कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
सप्तमकाण्डे पञ्चमः प्रश्नः

कांड ७ प्रश्न ५
सत्रविशेषाभिधानं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
गावो॒ वा ए॒तथ् स॒त्रमा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि नो जायन्ता॒ इति॒ कामे॑न॒ तासा॒न्दश॒मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा᳚ण्यजायन्त॒ ता उद॑तिष्ठ॒न्नरा॒थ्स्मेत्यथ॒ यासा॒न्नाजा॑यन्त॒ ताः स॑व्ँवथ्स॒रमा॒प्त्वोद॑तिष्ठ॒ न्नरा॒थ्स्मेति॒ यासा॒ञ्चाजा॑यन्त॒ यासा᳚ञ्च॒ न ता उ॒भयी॒रुद॑तिष्ठ॒न्नरा॒थ्स्मेति॑ गोस॒त्रव्ँवै [१] स॑व्ँवथ्स॒रो य ए॒वव्ँवि॒द्वाꣳसः॑ सव्ँवथ्स॒रमु॑प॒यन्त्यृ॑द्ध्नु॒वन्त्ये॒व तस्मा᳚त् तूप॒रा वार्‌षि॑कौ॒ मासौ॒ पर्त्वा॑ चरति स॒त्राभि॑जित॒ꣴ॒ह्य॑स्यै॒ तस्मा᳚थ् सव्ँवथ्सर॒सदो॒ यत् किञ्च॑ गृ॒हे क्रि॒यते॒ तदा॒प्तमव॑रुद्धम॒भिजि॑तङ्क्रियते समु॒द्रव्ँवा ए॒ते प्र प्ल॑वन्ते॒ ये स॑व्ँवथ्स॒रमु॑प॒यन्ति॒ यो वै स॑मु॒द्रस्य॑ पा॒रन्न पश्य॑ति॒ न वै स तत॒ उदे॑ति सव्ँवथ्स॒रो [२] वै स॑मु॒द्रस्तस्यै॒तत् पा॒रय्ँयद॑तिरा॒त्रौ य ए॒वव्ँवि॒द्वाꣳसः॑ सव्ँवथ्स॒रमु॑प॒यन्त्यना᳚र्ता ए॒वोदृच॑ङ्गच्छन्ती॒यव्ँवै पूर्वो॑ऽतिरा॒त्रो॑ऽसावुत्त॑रो॒ मनः॒ पूर्वो॒ वागुत्त॑रः प्रा॒णः पूर्वो॑ऽपा॒न उत्त॑रः प्र॒रोध॑न॒म्पूर्व॑ उ॒दय॑न॒मुत्त॑रो॒ ज्योति॑ष्टोमो वैश्वान॒रो॑ऽतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द्दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै चतुर्वि॒ꣳ॒शः प्रा॑य॒णीयो॑ भवति॒ चतु॑र्विꣳशति रद्‌र्धमा॒साः [३] स॑व्ँवथ्स॒रः प्र॒यन्त॑ ए॒व स॑व्ँवथ्स॒रे प्रति॑ तिष्ठन्ति॒ तस्य॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्च॑ स्तो॒त्रीया॒स्ताव॑तीः सव्ँवथ्स॒रस्य॒ रात्र॑य उ॒भे ए॒व स॑व्ँवथ्स॒रस्य॑ रू॒पे आ᳚प्नुवन्ति॒ ते सꣴस्थि॑त्या॒ अरि॑ष्ट्या॒ उत्त॑रै॒रहो॑भिश्चरन्ति षड॒हा भ॑वन्ति॒ षड् वा ऋ॒तवः॑ सव्ँवथ्स॒र ऋ॒तुष्वे॒व स॑व्ँवथ्स॒रे प्रति॑ तिष्ठन्ति॒ गौश्चाऽऽ*यु॑श्च मद्ध्य॒तः स्तोमौ॑ भवतः सव्ँवथ्स॒रस्यै॒व तन्मि॑थु॒नम्म॑द्ध्य॒तो [४] द॑धति प्र॒जन॑नाय॒ ज्योति॑र॒भितो॑ भवति वि॒मोच॑नमे॒व तच्छन्दा॑ꣴस्ये॒व तद्वि॒मोक॑य्ँय॒न्त्यथो॑ उभ॒यतो᳚ज्योतिषै॒व ष॑ड॒हेन॑ सुव॒र्गल्ँलो॒कय्ँय॑न्ति ब्रह्मवा॒दिनो॑ वद॒न्त्यास॑ते॒ केन॑ य॒न्तीति॑ देव॒याने॑न प॒थेति॑ ब्रूया॒च्छन्दा॑ꣳसि॒ वै दे॑व॒यानः॒ पन्था॑ गाय॒त्री त्रि॒ष्टुब्जग॑ती॒ज्योति॒र्वै गा॑य॒त्री गौस्त्रि॒ष्टुगायु॒र्जग॑ती॒ यदे॒ते स्तोमा॒ भव॑न्ति देव॒याने॑नै॒व [५] तत् प॒था य॑न्ति समा॒नꣳ साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒व नय॑न्त्य॒न्या‌अ॑न्या॒ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒वान्यम॑न्यन्देवलो॒कम॑भ्या॒रोह॑न्तो यन्त्यभिव॒र्तो ब्र॑ह्मसा॒मम्भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्या अभि॒जिद्भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै विश्व॒जिद्भ॑वति॒ विश्व॑स्य॒ जित्यै॑ मा॒सिमा॑सि पृ॒ष्ठान्युप॑ यन्ति मा॒सिमा᳚स्यतिग्रा॒ह्या॑ गृह्यन्ते मा॒सिमा᳚स्ये॒व वी॒र्य॑न्दधति मा॒साम्प्रति॑ष्ठित्या उ॒परि॑ष्टान्मा॒साम्पृ॒ष्ठान्युप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टा॒दोष॑धयः॒ फल॑ङ्गृह्णन्ति⁠ [६] (गो॒स॒त्रव्ँवा ए॑ति सव्ँवथ्स॒रो᳚ ऽर्द्धमा॒सा मि॑थु॒नम्म॑द्ध्य॒तो दे॑व॒याने॑नै॒व वी॒र्यं॑ त्रयो॑दश च) ॥१॥
