाद्य॒स्या व॑रुद्ध्यै॒ सर्व॑पृष्ठो भवति॒ सर्व॑स्या॒भिजि॑त्यै॒ वाग्वै द्वा॑दशा॒हो यत् पु॒रस्ता᳚द् द्वादशा॒हमु॑पे॒युरना᳚प्ता॒व्ँवाच॒मुपे॑युरुप॒दासु॑कैषा॒व्ँवाख् स्या॑दु॒परि॑ष्टाद् द्वादशा॒हमुप॑ यन्त्या॒प्तामे॒व वाच॒मुप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टाद्वा॒चा व॑दामोऽवान्त॒र [२०] व्ँवै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद् यज॑मानाः सृजन्त ए॒ताꣳ ह॒ वा उ॑द॒ङ्कः शौ᳚ल्बाय॒नः स॒त्रस्यर्द्धि॑मुवाच॒ यद् द॑शरा॒त्रो यद् द॑शरा॒त्रो भव॑ति स॒त्रस्यद्‌र्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्ति॑द्‌र्व्यनी॒का वा ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जिथ् स॒हाति॑रा॒त्रेण॒ पूर्वाः॒ षोड॑श स॒हा ति॑रा॒त्रेणोत्त॑राः॒ षोड॑श॒ य ए॒वव्ँवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑त॒ ऐषा᳚न्द्व्यनी॒का प्र॒जा जा॑यतेऽतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै⁠ [२१] (अ॒ह॒र॒ न्ने॒ष्व॑ वान्त॒रꣳ षोड॑श स॒ह स॒प्तद॑श च) ॥५॥
आ॒दि॒त्या अ॑कामयन्त सुव॒र्गल्ँलो॒कमि॑या॒मेति॒ ते सु॑व॒र्गल्ँलो॒कन्न प्राजा॑न॒न्न सु॑व॒र्गल्ँलो॒कमा॑य॒न् त ए॒तꣳ ष॑ट्त्रिꣳशद्रा॒त्रम॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गल्ँलो॒कम्प्राजा॑नन्थ् सुव॒र्गल्ँलो॒कमा॑य॒न्॒‌य ए॒वव्ँवि॒द्वाꣳसः॑ षट्त्रिꣳशद् रा॒त्रमास॑ते सुव॒र्गमे॒व लोकम्प्र जा॑नन्ति सुव॒र्गल्ँलो॒कय्ँय॑न्ति॒ ज्योति॑रतिरा॒त्रो [२२] भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द् दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै षड॒हा भ॑वन्ति॒ षड् वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति च॒त्वारो॑ भवन्ति॒ चत॑स्रो॒ दिशो॑ दि॒ख्‍ष्वे॑व प्रति॑ तिष्ठ॒न्त्यस॑त्र॒व्ँवा ए॒तद्यद॑छन्दो॒मय्ँयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रन्दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्य॑म्पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व [२३] वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति षट्त्रिꣳशद् रा॒त्रो भ॑वति॒ षट्त्रि॑ꣳशदख्‍षरा बृह॒ती बार्‌ह॑ताः प॒शवो॑ बृह॒त्यैव प॒शूनव॑ रुन्धते बृह॒ती छन्द॑सा॒ꣴ॒ स्वारा᳚ज्यमाश्नुताश्नु॒वते॒ स्वारा᳚ज्य॒य्ँय ए॒वव्ँवि॒द्वाꣳसः॑ षट्त्रिꣳशद् रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कय्ँय॑न्त्यतिरा॒त्राव॒भितो॑ भवतः सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै⁠ [२४] (अ॒ति॒रा॒त्र ओज॑स्ये॒व षट्त्रि॑ꣳशच्च) ॥६॥
