प्रदख्‍षिण मन्त्राः

प्रदक्षिणमन्त्राः

ओं नमः परमात्मने, श्री महागणपतये नमः,

श्री गुरुभ्यो नमः⁠। ह॒रिः॒ ओं⁠॥

ॐ
ये अ॒र्वाङु॒त वा॑ पुरा॒णे वे॒दव्ँवि॒द्वाꣳस॑म॒भितो॑ वदन्त्यादि॒त्यमे॒व ते परि॑वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ तृ॒तीयं॑ च ह॒ꣳ॒समिति॒ याव॑ती॒र् वै दे॒वता॒स्ता स्सर्वा॑ वेद॒विदि॑ ब्राह्म॒णे व॑सन्ति॒ तस्मा᳚द् ब्राह्म॒णेभ्यो॑ वेद॒विद्भयो॑ दि॒वेदि॑वे॒ नम॑स्कुर्या॒न्ना श्ली॒लङ्की᳚र्तयेदे॒ता ए॒व दे॒वताः᳚ प्रीणाति⁠॥नमो᳚ म॒हद्भ्यो॒ नमो᳚ अर्भ॒केभ्यो॒ नमो॒ युव॑द्भ्यो॒ नम॑ आशि॒नेभ्यः॑⁠। यजा᳚म दे॒वान् यदि॑ श॒क्नवा᳚म॒ मा ज्याय॑सः॒ शं स॒मा वृ॑ख्‍षि देवाः⁠॥
RV 1.27.13
सद॑स॒स्पति॒ मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्यं᳚⁠। सनिं॑ मे॒धाम॑यासिषं⁠॥सप्र॑थ स॒भां मे॑ गोपाय⁠। ये च॒ सभ्या᳚ स्सभा॒सदः⁠। तानि॑न्द्रि॒याव॑तः कुरु⁠। सर्व॒मायु॒रुपा॑सतां⁠। अहे॑ बुद्ध्निय॒ मन्त्रं॑ मे गोपाय⁠। यमृष॑यस्त्रैवि॒दा वि॒दुः⁠। ऋच॒ स्सामा॑नि॒ यजू॑ꣳषि⁠। सा हि श्रीर॒मृता॑ स॒तां⁠॥पर्व॑त इ॒वा वि॑शाचलिः⁠। इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठ⁠। इ॒ह रा॒ष्ट्रमु॑ धारय⁠। अ॒भिति॑ष्ट पृतन्य॒तः⁠। अधरे॑ सन्तु॒ शत्र॑वः⁠। इन्द्र॑ इव वृत्र॒हा ति॑ष्ठ⁠।ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑⁠। ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा॑रयतां ध्रु॒वं⁠॥
RV 10.173.5
दे॒वीव्ँवाच॑मजनयन्त दे॒वाः⁠। ताव्ँवि॒श्वरू॑पाः प॒शवो॑ वदन्ति⁠। सानो॑ म॒न्त्रेष॒ मूर्जं॒ दुहा॑ना⁠। ध॒नुर्वाग॒स्मानुप॒सुष्ट॒तैतु॑⁠॥(सुमुहूर्तो ऽस्त्वित्यनु॑ गृह्ण॒न्तु⁠। ) (सुमुहूर्तो॒ऽस्तु॒⁠। सुप्रतिष्ठि॑तम॒स्तु⁠। ) अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र᳚ह्माणमुत्त॒मं⁠। अतूर्त्तं᳚ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे᳚⁠। अ॒ग्निर् द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभिः॑⁠। अ॒ग्निरत्यं᳚ रघुष्यदं॒ जेता᳚र॒मप॑राजितं⁠॥
RV 5.25.5
नमः॑ स॒भाभ्य॑ स॒भाप॑तिभ्यश्च वो॒ नमः॑⁠॥
Sections१
Mantras१
Version5.0