गावो॒ वा ए॒तथ् स॒त्रमा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि॒ सिषा॑सन्ती॒स्तासा॒न्दश॒ मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा᳚ण्यजायन्त॒ ता अ॑ब्रुव॒न्नरा॒थ्स्मोत् ति॑ष्ठा॒माव॒ तङ्काम॑मरुथ्स्महि॒ येन॒ कामे॑न॒ न्यष॑दा॒मेति॒ तासा॑मु॒ त्वा अ॑ब्रुवन्न॒द्‌र्धावा॒ याव॑ती॒र्वाऽऽसा॑महा ए॒वेमौद्वा॑द॒शौ मासौ॑ सव्ँवथ्स॒रꣳ स॒पांद्योत् ति॑ष्ठा॒मेति॒ तासां᳚ [७] द्वाद॒शे मा॒सि शृङ्गा॑णि॒ प्राव॑र्तन्त श्र॒द्धया॒ वाऽश्र॑द्धया वा॒ ता इ॒मा यास्तू॑प॒रा उ॒भय्यो॒ वाव ता आ᳚द्‌र्ध्नुव॒न्॒‌याश्च॒ शृङ्गा॒ण्यस॑न्व॒न्॒‌याश्चोर्ज॑म॒वारु॑न्धत॒द्‌र्ध्नोति॑ द॒शसु॑ मा॒सू᳚त्तिष्ठ॑न्नृ॒द्ध्नोति॑ द्वाद॒शसु॒ य ए॒वव्ँवेद॑ प॒देन॒ खलु॒ वा ए॒ते य॑न्ति वि॒न्दति॒ खलु॒ वै प॒देन॒ यन् तद्वा ए॒तदृ॒द्धमय॑न॒न्तस्मा॑ दे॒तद्गो॒सनि॑⁠ [८] (ति॒ष्ठा॒मेति॒ तासां॒ तस्मा॒द् द्वे च॑) ॥२॥
प्र॒थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति मद्ध्य॒म उप॑ यन्त्युत्त॒म उप॑ यन्ति॒ तदा॑हु॒र्याव्ँवै त्रिरेक॒स्याह्न॑ उप॒सीद॑न्ति द॒ह्रव्ँवै साऽप॑राभ्या॒न्दोहा᳚भ्यान्दु॒हेऽथ॒ कुतः॒ सा धो᳚ख्‍ष्यते॒ यान्द्वाद॑श॒ कृत्व॑ उप॒सीद॒न्तीति॑ सव्ँवथ्स॒रꣳ स॒पांद्यो᳚त्त॒मे मा॒सि स॒कृत् पृ॒ष्ठान्युपे॑यु॒स्तद्यज॑माना य॒ज्ञम्प॒शूनव॑ रुन्धते समु॒द्रव्ँवा [९] ए॒ते॑नवा॒रम॑पा॒रम्प्र प्ल॑वन्ते॒ ये स॑व्ँवथ्स॒रमु॑प॒यन्ति॒ यद् बृ॑हद्रथन्त॒रे अ॒न्वर्जे॑यु॒र्यथा॒ मद्ध्ये॑ समु॒द्रस्य॑ प्ल॒वम॒न्वर्जे॑युस्ता॒दृक् तदनु॑थ्सर्गम्बृहद्रथन्त॒राभ्या॑मि॒त्वा प्र॑ति॒ष्ठाङ्ग॑च्छन्ति॒ सर्वे᳚भ्यो॒ वै कामे᳚भ्यः स॒न्धिर्दु॑हे॒ तद्यज॑मानाः॒ सर्वा॒न् कामा॒नव॑ रुन्धते⁠ [१०] (स॒मु॒द्रव्ँवै चतु॑स्त्रिꣳशच्च) ॥३॥
स॒मा॒न्य॑ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒व न य॑न्त्य॒न्यद॑न्य॒थ् साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒वान्यम॑न्यम्मनुष्यलो॒कम्प्र॑त्यव॒रोह॑न्तो यन्ति॒ जग॑ती॒मग्र॒ उप॑ यन्ति॒ जग॑ती॒व्ँवै छन्दा॑ꣳसि प्र॒त्यव॑रोहन्त्याग्रय॒णङ्ग्रहा॑ बृ॒हत् पृ॒ष्ठानि॑ त्रयस्त्रि॒ꣳ॒शꣴस्तोमा॒स्तस्मा॒ज्ज्याया॑ꣳस॒ङ्कनी॑यान् प्र॒त्यव॑रोहति वैश्वकर्म॒णो गृ॑ह्यते॒विश्वा᳚न्ये॒व तेन॒ कर्मा॑णि॒ यज॑माना॒ अव॑ रुन्धत आदि॒त्यो [११] गृ॑ह्यत इ॒यव्ँवा अदि॑तिर॒स्यामे॒व प्रति॑ तिष्ठन्त्य॒न्यो᳚ऽन्यो गृह्येते मिथुन॒त्वाय॒ प्रजा᳚त्या अवान्त॒रव्ँवै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त ए॒ताꣳ ह॒ वा उ॑द॒ङ्कः शौ᳚ल्बाय॒नः स॒त्रस्यर्द्धि॑मुवाच॒ यद्द॑शरा॒त्रोयद्द॑शरा॒त्रो भव॑ति स॒त्रस्यद्‌र्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वै षा शान्तिः॑⁠ [१२] (आ॒दि॒त्य स्तस्यै॒व द्वे च॑) ॥४॥
यदि॒ सोमौ॒ सꣳसु॑तौ॒ स्याता᳚म्मह॒ति रात्रि॑यै प्रातरनुवा॒कमु॒पाकु॑र्या॒त् पूर्वो॒ वाच॒म्पूर्वो॑ दे॒वताः॒ पूर्वः॒ छन्दा॑ꣳसि वृङ्क्ते॒ वृष॑ण्वतीम्प्रति॒पद॑ङ्कुर्यात् प्रातस्सव॒नादे॒वैषा॒मिन्द्र॑व्ँवृ॒ङ्क्तेऽथो॒ खल्वा॑हुःसवनमु॒खेस॑वनमुखे का॒र्येति॑ सवनमु॒खाथ् स॑वनमुखादे॒वैषा॒मिन्द्र॑व्ँवृङ्क्ते सव्ँवे॒शायो॑पवे॒शाय॑ गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अनु॒ष्टुभः॑ प॒ङ्क्त्या अ॒भिभू᳚त्यै॒ स्वाहा॒ छन्दा॑ꣳसि॒ वै स॑व्ँवे॒श उ॑पवे॒शः छन्दो॑भिरे॒वैषां॒ [१३] छन्दा॑ꣳसि वृङ्क्ते सज॒नीय॒ꣳ॒ शस्य॑व्ँविह॒व्य॑ꣳ शस्य॑म॒गस्त्य॑स्य कयाशु॒भीय॒ꣳ॒ शस्य॑मे॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तद्याव॑दे॒वास्ति॒ तदे॑षाव्ँवृङ्क्ते॒ यदि॑ प्रातस्सव॒ने क॒लशो॒ दीर्ये॑त वैष्ण॒वीषु॑ शिपिवि॒ष्टव॑तीषु स्तुवीर॒न्॒‌यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒ विष्णु॒न्तच्छि॑पिवि॒ष्टम॒भ्यति॑ रिच्यते॒ तद्विष्णुः॑ शिपिवि॒ष्टोऽति॑रिक्त ए॒वाति॑रिक्तन्दधा॒त्यथो॒ अति॑रिक्तेनै॒वाति॑रिक्तमा॒प्त्वाऽव॑ रुन्धते॒ यदि॑ म॒द्ध्यन्दि॑ने॒ दीर्ये॑त वषट्का॒रनि॑धन॒ꣳ॒ साम॑ कुर्युर्वषट्का॒रो वै य॒ज्ञस्य॑ प्रति॒ष्ठा प्र॑ति॒ष्ठामे॒वैन॑द्गमयन्ति॒ यदि॑ तृतीयसव॒न ए॒तदे॒व⁠ [१४] (छन्दो॑भिरे॒वैषा॒ मवै का॒न्नवि॑ꣳश॒तिश्च॑) ॥५॥