वसि॑ष्ठो ह॒तपु॑त्रोऽकामयत वि॒न्देय॑ प्र॒जाम॒भि सा॑दा॒सान् भ॑वेय॒मिति॒ स ए॒तमे॑कस्मान्नपञ्चा॒शम॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै सोऽवि॑न्दत प्र॒जाम॒भि सौ॑दा॒सान॑भव॒द्य ए॒वव्ँवि॒द्वाꣳस॑ एकस्मान्नपञ्चा॒शमास॑ते वि॒न्दन्ते᳚ प्र॒जाम॒भि भ्रातृ॑व्यान् भवन्ति॒ त्रय॑स्त्रि॒वृतो᳚ऽग्निष्टो॒मा भ॑वन्ति॒ वज्र॑स्यै॒व मुख॒ꣳ॒ सꣴ श्य॑न्ति॒ दश॑ पञ्चद॒शा भ॑वन्ति पञ्चद॒शो वज्रो॒ [२५] वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्ति षोडशि॒मद्द॑श॒ममह॑र्भवति॒ वज्र॑ ए॒व वी॒र्य॑न्दधति॒ द्वाद॑श सप्तद॒शा भ॑वन्त्य॒न्नाद्य॒स्या व॑रुद्ध्या॒ अथो॒ प्रैव तैर्जा॑यन्ते॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॒ षट् पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तृभिः॑ सव्ँवथ्स॒रन्ते स॑व्ँवथ्स॒र ए॒व प्रति॑ तिष्ठन्ति॒ द्वाद॑शैकवि॒ꣳ॒शा भ॑वन्ति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् [२६] द॑धते ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ विजि॑त्यै॒ षडा᳚श्वि॒नानि॑ भवन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्यूनातिरि॒क्ता वा ए॒ता रात्र॑य ऊ॒नास्तद्यदेक॑स्यै॒ न प॑ञ्चा॒शदति॑रिक्ता॒स्तद्यद्भूय॑सीर॒ष्टाच॑त्वारिꣳशत ऊ॒नाच्च॒ खलु॒ वा अति॑रिक्ताच्च प्र॒जाप॑तिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीर॒न् प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑र्वैरा॒जो वा ए॒ष य॒ज्ञो यदे॑कस्मान्नपञ्चा॒शो य ए॒वव्ँवि॒द्वाꣳस॑ एकस्मान्नपञ्चा॒शमास॑ते वि॒राज॑मे॒व ग॑च्छन्त्यन्ना॒दा भ॑वन्त्यतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै⁠ [२७] (वज्र॑ आ॒त्मन् प्र॒जया॒ द्वावि॑ꣳशतिश्च) ॥७॥
स॒व्ँव॒थ्स॒राय॑ दीख्‍षि॒ष्यमा॑णा एकाष्ट॒काया᳚न्दीख्‍षेरन्ने॒षा वै स॑व्ँवथ्स॒रस्य॒ पत्नी॒ यदे॑काष्ट॒कैतस्या॒व्ँवा ए॒ष ए॒ताꣳ रात्रि॑व्ँवसति सा॒ख्‍षादे॒व स॑व्ँवथ्स॒रमा॒रभ्य॑ दीख्‍षन्त॒ आर्त॒व्ँवा ए॒ते स॑व्ँवथ्स॒रस्या॒भि दी᳚ख्‍षन्ते॒ य ए॑काष्ट॒काया॒न्दीख्‍ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतो॒ व्य॑स्त॒व्ँवा ए॒ते स॑व्ँवथ्स॒रस्या॒ऽभि दी᳚ख्‍षन्ते॒ य ए॑काष्ट॒काया॒न्दीख्‍ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतः फल्गुनी पूर्णमा॒से दी᳚ख्‍षेर॒न् मुख॒व्ँवा ए॒तथ् [२८] स॑व्ँवथ्स॒रस्य॒ यत् फ॑ल्गुनी पूर्णमा॒सो मु॑ख॒त ए॒व स॑व्ँवथ्स॒रमा॒रभ्य॑ दीख्‍षन्ते॒ तस्यैकै॒व नि॒र्या यथ् साम्मे᳚घ्ये