ष॒ड॒हैर्मासा᳚न्थ् स॒पांद्याह॒रुथ् सृ॑जन्ति षड॒हैर्‌हि मासा᳚न्थ् स॒पंश्य॑न्त्यर्द्धमा॒सैर्मासा᳚न्थ् स॒पांद्याह॒रुथ् सृ॑जन्त्यद्‌र्धमा॒सैर्‌हि मासा᳚न्थ् स॒पंश्य॑न्त्यमावा॒स्य॑या॒ मासा᳚न्थ् स॒पांद्याह॒रुथ् सृ॑जन्त्यमावा॒स्य॑या॒ हि मासा᳚न्थ् स॒पंश्य॑न्ति पौर्णमा॒स्या मासा᳚न्थ् स॒पांद्याऽह॒रुथ् सृ॑जन्ति पौर्णमा॒स्या हि मासा᳚न्थ् स॒पंश्य॑न्ति॒ यो वै पू॒र्ण आ॑सि॒ञ्चति॒ परा॒ स सि॑ञ्चति॒ यः पू॒र्णादु॒दच॑ति [१५] प्रा॒णम॑स्मि॒न्थ्स द॑धाति॒ यत् पौ᳚र्णमा॒स्या मासा᳚न्थ् स॒पांद्याह॑रुथ् सृ॒जन्ति॑ सव्ँवथ्स॒रायै॒व तत् प्रा॒णन्द॑धति॒ तदनु॑ स॒त्रिणः॒ प्राण॑न्ति॒ यदह॒र्नोथ्सृ॒जेयु॒र्यथा॒ दृति॒रुप॑नद्धो वि॒पत॑त्ये॒वꣳ स॑व्ँवथ्स॒रो वि प॑ते॒दार्ति॒मार्च्छे॑यु॒र्यत् पौ᳚र्णमा॒स्या मासा᳚न्थ्स॒पांद्याह॑रुथ् सृ॒जन्ति॑ सव्ँवथ्स॒रायै॒व तदु॑दा॒नन्द॑धति॒ तदनु॑ स॒त्रिण॒ उ [१६] द॑नन्ति॒ नाऽऽ*र्ति॒मार्च्छ॑न्ति पू॒र्णमा॑से॒ वै दे॒वाना॑ꣳ सु॒तो यत् पौ᳚र्णमा॒स्या मासा᳚न्थ्स॒पांद्याह॑रुथ् सृ॒जन्ति॑ दे॒वाना॑मे॒व तद्य॒ज्ञेन॑ य॒ज्ञम्प्र॒त्यव॑रोहन्ति॒ वि वा ए॒तद्य॒ज्ञञ्छि॑न्दन्ति॒ यथ् ष॑ड॒हस॑तंत॒ꣳ॒ संत॒मथाह॑रुथ् सृ॒जन्ति॑ प्राजाप॒त्यम्प॒शुमा ल॑भन्ते प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञꣳ सन्त॑न्वन्ति॒ यन्ति॒ वा ए॒ते सव॑ना॒द्येऽह॑ [१७] रुथ् सृ॒जन्ति॑ तु॒रीय॒ङ्खलु॒ वा ए॒तथ् सव॑न॒य्ँयथ् सा᳚नां॒य्यय्ँयथ् सा᳚नां॒य्यम्भव॑ति॒ तेनै॒व सव॑ना॒न्न य॑न्ति समुप॒हूय॑ भख्‍षयन्त्ये॒तथ् सो॑मपीथा॒ ह्ये॑तर्‌हि॑ यथायत॒नव्ँवा ए॒तेषा॑ꣳ सवन॒भाजो॑ दे॒वता॑ गच्छन्ति॒ येऽह॑रुथ् सृ॒जन्त्य॑नुसव॒नम्पु॑रो॒डाशा॒न् निर्व॑पन्ति यथायत॒नादे॒व स॑वन॒भाजो॑ दे॒वता॒ अव॑ रुन्धते॒ऽष्टाक॑पालान् प्रातस्सव॒न एका॑दशकपाला॒न् माद्ध्य॑न्दिने॒ सव॑ने॒ द्वाद॑शकपालाꣴस्तृतीयसव॒ने छन्दा॑ꣴस्ये॒वाऽऽ*प्त्वा ऽव॑ रुन्धते वैश्वदे॒वञ्च॒रुन्तृ॑तीयसव॒ने निर्व॑पन्ति वैश्वदे॒वव्ँवै तृ॑तीयसव॒नन्तेनै॒व तृ॑तीयसव॒नान्न य॑न्ति⁠ [१८] (उ॒दच॒ त्यु द्येऽह॑ रा॒प्त्वा पञ्च॑दश च) ॥६॥
उ॒थ्सृज्यां(३)नोथ्सृज्या(३)मिति॑ मीमाꣳसन्ते ब्रह्मवा॒दिन॒स्तद्वा॑हुरु॒थ् सृज्य॑मे॒वेत्य॑मावा॒स्या॑याञ्च पौर्णमा॒स्याञ्चो॒थ्सृज्य॒मित्या॑हुरे॒ते हि य॒ज्ञव्ँवह॑त॒ इति॒ ते त्वाव नोथ्सृज्ये॒ इत्या॑हु॒र्ये अ॑वान्त॒रय्ँय॒ज्ञम्भे॒जाते॒ इति॒ या प्र॑थ॒मा व्य॑ष्टका॒ तस्या॑मु॒थ्सृज्य॒मित्या॑हुरे॒ष वै मा॒सो वि॑श॒र इति॒ नाऽऽ*दि॑ष्ट॒ [१९] मुथ्सृ॑जेयु॒र्यदादि॑ष्टमुथ्सृ॒जेयु॑र्या॒दृशे॒ पुनः॑ पर्याप्ला॒वे मद्ध्ये॑ षड॒हस्य॑ स॒पंद्ये॑त षड॒हैर्मासा᳚न्थ् स॒पांद्य॒ यथ् स॑प्त॒म मह॒स्तस्मि॒न्नुथ् सृ॑जेयु॒स्तद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पाल॒न्निर्व॑पेयुरै॒न्द्रन्दधीन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालव्ँवैश्वदे॒वन्द्वाद॑शकपालम॒ग्नेर्वै वसु॑मतः प्रातस्सव॒नय्ँयद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालन्नि॒र्वप॑न्ति दे॒वता॑मे॒व तद्भा॒गिनी᳚ङ्कु॒र्वन्ति॒ [२०] सव॑नमष्टा॒भिरुप॑ यन्ति॒ यदै॒न्द्रन्दधि॒ भव॒तीन्द्र॑मे॒व तद्भा॑ग॒धेया॒न्न च्या॑वय॒न्तीन्द्र॑स्य॒ वै म॒रुत्व॑तो॒ माद्ध्य॑न्दिन॒ꣳ॒ सव॑न॒य्ँयदिन्द्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालन्नि॒र्वप॑न्ति दे॒वता॑मे॒व तद्भा॒गिनी᳚ङ्कु॒र्वन्ति॒ सव॑नमेकाद॒शभि॒रुप॑ यन्ति॒ विश्वे॑षा॒व्ँवै दे॒वाना॑मृभु॒मतां᳚ तृतीयसव॒नय्ँयद्वै᳚श्वदे॒वन्द्वाद॑शकपालन्नि॒र्वप॑न्ति दे॒वता॑ ए॒व तद्भा॒गिनीः᳚ कु॒र्वन्ति॒ सव॑नन्द्वाद॒शभि॒ [२१] रुप॑ यन्ति प्राजाप॒त्यम्प॒शुमा ल॑भन्ते य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञस्यान॑नुसर्गायाभिव॒र्त इ॒तः षण्मा॒सो ब्र॑ह्मसा॒मम्भ॑वति॒ ब्रह्म॒ वा अ॑भिव॒र्तो ब्रह्म॑णै॒व तथ् सु॑व॒र्गल्ँलो॒कम॑भिव॒र्तय॑न्तो यन्ति प्रतिकू॒लमि॑व॒ हीतः सु॑व॒र्गो लो॒क इन्द्र॒ क्रतु॑न्न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा᳚⁠। शिख्‍षा॑ नो अ॒स्मिन् पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीम॒हीत्य॒ मुत॑ आय॒ताꣳ षण्मा॒सो ब्र॑ह्मसा॒मम्भ॑वत्य॒यव्ँवै लो॒को ज्योतिः॑ प्र॒जा ज्योति॑रि॒ममे॒व तल्लो॒कम्पश्य॑न्तोऽभि॒वद॑न्त॒ आ य॑न्ति⁠ [२२] (नाऽऽदि॑ष्टं कु॒र्वन्ति॑ द्वाद॒शभि॒ रिति॑ विꣳश॒तिश्च॑) ॥७॥
दे॒वाना॒व्ँवा अन्त॑ञ्ज॒ग्मुषा॑मिन्द्रि॒यव्ँवी॒र्य॑मपा᳚क्राम॒त् तत् क्रो॒शेनावा॑रुन्धत॒ तत् क्रो॒शस्य॑ क्रोश॒त्वय्ँयत् क्रो॒शेन॒ चात्वा॑ल॒स्यान्ते᳚ स्तु॒वन्ति॑ य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वेन्द्रि॒यव्ँवी॒र्य॑मव॑ रुन्धते स॒त्रस्यद्‌र्ध्या॑ऽऽहव॒नीय॒स्यान्ते᳚ स्तुवन्त्य॒ग्निमे॒वोप॑द्र॒ष्टार॑ङ्कृ॒त्वर्द्धि॒मुप॑ यन्ति प्र॒जाप॑ते॒र्॒‌हृद॑येन हवि॒र्द्धाने॒ऽन्तः स्तु॑वन्ति प्रे॒माण॑मे॒वास्य॑ गच्छन्ति श्लो॒केन॑ पु॒रस्ता॒थ् सद॑सः [२३] स्तुव॒न्त्यनु॑श्लोकेन प॒श्चाद्य॒ज्ञस्यै॒वान्त॑ङ्ग॒त्वा श्लो॑क॒भाजो॑ भवन्ति न॒वभि॑रद्ध्व॒र्युरुद्गा॑यति॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधाति॒ सर्वा॑ ऐ॒न्द्रियो॑ भवन्ति प्रा॒णेष्वे॒वेन्द्रि॒यन्द॑ध॒त्यप्र॑तिहृताभि॒रुद्गा॑यति॒ तस्मा॒त् पुरु॑षः॒ सर्वा᳚ण्य॒न्यानि॑ शी॒र्ष्णोऽङ्गा॑नि॒ प्रत्य॑चति॒ शिर॑ ए॒व न प॑ञ्चद॒शꣳर॑थन्त॒रम्भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धते सप्तद॒शं [२४] बृ॒हद॒न्नाद्य॒स्याव॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकवि॒ꣳ॒शम्भ॒द्रन्द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै॒ पत्न॑य॒ उप॑ गायन्ति मिथुन॒त्वाय॒ प्रजा᳚त्यै प्र॒जा॑पतिः प्र॒जा अ॑सृजत॒ सो॑ऽकामयता॒ऽऽ*साम॒हꣳ रा॒ज्यम्परी॑या॒मिति॒ तासा॑ꣳ राज॒नेनै॒व रा॒ज्यम्पर्यै॒त् तद्रा॑ज॒नस्य॑ राजन॒त्वय्ँयद्रा॑ज॒नम्भव॑ति प्र॒जाना॑मे॒व तद्यज॑माना रा॒ज्यम्परि॑ यन्ति पञ्चवि॒ꣳ॒शम्भ॑वति प्र॒जाप॑ते॒ [२५] राप्त्यै॑ प॒ञ्चभि॒स्तिष्ठ॑न्तः स्तुवन्ति देवलो॒कमे॒वाभि ज॑यन्ति प॒ञ्चभि॒रासी॑ना मनुष्यलो॒कमे॒वाभि ज॑यन्ति॒ दश॒ संप॑द्यन्ते॒ दशा᳚ख्‍षरा वि॒राडन्न॑व्ँवि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते पञ्च॒धा वि॑नि॒षद्य॑ स्तुवन्ति॒ पञ्च॒ दिशो॑ दि॒ख्‍षवे॑व प्रति॑तिष्ठ॒न्त्येकै॑क॒याऽस्तु॑तया स॒माय॑न्ति दि॒ग्भ्य ए॒वान्नाद्य॒ꣳ॒ सम्भ॑रन्ति॒ ताभि॑रुद्गा॒तोद्गा॑यति दि॒ग्भ्य ए॒वान्नाद्य॑ꣳ [२६] सं॒भृत्य॒ तेज॑ आ॒त्मन् द॑धते॒ तस्मा॒देकः॑ प्रा॒णः सर्वा॒ण्यङ्गा᳚न्यव॒त्यथो॒ यथा॑ सुप॒र्ण उ॑त्पति॒ष्यञ्छिर॑ उत्त॒मङ्कु॑रु॒त ए॒वमे॒व तद्यज॑मानाः प्र॒जाना॑मुत्त॒मा भ॑वन्त्यास॒न्दीमु॑द्गा॒ताऽऽरो॑हति॒ साम्रा᳚ज्यमे॒व ग॑च्छन्ति प्ले॒ङ्खꣳ होता॒ नाक॑स्यै॒व पृ॒ष्ठꣳ रो॑हन्ति कू॒र्चाव॑द्ध्व॒र्युर्ब्र॒द्ध्नस्यै॒व वि॒ष्टप॑ङ्गच्छन्त्ये॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑थापू॒र्वम्प्रति॑ तिष्ठ॒न्त्यथो॑ आ॒क्रम॑णमे॒व तथ् सेतु॒य्ँयज॑मानाः कुर्वते सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै⁠ [२७] (सद॑सःसप्तद॒शंप्र॒जाप॑तेर्गायति दि॒ग्भ्य ए॒वान्नाद्यं॒प्रत्येका॑दश च) ॥८॥