विषू॒वान्थ् स॒पंद्य॑ते चित्रापूर्णमा॒से दी᳚ख्‍षेर॒न् मुख॒व्ँवा ए॒तथ् स॑व्ँवथ्स॒रस्य॒ यच्चि॑त्रापूर्णमा॒सो मु॑ख॒त ए॒व स॑व्ँवथ्स॒रमा॒रभ्य॑ दीख्‍षन्ते॒ तस्य॒ न का च॒न नि॒र्या भ॑वति चतुर॒हे पु॒रस्ता᳚त् पौर्णमा॒स्यै दी᳚ख्‍षेर॒न् तेषा॑मेकाष्ट॒काया᳚ङ्क्र॒यः सम्प॑द्यते॒ तेनै॑काष्ट॒कान्न छ॒म्बट् कु॑र्वन्ति॒ तेषां᳚ [२९] पूर्वप॒ख्‍षे सु॒त्या सम्प॑द्यते पूर्वप॒ख्‍षम्मासा॑ अ॒भि सम्प॑द्यन्ते॒ ते पू᳚र्वप॒ख्‍ष उत् ति॑ष्ठन्ति॒ तानु॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒योऽनूत् ति॑ष्ठन्ति॒ तान् क॑ल्या॒णी की॒र्तिरनूत् ति॑ष्ठ॒त्यरा᳚थ् सुरि॒मे यज॑माना॒ इति॒ तदनु॒ सर्वे॑ राद्ध्नुवन्ति⁠ [३०] (ए॒त च्छ॒बंट्कु॑र्वन्ति॒ तेषां॒ चतु॑स्त्रिꣳशच्च) ॥८॥
सु॒व॒र्गव्ँवा ए॒ते लो॒कय्ँय॑न्ति॒ ये स॒त्रमु॑प॒यन्त्य॒भीन्ध॑त ए॒व दी॒ख्‍षाभि॑रा॒त्मान॑ꣴ श्रपयन्त उप॒सद्भि॒र्द्वाभ्या॒ल्ँलोमाव॑ द्यन्ति॒ द्वाभ्या॒न्त्वच॒न्द्वाभ्या॒मसृ॒द् द्वाभ्या᳚म्मा॒ꣳ॒सन्द्वाभ्या॒मस्थि॒ द्वाभ्या᳚म्म॒ज्जान॑मा॒त्मद॑ख्‍षिण॒व्ँवै स॒त्रमा॒त्मान॑मे॒व दख्‍षि॑णान्नी॒त्वा सु॑व॒र्गल्ँलो॒कय्ँय॑न्ति॒ शिखा॒मनु॒ प्र व॑पन्त॒ ऋद्ध्या॒ अथो॒ रघी॑याꣳसः सुव॒र्गल्ँलो॒कम॑या॒मेति॑⁠ [३१] (सु॒व॒र्गं प॑ञ्चा॒शत्) ॥९॥
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रः प॑र॒मो य॑ज्ञक्रतू॒नाङ्कस्मा॒त् तम्प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा अ॑ग्निष्टो॒मम्प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒मथा॑तिरा॒त्रम॑नुपू॒र्वमे॒वैतद्य॑ज्ञक्र॒तूनु॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैतत् पिब॑न्त आसते॒ ज्योति॑ष्टोमम्प्रथ॒ममुप॑ यन्ति॒ ज्योति॑ष्टोमो॒ वै स्तोमा॑ना॒म्मुख॑म्मुख॒त ए॒व स्तोमा॒न् प्र यु॑ञ्जते॒ ते [३२] सꣴस्तु॑ता वि॒राज॑म॒भि सम्प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒याऽऽयु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राट्थ्सु॑व॒र्गमे॒व तेन॑ लो॒कय्ँय॑न्ति रथन्त॒रन्दिवा॒ भव॑ति रथन्त॒रं नक्त॒मित्या॑हुर्ब्रह्मवा॒दिनः॒ केन॒ तदजा॒मीति॑ सौभ॒रन्तृ॑तीयसव॒ने ब्र॑ह्मसा॒मम्बृ॒हत् तन्म॑द्ध्य॒तो द॑धति॒ विधृ॑त्यै॒ तेनाजा॑मि⁠ [३३] (त एका॒न्नप॑ञ्चा॒शच्च॑) ॥१०॥