अ॒र्क्ये॑ण॒ वै स॑हस्र॒शः प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताभ्य॒ इला᳚दें॒नेरा॒ल्ँलूता॒मवा॑रुन्ध॒ यद॒र्क्य॑म्भव॑ति प्र॒जा ए॒व तद्यज॑मानाः सृजन्त॒ इला᳚दम्भवति प्र॒जाभ्य॑ ए॒व सृ॒ष्टाभ्य॒ इरा॒ल्ँलूता॒मव॑ रुन्धते॒ तस्मा॒द्याꣳ समा॑ꣳ स॒त्रꣳ समृ॑द्ध॒ङ्ख्‍षोधु॑का॒स्ताꣳ समा᳚म्प्र॒जा इष॒ꣴ॒ ह्या॑सा॒मूर्ज॑मा॒दद॑ते॒ याꣳ समा॒व्ँव्यृ॑द्ध॒मख्‍षो॑धुका॒स्ताꣳ समा᳚म्प्र॒जा [२८] न ह्या॑सा॒मिष॒मूर्ज॑मा॒दद॑त उत्क्रो॒दङ्कु॑र्वते॒ यथा॑ ब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दङ्कु॒र्वत॑ ए॒वमे॒व तद्यज॑माना देवब॒न्धान्मु॑मुचा॒ना उ॑त्क्रो॒दङ्कु॑र्वत॒ इष॒मूर्ज॑मा॒त्मन् दधा॑ना वा॒णः श॒तत॑न्तुर्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्या॒जिन्धा॑व॒न्त्यन॑भिजितस्या॒भिजि॑त्यै दुन्दु॒भीन्थ् स॒माघ्न॑न्ति पर॒मा वा ए॒षा वाग्या दु॑न्दु॒भौ प॑र॒मामे॒व [२९] वाच॒मव॑ रुन्धते भूमिदुन्दु॒भिमा घ्न॑न्ति॒ यैवेमाव्ँवाक् प्रवि॑ष्टा॒ तामे॒वाव॑ रुन्ध॒तेऽथो॑ इ॒मामे॒व ज॑यन्ति॒ सर्वा॒ वाचो॑ वदन्ति॒ सर्वा॑साव्ँवा॒चामव॑रुद्ध्या आ॒र्द्रेचर्म॒न् व्याय॑च्छेते इन्द्रि॒यस्या व॑रुद्ध्या॒ आऽन्यः क्रोश॑ति॒ प्रान्यः श॑ꣳसति॒ य आ॒क्रोश॑ति पु॒नात्ये॒वैना॒न्थ्स यः प्र॒शꣳस॑ति पू॒तेष्वे॒वान्नाद्य॑न्दधा॒त्यृषि॑कृतञ्च॒ [३०] वा ए॒ते दे॒वकृ॑तञ्च॒ पूर्वै॒र्मासै॒रव॑ रुन्धते॒ यद्भू॑ते॒च्छदा॒ꣳ॒ सामा॑नि॒ भव॑न्त्यु॒भय॒स्याव॑रुद्ध्यै॒ यन्ति॒ वा ए॒ते मि॑थु॒नाद्ये स॑व्ँवथ्स॒रमु॑प॒यन्त्य॑न्तर्वे॒दि मि॑थु॒नौ सम्भ॑वत॒स्तेनै॒व मि॑थु॒नान्न य॑न्ति⁠ [३१] (व्यृ॑द्ध॒मख्‍षो॑धुका॒स्ताꣳ समा᳚म्प्र॒जाः प॑र॒मामे॒व च॑ त्रि॒ꣳ॒शच्च॑) ॥९॥
चर्माव॑ भिन्दन्ति पा॒प्मान॑मे॒वैषा॒मव॑ भिन्दन्ति॒ माऽप॑ राथ्सी॒र्माऽति॑ व्याथ्सी॒रित्या॑ह संप्र॒त्ये॑वैषा᳚म्पा॒प्मान॒मव॑ भिन्दन्त्युदकु॒म्भान॑धिनि॒धाय॑ दा॒स्यो॑ मार्जा॒लीय॒म्परि॑ नृत्यन्ति प॒दो नि॑घ्न॒तीरि॒दंम॑धु॒ङ्गाय॑न्त्यो॒ मधु॒ वै दे॒वाना᳚म्पर॒मम॒न्नाद्य॑म्पर॒ममे॒वान्नाद्य॒मव॑ रुन्धते प॒दो नि घ्न॑न्ति मही॒यामे॒वैषु॑ दधति⁠ [३२] (चर्मै का॒न्नप॑ञ्चा॒शत्) ॥१०॥
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑ख्‍षाय॒ स्वाहा॑ दि॒वे स्वाहा॑ संप्लोष्य॒ते स्वाहा॑ स॒प्लंव॑मानाय॒ स्वाहा॒ संप्लु॑ताय॒ स्वाहा॑ मेघायिष्य॒ते स्वाहा॑ मेघाय॒ते स्वाहा॑ मेघि॒ताय॒ स्वाहा॑ मे॒घाय॒ स्वाहा॑ नीहा॒राय॒ स्वाहा॑ नि॒हाका॑यै॒ स्वाहा᳚ प्रास॒चाय॒ स्वाहा᳚ प्रच॒लाका॑यै॒ स्वाहा॑ विद्योतिष्य॒ते स्वाहा॑ वि॒द्योत॑मानाय॒ स्वाहा॑ सव्ँवि॒द्योत॑मानाय॒ स्वाहा᳚ स्तनयिष्य॒ते स्वाहा᳚ स्त॒नय॑ते॒ स्वाहो॒ ग्रꣴ स्त॒नय॑ते॒ स्वाहा॑ वर्‌षिष्य॒ते स्वाहा॒ वर्‌ष॑ते॒ स्वाहा॑ऽभि॒वर्‌ष॑ते॒ स्वाहा॑ परि॒वर्‌ष॑ते॒ स्वाहा॑ स॒व्ँवर्‌ष॑ते॒ [३३] स्वाहा॑ऽनु॒वर्‌ष॑ते॒ स्वाहा॑ शीकायिष्य॒ते स्वाहा॑ शीकाय॒ते स्वाहा॑ शीकि॒ताय॒ स्वाहा᳚प्रोषिष्य॒ते स्वाहा᳚ प्रुष्ण॒ते स्वाहा॑ परिप्रुष्ण॒ते स्वाहो᳚द्ग्रहीष्य॒ते स्वाहो᳚ द्गृह्ण॒ते स्वाहोद्गृ॑हीताय॒ स्वाहा॑ विप्लोष्य॒ते स्वाहा॑ वि॒प्लव॑मानाय॒ स्वाहा॒ विप्लु॑ताय॒ स्वाहा॑ऽऽतफ्स्य॒ते स्वाहा॒ऽऽतप॑ते॒ स्वाहो॒ग्रमा॒तप॑ते॒ स्वाह॒ र्ग्भ्यः स्वाहा॒ यजु॑र्भ्यः॒ स्वाहा॒ साम॑भ्यः॒ स्वाहाऽङ्गि॑रोभ्यः॒ स्वाहा॒ वेदे᳚भ्यः॒ स्वाहा॒ गाथा᳚भ्यः॒ स्वाहा॑ नाराश॒ꣳ॒सीभ्यः॒ स्वाहा॒ रैभी᳚भ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [३४] (स॒व्ँवर्‌ष॑ते॒ रैभी᳚भ्यः॒ स्वाहा॒ द्वे च॑) ॥११॥
द॒त्वते॒ स्वाहा॑ऽद॒न्तका॑य॒ स्वाहा᳚ प्रा॒णिने॒ स्वाहा᳚ऽप्रा॒णाय॒ स्वाहा॒ मुख॑वते॒ स्वाहा॑ऽमु॒खाय॒ स्वाहा॒ नासि॑कवते॒ स्वाहा॑ऽनासि॒काय॒ स्वाहा᳚ऽख्‍ष॒ण्वते॒ स्वाहा॑ऽन॒ख्‍षिका॑य॒ स्वाहा॑ क॒र्णिने॒ स्वाहा॑ऽक॒र्णका॑य॒ स्वाहा॑ शीर्‌ष॒ण्वते॒ स्वाहा॑ऽशी॒र्॒‌षका॑य॒ स्वाहा॑ प॒द्वते॒ स्वाहा॑ऽपा॒दका॑य॒ स्वाहा᳚ प्राण॒ते स्वाहाऽप्रा॑णते॒ स्वाहा॒ वद॑ते॒ स्वाहाऽव॑दते॒ स्वाहा॒ पश्य॑ते॒ स्वाहाऽप॑श्यते॒ स्वाहा॑ शृण्व॒ते स्वाहाऽशृ॑ण्वते॒ स्वाहा॑ मन॒स्विने॒ स्वाहा॑ [३५] ऽम॒नसे॒ स्वाहा॑ रेत॒स्विने॒ स्वाहा॑ऽरे॒तस्का॑य॒ स्वाहा᳚ प्र॒जाभ्यः॒ स्वाहा᳚ प्र॒जन॑नाय॒ स्वाहा॒ लोम॑वते॒ स्वाहा॑ऽलो॒मका॑य॒ स्वाहा᳚ त्व॒चे स्वाहा॒ऽत्वक्का॑य॒ स्वाहा॒ चर्म॑ण्वते॒ स्वाहा॑ऽच॒र्मका॑य॒ स्वाहा॒ लोहि॑तवते॒ स्वाहा॑ऽलोहि॒ताय॒ स्वाहा॑ माꣳस॒न्वते॒ स्वाहा॑ऽमा॒ꣳ॒सका॑य॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा᳚ऽस्ना॒वका॑य॒ स्वाहा᳚ स्थ॒न्वते॒ स्वाहा॑ऽन॒स्थिका॑य॒ स्वाहा॑ मज्ज॒न्वते॒ स्वाहा॑ऽम॒ज्जका॑य॒ स्वाहा॒ऽङ्गिने॒ स्वाहा॑ऽन॒ङ्गाय॒ स्वाहा॒ऽऽत्मने॒ स्वाहाऽना᳚त्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚⁠ [३६] (म॒न॒स्विने॒ स्वाहा ऽना᳚त्मने॒ स्वाहा॒ द्वे च॑) ॥१२॥
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्तु॒ विष्णु॑स्त्वा युनक्त्व॒स्य य॒ज्ञस्यद्‌र्ध्यै॒ मह्य॒ꣳ॒ सन्न॑त्या अ॒मुष्मै॒ कामा॒याऽऽ*यु॑षे त्वा प्रा॒णाय॑ त्वाऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा॒ व्यु॑ष्ट्यै त्वा र॒य्यै त्वा॒ राध॑से त्वा॒ घोषा॑य त्वा॒ पोषा॑य त्वाऽऽराद्घो॒षाय॑ त्वा॒ प्रच्यु॑त्यै त्वा⁠ [३७] (कस्त्वा॒ ऽष्टात्रि॑ꣳशत्) ॥१३॥
अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथ॑न्तराय वास॒न्ताया॒ष्टाक॑पाल॒ इन्द्रा॑य॒ त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्‌ह॑ताय॒ ग्रैष्मा॒यैका॑दशकपालो॒ विश्वे᳚भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ वार्‌षि॑केभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकवि॒ꣳ॒शाभ्या᳚व्ँवैरा॒जाभ्या॑ꣳ शार॒दाभ्या᳚म्पय॒स्या॑ बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॒ हैम॑न्तिकाय च॒रुः स॑वि॒त्र आ॑तिच्छन्द॒साय॑ त्रयस्त्रि॒ꣳ॒शाय॑ रैव॒ताय॑ शैशि॒राय॒ द्वाद॑शकपा॒लोऽदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्यै च॒रुः का॒य एक॑कपालः⁠ [३८] (अ॒ग्नयेऽदि॑त्या॒ अनु॑मत्यै स॒प्तच॑त्वारिꣳशत्) ॥१४॥
यो वा अ॒ग्नाव॒ग्निः प्र॑ह्रि॒यते॒ यश्च॒ सोमो॒ राजा॒ तयो॑रे॒ष आ॑ति॒थ्यय्ँयद॑ग्नीषो॒मीयोऽथै॒ष रु॒द्रो यश्ची॒यते॒ यथ् संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीꣳषि॒ न नि॒र्वपे॑दे॒ष ए॒व रु॒द्रोऽशा᳚न्त उपो॒त्थाय॑ प्र॒जाम्प॒शून् यज॑मानस्या॒भि म॑न्येत॒ यथ् संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैन॑ꣳ शमयति॒ नास्य॑ रु॒द्रोऽशा᳚न्त [३९] उपो॒त्थाय॑ प्र॒जाम्प॒शून॒भि म॑न्यते॒ दश॑ ह॒वीꣳषि॑ भवन्ति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व यज॑माने दधा॒त्यथो॒ दशा᳚ख्‍षरा वि॒राडन्न॑व्ँवि॒राड् वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठत्यृ॒तुभि॒र्वा ए॒ष छन्दो॑भिः॒ स्तोमैः᳚ पृ॒ष्ठैश्चे॑त॒व्य॑ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑त्यृ॒तुभि॑रे॒वैन॒ञ्छन्दो॑भिः॒ स्तोमैः᳚ पृ॒ष्ठैश्चि॑नुते॒ दिशः॑ सुषुवा॒णेना॑ [४०] भि॒जित्या॒ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑ति दि॒शाम॒भिजि॑त्या ए॒तया॒ वा इन्द्र॑न्दे॒वा अ॑याजय॒न् तस्मा॑दिन्द्रस॒व ए॒तया॒ मनु॑म्मनु॒ष्या᳚स्तस्मा᳚न्मनुस॒वो यथेन्द्रो॑ दे॒वाना॒य्ँयथा॒ मनु॑र्मनु॒ष्या॑णामे॒वम्भ॑वति॒ य ए॒वव्ँवि॒द्वाने॒तयेष्ट्या॒ यज॑ते॒ दिग्व॑तीः पुरोऽनुवा॒क्या॑ भवन्ति॒ सर्वा॑सान्दि॒शाम॒भिजि॑त्यै⁠ [४१] (अशा᳚न्तः सुषुवा॒णेनै क॑चत्वारिꣳशच्च) ॥१५॥