ज्योति॑ष्टोमम्प्रथ॒ममुप॑ यन्त्य॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति॒ गोष्टो॑मन्द्वि॒तीय॒मुप॑ यन्त्य॒न्तरि॑ख्‍ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्त्यायु॑ष्टोमन्तृ॒तीय॒मुप॑ यन्त्य॒मुष्मि॑न्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ती॒यव्ँवाव ज्योति॑र॒न्तरि॑ख्‍ष॒ङ्गौर॒सावायु॒र्यदे॒तान्थ्स्तोमा॑नुप॒यन्त्ये॒ष्वे॑व तल्लो॒केषु॑ स॒त्रिणः॑ प्रति॒ तिष्ठ॑न्तो यन्ति॒ ते सꣴस्तु॑ता वि॒राज॑ [३४] म॒भि संप॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒याऽऽयु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्वि॒राडूर्ज॑मे॒वाव॑ रुन्धते॒ ते न ख्‍षु॒धाऽऽर्ति॒मार्च्छ॒न्त्यख्‍षो॑धुका भवन्ति॒ ख्‍षुथ् स॑बांधा इव॒ हि स॒त्रिणो᳚ऽग्निष्टो॒माव॒भितः॑ प्र॒धी तावु॒क्थ्या॑ मद्ध्ये॒ नभ्य॒न्तत् तदे॒तत् प॑रि॒यद्दे॑वच॒क्रय्ँयदे॒तेन॑ [३५] षड॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑ह॒न्त्यरि॑ष्ट्यै॒ ते स्व॒स्ति सम॑श्नुवते षड॒हेन॑ यन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्युभ॒यतो᳚ ज्योतिषा यन्त्युभ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति॒ द्वौ ष॑ड॒हौ भ॑वत॒स्तानि॒ द्वाद॒शाहा॑नि॒ सम्प॑द्यन्ते द्वाद॒शो वै पुरु॑षो॒ द्वे स॒क्थ्यौ᳚ द्वौ बा॒हू आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒ स्तनौ᳚ द्वाद॒शौ [३६] तत् पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते॒ त्रयः॑ षड॒हा भ॑वन्ति॒ तान्य॒ष्टाद॒शाहा॑नि॒ सम्प॑द्यन्ते॒ नवा॒न्यानि॒ नवा॒न्यानि॒ नव॒ वै पुरु॑षे प्रा॒णास्तत् प्रा॒णाननु॑ प॒र्याव॑र्तन्ते च॒त्वारः॑ षड॒हा भ॑वन्ति॒ तानि॒ चतु॑र्विꣳशति॒रहा॑नि॒ सम्प॑द्यन्ते॒ चतु॑र्विꣳशतिरद्‌र्धमा॒साः स॑व्ँवथ्स॒रस्तथ् स॑व्ँवथ्स॒रमनु॑ प॒र्याव॑र्त॒न्तेऽप्र॑तिष्ठितः सव्ँवथ्स॒र इति॒ खलु॒ वा आ॑हु॒र्वर्‌षी॑यान् प्रति॒ष्ठाया॒ इत्ये॒ताव॒द्वै स॑व्ँवथ्स॒रस्य॒ ब्राह्म॑ण॒य्ँयाव॑न्मा॒सो मा॒सिमा᳚स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति⁠ [३७] (वि॒राज॑ मे॒तेन॑ द्वाद॒शा वे॒ताव॒द्वा अ॒ष्टौ च॑) ॥११॥
मे॒षस्त्वा॑ पच॒तैर॑वतु॒ लोहि॑तग्रीवः॒ छागैः᳚ शल्म॒लिर्वृद्ध्या॑ प॒र्णो ब्रह्म॑णा प्ल॒ख्‍षो मेधे॑न न्य॒ग्रोध॑श्चम॒सैरु॑दु॒बंर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस्त्रि॒वृथ् स्तोमै॒रव॑न्तीः॒ स्थाव॑न्तीस्त्वाऽवन्तु प्रि॒यन्त्वा᳚ प्रि॒याणा॒व्ँवर्‌षि॑ष्ठ॒माप्या॑नान्निधी॒नान्त्वा॑ निधि॒पति॑ꣳ हवामहे वसो मम⁠ [३८] (मे॒षः षट् त्रि॑ꣳशत्) ॥१२॥