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑⁠। य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ्गृह्णामि॒ तस्य॑ ते॒ द्यौर्म॑हि॒मा नख्‍ष॑त्राणि रू॒पमा॑दि॒त्यस्ते॒ तेज॒स्तस्मै᳚ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚⁠ [४२] (यः प्रा॑ण॒तो द्यौरा॑दि॒त्यो᳚ ऽष्टात्रि॑ꣳशत्) ॥१६॥
य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिष॒य्ँयस्य॑ दे॒वाः⁠। यस्य॑ छा॒याऽमृत॒य्ँयस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम⁠॥ उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ्गृह्णामि॒ तस्य॑ ते पृथि॒वी म॑हि॒मौष॑धयो॒ वन॒स्पत॑यो रू॒पम॒ग्निस्ते॒ तेज॒स्तस्मै᳚ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚⁠ [४३] (य आ᳚त्म॒दाः पृ॑थि॒व्य॑ग्निरेका॒न्नच॑त्वारि॒ꣳ॒शत्) ॥१७॥
आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒माऽस्मिन् रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो जा॑यता॒न्दोग्ध्री॑धे॒नुर्वोढा॑ऽन॒ड्वाना॒शुः सप्तिः॒ पुर॑न्धि॒र्योषा॑ जि॒ष्णू र॑थे॒ष्ठाः स॒भेयो॒ युवाऽऽस्य यज॑मानस्य वी॒रो जा॑यतान्निका॒मेनि॑कामे नः प॒र्जन्यो॑ वर्‌षतु फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्ताय्ँयोगख्‍षे॒मोनः॑ कल्पताम्⁠ [४४] (आ ब्रह्म॒ न्नेक॑चत्वारिꣳशत्) ॥१८॥
आऽक्रा॑न् वा॒जी पृ॑थि॒वीम॒ग्निय्ँयुज॑मकृत वा॒ज्यर्वाऽऽक्रा॑न् वा॒ज्य॑न्तरि॑ख्‍षव्ँवा॒युय्ँयुज॑मकृत वा॒ज्यर्वा॒ द्याव्ँवा॒ज्याऽक्र॑ꣴस्त॒ सूर्य॒य्ँयुज॑मकृत वा॒ज्यर्वा॒ऽग्निस्ते॑ वाजि॒न्॒ युङ्ङनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒ सम्पा॑रय वा॒युस्ते॑ वाजि॒न्॒ युङ्ङनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒ सं [४५] पा॑रयाऽऽदि॒त्यस्ते॑ वाजि॒न्॒ युङ्ङनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒ सम्पा॑रय प्राण॒धृग॑सि प्रा॒णम्मे॑ दृꣳह व्यान॒धृग॑सि व्या॒नम्मे॑ दृꣳहाऽपान॒धृग॑स्यपा॒नम्म॑ दृꣳह॒ चख्‍षु॑रसि॒ चख्‍षु॒र्मयि॑ धेहि॒ श्रोत्र॑मसि॒ श्रोत्र॒म्मयि॑ धे॒ह्यायु॑र॒स्यायु॒र्मयि॑ धेहि⁠ [४६] (वा॒युस्ते॑ वाजि॒न्॒ युङ्ङनु॒ त्वाऽऽर॑भे स्व॒स्ति मा॒ सं त्रिच॑त्वारिꣳशच्च) ॥१९॥
जज्ञि॒ बीज॒व्ँवर्ष्टा॑ प॒र्जन्यः॒ पक्ता॑ स॒स्यꣳ सु॑पिप्प॒ला ओष॑धयः स्वधिचर॒णेयꣳ सू॑पसद॒नो᳚ऽग्निः स्व॑द्ध्य॒ख्‍षम॒न्तरि॑ख्‍षꣳसुपा॒वः पव॑मानः सूपस्था॒ना द्यौः शि॒वम॒सौ तप॑न् यथापू॒र्वम॑होरा॒त्रे प॑ञ्चद॒शिनो᳚ऽद्‌र्धमा॒सास्त्रि॒ꣳ॒शिनो॒ मासाः᳚ क्लृ॒प्ता ऋ॒तवः॑ शा॒न्तः स॑व्ँवथ्स॒रः⁠ [४७] (जज्ञि॒ बीज॒ मेक॑त्रिꣳशत्) ॥२०॥
आ॒ग्ने॒यो᳚ऽष्टाक॑पालः सौ॒म्यश्च॒रुः सा॑वि॒त्रो᳚ऽष्टाक॑पालः पौ॒ष्णश्च॒रू रौ॒द्रश्च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो मृगाख॒रे यदि॒ नाऽऽ*गच्छे॑द॒ग्नये॑ऽꣳहो॒मुचे॒ऽष्टाक॑पालः सौ॒र्यम्पयो॑ वाय॒व्य॑ आज्य॑भागः⁠ [४८] (आ॒ग्ने॒य श्चतु॑र्विꣳशतिः) ॥२१॥
अ॒ग्नये॑ऽꣳहो॒मुचे॒ऽष्टाक॑पाल॒ इन्द्रा॑याऽꣳहो॒मुच॒ एका॑दशकपालो मि॒त्रावरु॑णाभ्यामागो॒मुग्भ्या᳚म्पय॒स्या॑ वायोसावि॒त्र आ॑गो॒मुग्भ्या᳚ञ्च॒रुर॒श्विभ्या॑मागो॒मुग्भ्या᳚न्धा॒ना म॒रुद्भ्य॑ एनो॒मुग्भ्यः॑ स॒प्तक॑पालो॒ विश्वे᳚भ्यो दे॒वेभ्य॑ एनो॒मुग्भ्यो॒ द्वाद॑शकपा॒लोऽनु॑मत्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपालो॒ द्यावा॑पृथि॒वीभ्या॑मꣳहो॒मुग्भ्या᳚न्द्विकपा॒लः⁠ [४९] (अ॒ग्नये॑ऽꣳहो॒मुचे᳚ त्रि॒ꣳ॒शत्) ॥२२॥
अ॒ग्नये॒ सम॑नमत् पृथि॒व्यै सम॑नम॒द्यथा॒ऽग्निः पृ॑थि॒व्या स॒मन॑मदे॒वम्मह्य॑म्भ॒द्राः संन॑तयः॒ सन्न॑मन्तु वा॒यवे॒ सम॑नमद॒न्तरि॑ख्‍षाय॒ सम॑नम॒द्यथा॑ वा॒युर॒न्तरि॑ख्‍षेण॒ सूर्या॑य॒ सम॑नमद्दि॒वे सम॑नम॒द्यथा॒ सूर्यो॑ दि॒वा च॒न्द्रम॑से॒ सम॑नम॒न्नख्‍ष॑त्रेभ्यः॒ सम॑नम॒द्यथा॑ च॒न्द्रमा॒ नख्‍ष॑त्रै॒र्वरु॑णाय॒ सम॑नमद॒द्भ्यः सम॑नम॒द्यथा॒ [५०] वरु॑णो॒ऽद्भिः साम्ने॒ सम॑नमदृ॒चे सम॑नम॒द्यथा॒ साम॒र्चा ब्रह्म॑णे॒ सम॑नमत् ख्‍ष॒त्राय॒ सम॑नम॒द्यथा॒ ब्रह्म॑ ख्‍ष॒त्रेण॒ राज्ञे॒ सम॑नमद्वि॒शे सम॑नम॒द्यथा॒ राजा॑ वि॒शा रथा॑यः॒ सम॑नम॒दश्वे᳚भ्यः॒ सम॑नम॒द्यथा॒ रथोऽश्वैः᳚ प्र॒जाप॑तये॒ सम॑नमद्भू॒तेभ्यः॒ सम॑नम॒द्यथा᳚ प्र॒जाप॑तिर्भू॒तैः स॒मन॑मदे॒वम्मह्य॑म्भ॒द्राः संन॑तयः॒ सन्न॑मन्तु⁠ [५१] (अ॒द्भ्यः सम॑नम॒द्यथा॒मह्यं॑च॒त्वारि॑ च) ॥२३॥
ये ते॒ पन्था॑नः सवितः पू॒र्व्यासो॑ऽरे॒णवो॒ वित॑ता अ॒न्तरि॑ख्‍षे⁠। तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रख्‍षा॑ च नो॒ अधि॑ च देव ब्रूहि⁠॥ नमो॒ऽग्नये॑ पृथिवि॒ख्‍षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमो॑ वा॒यवे᳚ऽन्तरिख्‍ष॒ख्‍षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमः॒ सूर्या॑य दिवि॒ख्‍षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि⁠ [५२] (ये ते॒ चतु॑श्चत्वारिꣳशत्) ॥२४॥
यो वा अश्व॑स्य॒ मेद्ध्य॑स्य॒ शिरो॒ वेद॑ शीर्‌ष॒ण्वान् मेद्ध्यो॑ भवत्यु॒षा वा अश्व॑स्य॒ मेद्ध्य॑स्य॒ शिरः॒ सूर्य॒श्चख्‍षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमाः॒ श्रोत्र॒न्दिशः॒ पादा॑ अवान्तरदि॒शाः पर्‌श॑वोऽहोरा॒त्रे नि॑मे॒षो᳚ऽद्‌र्धमा॒साः पर्वा॑णि॒ मासाः᳚ स॒धांना᳚न्यृ॒तवोऽङ्गा॑नि सव्ँवथ्स॒र आ॒त्मा र॒श्मयः॒ केशा॒ नख्‍ष॑त्राणि रू॒पन्तार॑का अ॒स्थानि॒ नभो॑ मा॒ꣳ॒सान्योष॑धयो॒ लोमा॑नि॒ वन॒स्पत॑यो॒ वाला॑ अ॒ग्निर्मुख॑व्ँवैश्वान॒रो व्यात्त॑ꣳ [५३] समु॒द्र उ॒दर॑म॒न्तरि॑ख्‍षम्पा॒युर्द्यावा॑पृथि॒वी आ॒ण्डौ ग्रावा॒ शेपः॒ सोमो॒ रेतो॒ यज्ज॑ञ्ज॒भ्यते॒ तद्वि द्यो॑तते॒ यद्वि॑धूनु॒ते तथ् स्त॑नयति॒ यन्मेह॑ति॒ तद्व॑र्‌षति॒ वागे॒वास्य॒ वागह॒र्वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ता᳚ज्जायते॒ रात्रि॑रेनम्महि॒मा प॒श्चादनु॑ जायत ए॒तौ वै म॑हि॒माना॒ वश्व॑म॒भितः॒ सम्ब॑भूवतु॒र्॒‌हयो॑ दे॒वान॑वह॒ दर्वाऽसु॑रान् वा॒जी ग॑न्ध॒र्वानश्वो॑मनु॒ष्या᳚न्थ् समु॒द्रो वा अश्व॑स्य॒ योनिः॑ समु॒द्रो बन्धुः॑⁠ [५४] (व्यात्त॑ मवह॒द् द्वाद॑श च) ॥२५॥
(गावो॒ गावः॒ सिषा॑सन्तीः प्रथ॒मे मा॒सि स॑मा॒न्यो॑ यदि॒ सोमौ॑ षड॒है रु॒थ् सृज्या(३)न् दे॒वाना॑ म॒र्क्ये॑ण॒ चर्माऽव॑ पृथि॒व्यै द॒त्वते॒ कस्त्वा॒ ऽग्नये॒ यो वै यः प्रा॑ण॒तो य आ᳚त्म॒दा आ ब्रह्म॒ न्नाऽक्रा॒न् जज्ञि॒ बीज॑ माग्ने॒यो᳚ऽष्टाक॑पालो॒ ऽग्नये॑ऽꣳहो॒मुचे॒ऽष्टाक॑पालो॒ ऽग्नये॒सम॑नम॒द् ये ते॒ पन्था॑नो॒ यो वा अश्व॑स्य॒मेद्ध्य॑स्य॒ शिरः॒ पञ्च॑विꣳशतिः)
(गावः॑ समा॒न्यः॑ सव॑नमष्टा॒भि र्वा ए॒ते दे॒वकृ॑तञ्चा ऽभि॒जित्या॒ इत्या॑हु॒ र्वरु॑णो॒ऽद्भिः साम्ने॒ चतु॑ष् पञ्चा॒सत्)
(गावः॑ समु॒द्रो बन्धुः॑)
(प्र॒जनन॑ꣳ साद्याः प्र॒जवं॒ बृह॒स्पति॒ र्गावः पञ्च॑)
(इ॒षे वा॑य॒व्यं॑ प्र॒जाप॑ति र्युञ्जा॒नाः सा॑वि॒त्राणि॑ प्राचीन॑वꣳशो प्र॒जन॑नꣳ सप्त)
अनुवाकाः पञ्चशती
२५ ५४