कूप्या᳚भ्यः॒ स्वाहा॒ कूल्या᳚भ्यः॒ स्वाहा॑ विक॒र्या᳚भ्यः॒ स्वाहा॑ऽव॒ट्या᳚भ्यः॒ स्वाहा॒ खन्या᳚भ्यः॒ स्वाहा॒ ह्रद्या᳚भ्यः॒ स्वाहा॒ सूद्या᳚भ्यः॒ स्वाहा॑ सर॒स्या᳚भ्यः॒ स्वाहा॑ वैश॒न्तीभ्यः॒ स्वाहा॑ पल्व॒ल्या᳚भ्यः॒ स्वाहा॒ वर्ष्या᳚भ्यः॒ स्वाहा॑ऽव॒र्ष्याभ्यः॒ स्वाहा᳚ ह्रा॒दुनी᳚भ्यः॒ स्वाहा॒ पृष्वा᳚भ्यः॒ स्वाहा॒ स्यन्द॑मानाभ्यः॒ स्वाहा᳚ स्थाव॒राभ्यः॒ स्वाहा॑ नादे॒यीभ्यः॒ स्वाहा॑ सैन्ध॒वीभ्यः॒ स्वाहा॑ समु॒द्रिया᳚भ्यः॒ स्वाहा॒ सर्वा᳚भ्यः॒ स्वाहा᳚⁠ [३९] (कूप्या᳚भ्य श्चत्वारि॒ꣳ॒शत्) ॥१३॥
अ॒द्भ्यः स्वाहा॒ वह॑न्तीभ्यः॒ स्वाहा॑ परि॒वह॑न्तीभ्यः॒ स्वाहा॑ सम॒न्तव्ँवह॑न्तीभ्यः॒ स्वाहा॒ शीघ्र॒व्ँवह॑न्तीभ्यः॒ स्वाहा॒ शीभ॒व्ँवह॑न्तीभ्यः॒ स्वाहो॒ग्रव्ँवह॑न्तीभ्यः॒ स्वाहा॑ भी॒मव्ँवह॑न्तीभ्यः॒ स्वाहाऽम्भो᳚भ्यः॒ स्वाहा॒ नभो᳚भ्यः॒ स्वाहा॒ महो᳚भ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [४०] (अ॒द्भ्य एका॒न्नत्रि॒ꣳ॒शत्) ॥१४॥
यो अर्व॑न्त॒ञ्जिघा॑ꣳसति॒ तम॒भ्य॑मीति॒ वरु॑णः⁠॥ प॒रो मर्तः॑ प॒रः श्वा⁠॥ अ॒हञ्च॒ त्वञ्च॑ वृत्रह॒न्थ्सम्ब॑भूव स॒निभ्य॒ आ⁠। अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मꣳसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑⁠॥ अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मान॒ꣳ॒ रजा॑ꣳसि⁠। स्वेना॒ हि वृ॒त्रꣳ शव॑सा ज॒घन्थ॒ न शत्रु॒रन्त॑व्ँविविदद् यु॒धा ते᳚⁠ [४१] (वि॒वि॒द॒द् द्वे च॑) ॥१५॥
नमो॒ राज्ञे॒ नमो॒ वरु॑णाय॒ नमोऽश्वा॑य॒ नमः॑ प्र॒जाप॑तये॒ नमोऽधि॑पत॒येऽधि॑पतिर॒स्यधि॑पतिम्मा कु॒र्वधि॑पतिर॒हम्प्र॒जाना᳚म्भूयास॒म्मान्धे॑हि॒ मयि॑ धेह्यु॒पाकृ॑ताय॒ स्वाहाऽऽल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा᳚⁠ [४२] (नम॒ एका॒न्न त्रि॒ꣳ॒शत्) ॥१६॥
म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम्⁠। पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृड⁠॥ याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑⁠। या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ⁠॥ या दे॒वेषु॑ त॒नुव॒मैर॑यन्त॒ यासा॒ꣳ॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑⁠। ता अ॒स्मभ्य॒म्पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र [४३] गो॒ष्ठे रि॑रीहि⁠॥ प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै᳚र्दे॒वैः पि॒तृभिः॑ सव्ँविदा॒नः⁠। शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाऽक॒स्तासा᳚व्ँव॒यम्प्र॒जया॒ सꣳ स॑देम⁠॥ इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा॑ म॒हीमू॒ षु१ सु॒त्रामा॑णं२⁠ [४४] (इ॒न्द्रा॒ ष्टात्रि॑ꣳशच्च) ॥१७॥
किꣴ स्वि॑दासीत् पू॒र्वचि॑त्तिः॒ किꣴ स्वि॑दासीद्बृ॒हद्वयः॑⁠। किꣴ स्वि॑दासीत् पिशंगि॒ला किꣴ स्वि॑दासीत् पिलिप्पि॒ला⁠॥ द्यौरा॑सीत् पू॒र्वचि॑त्ति॒रश्व॑ आसीद् बृ॒हद्वयः॑⁠। रात्रि॑रासीत् पिशङ्गि॒लाऽवि॑रासीत् पिलिप्पि॒ला⁠॥ कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑⁠। किꣴ स्वि॑द्धि॒मस्य॑ भेष॒जङ्किꣴ स्वि॑दा॒वप॑नम्म॒हत्⁠॥ सूर्य॑ एका॒की च॑रति [४५] च॒न्द्रमा॑ जायते॒ पुनः॑⁠। अ॒ग्निर्‌हि॒मस्य॑ भेष॒जम्भूमि॑रा॒वप॑नम्म॒हत्⁠॥ पृ॒च्छामि॑ त्वा॒ पर॒मन्त॑म्पृथि॒व्याः पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि᳚म्⁠। पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मव्ँव्यो॑म⁠॥ वेदि॑माहुः॒ पर॒मन्त॑म्पृथि॒व्या य॒ज्ञमा॑हु॒ र्भुव॑नस्य॒ नाभि᳚म्⁠। सोम॑माहु॒र्वृष्णो॒ अश्व॑स्य॒ रेतो॒ ब्रह्मै॒व वा॒चः प॑र॒मव्ँव्यो॑म⁠ [४६] (सूर्य॑ एका॒की च॑रति॒ षट्च॑त्वारिꣳशच्च) ॥१८॥
अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ नयति॒ कश्च॒न⁠। स॒सस्त्य॑श्व॒कः⁠॥ सुभ॑गे॒ कांपी॑लवासिनि सुव॒र्गे लो॒के सम्प्रोर्ण्वा॑थाम्⁠। आऽहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धम्⁠॥ तौ स॒ह च॒तुरः॑ प॒दः सम्प्र सा॑रयावहै⁠॥ वृषा॑ वाꣳ रेतो॒धा रेतो॑ दधा॒तूथ् स॒क्थ्यो᳚र्गृ॒दन्धे᳚ह्य॒ञ्जिमुद॑ञ्जि॒मन्व॑ज⁠। यः स्त्री॒णाञ्जी॑व॒भोज॑नो॒ य आ॑सां [४७] बिल॒धाव॑नः⁠। प्रि॒यः स्त्री॒णाम॑पी॒च्यः॑⁠॥ य आ॑साङ्कृ॒ष्णे लख्‍ष्म॑णि॒ सर्दि॑गृदिम्प॒राव॑धीत्⁠॥ अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न⁠। स॒सस्त्य॑श्व॒कः⁠॥ ऊ॒द्‌र्ध्वामे॑ना॒मुच्छ्र॑यताद्वेणुभा॒रङ्गि॒रावि॑व⁠। अथा᳚स्या॒ मद्ध्य॑मेधताꣳ शी॒ते वाते॑ पु॒नन्नि॑व⁠॥ अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न⁠। स॒सस्त्य॑श्व॒कः⁠॥ यद्ध॑रि॒णी यव॒मत्ति॒ न [४८] पु॒ष्टम्प॒शु म॑न्यते⁠। शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति⁠॥ अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न⁠। स॒सस्त्य॑श्व॒कः⁠॥ इ॒यय्ँय॒का श॑कुन्ति॒काऽऽहल॒मिति॒ सर्प॑ति⁠। आह॑तङ्ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का⁠॥ अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न⁠। स॒सस्त्य॑श्व॒कः⁠॥ मा॒ता च॑ ते पि॒ता च॒ तेऽग्र॑व्ँवृ॒ख्‍षस्य॑ रोहतः⁠ [४९] प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तꣳसयत्⁠॥ द॒धि॒क्राव्‌ण्णो॑ अकारिषञ्जि॒ष्णोरश्व॑स्य वा॒जिनः॑⁠। सुर॒भि नो॒ मुखा॑ कर॒त् प्रण॒ आयू॑ꣳषि तारिषत्⁠॥ आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन⁠। म॒हेरणा॑य॒ चख्‍ष॑से⁠॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑⁠। उ॒श॒तीरि॑व मा॒तरः॑⁠॥ तस्मा॒ अर॑ङ्गमाम वो॒ यस्य॒ ख्‍षया॑य॒ जिन्व॑थ⁠। आपो॑ ज॒नय॑था च नः⁠ [५०] (आ॒सा॒ मत्ति॒ न रो॑हतो॒ जिन्व॑थ च॒त्वारि॑ च) ॥१९॥
भूर्भुवः॒ सुव॒र्वस॑वस्त्वाऽञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा᳚ऽञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा,ऽऽदि॒त्यास्त्वा᳚ऽञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा॒ यद्वातो॑ अ॒पो अग॑म॒दिन्द्र॑स्य त॒नुव॑म्प्रि॒याम्⁠। ए॒तꣴ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒मा व॑र्तयासि नः⁠॥ लाजी(३)ञ्छाची(३)न् यशो॑ म॒मा(ँ४)⁠। य॒व्यायै॑ ग॒व्याया॑ ए॒तद्दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापते⁠॥ यु॒ञ्जन्ति॑ ब्र॒द्ध्न म॑रु॒षञ्चर॑न्त॒म्परि॑ त॒स्थुषः॑⁠। रोच॑न्ते रोच॒ना दि॒वि⁠॥ यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑ख्‍षसा॒ रथे᳚⁠। शोणा॑ धृ॒ष्णू नृ॒वाह॑सा⁠॥ के॒तुङ्कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚⁠। समु॒षद्भि॑रजायथाः⁠ [५१] (ब्र॒द्ध्नं पञ्च॑विꣳशतिश्च) ॥२०॥
प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑ऽपा॒नाय॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॑ संता॒नेभ्यः॒ स्वाहा॒ परि॑संतानेभ्यः॒ स्वाहा॒ पर्व॑भ्यः॒ स्वाहा॑ स॒धांने᳚भ्यः॒ स्वाहा॒ शरी॑रेभ्यः॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा॒ दख्‍षि॑णाभ्यः॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [५२] (प्रा॒णाया॒ ष्टावि॑ꣳशतिः) ॥२१॥
सि॒ताय॒ स्वाहाऽसि॑ताय॒ स्वाहा॒ऽभिहि॑ताय॒ स्वाहाऽन॑भिहिताय॒ स्वाहा॑ यु॒क्ताय॒ स्वाहाऽयु॑क्ताय॒ स्वाहा॒ सुयु॑क्ताय॒ स्वाहो द्यु॑क्ताय॒ स्वाहा॒ विमु॑क्ताय॒ स्वाहा॒ प्रमु॑क्ताय॒ स्वाहा॒ वञ्च॑ते॒ स्वाहा॑ परि॒वञ्च॑ते॒ स्वाहा॑ स॒व्ँवञ्च॑ते॒ स्वाहा॑ऽनु॒वञ्च॑ते॒ स्वाहो॒द् वञ्च॑ते॒ स्वाहा॑ य॒ते स्वाहा॒ धाव॑ते॒ स्वाहा॒ तिष्ठ॑ते॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [५३] (सि॒ताया॒ ष्टात्रि॑ꣳशत्) ॥२२॥
(बृह॒स्पतिः॒ श्रद् य॒था वा ऋ॒ख्‍षा वै प्र॒जाप॑ति॒र्येन॑येन॒ द्वे वाव दे॑वस॒त्रे आ॑दि॒त्या अ॑कामयन्त सुव॒र्गं वसि॑ष्ठः सव्ँवथ्स॒राय॑ सुर्व॒र्गय्ँये स॒त्रं ब्र॑ह्मवा॒दिनो॑ऽतिरा॒त्रो ज्योति॑ष्टोमं मे॒षः कूप्या᳚भ्यो॒ ऽद्भ्यो यो नमो॑ मयो॒भूः किꣴ स्वि॒द म्बे॒ भूः प्रा॒णाय॑ सि॒ताय॒ द्वावि॑ꣳशतिः)
(बृह॒स्पतिः॒ प्रति॑ तिष्ठन्ति॒ वै द॑शरा॒त्रेण॑ सुव॒र्गं यो अर्व॑न्तं॒ भू स्त्रिप॑ञ्चा॒शत्)
(बृह॒स्पतिः॒ सर्व॑स्मै॒ स्वाहा᳚)
अनुवाकाः पञ्चशती
२२ ५३